"रामायणम्/अयोध्याकाण्डम्/सर्गः ८५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ८४|सर्गः ८४]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ८६|सर्गः ८६]]
| notes =

{{रामायणम्/अयोध्याकाण्डम्}}

'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥'''

एवम् उक्तः तु भरतः निषाद
अधिपतिम् गुहम् ।

प्रत्युवाच महा प्राज्ञो वाक्यम् हेतु अर्थ सम्हितम् ॥२-८५-१॥

ऊर्जितः खलु ते कामः कृतः
मम गुरोह् सखे ।

यो मे त्वम् ईदृशीम् सेनाम् एको अभ्यर्चितुम् इच्चसि ॥२-८५-२॥

इति उक्त्वा तु महा तेजा गुहम्
वचनम् उत्तमम् ।

अब्रवीद् भरतः श्रीमान् निषाद अधिपतिम् पुनः ॥२-८५-३॥

कतरेण गमिष्यामि भरद्वाज
आश्रमम् गुह ।

गहनो अयम् भृशम् देशो गन्गा अनूपो दुरत्ययः ॥२-८५-४॥

तस्य तत् वचनम् श्रुत्वा राज
पुत्रस्य धीमतः ।

अब्रवीत् प्रान्जलिर् वाक्यम् गुहो गहन गोचरः ॥२-८५-५॥

दाशाः तु अनुगमिष्यन्ति
धन्विनः सुसमाहिताः ।

अहम् च अनुगमिष्यामि राज पुत्र महा यशः ॥२-८५-६॥

कच्चिन् न दुष्टः व्रजसि रामस्य
अक्लिष्ट कर्मणः ।

इयम् ते महती सेना शन्काम् जनयति इव मे ॥२-८५-७॥

तम् एवम् अभिभाषन्तम्
आकाशैव निर्मलः ।

भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत् ॥२-८५-८॥

मा भूत् स कालो यत् कष्टम् न
माम् शन्कितुम् अर्हसि ।

राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम ॥२-८५-९॥

तम् निवर्तयितुम् यामि काकुत्स्थम्
वन वासिनम् ।

बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते ॥२-८५-१०॥

स तु सम्हृष्ट वदनः श्रुत्वा
भरत भाषितम् ।

पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः ॥२-८५-११॥

धन्यः त्वम् न त्वया तुल्यम्
पश्यामि जगती तले ।

अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि ॥२-८५-१२॥

शाश्वती खलु ते कीर्तिर्
लोकान् अनुचरिष्यति ।

यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि ॥२-८५-१३॥

एवम् सम्भाषमाणस्य गुहस्य
भरतम् तदा ।

बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत ॥२-८५-१४॥

सम्निवेश्य स ताम् सेनाम् गुहेन
परितोषितः ।

शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत् ॥२-८५-१५॥

राम चिन्तामयः शोको भरतस्य
महात्मनः ।

उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः ॥२-८५-१६॥

अन्तर् दाहेन दहनः सम्तापयति
राघवम् ।

वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम् ॥२-८५-१७॥

प्रस्रुतः सर्व गात्रेभ्यः स्वेदः
शोक अग्नि सम्भवः ।

यथा सूर्य अम्शु सम्तप्तः हिमवान् प्रस्रुतः हिमम् ॥२-८५-१८॥

ध्यान निर्दर शैलेन
विनिह्श्वसित धातुना ।

दैन्य पादप सम्घेन शोक आयास अधिशृन्गिणा ॥२-८५-१९॥

प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना ।

आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः ॥२-८५-२०॥

विनिश्श्वसन्वै
भृशदुर्मनास्ततः ।

प्रमूढसम्ज्ञः परमापदम् गतः ।

शमम् न लेभे हृदयज्वरार्दितो ।

नरर्षभो यूथहतो यथर्षभः ॥२-८५-२१॥

गुहेन सार्धम् भरतः
समागतः ।

महा अनुभावः सजनः समाहितः ।

सुदुर्मनाः तम् भरतम् तदा पुनर् ।

गुहः समाश्वासयद् अग्रजम् प्रति ॥२-८५-२२॥

'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥'''