"रामायणम्/अरण्यकाण्डम्/सर्गः ३०" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) अरण्यकाण्डे त्रिंशः सर्गः ॥३-३०॥ इत्येतद् रामायणम्/अरण्यकाण्डम्/सर्गः ३० इत्येतद् प्रति च... |
No edit summary |
||
पङ्क्तिः १:
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः २९|सर्गः २९]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ३१|सर्गः ३१]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिंशः सर्गः ॥३-३०॥'''
भित्त्वा तु ताम् गदाम् बाणैः राघवो धर्म वत्सलः ।
स्मयमानः खरम् वाक्यम् संरब्धम् इदम् अब्रवीत् ॥३-३०-१॥
एतत् ते बल सर्वस्वम् दर्शितम् राक्षसाधम ।
शक्ति हीनतरो मत्तो वृथा त्वम् उपगर्जसि ॥३-३०-२॥
एषा बाण विनिर्भिन्ना गदा भूमि तलम् गता ।
अभिधान प्रगल्भस्य तव प्रत्यय घातिनी ॥३-३०-३॥
यत् त्वया उक्तम् विनष्टानाम् इदम् अश्रु प्रमार्जनम् ।
राक्षसानाम् करोमि इति मिथ्या तत् अपि ते वचः ॥३-३०-४॥
नीचस्य क्षुद्र शीलस्य मिथ्या वृत्तस्य रक्षसः ।
प्राणान् अपहरिष्यामि गरुत्मान् अमृतम् यथा ॥३-३०-५॥
अद्य ते भिन्न कण्ठस्य फेन बुद्बुद भूषितम् ।
विदारितस्य मत् बाणैः मही पास्यति शोणितम् ॥३-३०-६॥
पांसु रूषित सर्वान्गः स्रस्त न्यस्त भुज द्वयः ।
स्वप्स्यसे गाम् समाश्लिष्य दुर्लभाम् प्रमदाम् इव ॥३-३०-७॥
प्रवृद्ध निद्रे शयिते त्वयि राक्षस पांसने ।
भविष्यन्ति अशरण्यानाम् शरण्या दण्डका इमे ॥३-३०-८॥
जनस्थाने हत स्थाने तव राक्षस मत् शरैः ।
निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥३-३०-९॥
अद्य विप्रसरिष्यन्ति राक्षस्यो हत बान्धवाः ।
बाष्प आर्द्र वदना दीना भयात् अन्य भयावहाः ॥३-३०-१०॥
अद्य शोक रसज्ञाः ताः भविष्यन्ति निरर्थकाः ।
अनुरूप कुलाः पत्न्यो यासाम् त्वम् पतिः ईदृशः ॥३-३०-११॥
नृशंस शील क्षुद्र आत्मन् नित्यम् ब्राह्मण कण्टक ।
त्वत् कृते शन्कितैः अग्नौ मुनिभिः पात्यते हविः ॥३-३०-१२॥
तम् एवम् अभिसंरब्धम् ब्रुवाणम् राघवम् रणे ।
खरो निर्भर्त्सयामास रोषात् खरतर स्वरः ॥३-३०-१३॥
दृढम् खलु अवलिप्तो असि भयेषु अपि च निर्भयः ।
वाच्य अवाच्यम् ततो हि त्वम् मृत्यु वश्यो न बुध्यसे ॥३-३०-१४॥
काल पाश परिक्षिप्ता भवंति पुरुषा हि ये ।
कार्य अकार्यम् न जानन्ति ते निरस्त षड् इन्द्रियाः ॥३-३०-१५॥
एवम् उक्त्वा ततो रामम् संरुध्य भृकुटिम् ततः ।
स ददर्श महा सालम् अविदूरे निशाचरः ॥३-३०-१६॥
रणे प्रहरणस्य अर्थे सर्वतो हि अवलोकयन् ।
स तम् उत्पाटयामास संदष्ट दशन च्छदम् ॥३-३०-१७॥
तम् समुत्क्षिप्य बाहुभ्याम् विनर्दित्वा महाबलः ।
रामम् उद्दिश्य चिक्षेप हतः त्वम् इति च अब्रवीत् ॥३-३०-१८॥
तम् आपतन्तम् बाण ओघैः च्छित्त्वा रामः प्रतापवान् ।
रोषम् आहारयत् तीव्रम् निहंतुम् समरे खरम् ॥३-३०-१९॥
जात स्वेदः ततो रामो रोषात् रक्त अन्त लोचनः ।
निर्बिभेद सहस्रेण बाणानाम् समरे खरम् ॥३-३०-२०॥
तस्य बाण अंतरात् रक्तम् बहु सुस्राव फेनिलम् ।
गिरेः प्रस्रवणस्य इव धाराणाम् च परिस्रवः ॥३-३०-२१॥
विकल स कृतो बाणैः खरो रामेण संयुगे ।
मत्तो रुधिर गन्धेन तम् एव अभ्यद्रवत् द्रुतम् ॥३-३०-२२॥
तम् आपतंतम् संरब्धम् कृत अस्त्रो रुधिर आप्लुतम् ।
अपसर्पत् द्वि त्रि पदम् किंचित् त्वरित विक्रमः ॥३-३०-२३॥
ततः पावक संकाशम् वधाय समरे शरम् ।
खरस्य रामो जग्राह ब्रह्म दण्डम् इव अपरम् ॥३-३०-२४॥
स तत् दत्तम् मघवता सुर राजेन धीमता ।
संदधे च स धर्मात्मा मुमोच च खरम् प्रति ॥३-३०-२५॥
स विमुक्तो महाबाणो निर्घात सम निःस्वनः ।
रामेण धनुरायम्य खरस्य उरसि च आपतत् ॥३-३०-२६॥
स पपात खरो भूमौ दह्यमानः शर अग्निना ।
रुद्रेण एव विनिर्दग्धः श्वेत अरण्ये यथा अन्धकः ॥३-३०-२७॥
स वृत्र इव वज्रेण फेनेन नमुचिर् यथाअ ।
बलो वा इन्द्र अशनि हतो निपपात हतः खरः ॥३-३०-२८॥
एतस्मिन् अंतरे देवाः चारणयोः सह संगताः ।
दुन्दुभिः च अभिनिघ्नंतः पुष्प वर्ष समंततः ॥३-३०-२९॥
रामस्य उपरि संहृष्टा ववर्षुः विस्मिताः तदा ।
अर्थ अधिक मुहूर्तेन रामेण निशितैः शरैः ॥३-३०-३०॥
चतुर् दश सहस्राणि रक्ष्साम् काम रूपिणाम् ।
खर दूषण मुख्यानाम् निहतानि महामृधे ॥३-३०-३१॥
अहो बत महत् कर्म रामस्य विदित आत्मनः ।
अहो वीर्यम् अहो दार्ढ्यम् विष्णोः इव हि दृश्यते ॥३-३०-३२॥
इति एवम् उक्त्वा ते सर्वे ययुः देवा यथा आगतम्।
ततो राज ऋषयः सर्वे सम्गताः परम ऋषयः ॥३-३०-३३॥
सभाज्य मुदिता रामम् स अगस्त्या इदम् अब्रुवन् ।
एतत् अर्थम् महातेजा महेन्द्रः पाक शासनः ॥३-३०-३४॥
शरभंग आश्रमम् पुण्यम् आजगाम पुरंदरः ।
आनीतः त्वम् इमम् देशम् उपायेन महर्षिभिः ॥३-३०-३५॥
एषाम् वध अर्थम् शत्रूणाम् रक्षसाम् पाप कर्मणाम् ।
तत् इदम् नः कृतम् कार्यम् त्वया दशरथ आत्मज ॥३-३०-३६॥
स्व धर्मम् प्रचरिष्यन्ति दण्डकेषु महर्षयः ।
एतस्मिन् अनंतरे वीरो लक्ष्मणः सह सीतया ॥३-३०-३७॥
गिरि दुर्गात् विनिष्क्रम्य संविवेश आश्रमम् सुखी ।
ततो रामः तु विजयी पूज्यमानो महर्षिभिः ॥३-३०-३८॥
प्रविवेश आश्रमम् वीरो लक्ष्मणेन अभिपूजितः ।
तम् दृष्ट्वा शत्रु हंतारम् महर्षीणाम् सुख आवहम् ॥३-३०-३९॥
बभूव हृष्टा वैदेही भर्तारम् परिष्वजे ।
मुदा परमया युक्ता दृष्ट्वा रक्षो गणान् हतान् ।
रामम् च एव अव्ययम् दृष्टा तुतोष जनक आत्मजा ॥३-३०-४०॥
ततः तु तम् राक्षस संघ
पुनः परिष्वज्य मुदा अन्वित
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिंशः सर्गः ॥३-३०॥'''
|