"रामायणम्/अरण्यकाण्डम्/सर्गः ३३" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) अरण्यकाण्डे त्रयस्त्रिंशः सर्गः ॥३-३३॥ इत्येतद् रामायणम्/अरण्यकाण्डम्/सर्गः ३३ इत्येतद् ... |
No edit summary |
||
पङ्क्तिः १:
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ३२|सर्गः ३२]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ३४|सर्गः ३४]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयस्त्रिंशः सर्गः ॥३-३३॥'''
ततः शूर्पणखा दीना रावणम् लोक रावणम् ।
अमात्य मध्ये संक्रुद्धा परुषम् वाक्यम् अब्रवीत् ॥३-३३-१॥
प्रमत्तः काम भोगेषु स्वैर वृत्तो निरंकुशः ।
समुत्पन्नम् भयम् घोरम् बोद्धव्यम् न अवबुध्यसे ॥३-३३-२॥
सक्तम् ग्राम्येषु भोगेषु काम वृत्तम् महीपतिम् ।
लुब्धम् न बहु मन्यन्ते श्मशान अग्निम् इव प्रजाः ॥३-३३-३॥
स्वयम् कार्याणि यः काले न अनुतिष्ठति पार्थिवः ।
स तु वै सह राज्येन तैः च कार्यैः विनश्यति ॥३-३३-४॥
अयुक्त चारम् दुर्दर्शम् अस्वाधीनम् नराधिपम् ।
वर्जयन्ति नरा दूरात् नदी पंकम् इव द्विपाः ॥३-३३-५॥
ये न रक्षन्ति विषयम् अस्वाधीना नराधिपः ।
ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ॥३-३३-६॥
आत्मवद्भिः विगृह्य त्वम् देव गंधर्व दानवैः ।
अयुक्त चारः चपलः कथम् राजा भविष्यसि ॥३-३३-७॥
त्वम् तु बाल स्वभावत् च बुद्धि हीनः च राक्षस ।
ज्ञातव्यम् तु न जानीषि कथम् राजा भविष्यसि ॥३-३३-८॥
येषाम् चारः च कोशः च नयः च जयताम् वर ।
अस्वाधीना नरेन्द्राणाम् प्राकृतैः ते जनैः समाः ॥३-३३-९॥
यस्मात् पश्यन्ति दूरस्थान् सर्वान् अर्थान् नराधिपाः ।
चारेण तस्मात् उच्यन्ते राजानो दीर्घ चक्षुषः ॥३-३३-१०॥
अयुक्त चारम् मन्ये त्वाम् प्राकृतैः सचिवैः युतः ।
स्व जनम् च जनस्थानम् निहतम् न अवबुध्यसे ॥३-३३-११॥
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।
हतानि एकेन रामेण खरः च सह दूषणः ॥३-३३-१२॥
ऋषीणाम् अभयम् दत्तम् कृत क्षेमाः च दण्डकाः ।
धर्षितम् च जनस्थानम् रामेण अक्लिष्ट कारिणा ॥३-३३-१३॥
त्वम् तु लुब्धः प्रमत्तः च पराधीनः च रावण ।
विषये स्वे समुत्पन्नम् यो भयम् न अवबुध्यसे ॥३-३३-१४॥
तीक्ष्णम् अल्प प्रदातारम् प्रमत्तम् गर्वितम् शठम् ।
व्यसने सर्व भूतानि न अभिधावन्ति पार्थिवम् ॥३-३३-१५॥
अतिमानिनम् अग्राह्यम् आत्म संभावितम् नरम् ।
क्रोधिनम् व्यसने हन्ति स्व जनो अपि नराधिपम् ॥३-३३-१६॥
न अनुतिष्ठति कार्याणि भयेषु न बिभेति च ।
क्षिप्रम् राज्यात् च्युतो दीनः तृणैः तुल्यो भवेत् इह ॥३-३३-१७॥
शुष्क काष्ठैः भवेत् कार्यम् लोष्टैः अपि च पांसुभिः ।
न तु स्थानात् परिभ्रष्टैः कार्यम् स्यात् वसुधाधिपैः ॥३-३३-१८॥
उपभुक्तम् यथा वासः स्रजो वा मृदिता यथा ।
एवम् राज्यात् परिभ्रष्टः समर्थो अपि निरर्थकः ॥३-३३-१९॥
अप्रमत्तः च यो राजा सर्वज्ञो विजितेन्द्रियः ।
कृतज्ञो धर्म शीलः च स राजा तिष्ठते चिरम् ॥३-३३-२०॥
नयनाभ्याम् प्रसुप्तो वा जागर्ति नय चक्षुषा ।
व्यक्त क्रोध प्रसादः च स राजा पूज्यते जनैः ॥३-३३-२१॥
त्वम् तु रावण दुर्बुद्धिः गुणैः एतैः विवर्जितः ।
यस्य ते अविदितः चारैः रक्षसाम् सुमहान् वधः ॥३-३३-२२॥
पर अवमंता विषयेषु
अयुक्त बुद्धिः गुण दोष
इति स्व दोषान् परिकीर्तिताम्
धनेन दर्पेण बलेन च
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रयस्त्रिंशः सर्गः ॥३-३३॥'''
|