"शतपथब्राह्मणम्/काण्डम् ९/अध्यायः १/ब्राह्मण १" इत्यस्य संस्करणे भेदः

<font size="4.9"> ९.१.१ शतरुद्रीयम् अथातः शतरुद्रियं जुहो... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

००:३०, २ जनवरी २०१६ इत्यस्य संस्करणं

९.१.१ शतरुद्रीयम् अथातः शतरुद्रियं जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र रुद्रो देवता तस्मिन्देवा एतदमृतं रूपमुत्तममदधुः स एषोऽत्र दीप्यमानोऽतिष्ठदन्नमिच्छमानस्तस्माद्देवा अबिभयुर्यद्वै नोऽयं न हिंस्यादिति - ९.१.१.[१]

तेऽब्रुवन् । अन्नमस्मै सम्भराम तेनैनं शमयामेति तस्मा एतदन्नं समभरञ्छान्तदेवत्यं तेनैनमशमयंस्तद्यदेतम्देवमेतेनाशमयंस्तस्माच्छान्तदेवत्यं शान्तदेवत्यं ह वै तच्छतरुद्रियमित्याचक्षते परोऽक्षं परोऽक्षकामा हि देवास्तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं दधाति स एषोऽत्र दीप्यमानस्तिष्ठत्यन्नमिच्छमानस्तस्मा एतदन्नं सम्भरति शान्तदेवत्यं तेनैनं शमयति - ९.१.१.[२]

जर्तिलैर्जुहोति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायत उभयम्वेतदन्नं यज्जर्तिला यच्च ग्राम्यं यच्चारण्यं यदह तिलास्तेन ग्राम्यं यदकृष्टे पच्यन्ते तेनारण्यमुभयेनैवैनमेतदन्नेन प्रीणाति ग्राम्येण चारण्येन च - ९.१.१.[३]

अर्कपर्णेन जुहोति । अन्नमर्कोऽन्नेनैवैनमेतत्प्रीणाति - ९.१.१.[४]

परिश्रित्सु जुहोति । अग्नय एते यत्परिश्रितस्तथो हास्यैता अग्निमत्येवाहुतयो हुता भवन्ति - ९.१.१.[५]

यद्वेवैतच्छतरुद्रियं जुहोति । प्रजापतेर्विस्रस्ताद्देवता उदक्रामंस्तमेक एव देवो नाजहान्मन्युरेव सोऽस्मिन्नन्तर्विततोऽतिष्ठत्सोऽरोदीत्तस्य यान्यश्रूणि प्रास्कन्दंस्तान्यस्मिन्मन्यौ प्रत्यतिष्ठन्त्स एव शतशीर्षा रुद्रः समभवत्सहस्राक्षः शतेषुधिरथ या अन्या विप्रुषोऽपतंस्ता असंख्याता सहस्राणीमांल्लोकाननुप्राविशंस्तद्यद्रुदितात्समभवंस्तस्माद्रुद्राः सोऽयं शतशीर्षा रुद्रः सहस्राक्षः शतेषुधिरधिज्यधन्वा प्रतिहितायी भीषयमाणोऽतिष्ठदन्नमिच्छमानस्तस्माद्देवा अबिभयुः - ९.१.१.[६]

ते प्रजापतिमब्रुवन् । अस्माद्वै बिभीमो यद्वै नोऽयं न हिंस्यादिति सोऽब्रवीदन्नमस्मै सम्भरत तेनैनं शमयतेति तस्मा एतदन्नं समभरञ्छतरुद्रियं तेनैनमशमयंस्तद्यदेतं शतशीर्षाणं रुद्रमेतेनाशमयंस्तस्माच्छतशीर्षरुद्रशमनीयं शतशीर्षरुद्रशमनीयं ह वै तच्छतरुद्रियमित्याचक्षते परोऽक्षं परोऽक्षकामा हि देवास्तथैवास्मा अयमेतदन्नं सम्भरति शतरुद्रियं तेनैनं शमयति - ९.१.१.[७]

गवेधुकासक्तुभिर्जुहोति । यत्र वै सा देवता विस्रस्ताऽशयत्ततो गवेधुकाः समभवन्त्स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति - ९.१.१.[८]

अर्कपर्णेन जुहोति । एतस्य वै देवस्याशयादर्कः समभवत्स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति- ९.१.१.[९]

परिश्रित्सु जुहोति । लोमानि वै परिश्रितो न वै लोमसु विषं न किंचन हिनस्त्युत्तरार्धेऽग्नेरुदङ्तिष्ठन्जुहोत्येतस्यां ह दिश्येतस्य देवस्य गृहाः स्वायामेवैनमेतद्दिशि प्रीणाति स्वायां दिश्यवयजते - ९.१.१.[१०]

स वै जानुदघ्ने प्रथमं स्वाहाकरोति । अध ऽइव वै तद्यज्जानुदघ्नमध इव तद्यदयं लोकस्तद्य इमं लोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति - ९.१.१.[११]

अथ नाभिदघ्ने । मध्यमिव वै तद्यन्नाभिदघ्नम्मध्यमिवान्तरिक्षलोकस्तद्येऽन्तरिक्षलोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति - ९.१.१.[१२]

अथ मुखदघ्न । उपरीव वै तद्यन्मुखदघ्नमुपरीव तद्यदसौ लोकस्तद्येऽमुं लोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति स्वाहाकारेणान्नं वै स्वाहाकारोऽन्नेनैवैनानेतत्प्रीणाति - ९.१.१.[१३]

नमस्ते रुद्र मन्यव इति । य एवास्मिन्त्सोऽन्तर्मन्युर्विततोऽतिष्ठत्तस्मा एतन्नमस्करोत्युतो त इषवे नमो बाहुभ्यामुत ते नम इतीष्वा च हि बाहुभ्यां च भीषयमाणोऽतिष्ठत् - ९.१.१.[१४]

स एष क्षत्रं देवः । यः स शतशीर्षा समभवद्विश इम इतरे ये विप्रुङ्भ्यः समभवंस्तस्मा एतस्मै क्षत्रायैता विश एतं पुरस्तादुद्धारमुदहरन्य एष प्रथमोऽनुवाकस्तेनैनमप्रीणंस्तथैवास्मा अयमेतम्पुरस्तादुद्धारमुद्धरति तेनैनं प्रीणाति तस्मादेष एकदेवत्यो भवति रौद्रऽएतं ह्येतेन प्रीणाति - ९.१.१.[१५]

चतुर्दशैतानि यजूंषि भवन्ति । त्रयोदश मासाः संवत्सरः प्रजापतिश्चतुर्दशः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति नमोनम इति यज्ञो वै नमो यज्ञेनैवैनमेतन्नमस्कारेण नमस्यति तस्मादु ह नायज्ञियं ब्रूयान्नमस्त इति यथा हैनं ब्रूयाद्यज्ञस्त इति तादृक्तत् - ९.१.१.[१६]

अथ द्वन्द्विभ्यो जुहोति । नमोऽमुष्मै चामुष्मै चेति तद्यथा वै ब्रूयादसौ त्वं च न एष च मा हिंसिष्टमित्येवमेतदाह नतरां हि विदित आमन्त्रितो हिनस्ति - ९.१.१.[१७]

नमो हिरण्यबाहवे । सेनान्ये दिशां च पतये नम इत्येष एव हिरण्यबाहुः सेनानीरेष दिशां पतिस्तद्यत्किं चात्रैकदेवत्यमेतमेव तेन प्रीणाति क्षत्रमेव तद्विश्यपि भागं करोति तस्माद्यद्विशस्तस्मिन्क्षत्रियोऽपिभागोऽथ या असंख्याता सहस्राणीमांल्लोकाननुप्राविशन्नेतास्ता देवता याभ्य एतज्जुहोति - ९.१.१.[१८]

अथ जातेभ्यो जुहोति । एतानि ह जातान्येते रुद्रा अनुप्रविविशुर्यत्र यत्रैते तदेवैनानेतत्प्रीणात्यथो एवं हैतानि रुद्राणां जातानि देवानां वै विधामनु मनुष्यास्तस्मादु हेमानि मनुष्याणां जातानि यथाजातमेवैनानेतत्प्रीणाति - ९.१.१.[१९]

तेषां वा उभयतोनमस्कारा अन्ये। ऽन्यतरतोनमस्कारा अन्ये ते ह ते घोरतरा अशान्ततरा य उभयतोनमस्कारा उभयत एवैनानेतद्यज्ञेन नमस्कारेण शमयति - ९.१.१.[२०]

स वा अशीत्यां च स्वाहाकरोति । प्रथमे चानुवाकेऽथाशीत्यामथाशीत्यां च यानि चोर्ध्वानि यजूंष्यावतानेभ्योऽन्नमशीतयोऽन्नेनैवैनानेतत्प्रीणाति - ९.१.१.[२१]

अथैतानि यजूंषि जपति । नमो वः किरिकेभ्य इत्येतद्धास्य प्रतिज्ञाततमं धाम यथा प्रियो वा पुत्रो हृदयं वा तस्माद्यत्रैतस्माद्देवाच्छङ्केत तदेताभिर्व्याहृतिभिर्जुहुयादुप हैवैतस्य देवस्य प्रियं धाम गच्छति तथो हैनमेष देवो न हिनस्ति - ९.१.१.[२२]

नमो वः किरिकेभ्य इति । एते हीदं सर्वं कुर्वन्ति देवानां हृदयेभ्य इत्यग्निर्वायुरादित्य एतानि ह तानि देवानां हृदयानि नमो विचिन्वत्केभ्य इत्येते हीदं सर्वं विचिन्वन्ति नमो विक्षिणत्केभ्य इत्येते वै तं विक्षिणन्ति यं विचिक्षीषन्ति नम आनिर्हतेभ्य इत्येते ह्येभ्यो लोकेभ्योऽनिर्हताः - ९.१.१.[२३]

अथोत्ताराणि जपति । द्रापे अन्धसस्पत इत्येष वै द्रापिरेष वै तं द्रापयति यं दिद्रापयिषत्यन्धसस्पत इति सोमस्य पत इत्येतद्दरिद्र नीललोहितेति नामानि चास्यैतानि रूपाणि च नामग्राहमेवैनमेतत्प्रीणात्यासां प्रजानामेषां पशूनाम्माभेर्मा रोङ्मो च नः किं चनाममदिति यथैव यजुस्तथा बन्धुः - ९.१.१.[२४]

स एष क्षत्रं देवः । तस्मा एतस्मै क्षत्रायैता विशोऽमुम्पुरस्तादुद्धारमुदहरन्योऽसौ प्रथमोऽनुवाकोऽथास्मा एतमुपरिष्टादुद्धारमुदहरंस्तेनैनमप्रीणंस्तथैवास्मा अयमेतमुपरिष्टादुद्धारमुद्धरति तेनैनं प्रीणाति तस्मादप्येष एकदेवत्यो भवति रौद्र एवैतं ह्येवैतेन प्रीणाति - ९.१.१.[२५]

सप्तैतानि यजूंषि भवन्ति । सप्तचितिकोऽग्निः सप्तऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति तान्युभयान्येकविंशतिः सम्पद्यन्ते द्वादश मासाः पञ्चऽर्तवस्त्रय इमे लोका असावादित्य एकविंश एतामभिसम्पदम्- ९.१.१.[२६]

अथावतानाञ्जुहोति । एतद्वा एनान्देवा एतेनान्नेन प्रीत्वाऽथैषामेतैरवतानैर्धनूंष्यवातन्वंस्तथैवैनानयमेतदेतेनान्नेन प्रीत्वाऽथैषामेतैरवतानैर्धनूंष्यवतनोति न ह्यवततेन धनुषा कं चन हिनस्ति - ९.१.१.[२७]

तद्वै सहस्रयोजन इति । एतद्ध परमं दूरं यत्सहस्रयोजनं तद्यदेव परमं दूरं तदेवैषामेतद्धनूंष्यवतनोति - ९.१.१.[२८]

यद्वेवाह सहस्रयोजन इति । अयमग्निः सहस्रयोजनं न ह्येतस्मादति नेत्यन्यत्परमस्ति तद्यदग्नौ जुहोति तदेवैषां सहस्रयोजने धनूंष्यवतनोति - ९.१.१.[२९]

असंख्याता सहस्राणि । अस्मिन्महत्यर्णव इति यत्र यत्र ते तदेवैषामेतद्धनूंष्यवतनोति - ९.१.१.[३०]

दशैतानवतानान्जुहोति । दशाक्षरा विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैषामेतद्धनूंष्यवतनोति- ९.१.१.[३१]

अथ प्रत्यवरोहान्जुहोति । एतद्वा एतदिमांल्लोकानित ऊर्ध्वो रोहति स स पराङिव रोह इयमु वै प्रतिष्ठा ते देवा इमां प्रतिष्ठामभिप्रत्यायंस्तथैवैतद्यजमान इमां प्रतिष्ठामभिप्रत्यैति - ९.१.१.[३२]

यद्वेव प्रत्यवरोहति । एतद्वा एनानेतत्प्रीणन्नन्ववैति तत एवैतदात्मानमपोद्धरते जीवात्वै तथा हानेनात्मना सर्वमायुरेति - ९.१.१.[३३]

यद्वेव प्रत्यवरोहति । एतद्वा एतदेतान्रुद्रानित ऊर्ध्वान्प्रीणाति तान्पुनरमुतोऽर्वाचः - ९.१.१.[३४]

नमोऽस्तु रुद्रेभ्यो ये दिवीति । तद्येऽमुष्मिंलोके रुद्रास्तेभ्य एतन्नमस्करोति येषां वर्षमिषव इति वर्षं ह तेषामिषवो वर्षेण ह ते हिंसन्ति यं जिहिंसिषन्ति - ९.१.१.[३५]

नमोऽस्तु रुद्रेभ्यो येऽन्तरिक्ष इति । तद्येऽन्तरिक्षलोके रुद्रास्तेभ्य एतन्नमस्करोति येषां वात इषव इति वातो ह तेषामिषवो वातेन ह ते हिंसन्ति यं जिहिंसिषन्ति - ९.१.१.[३६]

नमोऽस्तु रुद्रेभ्यो ये पृथिव्यामिति । तद्येऽस्मिंलोके रुद्रास्तेभ्य एतन्नमस्करोति येषामन्नमिषव इत्यन्नं ह तेषामिषवोऽन्नेन ह ते हिंसन्ति यं जिहिंसिषन्ति - ९.१.१.[३७]

तेभ्यो दश प्राचीः । दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वा इति दशाक्षराविराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्यमात्रा तावतैवैनानेतदन्नेन प्रीणाति - ९.१.१.[३८]

यद्वेवाह दशदशेति । दश वा अञ्जलेरङ्गुलयो दिशिदिश्येवैभ्य एतदञ्जलिं करोति तस्मादु हैतद्भीतोऽञ्जलिं करोति तेभ्यो नमो अस्त्विति तेभ्य एव नमस्करोति ते नो मृडयन्त्विति त एवास्मै मृडयन्ति ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्म इति यमेव द्वेष्टि यश्चैनं द्वेष्टि तमेषां जम्भे दधात्यमुमेषां जम्भे दधामीति ह ब्रूयाद्यं द्विष्यात्ततोऽह तस्मिन्न पुनरस्त्यपि तन्नाद्रियेत स्वयंनिर्दिष्टो ह्येव स यमेवंविद्द्वेष्टि - ९.१.१.[३९]

त्रिष्कृत्वः प्रत्यवरोहति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनानेतदन्नेन प्रीणाति स्वाहाकारेणान्नं वै स्वाहाकारोऽन्नेनैवैनानेतत्प्रीणाति त्रिरिति ऊर्ध्वो रोहति तत्षट् तस्योक्तो बन्धुः - ९.१.१.[४०]

यद्वेव त्रिष्कृत्वः प्रत्यवरोहति । त्रिर्हि कृत्व ऊर्ध्वो रोहति तद्यावत्कृत्व ऊर्ध्वो रोहति तावत्कृत्वः प्रत्यवरोहति - ९.१.१.[४१]

अथ तदर्कपर्णं चात्वाले प्रास्यति । एतद्वा एनेनैतद्रौद्रं कर्म करोति तदेतदशान्तं तदेतत्तिरः करोति नेदिदमशान्तं कश्चिदभितिष्ठात्तन्नेद्धिनसदिति तस्माच्चात्वाले यद्वेव चात्वालेऽग्निरेष यच्चात्वालस्तथो हैनदेषोऽग्निः संदहत्यथातः सम्पदेव - ९.१.१.[४२]

तदाहुः । कथमस्यैतच्छतरुद्रियं संवत्सरमग्निमाप्नोति कथं संवत्सरेणाग्निना सम्पद्यत इति षष्टिश्च ह वै त्रीणि च शतान्येतच्छतरुद्रियमथ त्रिंशदथ पञ्चत्रिंशत्ततो यानि षष्टिश्च त्रीणि च शतानि तावन्ति संवत्सरस्याहानि तत्संवत्सरस्याहान्याप्नोत्यथ यानि त्रिंशत्त्रिंशन्मासस्य रात्रयस्तन्मासस्य रात्रीराप्नोति तदुभयानि संवत्सरस्याहोरात्राण्याप्नोत्यथ यानि पञ्चत्रिंशत्स त्रयोदशो मासः स आत्मा त्रिंशदात्मा प्रतिष्ठा द्वे प्राणा द्वे शिर एव पञ्चत्रिंशमेतावान्वै संवत्सर एवमु हास्यैतच्छतरुद्रियं संवत्सरमग्निमाप्नोत्येवं संवत्सरेणाग्निना सम्पद्यत एतावत्य उ वै शाण्डिलेऽग्नौ मध्यतो यजुष्मत्य इष्टका उपधीयन्तेऽग्नयो हैते पृथग्यदेता इष्टका एवमु हास्यैतेऽग्नयः पृथक्शतरुद्रियेणाभिहुता भवन्ति - ९.१.१.[४३]

तदाहुः । कथमस्यैतच्छतरुद्रियं महदुक्थमाप्नोति कथं महतोक्थेन सम्पद्यत इति यान्यमूनि पञ्चविंशतिर्यजूंष्यभितोऽशीतीः स पञ्चविंश आत्मा यत्र वा आत्मा तदेव शिरस्तत्पक्षपुच्छान्यथ या अशीतयः सैवाशीतीनामाप्तिरशीतिभिर्हि महदुक्थमाख्यायतेऽथ यदूर्ध्वमशीतिभ्यो यदेवादो महत उक्थस्योर्ध्वमशीतिभ्य एतदस्य तदेवमु हास्यैतच्छतरुद्रियम्महदुक्थमाप्नोत्येवं महतोक्थेन सम्पद्यते - ९.१.१.[४४]