"रामायणम्/अरण्यकाण्डम्/सर्गः ६८" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ६७|सर्गः ६७]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ६९|सर्गः ६९]]
| notes =

{{रामायणम्/अरण्यकाण्डम्}}

'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टषष्ठितमः सर्गः ॥३-६८॥'''

रामः प्रेक्ष्य तु तम् गृध्रम् भुवि रौद्रेण पातितम् ।

सौमित्रिम् मित्र संपन्नम् इदम् वचनम् अब्रवीत् ॥३-६८-१॥

मम अयम् नूनम् अर्थेषु यतमानो विहंगमः ।

राक्षसेन हतः संख्ये प्राणान् त्यजति मत् कृते ॥३-६८-२॥

अति खिन्नः शरीरे अस्मिन् प्राणो लक्ष्मण विद्यते ।

तथा स्वर विहीनो अयम् विक्लवम् समुदीक्षते ॥३-६८-३॥

जटायो यदि शक्नोषि वाक्यम् व्याहरितुम् पुनः ।

सीताम् आख्याहि भद्रम् ते वधम् आख्याहि च आत्मनः ॥३-६८-४॥

किम् निमित्तो जहार आर्याम् रावणः तस्य किम् मया ।

अपराधम् तु यम् दृष्ट्वा रावणेन हृता प्रिया ॥३-६८-५॥

कथम् तत् चन्द्र संकाशम् मुखम् आसीत् मनोहरम् ।

सीतया कानि च उक्तानि तस्मिन् काले द्विजोत्तम ॥३-६८-६॥

कथम् वीर्यः कथम् रूपः किम् कर्मा स च राक्षसः ।

क्व च अस्य भवनम् तात ब्रूहि मे परिपृच्छतः ॥३-६८-७॥

तम् उद्वीक्ष्य सः धर्मात्मा विलपन्तम् अनाथवत् ।

वाचा विक्लवया रामम् इदम् वचनम् अब्रवीत् ॥३-६८-८॥

सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना ।

मायाम् आस्थाय विपुलाम् वात दुर्दिन संकुलाम् ॥३-६८-९॥

परिक्लांतस्य मे तात पक्षौ चित्त्वा निशाचरः ।

सीताम् आदाय वैदेहीम् प्रयातो दक्षिणा मुखः ॥३-६८-१०॥

उपरुध्यन्ति मे प्राणा दृष्टिर् भ्रमति राघव ।

पश्यामि वृक्षान् सौवर्णान् उशीर कृत मूर्धजान् ॥३-६८-११॥

येन याति मुहूर्तेन सीताम् आदाय रावणः ।

विप्रनष्टम् धनम् क्षिप्रम् तत् स्वामि प्रतिपद्यते ॥३-६८-१२॥

विन्दो नाम मुहूर्तो असौ स च काकुत्स्थ न अबुधत् ।

त्वत् प्रियाम् जानकीम् हृत्वा रावणो राक्षसेश्वर ।

झषवत् बडिशम् गृह्य क्षिप्रम् एव विनश्यति ॥३-६८-१३॥

न च त्वया व्यथा कार्या जनकस्य सुताम् प्रति ।

वैदेह्या रंस्यसे क्षिप्रम् हत्वा तम् रणमूर्धनि ॥३-६८-१४॥

असंमूढस्य गृध्रस्य रामम् प्रति अनुभाषतः ।

आस्यात् सुस्राव रुधिरम् म्रियमाणस्य स अमिषम् ॥३-६८-१५॥

पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च ।

इति उक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥३-६८-१६॥

ब्रूहि ब्रूहि इति रामस्य ब्रुवाणस्य कृतांजलेः ।

त्यक्त्वा शरीरम् गृध्रस्य जग्मुः प्राणा विहायसम् ॥३-६८-१७॥

स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा ।

विक्षिप्य च शरीरम् स्वम् पपात धरणी तले ॥३-६८-१८॥

तम् गृध्रम् प्रेक्ष्य ताम्र अक्षम् गत असुम् अचलोपमम् ।

रामः सु बहुभिः दुह्खैः दीनः सौमित्रिम् अब्रवीत् ॥३-६८-१९॥

बहूनि रक्षसाम् वासे वर्षाणि वसता सुखम् ।

अनेन दण्डकारण्ये विशीर्णम् इह पक्षिणा ॥३-६८-२०॥

अनेक वार्षिको यः तु चिर काल समुत्थितः ।

सो अयम् अद्य हतः शेते कालो हि दुर्अतिक्रमः ॥३-६८-२१॥

पश्य लक्ष्मण गृध्रो अयम् उपकारी हतः च मे ।

सीताम् अभ्यवपन्नो हि रावणेन बलीयसा ॥३-६८-२२॥

गृध्र राज्यम् परित्यज्य पितृ पैतामहम् महत् ।

मम हेतोः अयम् प्राणान् मुमोच पतगेश्वरः ॥३-६८-२३॥

सर्वत्र खलु दृश्यन्ते साधवो धर्म चारिणः ।

शूराः शरण्याः सौमित्रे तिर्यक् योनि गतेषु अपि ॥३-६८-२४॥

सीता हरणजं दुःखम् न मे सौम्य तथा गतम् ।

यथा विनाशो गृध्रस्य मत् कृते च परंतप ॥३-६८-२५॥

राजा दशरथः श्रीमान् यथा मम मया यशाः ।

पूजनीयः च मान्यः च तथा अयम् पतगेश्वरः ॥३-६८-२६॥

सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् ।

गृध्र राजम् दिधक्षामि मत् कृते निधनम् गतम् ॥३-६८-२७॥

नाथम् पतग लोकस्य चिताम् आरोपयामि अहम् ।

इमम् धक्ष्यामि सौमित्रे हतम् रौद्रेण रक्षसा ॥३-६८-२८॥

या गतिः यज्ञ शीलानाम् आहित अग्नेः च या गतिः ।

अ पर आवर्तिनाम् या च या च भूमि प्रदायिनाम् ॥३-६८-२९॥

मया त्वम् समनुज्ञातो गच्छ लोकान् अनुत्तमान् ।

गृध्र राज महा सत्त्व संस्कृतः च मया व्रज ॥३-६८-३०॥

एवम् उक्त्वा चिताम् दीप्ताम् आरोप्य पतगेश्वरम् ।

ददाह रामो धर्मात्मा स्व बन्धुम् इव दुःखितः ॥३-६८-३१॥

रामो अथ सह सौमित्रिः वनम् यात्वा स वीर्यवान् ।

स्थूलान् हत्वा महा रोहीन् अनु तस्तार तम् द्विजम् ॥३-६८-३२॥

रोहि मांसानि च उद्धृत्य पेशी कृत्वा महायशाः ।

शकुनाय ददौ रामो रम्ये हरित शाद्वले ॥३-६८-३३॥

यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः ।

तत् स्वर्ग गमनम् पित्र्यम् क्षिप्रम् रामो जजाप ह ॥३-६८-३४॥

ततो गोदावरीम् गत्वा नदीम् नर वर आत्मजौ ।

उदकम् चक्रतुः तस्मै गृध्र राजाय तौ उभौ ॥३-६८-३५॥

शास्त्र दृष्टेन विधिना जले गृधाय राघवौ ।

स्नात्वा तौ गृध्र राजाय उदकम् चक्रुः तदा ॥३-६८-३६॥

स गृध्र राजः कृतवान् यशस्करम्

सु दुष्करम् कर्म रणे निपातितः ।

महर्षि कल्पेन च संस्कृतः तदा

जगाम पुण्याम् गतिम् आत्मनः शुभाम् ॥३-६८-३७॥

कृतोदकौ तौ अपि पक्षि सत्तमे

स्थिराम् च बुद्धिम् प्रणिधाय जग्मुतुः ।

प्रवेश्य सीता अधिगमने ततो मनो

वनम् सुरेन्द्रौ इव विष्णु वासवौ ॥३-६८-३८॥

'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टषष्ठितमः सर्गः ॥३-६८॥'''

==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]