"ऋग्वेदः सूक्तं १.२६" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) Yannf : replace |
(लघु) Yann : replace |
||
पङ्क्तिः १:
वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते
सेमं नो अध्वरं यज ॥
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः
अग्ने दिवित्मता वचः ॥
आ नि षमा सूनवे पितापिर्यजत्यापये
सखा सख्ये वरेण्यः ॥
आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा
सीदन्तु मनुषो यथा ॥
पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च
इमा उ षु शरुधी गिरः ॥
यच्चिद धि शश्वता तना देवं-देवं यजामहे
तवे इद्धूयते हविः ॥
परियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः
परियाः सवग्नयो वयम ॥
सवग्नयो हि वार्यं देवासो दधिरे च नः
सवग्नयो मनामहे ॥
अथा न उभयेषामम्र्त मर्त्यानाम
मिथः सन्तु परशस्तयः ॥
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः
चनो धाः सहसो यहो ॥
|