प्रमुखा विकल्पसूचिः उद्घाट्यताम्

परिवर्तनानि

सम्पादनसारांशरहितः
पुष्पाहारी द्वितीयायामश्विनौ पूजयेत्सुरौ ॥१७७.००१
अब्दं स्वरूपसौभाग्यं स्वर्गभाग्जायते व्रती ।१७७.००२
कार्त्तिके शुक्तिपक्षस्य(१) दितीयायां यमं यजेत् ॥१७७.००२ <small>(१ शुक्तपक्षे तु इति ग...)</small>
अब्दमुपोषितः स्वर्गं गच्छेन्न नरकं व्रती ।१७७.००३
अशून्यशयनं वक्ष्ये अवैधव्यादिदायकं ॥१७७.००३
ओं श्रीं श्रीधराय नमः सोमात्मानं हरिं यजेत् ॥१७७.०१०
घं ढं भं हं श्रियै नमो दशरूपमहात्मने ।१७७.०११
घृतेन होमो नक्तञ्च शय्यां दद्याद्द्विजातये(१) ॥१७७.०११ <small>(१ शय्यां दद्याद्द्वितीयके इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ट.. च)</small>
दीपान्नभाजनैर्युक्तं छत्रोपानहमासनं ।१७७.०१२
सोदकुम्भञ्च प्रतिमां विप्रायाथ च पात्रकं(२) ॥१७७.०१२ <small>(२ विप्रायाथ च पानकमिति घ.. , ञ.. च)</small>
पत्न्या य एवं कुरुते भुक्तिमुक्तिमवाप्नुयात् ।१७७.०१३
कान्तिव्रतं प्रवक्ष्यामि कार्त्तिकस्य सिते चरेत् ॥१७७.०१३
अथ शिष्णुव्रतं वक्ष्ये मनोवाञ्छितदायकं ।१७७.०१५
पौषशुक्लद्वितीयादि कृत्वा दिनचतुष्टयं ॥१७७.०१५
पूर्वं सिद्धार्थकैः स्नानं ततः कृष्णतिलैः(३) स्मृतं ।१७७.०१६ <small>(३ शुक्ततिलैरिति ग..)</small>
वचया च तृतीयेऽह्नि सर्वौषध्या चतुर्थके ॥१७७.०१६
मुरामांषी वचा कुष्ठं शैलेयं रजनीद्वर्य(४) ।१७७.०१७ <small>(४ पूर्वं सिद्धार्थकैरित्यादिः, रजनीद्वयमित्यन्तः पाठः झ.. पुस्तके नास्ति)</small>
सटी चम्पकमुस्तञ्च सर्वौषधिगणः स्मृतः ॥१७७.०१७
नाम्ना कृष्णाच्युतानन्त हृषीकेशेति पूजयेत् ।१७७.०१८
२६,४०५

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/42218" इत्यस्माद् पुनः प्राप्तिः