"रामायणम्/अरण्यकाण्डम्/सर्गः ६२" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) अरण्यकाण्डे द्विषष्ठितमः सर्गः ॥३-६२॥ इत्येतद् रामायणम्/अरण्यकाण्डम्/सर्गः ६२ इत्येतद् प... |
No edit summary |
||
पङ्क्तिः १:
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ६१|सर्गः ६१]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ६३|सर्गः ६३]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विषष्ठितमः सर्गः ॥३-६२॥'''
सीताम् अपश्यन् धर्मात्मा शोक उपहत चेतनः ।
विललाप महाबाहू रामः कमल लोचनः ॥३-६२-१॥
पश्यन् इव च ताम् सीताम् अपश्यन् मदन अर्दितः ।
उवाच राघवो वाक्यम् विलाप आश्रय दुर्वचम् ॥३-६२-२॥
त्वम् अशोकस्य शाखाभिः पुष्प प्रिय तराअ प्रिये ।
अवृणोषि शरीरम् ते मम शोक विवर्धिनी ॥३-६२-३॥
कदली काण्ड सदृशौ कदल्या संवृता उभौ ।
ऊरू पश्यामि ते देवि न असि शक्ता निगूहितुम् ॥३-६२-४॥
कर्णिकार वनम् भद्रे हसंती देवि सेवसे ।
अलम् ते परिहासेन मम बाधावहेन वै ॥३-६२-५॥
विशेषेण आश्रमस्थाने हासो अयम् न प्रशस्यते ।
अवगच्छामि ते शीलम् परिहास प्रियम् प्रिये ॥३-६२-६॥
आगच्छ त्वम् विशालाक्षी शून्यो अयम् उटजः तव ।
सु व्यक्तम् राक्षैः सीता भक्षिता वा हृता अपि वा
॥३-६२-७॥
न हि सा विलपंतम् माम् उपसम्प्रैति लक्ष्मण ।
एतानि मृग यूधानि स अश्रु नेत्राणि लक्ष्मण ॥३-६२-८॥
शंशन्ति इव हि मे देवीम् भक्षिताम् रजनीचरैः ।
हा मम आर्ये क्व याता असि हा साध्वि वर वर्णिनि ॥३-६२-९॥
हा स कामा अद्य कैकेयी देवि मे अद्य भविष्यति ।
सीताया सह निर्यातो विना सीताम् उपागतः ॥३-६२-१०॥
कथम् नाम प्रवेक्ष्यामि शून्यम् अन्तः पुरम् मम ।
निर्वीर्य इति लोको माम् निर्दयः च इति वक्ष्यति ॥३-६२-११॥
कातरत्वम् प्रकाशम् हि सीता अपनयनेन मे ।
निवृत्त वन वासः च जनकम् मिथिल अधिपम् ॥३-६२-१२॥
कुशलम् परिपृच्छन्तम् कथम् शक्षे निरीक्षितुम् ।
विदेह रजो नूनम् माम् दृष्ट्वा विरहितम् तया ॥३-६२-१३॥
सुता विनाश संतप्तो मोहस्य वशम् एष्यति ।
अथवा न गमिष्यामि पुरीम् भरत पालितम् ॥३-६२-१४॥
स्वर्गो अपि हि तया हीनः शून्य एव मतो मम ।
तत् माम् उत्सृज्य हि वने गच्छ अयोध्या पुरीम् शुभाम्
॥३-६२-१५॥
न तु अहम् ताम् विना सीताम् जीवेयम् हि कथंचन ।
गाढम् आश्लिष्य भरतो वाच्यो मत् वचनात् त्वया ॥३-६२-१६॥
अनुज्ञातो असि रामेण पालय इति वसुंधराम् ।
अंबा च मम कैकेयी सुमित्रा च त्वया विभो ॥३-६२-१७॥
कौसल्या च यथा न्यायम् अभिवाद्या मम अज्ञया ।
रक्षणीया प्रयत्नेन भवता सा उक्त कारिणा ॥३-६२-१८॥
सीतायाः च विनाशो अयम् मम च अमित्र सूदन ।
विस्तरेण जनन्या विनिवेद्य त्वया भवेत् ॥३-६२-१९॥
इति विलपति राघवो तु दीनो
वनम् उपगम्य तया विना सु केश्या ।
भय विकल मुखः तु लक्ष्मणो अपि
व्यथित मना भृशम् आतुरो बभूव ॥३-६२-२०॥
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे द्विषष्ठितमः सर्गः ॥३-६२॥'''
==संबंधित कड़ियाँ==
|