"ऋग्वेदः सूक्तं १.३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
अश्विना यज्वरीरिषो दरवत्पाणी शुभस पती |
पुरुभुजाचनस्यतम ||
 
अश्विना पुरुदंससा नरा शवीरया धिया |
धिष्ण्या वनतं गिरः ||
 
दस्रा युवाकवः सुता नासत्या वर्क्तबर्हिषः |
आ यातंरुद्रवर्तनी ||
 
इन्द्रा याहि चित्रभानो सुता इमे तवायवः |
अण्वीभिस्तना पूतासः ||
 
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः |
उप बरह्माणि वाघतः ||
 
इन्द्रा याहि तूतुजान उप बरह्माणि हरिवः |
सुते दधिष्वनश्चनः ||
 
ओमासश्चर्षणीध्र्तो विश्वे देवास आ गत |
दाश्वांसो दाशुषः सुतम ||
 
विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः |
उस्रा इवस्वसराणि ||
 
विश्वे देवासो अस्रिध एहिमायासो अद्रुहः |
मेधं जुषन्त वह्नयः ||
 
पावका नः सरस्वती वाजेभिर्वाजिनीवती |
यज्ञं वष्टु धियावसुः ||
 
चोदयित्री सून्र्तानां चेतन्ती सुमतीनाम |
यज्ञं दधे सरस्वती ||
 
महो अर्णः सरस्वती पर चेतयति केतुना |
धियो विश्वा वि राजति ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३" इत्यस्माद् प्रतिप्राप्तम्