"रामायणम्/अरण्यकाण्डम्/सर्गः ४८" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥ इत्येतद् रामायणम्/अरण्यकाण्डम्/सर्गः ४८ इत्येतद्... |
No edit summary |
||
पङ्क्तिः १:
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४७|सर्गः ४७]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४९|सर्गः ४९]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥'''
एवम् ब्रुवत्याम् सीतायाम् संरब्धः परुष अक्षरम् ।
ललाटे भ्रुकुटीम् कृत्वा रावणः प्रति उवाच ह ॥३-४८-१॥
भ्राता वैश्रवणस्य अहम् सापत्नो वरवर्णिनि ।
रावणो नाम भद्रम् ते दशग्रीवः प्रतापवान् ॥३-४८-२॥
यस्य देवाः स गंधर्वाः पिशाच पतग उरगाः ।
विद्रवन्ति भयात् भीता मृत्योः इव सदा प्रजाः ॥३-४८-३॥
येन वैश्रवणो भ्राता वैमात्रः कारणांतरे ।
द्वन्द्वम् आसादितः क्रोधात् रणे विक्रम्य निर्जितः ॥३-४८-४॥
मत् भय आर्तः परित्यज्य स्वम् अधिष्ठानम् ऋद्धिमत् ।
कैलासम् पर्वत श्रेष्ठम् अध्यास्ते नर वाहनः ॥३-४८-५॥
यस्य तत् पुष्पकम् नाम विमानम् कामगम् शुभम् ।
वीर्याद् आवर्जितम् भद्रे येन यामि विहायसम् ॥३-४८-६॥
मम संजात रोषस्य मुखम् दृष्ट्वा एव मैथिलि ।
विद्रवन्ति परित्रस्ताः सुराः शक्र पुरोगमाः ॥३-४८-७॥
यत्र तिष्ठामि अहम् तत्र मारुतो वाति शन्कितः ।
तीव्र अंशुः शिशिर अंशुः च भयात् संपद्यते रविः ॥३-४८-८॥
निष्कंप पत्राः तरवो नद्यः च स्तिमित उदकाः ।
भवन्ति यत्र तत्र अहम् तिष्ठामि च चरामि च ॥३-४८-९॥
मम पारे समुद्रस्य लंका नाम पुरी शुभा ।
संपूर्णा राक्षसैः घोरैः यथा इन्द्रस्य अमरावती ॥३-४८-१०॥
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता ।
हेम कक्ष्या पुरी रम्या वैदूर्यमय तोरणा ॥३-४८-११॥
हस्ति अश्व रथ संभाधा तूर्य नाद विनादिता ।
सर्व काम फलैः वृक्षैः संकुल उद्यान भूषिता ॥३-४८-१२॥
तत्र त्वम् वस हे सीते राजपुत्रि मया सह ।
न स्मरिष्यसि नारीणाम् मानुषीणाम् मनस्विनि ॥३-४८-१३॥
भुंजाना मानुषान् भोगान् दिव्यान् च वरवर्णिनि ।
न स्मरिष्यसि
स्थापयित्वा प्रियम् पुत्रम् राज्ञा दशरथेन यः ।
मन्द वीर्यः सुतो ज्येष्ठः ततः प्रस्थापितो वनम् ॥३-४८-१५॥
तेन किम् भ्रष्ट राज्येन रामेण गत चेतसा ।
करिष्यसि विशालाक्षि तापसेन तपस्विना ॥३-४८-१६॥
सर्व राक्षस भर्तारम् कामय - कामात् - स्वयम् आगतम् ।
न मन्मथ शर आविष्टम् प्रति आख्यातुम् त्वम् अर्हसि ॥३-४८-१७॥
प्रति आख्याय हि माम् भीरु परितापम् गमिष्यसि ।
चरणेन अभिहत्य इव पुरूरवसम् ऊर्वशी ॥३-४८-१८॥
अंगुल्या न समो रामो मम युद्धे स मानुषः ।
तव भाग्येन् संप्राप्तम् भजस्व वरवर्णिनि ॥३-४८-१९॥
एवम् उक्ता तु वैदेही क्रुद्धा संरक्त लोचना ।
अब्रवीत् परुषम् वाक्यम् रहिते राक्षस अधिपम् ॥३-४८-२०॥
कथम् वैश्रवणम् देवम् सर्व देव नमस्कृतम् ।
भ्रातरम् व्यपदिश्य त्वम् अशुभम् कर्तुम् इच्छसि ॥३-४८-२१॥
अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः ।
येषाम् त्वम् कर्कशो राजा दुर्बुद्धिः अजित इन्द्रियः ॥३-४८-२२॥
अपहृत्य शचीम् भार्याम् शक्यम् इन्द्रस्य जीवितुम् ।
न हि रामस्य भार्याम् माम् अपनीय अस्ति जीवितम् ॥३-४८-२३॥
जीवेत् चिरम् वज्र धरस्य हस्तात्शचीम् प्रधृष्य अप्रतिरूप रूपाम् ।
न मा दृशीम् राक्षस धर्षयित्वापीत अमृतस्य अपि तव अस्ति मोक्षः ॥३-४८-२४॥
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥'''
|