"हठयोगप्रदीपिका/उपदेशः १" इत्यस्य संस्करणे भेदः

नूतनं पृष्ठम्

No edit summary

पङ्क्तिः १२:
येनोपदिष्टा हठयोगविद्या ।
विभ्राजते प्रोन्नतराजयोगम्
आरोढुं इच्छोरधिरोहिणीव ।। १.१ ।।

प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना ।
केवलं राजयोगाय हठविद्योपदिश्यते ।। १.२ ।।

भ्रान्त्या बहुमतध्वान्ते राजयोगं अजानताम् ।
हठप्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ।। १.३ ।।

हठविद्यां हि मत्स्येन्द्रगोरक्षाद्या विजानते ।
स्वात्मारामोऽथवा योगी जानीते तत्प्रसादतः ।। १.४ ।।

श्रीआदिनाथमत्स्येन्द्रशावरानन्दभैरवाः ।
चौरङ्गीमीनगोरक्षविरूपाक्षबिलेशयाः ।। १.५ ।।

मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः ।
कोरंटकः सुरानन्दः सिद्धपादश्च चर्पटिः ।। १.६ ।।

कानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः ।
कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः ।। १.७ ।।

अल्लामः प्रभुदेवश्च घोडा चोली च टिंटिणिः ।
भानुकी नारदेवश्च खण्डः कापालिकस्तथा ।। १.८ ।।

इत्यादयो महासिद्धा हठयोगप्रभावतः ।
खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते ।। १.९ ।।

अशेषतापतप्तानां समाश्रयमठो हठः ।
अशेषयोगयुक्तानां आधारकमठो हठः ।। १.१० ।।

हठविद्या परं गोप्या योगिना सिद्धिं इच्छता ।
भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ।। १.११ ।।

सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे ।
धनुः प्रमाणपर्यन्तं शिलाग्निजलवर्जिते ।
एकान्ते मठिकामध्ये स्थातव्यं हठयोगिना ।। १.१२ ।।

अल्पद्वारं अरन्ध्रगर्तविवरं नात्युच्चनीचायतं
सम्यग्गोमयसान्द्रलिप्तं अमलं निःशेसजन्तूज्झितम् ।
बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितं
प्रोक्तं योगमठस्य लक्षणं इदं सिद्धैर्हठाभ्यासिभिः ।। १.१३ ।।

एवं विधे मठे स्थित्वा सर्वचिन्ताविवर्जितः ।
गुरूपदिष्टमार्गेण योगं एव समभ्यसेत् ।। १.१४ ।।

अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः ।
जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ।। १.१५ ।।

उत्साहात्साहसाद्धैर्यात्तत्त्वज्ञानाश्च निश्चयात् ।
जनसङ्गपरित्यागात्षड्भिर्योगः प्रसिद्ध्यति ।। १.१६ ।।

'''अथ यमनियमाः
अहिंसा सत्यं अस्तेयं ब्रह्मचर्यं क्षमा धृतिः ।
दयार्जवं मिताहारः शौचं चैव यमा दश ।। १.१७ ।।

तपः सन्तोष आस्तिक्यं दानं ईश्वरपूजनम् ।
सिद्धान्तवाक्यश्रवणं ह्रीमती च तपो हुतम् ।
नियमा दश सम्प्रोक्ता योगशास्त्रविशारदैः ।। १.१८ ।।

'''अथ आसनम्
हठस्य प्रथमाङ्गत्वादासनं पूर्वं उच्यते ।
कुर्यात्तदासनं स्थैर्यं आरोग्यं चाङ्गलाघवम् ।। १.१९ ।।

वशिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः ।
अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया ।। १.२० ।।

जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे ।
ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ।। १.२१ ।।

सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ।
दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः ।। १.२२ ।।

एकं पादं तथैकस्मिन्विन्यसेदुरुणि स्थिरम् ।
इतरस्मिंस्तथा चोरुं वीरासनं इतीरितम् ।। १.२३ ।।

गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः ।
कूर्मासनं भवेदेतदिति योगविदो विदुः ।। १.२४ ।।

पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ ।
निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ।। १.२५ ।।

कुक्कुटासनबन्धस्थो दोर्भ्यां सम्बद्य कन्धराम् ।
भवेद्कूर्मवदुत्तान एतदुत्तानकूर्मकम् ।। १.२६ ।।

पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि ।
धनुराकर्षणं कुर्याद्धनुरासनं उच्यते ।। १.२७ ।।

वामोरुमूलार्पितदक्षपादं
जानोर्बहिर्वेष्टितवामपादम् ।
प्रगृह्य तिष्ठेत्परिवर्तिताङ्गः
श्रीमत्य्सनाथोदितं आसनं स्यात् ।। १.२८ ।।

मत्स्येन्द्रपीठं जठरप्रदीप्तिं
प्रचण्डरुग्मण्डलखण्डनास्त्रम् ।
अभ्यासतः कुण्डलिनीप्रबोधं
चन्द्रस्थिरत्वं च ददाति पुंसाम् ।। १.२९ ।।

प्रसार्य पादौ भुवि दण्डरूपौ
दोर्भ्यां पदाग्रद्वितयं गृहीत्वा ।
जानूपरिन्यस्तललाटदेशो
वसेदिदं पश्चिमतानं आहुः ।। १.३० ।।

इति पश्चिमतानं आसनाग्र्यं
पवनं पश्चिमवाहिनं करोति ।
उदयं जठरानलस्य कुर्याद्
उदरे कार्श्यं अरोगतां च पुंसाम् ।। १.३१ ।।

धरां अवष्टभ्य करद्वयेन
तत्कूर्परस्थापितनाभिपार्श्वः ।
उच्चासनो दण्डवदुत्थितः खे
मायूरं एतत्प्रवदन्ति पीठम् ।। १.३२ ।।

हरति सकलरोगानाशु गुल्मोदरादीन्
अभिभवति च दोषानासनं श्रीमयूरम् ।
बहु कदशनभुक्तं भस्म कुर्यादशेषं
जनयति जठराग्निं जारयेत्कालकूटम् ।। १.३३ ।।

उत्तानं शबवद्भूमौ शयनं तच्छवासनम् ।
शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम् ।। १.३४ ।।

चतुरशीत्यासनानि शिवेन कथितानि च ।
तेभ्यश्चतुष्कं आदाय सारभूतं ब्रवीम्यहम् ।। १.३५ ।।

सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम् ।
श्रेष्ठं तत्रापि च सुखे तिष्ठेत्सिद्धासने सदा ।। १.३६ ।।

'''अथ सिद्धासनम्
पङ्क्तिः १११:
मेण्ढ्रे पादं अथैकं एव हृदये कृत्वा हनुं सुस्थिरम् ।
स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद्भ्रुवोरन्तरं
ह्येतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते ।। १.३७ ।।

मेण्ढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि ।
गुल्फान्तरं च निक्षिप्य सिद्धासनं इदं भवेत् ।। १.३८ ।।

एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः ।
मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे ।। १.३९ ।।

यमेष्विव मिताहारं अहिंसा नियमेष्विव ।
मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः ।। १.४० ।।

चतुरशीतिपीठेषु सिद्धं एव सदाभ्यसेत् ।
द्वासप्ततिसहस्राणां नाडीनां मलशोधनम् ।। १.४१ ।।

आत्मध्यायी मिताहारी यावद्द्वादशवत्सरम् ।
सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिं आप्नुयात् ।। १.४२ ।।

किं अन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति ।
प्राणानिले सावधाने बद्धे केवलकुम्भके ।
उत्पद्यते निरायासात्स्वयं एवोन्मनी कला ।। १.४३ ।।

तथैकास्मिन्नेव दृढे सिद्धे सिद्धासने सति ।
बन्धत्रयं अनायासात्स्वयं एवोपजायते ।। १.४४ ।।

नासनं सिद्धसदृशं न कुम्भः केवलोपमः ।
न खेचरीसमा मुद्रा न नादसदृशो लयः ।। १.४५ ।।

'''अथ पद्मासनम्
पङ्क्तिः १३५:
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रं आलोकयेत्
एतद्व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ।। १.४६ ।।

उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः ।
ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ।। १.४७ ।।

नासाग्रे विन्यसेद्राजदन्तमूले तु जिह्वया ।
उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य्पवनं शनैः ।। १.४८ ।।

इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् ।
दुर्लभं येन केनापि धीमता लभ्यते भुवि ।। १.४९ ।।

कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं
गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि ।
वारं वारं अपानं ऊर्ध्वं अनिलं प्रोत्सारयन्पूरितं
न्यञ्चन्प्राणं उपैति बोधं अतुलं शक्तिप्रभावान्नरः ।। १.५० ।।

पद्मासने स्थितो योगी नाडीद्वारेण पूरितम् ।
मारुतं धारयेद्यस्तु स मुक्तो नात्र संशयः ।। १.५१ ।।

'''अथ सिंहासनम्

गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ।
दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके ।। १.५२ ।।

हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च ।
व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ।। १.५३ ।।

सिंहासनं भवेदेतत्पूजितं योगिपुङ्गवैः ।
बन्धत्रितयसन्धानं कुरुते चासनोत्तमम् ।। १.५४ ।।

'''अथ भद्रासनम्

गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिप्ते ।
सव्यगुल्फं तथा सव्ये दक्षगुल्फं तु दक्षिणे ।। १.५५ ।।

पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् ।
भद्रासनं भवेदेतत्सर्वव्याधिविनाशनम् ।
गोरक्षासनं इत्याहुरिदं वै सिद्धयोगिनः ।। १.५६ ।।

एवं आसनबन्धेषु योगीन्द्रो विगतश्रमः ।
अभ्यसेन्नाडिकाशुद्धिं मुद्रादिपवनीक्रियाम् ।। १.५७ ।।

आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा ।
अथ नादानुसन्धानं अभ्यासानुक्रमो हठे ।। १.५८ ।।

ब्रह्मचारी मिताहारी त्यागी योगपरायणः ।
अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा ।। १.५९ ।।

सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः ।
भुज्यते शिवसम्प्रीत्यै मिताहारः स उच्यते ।। १.६० ।।

कट्वाम्लतीक्ष्णलवणोष्णहरीतशाक
सौवीरतैलतिलसर्षपमद्यमत्स्यान् ।
आजादिमांसदधितक्रकुलत्थकोल
पिण्याकहिङ्गुलशुनाद्यं अपथ्यं आहुः ।। १.६१ ।।

भोजनं अहितं विद्यात्पुनरस्योष्णीकृतं रूक्षम् ।
अतिलवणं अम्लयुक्तं कदशनशाकोत्कं वर्ज्यम् ।। १.६२ ।।

वह्निस्त्रीपथिसेवानां आदौ वर्जनं आचरेत् ।। १.६३ ।।

'''तथा हि गोरक्षवचनम्

वर्जयेद्दुर्जनप्रान्तं वह्निस्त्रीपथिसेवनम् ।
प्रातःस्नानोपवासादि कायक्लेशविधिं तथा ।। १.६४ ।।

गोधूमशालियवषाष्टिकशोभनान्नं
क्षीराज्यखण्डनवनीतसिद्धामधूनि ।
शुण्ठीपटोलकफलादिकपञ्चशाकं
मुद्गादिदिव्यं उदकं च यमीन्द्रपथ्यम् ।। १.६५ ।।

पुष्टं सुमधुरं स्निग्धं गव्यं धातुप्रपोषणम् ।
मनोभिलषितं योग्यं योगी भोजनं आचरेत् ।। १.६६ ।।

युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा ।
अभ्यासात्सिद्धिं आप्नोति सर्वयोगेष्वतन्द्रितः ।। १.६७ ।।

क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् ।
न शास्त्रपाठमात्रेण योगसिद्धिः प्रजायते ।। १.६८ ।।

न वेषधारणं सिद्धेः कारणं न च तत्कथा ।
क्रियैव कारणं सिद्धेः सत्यं एतन्न संशयः ।। १.६९ ।।

पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च ।
सर्वाण्यपि हठाभ्यासे राजयोगफलावधि ।। १.७० ।।

इति हठप्रदीपिकायां प्रथमोपदेशः ।
"https://sa.wikisource.org/wiki/हठयोगप्रदीपिका/उपदेशः_१" इत्यस्माद् प्रतिप्राप्तम्