"सर्वदर्शनसंग्रहः/रसेश्वरदर्शनम्" इत्यस्य संस्करणे भेदः

'''सर्वदर्शनसंग्रहः''' अथ रसेश्वरदर्शनम् ॥9॥ अ... नवीन पृष्ठं निर्मीत अस्ती

No edit summary

पङ्क्तिः ९३:
जाग्रति॥ ज्ञातो यद्यपरं न वेदयति च स्वस्मात्स्वयं द्योतते। यो ब्रह्मेव स

दैन्यसंसृतिभयात्पायादसौ पारदः॥

इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे रसेश्वरदर्शनम्।

; ॥ इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे रसेश्वरदर्शनम् ॥

अथौलूक्यदर्शनम् ।।10।।

इह खलु निखिलप्रेक्षावान् निसर्गप्रतिकू लवेदनीयतया निखिलात्मसंवेदनसिंद्धं दुःखं

जिहासुस्तद्धानोपायं जिज्ञासुः परमेश्वरसाक्षात्कारमुपायमाकलयति।

यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः। तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति॥

इत्यादिवचननिचयप्रामाण्यात्। परमेश्वरसाक्षात्कारश्च श्रवणमननभावनाभिर्भावनीयः। यदाह-

आगमेनानुमानेन ध्यानाभ्यासबलेन च। त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम्॥ इति॥

तत्र मननमनुमानाधीनम्। अनुमानं च व्याप्तिज्ञानाधीनम्। व्याप्तिज्ञानं च पदार्थविवेकसापेक्षम्।

अतः पदार्थषट्कम् 'अथातो धर्म व्याख्यास्यामः' (क0सू01/1/1) इत्यादिकायां दशलक्षण्यां

कणभक्षेण भगवता व्यवस्थापितम्।

तत्राह्निकद्वयात्मके प्रथमेऽध्याये समवेताशेषपदार्थकथनमकारि। तत्रापि प्रथमाह्निके

जातिमन्निरूपणम्। द्वितीयाह्निके जातिविशेषयोर्निरूपणम्। आह्निकद्वययुक्ते द्वितीयेऽध्याये

द्रव्यनिरुपणम्। तत्रापि प्रपमाह्निक भूतविशेषलक्षणम्। द्वितीये दिक्कालप्रतिपादनम्।

आह्निकद्वययुक्ते तृतीये आत्मान्तःकरणलक्षणम्। तत्राप्यात्मलक्षणं प्रथमे।

द्वितीयेऽन्तःकरणलक्षणम्। आह्निकद्वययुक्ते चतुर्थे शरीरतदुपयोगिविवेचनम्। तत्रापि प्रथमे

तदुपयोगिविवेचनम्। द्वितीये शरीरविवेचनम।आह्निकद्वयवति् पञ्चमे कर्मप्रतिपादनम्। तत्रापि

प्रथमे शरीरसंबन्धिकर्मचिन्तनम्। द्वितीये मानसकर्मचिन्तनम्। आह्निकद्वयशालिनि षष्ठे

श्रौतधर्मनिरूपणम्। तत्रापि प्रथमे दानप्रतिग्रहधर्मविवेकः। द्वितीये चातुराश्रम्योचितधर्मनिरूपणम्।

तथाविधे सप्तमे गुणसमवायप्रतिपादनम्। तत्रापि प्रथमे बुद्धिनिरपेक्षगुण◌ाप्रतिपादनम््। द्वितीये

तत्सापेक्षगुणप्रतिपादनं समवायप्रतिपादनं च। अष्टमे निर्विकल्पकसविकल्पकप्रत्यक्ष-

प्रमाणचिन्तनम्। नवमे बुद्धिविशषप्रतिपादनम्। दशमेऽनुमानभेदप्रतिपादनम्।

तत्रोद्देशो लक्षणं परीक्षा चेति त्रिविधास्य शास्त्रस्य प्रवृत्तिः (वात्स्यायन0 1/1/1)। ननु

विभागापेक्षया चातुर्विध्ये वक्तव्ये कथं त्रैविध्यमुक्तमिति चेत्। मैवं मंस्थाः। विभागस्य

विशेषोद्देशरूपत्वात् उद्देशे एवान्तर्भावात्। तत्र द्रव्यगुणाकर्मसामान्यविशेषसमवाया इति षडेव ते

पदार्था इत्युद्देशः। किमत्र क्रमनियमे कारणम् ? उच्यते समस्तपदार्थायतनत्वेन प्रधानस्य

द्रव्यस्य प्रथममुद्देशः। अनन्तरं गुणात्वोपाधिना सकलद्रव्यवृत्तेर्गुणस्य। तदनु

सामान्यवत्त्वसाम्यात्कर्मणः। पश्चात्तात्त्रितयाश्रितस्य सामान्यस्य। तदनन्तरं समवायाधि-

करणस्य विशेषस्य। अन्तेऽवशिष्टस्य समवायस्येति।

ननु षडेव पदार्था इति कथं कथ्यते अभावस्यापि सद्भावात् इति चेत्- मैवं वोचः।

नञर्थानुल्लिखितधीविषयतया भावरूपतया षडेवेति विवक्षितत्वात्। तथापि कथं षडेवेति नियम

उपपद्यते ? विकल्पानुपपत्तेः। नियमव्यवच्छे द्यं प्रमितं न वा। प्रमितत्वे कथं निषेधः अप्रमितत्वे

कथंतराम् न हि कश्चित्प्रेक्षावान्मूषिकविषाणं प्रतिषेद्धंु यतते। ततश्चानुपपत्तेर्न नियम इति चेत्-

मैवं भाषिष्ठाः। सप्तमतया प्रमितेऽन्धकारादौ भावत्वस्य भावतया प्रमिते शक्तिसादृश्यादौ

सप्तमत्वस्य च निषेधादिति कृतं विस्तरेण।

तत्र द्रव्यादित्रितयस्य द्रव्यत्वादिजातिर्लक्षणम्। द्रव्यत्वं नाम गगनारविन्दसमवेतत्वे सति

नित्यत्वे सति गन्धासमवेतत्वम्। गुणत्वं नाम समवायिकारणासमवेतासमवायिकारण-

भिन्नसमवेतसत्तासाक्षाद्व्याप्यजातिः। कर्मत्वं नाम नित्यासमवेतत्वसहितसत्तासाक्षाद्व्याप्य-

जातिः। सामान्यं तु प्रध्वंसप्रतियोगित्वरहितमनेकसमवेतम्। विशेषो नामान्योन्याभावविरोधि-

सामान्यरहितः समवेतः। समावायस्तु समवायरहितः संबन्धः इति षष्णां लक्षणानि

व्यवस्थितानि।

द्रव्यं नवविधं पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि इति। तत्र पृथिव्यादिचतुष्टयस्य

पृथिवीत्वादिजातिर्लक्षणम्। पृथिवीत्वं नाम पाकजरुपसमानाधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिः।

अप्त्वं नाम सरित्सागरसमवेतत्वे सति ज्वलनासमवेतं सामान्यम्। तेजस्त्वं नाम

चन्द्रचामीकरसमवेतत्वे सति सलिलासमवेतं सामान्यम्। वायुत्वं नाम त्वगिन्द्रियसमवेत-

द्रव्यत्वसाक्षाद्व्याप्यजातिः। आकाशकालदिशामेकै कत्वादपरजात्यभावे परिभाषिक्यस्तित्रः संज्ञा

भवन्ति आकाशं कालो दिगिति। संयोगाजन्यजन्यविशेषगुणसमानाधिकरणविशेषा-

धिकरणमाकाशम्। विभुत्वे सति दिगसमवेतपरत्वासमवायिकारणाधिकरणः कालः। अकालत्वे

सत्यविशेषगुणा महती दिक्। आत्ममनसोरात्मत्वमनस्त्वे। आत्मत्वं नामामूर्तसमवेतद्रव्यत्वा-

परजातिः। मनस्त्वं नाम द्रव्यसमवायिकारण◌ात्वरहिताणुसमवेतद्रव्यत्वापरजाति्ः।

रूपरसगनस्पर्शसंख्यापरिमाणपृथकत्वसंयोगविभागपरत्वपरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाश्च

कण्ठोक्ताः सप्तदशचशब्दसमुच्चिता गुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाः सप्तैवेत्येवं चतुर्विंशति-

र्गुणाः। तत्र रूपादिशब्दान्तानां रूपत्वादिजातिर्लक्षणम्। रूपत्वं नाम नीलसमवेतगुणत्वा-

परजातिः। अनया दिशा शिष्टानां लक्षणानि द्रष्टव्यानि।

कर्म पञ्चविधम्। उत्क्षेपणापक्षेपणाकु ञ्चनप्रसारणगमनभेदात्। भ्रमणरेचनादीनां गमने

एवान्तर्भावः। उत्क्षेपणादीनामुत्क्षेपणत्वादिजातिर्लक्षणम्। तत्रोत्क्षेपणत्वं नामोर्ध्वदेशसंयोगा-

समवायिकारणसमवेतकर्मत्वापरजातिः। एवमपक्षेपणत्वादीनां लक्षणं कर्तव्यम्।

सामान्यं द्विविधं परमपरं च। परं सत्ता द्रव्यगुणसमवेता। अपरं द्रव्यत्वादि। तल्लक्षणं

प्रागेवोक्तम्। विशेषाणामनन्तत्वात् समवायस्य चैकत्वाद् विभागो न संभवति। तल्लक्षणं च

प्रागेवावादि।

द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे। यस्य न स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः ॥

इत्याभाणकस्य सद्भावाद्द्वित्वाद्युत्पत्तिप्रकारः प्रदर्श्यते। तत्र प्रथममिन्द्रियार्थसंनिकर्षः (1)।

तस्मादेकत्वसामान्यज्ञानम् ( 2)। ततोऽपेक्षाबुद्धिः (3)। ततो द्वित्वोत्पत्तिः (4)। ततो

द्वित्वत्वसामान्यज्ञानम् ( 5)। तस्माद् द्वित्वगुणज्ञानम् ( 6)। ततो 'द्वे द्रव्ये' इति धीः (7)। ततः

संस्कारः (8)। तदाह-

आदाविन्द्रियसंनिकर्षघटनादेकत्वसामान्यधीरेकत्वोभयगोचरा मतिरतो द्वित्वं ततो जायते।

द्वित्वत्वप्रमितिस्ततो नु परतो द्वित्वप्रमानन्तरं द्वे द्रव्ये इति धीरियं निगदिता द्वित्वोदयप्रक्रिया॥

इति।

द्वित्वादेरपेक्षाबुद्धिजन्यत्वे किं प्रमाणम् ? अत्राहुराचार्याः - अपेक्षाबुद्धिर्द्वित्वादेरुत्पादिका

भवितुमर्हति। व्यञ्जकत्वानुपपत्तौ तेनानुविधीयमानत्वात्। शब्दं प्रति संयोगवदिति। वयं तु ब्रूमः

द्वित्वादिकमेकत्वद्वयविषयानित्यबुद्धिव्यङ्ग्यं न भवति अनेकाश्रितगुणत्वात्पृथक्त्वादिवदिति।

निवृत्तिक्रमो निरुप्यते- अपेक्षाबुद्धित एकत्वसामान्यज्ञानस्य द्वित्वोत्पत्तिसमकालं निवृत्तिः।

अपेक्षाबुद्धेर्दित्वत्वसामान्यज्ञानाद् द्वित्वगुणबुद्धिसमसमयम्। द्वित्वस्यापेक्षाबुद्धिनिवृत्तेर्द्रव्य-

बुद्धिसमकालम्। गुणबुद्धेर्दव्यबुद्धितः संस्कारोत्पत्तिसमकालम्। द्रव्यबुद्धेस्तदनन्तरं

संस्कारादिति। तथा च संग्रहश्लोकाः -

आदावपेक्षाबुद्धया हि नश्येदेकत्वजातिधीः। द्वित्वोदयसमं पश्चात्सा च तज्जातिबुद्धितः॥

द्वित्वाख्यगुणाधीकाले ततो द्वित्वं निवर्तते। अपेक्षाबुद्धिनाशेन द्रव्यधीजन्मकालतः॥

गुणबुद्धिर्दव्यबुद्धया संकारोत्पत्तिकालतः। द्रव्यबुद्धिश्च संस्कारादिति नाशक्रमो मतः॥इति।

बुद्धेर्बुद्धयन्तरविनाश्यत्वे संस्कारविनाश्यत्वे च प्रमाणम्- विवादाध्यासितानि ज्ञानान्युत्तरोत्तर-

कार्यविनाश्यानि क्षणिकविभुविशेषगुणत्वाच्छब्दवत्। क्वचिद्द्रव्यारम्भकसंयोगप्रतिद्वन्द्विविभाग-

जनककर्मसमकालमेकत्वसामान्यचिन्तयाश्रयनिवृत्तेरेव द्वित्वनिवृत्तिः। कर्मसमकालमपेक्षाबुद्धि-

चिन्तनादुभाभ्यामिति संक्षेपः।

अपेक्षाबुद्धिर्नाम विनाशकविनाशप्रतियोगिनी बुद्धिरिति बोद्धव्यम्। अथ व्द्यणुकनाशमारम्भ

कतिभिः क्षणैः पुनरन्यद् द्वयणुकमुत्पद्य रूपादिमद्भवतीति जिज्ञासायामुत्पत्तिप्रकारः कथ्यते -

नोदनादिक्रमेण द्वयणुकनाशः। नष्टे द्वयणुके परमाणावग्नि- संयोगाच्छयामादीनां निवृत्तिः।

निवृत्तेषु श्यामादिषु पुनरन्यस्मादग्निसंयोगाद्रक्तादीनामुत्पत्तिः। उत्पन्नेषु रक्तादिष्वदृष्टवदात्म-

संयोगात्परमाणौ द्रव्यारम्भणाय क्रिया। तथा पूर्वदेशाद्विभागः। विभागेन पूर्वदेशसंयोगनिवृत्तिः।

तस्मिन्निवृत्ते परमाण्वन्तरेण संयोगोत्पत्तिः। संयुक्ताभ्यां परमाणुभ्यां द्वयणुकारम्भः। आरब्धे

द्वयणुके कारणगुणादिभ्यः कार्यगुणादीनां रूपादीनामुत्पत्तिरिति यथाक्रमं नवक्षणाः।

दशक्षणादिप्रकारान्तरं विस्तरभयान्नेह प्रतन्यते। इत्थं पीलुपाकप्रक्रिया पिठरपाकप्रक्रिया

नैयायिकधीसंमता।

विभागजविभागो द्विविधः - कारणमात्रविभागजः कारणाकारणविभागजश्च। तत्र प्रथमः कथ्यते -

कार्यव्याप्ते कारणे कर्मोंत्पन्नं यदावयवान्तराद्विभागं विधत्ते न तदाकाशादिदेशाद्विभागः। यदा

त्वाकाशादिदेशाद्विभागो न तदावयवान्तरादिति स्थितिनियमः। कर्मणो गगनविभागाकर्तृत्वस्य

द्रव्यारम्भकसंयोगविरोधिविभागारम्भकत्वेन धूमस्य धूमध्वजवर्गेणेव व्यभिचारानुपलम्भात्।

ततश्चावयकर्मावयवान्तरादेव विभागं करोति नाकाशादिदेशात्। तस्माद्विभागाद् द्रव्यारम्भक-

संयोगनिवृत्तिः। ततः कारणाभावात्कार्याभाव इति न्यायादवयवनिवृत्तिः। निवृत्तेवयविनि

तत्कारणयोरवयवयोः वर्तमानो विभागः कार्यविनाश विशिष्टं कालं स्वतन्त्रं वावयवमपेक्ष्य

सक्रियस्यैवावयवस्य कार्यसंयुक्तादाकाशदेशाद्विभागमारभते न निष्क्रियस्य। कारणाभावात्।

द्वितीयस्तु हस्ते कर्मोंत्पन्नमवयवान्तराद्विभागं कु र्वत् आकाशादिदेशेभ्यो विभागानारभते। ते

कारणाकारणविभागाः कर्म यां दिशं प्रति कार्यारम्भाभिमुखं तामपेक्ष्य कार्याकार्यविभागमारभन्ते।

यथा हस्ताकाशविभागा- च्छरीराकाशविभागः। न चासौ शरीरक्रियाकार्यः। तदा तस्य

निष्क्रियत्वात्। नापि हस्तक्रियाकार्यः व्यधिकरणस्य कर्मणो विभागकर्तृत्वानुपपत्तेः। अतः

पारिशेष्यात्कारणाकारणविभागस्तस्य काणरमङ्गीकरणीयम्।

यदवाद्यन्धकारादौ भावत्वं निषिध्यते' इति तदसंगतम्। तत्र चतुर्धा विवादसंभवात्। तथाहि।

द्रव्यं तम इति भाट्टा वेदान्तिनश्च भणन्ति। आरोपितं नीलरूपमिति श्रीधराचार्याः।

आलोकज्ञानाभावः इति प्राभाकरैकदेशिनः। आलोकाभाव इति नैयायिकादय इति चेत् - तत्र

द्रव्यत्वपक्षो न घटते। विकल्पानुपपत्तेः। द्रव्यं भवदन्धकाराख्यं पृथिव्याद्यन्यतममन्यद्वा। नाद्यः।

यत्रान्तर्भावोस्य तस्य यावन्तो गुणास्तावद्गुणकत्वप्रसङ्गात्। न द्वितीयः। निर्गुणस्य तस्य

द्रव्यत्वासंभवेन द्रव्यान्तरत्वस्य सुतरामसंभवात्। ननु तमालश्यामलत्वेनोपलभ्यमानं तमः कथं

निर्गुणं स्यादिति चेत् - तदसारम्। गन्धादिव्याप्तस्य नीलरूपस्य तन्निवृत्तौ निवृत्तेः।

अथ नीलं तम इति गतेः का गतिरिति चेत् - नीलं नभ इतिवद् भ्रान्तिरेवेत्यलं वृद्धवीवधया।

अत एव नारोपितरूपं तमः। अधिष्ठानप्रत्ययमन्तरेणारोपायोगात्। बाह्यालोकसहकारिरहितस्य

चक्षुषो रूपारोपे सामर्थ्यानुपलम्भाच्च। न चायमचाक्षुषः प्रत्ययः। तदनुविधानस्यानन्यथा-

सिद्धत्वात्। अत एव नालोकज्ञानाभावः। अभावस्य प्रतियोगिग्राहके न्द्रियग्राह्यत्वनियमेन

मानसत्वप्रसङ्गात्। तस्मादालोकाभाव एव तमः। न च विधिप्रत्ययवेद्यत्वेनाभावत्वायोग इति

सांप्रतम्। प्रलयविनाशावसानादिषु व्यभिचारात्। न चाभावे भावधर्माध्यारोपो दरुपपाद ुः।

दुःखाभावे सुखत्वारोपस्य संयोगाभावे विभागत्वाभिमानस्य च दृष्टत्वात्।

न चालोकाभावस्य घटाद्यभाववद्रूपवदभावत्वेनालोकसापेक्षचक्षुर्जन्यज्ञानविषयत्वं स्यादित्ये-

षितव्यम्। यद्ग्रहे यदपेक्षं चक्षुः, तदभावग्रहेऽपि तदपेक्षत इति न्यायेनालोकग्रहं आलोकापेक्षाया

अभावेन तदभावग्रहेपि तदपेक्षाया अभावात्। न चाधिकरणग्रहणावश्यंभावः। अभावप्रतीतावधि-

करणग्रहणवश्यंभावानङ्गीकारात्। अपरथा 'निवृत्तः, कोलाहलः' इति शब्दप्रध्वंसः प्रत्यक्षो न

स्याति आप्रामाणिकं परवचनम्। तत्सर्वमभिसंधाय भगवान्कणादः प्रणिनाय सूत्रं

'द्रव्यगुणकर्मनिष्पत्ति- वैधर्म्यादभावस्तमः' (क. 5/2/19) इति।

अभावस्तु निषेधमुखप्रमाणगम्यः सप्तमो निरुप्यते। स चासमवायत्वे सत्यसमवायः। संक्षेपतो

द्विविधः संसर्गाभावान्योन्याभावभेदात्। संसर्गाभावोऽपि त्रिविधः प्राक्प्रध्वंसात्यन्ताभावभेदात्।

तत्रानित्योनादितमः प्रागभावः। उत्पत्तिमानविनाशी प्रध्वंसः। प्रतियोग्याश्रयोभावोऽत्यन्ताभावः।

अत्यन्ताभावव्यतिरिक्तत्वे सति अनवधिरभावोन्योन्याभावः। ननु अन्योन्याभाव एवात्यन्ताभाव

इति चेत्- अहो राजमार्ग एव भ्रमः। अन्योन्याभावो हि तादात्म्यप्रतियोगिकः प्रतिषेधः। यथा

घटः पटात्मा न भवतीति। संसर्गप्रतियोगिकः प्रतिषेधोऽत्यन्ताभावः। यथा वायौ रूपसम्बन्धो

नास्तीति। न चास्य पुरुषार्थौपयिकत्वं नास्तीत्याशङ्कनीयम्। दुःखात्यन्तोच्छे दापरपर्यायनिः-

श्रेयसरूपत्वेन परमपुरुषार्थत्वात्।

; ॥ इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे औलूक्यदर्शनम् ॥