"रामायणम्/अयोध्याकाण्डम्/सर्गः ८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ८६|सर्गः ८६]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ८८|सर्गः ८८]]
| notes =

{{रामायणम्/अयोध्याकाण्डम्}}

'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥२-८७॥'''

गुहस्य वचनम् श्रुत्वा भरतो भृशम् अप्रियम् ।

ध्यानम् जगाम तत्र एव यत्र तत् श्रुतम् अप्रियम् ॥२-८७-१॥

सुकुमारो महा सत्त्वः सिम्ह स्कन्धो महा भुजः ।

पुण्डरीक विशाल अक्षः तरुणः प्रिय दर्शनः ॥२-८७-२॥

प्रत्याश्वस्य मुहूर्तम् तु कालम् परम दुर्मनाः ।

पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः ॥२-८७-३॥

भरतम् मुर्च्Cइतम् द्रुष्ट्वा विवर्णवदनो गुहः ।

बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ॥२-८७-४॥

तद् अवस्थम् तु भरतम् शत्रुघ्नो अनन्तर स्थितः ।

परिष्वज्य रुरोद उच्चैर् विसम्ज्नः शोक कर्शितः ॥२-८७-५॥

ततः सर्वाः समापेतुर् मातरो भरतस्य ताः ।

उपवास कृशा दीना भर्तृ व्यसन कर्शिताः ॥२-८७-६॥

ताः च तम् पतितम् भूमौ रुदन्त्यः पर्यवारयन् ।

कौसल्या तु अनुसृत्य एनम् दुर्मनाः परिषस्वजे ॥२-८७-७॥

वत्सला स्वम् यथा वत्सम् उपगूह्य तपस्विनी ।

परिपप्रग्च्Cअ भरतम् रुदन्ती शोक लालसा ॥२-८७-८॥

पुत्र व्याधिर् न ते कच्चित् शरीरम् परिबाधते ।

अद्य राज कुलस्य अस्य त्वद् अधीनम् हि जीवितम् ॥२-८७-९॥

त्वाम् दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।

वृत्ते दशरथे राज्नि नाथ एकः त्वम् अद्य नः ॥२-८७-१०॥

कच्चिन् न लक्ष्मणे पुत्र श्रुतम् ते किम्चिद् अप्रियम् ।

पुत्र वा ह्य् एकपुत्रायाः सह भार्ये वनम् गते ॥२-८७-११॥

स मुहूर्तम् समाश्वस्य रुदन्न् एव महा यशाः ।

कौसल्याम् परिसान्त्व्य इदम् गुहम् वचनम् अब्रवीत् ॥२-८७-१२॥

भ्राता मे क्व अवसद् रात्रिम् क्व सीता क्व च लक्ष्मणः ।

अस्वपत् शयने कस्मिन् किम् भुक्त्वा गुह शम्स मे ॥२-८७-१३॥

सो अब्रवीद् भरतम् पृष्टो निषाद अधिपतिर् गुहः ।

यद् विधम् प्रतिपेदे च रामे प्रिय हिते अतिथौ ॥२-८७-१४॥

अन्नम् उच्च अवचम् भक्ष्याः फलानि विविधानि च ।

रामाय अभ्यवहार अर्थम् बहु च उपहृतम् मया ॥२-८७-१५॥

तत् सर्वम् प्रत्यनुज्नासीद् रामः सत्य पराक्रमः ।

न हि तत् प्रत्यगृह्णात् स क्षत्र धर्मम् अनुस्मरन् ॥२-८७-१६॥

न ह्य् अस्माभिः प्रतिग्राह्यम् सखे देयम् तु सर्वदा ।

इति तेन वयम् राजन्न् अनुनीता महात्मना ॥२-८७-१७॥

लक्ष्मणेन समानीतम् पीत्वा वारि महा यशाः ।

औपवास्यम् तदा अकार्षीद् राघवः सह सीतया ॥२-८७-१८॥

ततः तु जल शेषेण लक्ष्मणो अप्य् अकरोत् तदा ।

वाग् यताः ते त्रयः सम्ध्याम् उपासत समाहिताः ॥२-८७-१९॥

सौमित्रिः तु ततः पश्चाद् अकरोत् स्वास्तरम् शुभम् ।

स्वयम् आनीय बर्हीम्षि क्षिप्रम् राघव कारणात् ॥२-८७-२०॥

तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया ।

प्रक्षाल्य च तयोः पादाउ अपचक्राम लक्ष्मणः ॥२-८७-२१॥

एतत् तद् इन्गुदी मूलम् इदम् एव च तत् तृणम् ।

यस्मिन् रामः च सीता च रात्रिम् ताम् शयिताउ उभौ ॥२-८७-२२॥

नियम्य पृष्ठे तु तल अन्गुलित्रवान् ।

शरैः सुपूर्णाउ इषुधी परम् तपः ।

महद् धनुः सज्यम् उपोह्य लक्ष्मणो ।

निशाम् अतिष्ठत् परितो अस्य केवलम् ॥२-८७-२३॥

ततः तु अहम् च उत्तम बाण चापधृक् ।

स्थितो अभवम् तत्र स यत्र लक्ष्मणः ।

अतन्द्रिभिर् ज्नातिभिर् आत्त कार्मुकैर् ।

महा इन्द्र कल्पम् परिपालयमः तदा ॥२-८७-२४॥

'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥२-८७॥'''