"रामायणम्/अरण्यकाण्डम्/सर्गः ४१" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४०|सर्गः ४०]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४२|सर्गः ४२]]
| notes =

{{रामायणम्/अरण्यकाण्डम्}}

'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकचत्वारिंशः सर्गः ॥३-४१॥'''

आज्ञप्तो रावणेन इत्थम् प्रतिकूलम् च राजवत् ।

अब्रवीत् परुषम् वाक्यम् निःशन्को राक्षसाधिपम् ॥३-४१-१॥

केन अयम् उपदिष्टः ते विनाशः पाप कर्मणा ।

स पुत्रस्य स राज्यस्य स अमात्यस्य निशाचर ॥३-४१-२॥

कः त्वया सुखिना राजन् न अभिनन्दति पापकृत् ।

केन इदम् उपदिष्टम् ते मृत्यु द्वारम् उपायतः ॥३-४१-३॥

शत्रवः तव सुव्यक्तम् हीन वीर्या निशा चर ।

इच्छन्ति त्वाम् विनश्यन्तम् उपरुद्धम् बलीयसा ॥३-४१-४॥

केन इदम् उपदिष्टम् ते क्षुद्रेण अहित बुद्धिना ।

यः त्वाम् इच्छति नश्यन्तम् स्व कृतेन निशाचर ॥३-४१-५॥

वध्याः खलु न वध्यन्ते सचिवाः तव रावण ।

ये त्वाम् उत्पथम् आरूढम् न निगृह्णन्ति सर्वशः ॥३-४१-६॥

अमात्यैः काम वृत्तो हि राजा कापथम् आश्रितः ।

निग्राह्यः सर्वथा सद्भिः न निग्राह्यो निगृह्यसे ॥३-४१-७॥

धर्मम् अर्थम् च कामम् च यशः च जयताम् वर ।

स्वामि प्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ॥३-४१-८॥

विपर्यये तु तत् सर्वम् व्यर्थम् भवति रावण ।

व्यसनम् स्वामि वैगुण्यात् प्राप्नुवन्ति इतरे जनाः ॥३-४१-९॥

राज मूलो हि धर्मः च जयः च जयताम् वर ।

तस्मात् सर्वासु अवस्थासु रक्षितव्यो नराधिपाः ॥३-४१-१०॥

राज्यम् पालयितुम् शक्यम् न तीक्ष्णेन निशाचर ।

न च अपि प्रतिकूलेन न अविनीतेन राक्षस ॥३-४१-११॥

ये तीक्ष्ण मंत्राः सचिवा भज्यन्ते सह तेन वै ।

विषमे तुरगाः शीघ्रा मन्द सारथयो यथा ॥३-४१-१२॥

बहवः साधवो लोके युक्त धर्मम् अनुष्ठिताः ।

परेषाम् अपराधेन विनष्टाः स परिच्छदाः ॥३-४१-१३॥

स्वामिना प्रतिकूलेन प्रजाः तीक्ष्णेन रावण ।

रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥३-४१-१४॥

अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः ।

येषाम् त्वम् कर्कशो राजा दुर्बुद्धिः अजित इन्द्रियः ॥३-४१-१५॥

तद् इदम् काक तालीयम् घोरम् आसादितम् मया ।

अत्र त्वम् शोचनीयो असि स सैन्यो विनशिष्यसि ॥३-४१-१६॥

माम् निहत्य तु रामो असौ अचिरात् त्वाम् वधिष्यति ।

अनेन कृत कृत्यो अस्मि म्रिये च अपि अरिणा हतः ॥३-४१-१७॥

दर्शनात् एव रामस्य हतम् माम् अवधारय ।

आत्मानम् च हतम् विद्धि हृत्वा सीताम् स बान्धवम् ॥३-४१-१८॥

आनयिष्यसि चेत् सीताम् आश्रमात् सहितो मया ।

न एव त्वम् असि न एव अहम् न एव लंका न राक्षसाः ॥३-४१-१९॥

निवार्यमाणः तु मया हित एषिणा
नएषिणान मृष्यसे वाक्यम् इदम् निशाचर ।

परेत कल्पा हि गत आयुषो नरा
हितम्नराहितम् न गृह्णन्ति सुहृद्भिः ईरितम् ॥३-४१-२०॥

'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकचत्वारिंशः सर्गः ॥३-४१॥'''

==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]