"ऋग्वेदः सूक्तं १.३०" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ व इन्द्रं करिविंक्रिविं यथा वाजयन्तः शतक्रतुमशतक्रतुम्
मंहिष्ठं सिञ्च इन्दुभिः ॥१॥
शतं वा यः शुचीनां सहस्रं वा समाशिराम् ।
एदु निम्नं न रीयते ॥२॥
सं यन्मदाय शुष्मिण एना ह्यस्योदरे ।
समुद्रो न व्यचो दधे ॥३॥
अयमु ते समतसि कपोत इव गर्भधिम् ।
वचस्तच्चिन्न ओहसे ॥४॥
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।
विभूतिरस्तु सूनृता ॥५॥
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो ।
समन्येषु ब्रवावहै ॥६॥
योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
सखाय इन्द्रमूतये ॥७॥
आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।
वाजेभिरुप नो हवम् ॥८॥
अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।
यं ते पूर्वं पिता हुवे ॥९॥
तं त्वा वयं विश्ववारा शास्महे पुरुहूत ।
सखे वसो जरितृभ्यः ॥१०॥
अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् ।
सखे वज्रिन्सखीनाम् ॥११॥
तथा तदस्तु सोमपाः सखे वज्रिन्तथा कृणु ।
यथा त उश्मसीष्टये ॥१२॥
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
क्षुमन्तो याभिर्मदेम ॥१३॥
आ घ त्वावान्त्मनाप्त स्तोतृभ्यो धृष्णवियानः ।
ऋणोरक्षं न चक्र्योः ॥१४॥
आ यद्दुवः शतक्रतवा कामं जरितॄणाम् ।
ऋणोरक्षं न शचीभिः ॥१५॥
शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि ।
स नो हिरण्यरथं दंसनावान्स नः सनिता सनये स नोऽदात् ॥१६॥
आश्विनावश्वावत्येषा यातं शवीरया ।
गोमद्दस्रा हिरण्यवत् ॥१७॥
समानयोजनो हि वां रथो दस्रावमर्त्यः ।
समुद्रे अश्विनेयते ॥१८॥
न्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः ।
परि द्यामन्यदीयते ॥१९॥
कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये ।
कं नक्षसे विभावरि ॥२०॥
वयं हि ते अमन्मह्यान्तादा पराकात् ।
अश्वे न चित्रे अरुषि ॥२१॥
त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः ।
अस्मे रयिं नि धारय ॥२२॥
 
शतं वा यः शुचीनां सहस्रं वा समाशिराम ।
एदु निम्नं न रीयते ॥
 
सं यन मदाय शुष्मिण एना हयस्योदरे ।
समुद्रो न वयचो दधे ॥
 
अयमु ते समतसि कपोत इव गर्भधिम ।
वचस्तच्चिन न ओहसे ॥
 
सतोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।
विभूतिरस्तुसून्र्ता ॥
 
ऊर्ध्वस्तिष्ठा न ऊतये.अस्मिन वाजे शतक्रतो ।
समन्येषु बरवावहै ॥
 
योगे-योगे तवस्तरं वाजे-वाजे हवामहे ।
सखाय इन्द्रमूतये ॥
 
आ घा गमद यदि शरवत सहस्रिणीभिरूतिभिः ।
वाजेभिरुप नो हवम ॥
 
अनु परत्नस्यौकसो हुवे तुविप्रतिं नरम ।
यं ते पूर्वं पिता हुवे ॥
 
तं तवा वयं विश्ववारा शास्महे पुरुहूत ।
सखे वसो जरित्र्भ्यः ॥
 
अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम ।
सखे वज्रिन सखीनाम ॥
 
तथा तदस्तु सोमपाः सखे वज्रिन तथा कर्णु ।
यथा त उश्मसीष्टये ॥
 
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
कषुमन्तो याभिर्मदेम ॥
 
आ घ तवावान तमनाप्त सतोत्र्भ्यो धर्ष्णवियानः ।
रणोरक्षं न चक्र्योह ॥
 
आ यद दुवः शतक्रतवा कामं जरितॄणाम ।
रणोरक्षं न शचीभिः ॥
 
शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि ।
स नो हिरण्यरथं दंसनावान स नः सनिता सनये स नो.अदात ॥
 
आश्विनावश्वावत्येषा यतं शवीरया गोमद दस्रा हिरण्यवत ॥
समानयोजनो हि वां रथो दस्रावमर्त्यः ।
 
समुद्रे अश्विनेयते ॥
वयघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः ।
 
परि दयामन्यदीयते ॥
कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये ।
 
कं नक्षसे विभावरि ॥
वयं हि ते अमन्मह्यान्तादा पराकात ।
 
अश्वे न चित्रे अरुषि ॥
तवं तयेभिरा गहि वाजेभिर्दुहितर्दिवः ।
 
अस्मे रयिं निधारय ॥
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३०" इत्यस्माद् प्रतिप्राप्तम्