"रामायणम्/अरण्यकाण्डम्/सर्गः ५४" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) अरण्यकाण्डे चतुःपञ्चाशः सर्गः ॥३-५४॥ इत्येतद् रामायणम्/अरण्यकाण्डम्/सर्गः ५४ इत्येतद् प्... |
No edit summary |
||
पङ्क्तिः १:
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ५३|सर्गः ५३]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ५५|सर्गः ५५]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःपञ्चाशः सर्गः ॥३-५४॥'''
ह्रियमाणा तु वैदेही कंचित् नाथम् अपश्यती ।
ददर्श गिरि शृंगस्थान् पंच वानर पुंगवान् ॥३-५४-१॥
तेषाम् मध्ये विशालाक्षी कौशेयम् कनक प्रभम् ।
उत्तरीयम् वरारोहा शुभानि आभरणानि च ॥३-५४-२॥
मुमोच यदि रामाय शंसेयुः इति भामिनी ।
वस्त्रम् उत्सृज्य तन् मध्ये विनिक्षिप्तम् स भूषणम् ॥३-५४-३॥
संभ्रमात् तु दशग्रीवः तत् कर्म न च बुद्ध्वान् ।
पिंगाक्षाः ताम् विशालाक्षीम् नेत्रैः अनिमिषैः इव ॥३-५४-४॥
विक्रोशन्तीम् तदा सीताम् ददृशुः वानर ऋषभाः ।
स च पंपाम् अतिक्रम्य लंकाम् अभिमुखः पुरीम् ॥३-५४-५॥
जगाम रुदतीम् गृह्य मैथिलीम् राक्षस ईश्वरः ।
ताम् जहार सुसंहृष्टो रावणो मृत्युम् आत्मनः ॥३-५४-६॥
उत्संगेन एव भुजगीम् तीक्ष्ण दंष्ट्राम् महाविषाम् ।
वनानि सरितः शैलान् सराम्सि च विहायसा ॥३-५४-७॥
स क्षिप्रम् समतीयाय शरः चापात् इव च्युतः ।
तिमि नक्र निकेतम् तु वरुण आलयम् अक्षयम् ॥३-५४-८॥
सरिताम् शरणम् गत्वा समतीयाय सागरम् ।
संभ्रमात् परिवृत्त ऊर्मी रुद्ध मीन महोरगः ॥३-५४-९॥
वैदेह्याम् ह्रियमाणायाम् बभूव वरुण आलयः ।
अन्तरिक्ष गता वाचः ससृजुः चारणाः तदा ॥३-५४-१०॥
एतत् अन्तो दशग्रीव इति सिद्धाः तदा अब्रुवन् ।
स तु सीताम् विचेष्टन्तीम् अंकेन आदाय रावणः ॥३-५४-११॥
प्रविवेश पुरीम् लन्काम् रूपिणीम् मृत्युम् आत्मनः ।
सः अभिगम्य पुरीम् लंकाम् सुविभक्त महापथाम् ॥३-५४-१२॥
संरूढ कक्ष्या बहुलम् स्वम् अंतः पुरम् आविशत् ।
तत्र ताम् असित अपांगाम् शोक मोह परायणाम् ॥३-५४-१३॥
निदधे रावणः सीताम् मयो मायाम् इव आसुरीम् ।
अब्रवीत् च दशग्रीवः पिशाचीः घोर दर्शनाः ॥३-५४-१४॥
यथा न एनाम् पुमान् स्त्री वा सीताम् पश्यति असम्मतः ।
मुक्ता मणि सुवर्णानि वस्त्राणि आभरणानि च ॥३-५४-१५॥
यत् यत् इच्छेत् तत् एव अस्या देयम् मत् च्छंदतो यथा ।
या च वक्ष्यति वैदेहीम् वचनम् किंचित् अप्रियम् ॥३-५४-१६॥
अज्ञानात् यदि वा ज्ञानान् न तस्या जीवितम् प्रियम् ।
तथा उक्त्वा राक्षसीः ताः तु राक्षसेन्द्रः प्रतापवान् ॥३-५४-१७॥
निष्क्रम्य अन्तः पुरात् तस्मात् किम् कृत्यम् इति चिंतयन् ।
ददर्श अष्टौ महावीर्यान् राक्षसान् पिशित अशनान् ॥३-५४-१८॥
स तान् दृष्ट्वा महावीर्यो वर दानेन मोहितः ।
उवाच तान् इदम् वाक्यम् प्रशस्य बल वीर्यतः ॥३-५४-१९॥
नाना प्रहरणाः क्षिप्रम् इतो गच्छत सत्वराः ।
जनस्थानम् हत स्थानम् भूत पूर्वम् खर आलयम् ॥३-५४-२०॥
तत्र उष्यताम् जनस्थाने शून्ये निहत राक्षसे ।
पौरुषम् बलम् आश्रित्य त्रासम् उत्सृज्य दूरतः ॥३-५४-२१॥
स दूषण खरम् युद्धे निहतम् राम सायकैः ॥३-५४-२२॥
ततः क्रोधो मम अपूर्वो धैर्यस्य उपरि वर्धते ।
वैरम् च सुमहत् जातम् रामम् प्रति सुदारुणम् ॥३-५४-२३॥
निर्यातयितुम् इच्छामि तत् च वैरम् अहम् रिपोः ।
न हि लप्स्यामि अहम् निद्राम् अहत्वा संयुगे रिपुम् ॥३-५४-२४॥
तम् तु इदानीम् अहम् हत्वा खर दूषण घातिनम् ।
रामम् शर्म उपलप्स्यामि धनम् लब्ध्वा इव निर्धनः ॥३-५४-२५॥
जनस्थाने वसद्भिः तु भवद्भिः रामम् आश्रिता ।
प्रवृत्तिः उपनेतव्या किम् करोति इति तत्त्वतः ॥३-५४-२६॥
अप्रमादात् च गंतव्यम् सर्वैः एव निशाचरैः ।
कर्तव्यः च सदा यत्नो राघवस्य वधम् प्रति ॥३-५४-२७॥
युष्माकम् तु बलम् ज्ञातम् बहुशो रण मूर्धनि ।
अतः तु अस्मिन् जनस्थाने मया यूयम् नियोजिताः ॥३-५४-२८॥
ततः प्रियम् वाक्यम् उपेत्य राक्षसामहाअर्थम् अष्टौ अभिवाद्य रावणम् ।
विहाय लंकाम् सहिताः प्रतस्थिरेयतो जनस्थानम् अलक्ष्य दर्शनाः ॥३-५४-२९॥
ततः तु सीताम् उपलभ्य रावणःसुसंप्रहृष्टः परिगृह्य मैथिलीम् ।
प्रसज्य रामेण च वैरम् उत्तमम्बभूव मोहात् मुदितः स राक्षसः ॥३-५४-३०॥
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुःपञ्चाशः सर्गः ॥३-५४॥'''
|