"रामायणम्/युद्धकाण्डम्/सर्गः ९" इत्यस्य संस्करणे भेदः
No edit summary |
(भेदः नास्ति)
|
२०:४७, १० सेप्टेम्बर् २००५ इत्यस्य संस्करणं
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे नवमः सर्गः ॥६-९॥
ततो निकुम्भो रभसः सूर्य शत्रुर् महाबलः ।
सुप्तघ्नो यज्ञ कोपः च महापार्श्वो महाउअरः ॥६-९-१॥
अग्नि केतुः च दुर्धर्षो रश्मि केतुः च राक्षसः ।
इन्द्रजिच् च महातेजा बलवान् रावण आत्मजः ॥६-९-२॥
प्रहस्तो अथ विरूप अक्षो वज्र दम्ष्ट्रो महाबलः ।
धूम्र अक्षः च अतिकायः च दुर्मुखः चैव राक्षसः ॥६-९-३॥
परिघान् पट्टसान् प्रासान् शक्ति शूल परश्वधान् ।
चापानि च सबाणानि खड्गामः च विपुलान् शितान् ॥६-९-४॥
प्रगृह्य परम क्रुद्धाः समुत्पत्य च राक्षसाः ।
अब्रुवन् रावणम् सर्वे प्रदीप्ता इव तेजसा ॥६-९-५॥
अद्य रामम् वधिष्यामः सुग्रीवम् च सलक्ष्मणम् ।
कृपणम् च हनूमन्तम् लंका येन प्रधर्षिता ॥६-९-६॥
तान् गृहीत आयुधान् सर्वान् वारयित्वा विभीषणः ।
अब्रवीत् प्रान्जलिर् वाक्यम् पुनः प्रत्युपवेश्य तान् ॥६-९-७॥
अपि उपायैस् त्रिभिस् तात यो अर्थः प्राप्तुम् न शक्यते ।
तस्य विक्रम कालाम्स् तान् युक्तान् आहुर् मनीषिणः ॥६-९-८॥
प्रमत्तेष्व् अभियुक्तेषु दैवेन प्रहतेषु च ।
विक्रमास् तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥६-९-९॥
अप्रमत्तम् कथम् तम् तु विजिगीषुम् बले स्थितम् ।
जित रोषम् दुराधर्षम् प्रधर्षयितुम् इच्चथ ॥६-९-१०॥
समुद्रम् लन्घयित्वा तु घोरम् नद नदी पतिम् ।
कृतम् हनुमता कर्म दुष्करम् तर्कयेत कः ॥६-९-११॥
बलानि अपरिमेयानि वीर्याणि च निशा चराः ।
परेषाम् सहसा अवज्ञा न कर्तव्या कथम्चन ॥६-९-१२॥
किम् च राक्षस राजस्य रामेण अपकृतम् पुरा ।
आजहार जन स्थानाद् यस्य भार्याम् यशस्विनः ॥६-९-१३॥
खरो यदि अतिवृत्तस् तु रामेण निहतो रणे ।
अवश्यम् प्राणिनाम् प्राणा रक्षितव्या यथा बलम् ॥६-९-१४॥
एतन् निमित्तम् वैदेही भयम् नः सुमहद् भवेत् ।
आहृता सा परित्याज्या कलह अर्थे क्Rते न किम् ॥६-९-१५॥
न नः क्षमम् वीर्यवता तेन धर्म अनुवर्तिना ।
वैरम् निरर्थकम् कर्तुम् दीयताम् अस्य मैथिली ॥६-९-१६॥
यावन् सगजाम् साश्वाम् बहु रत्न समाकुलाम् ।
पुरीम् दारयते बाणैर् दीयताम् अस्य मैथिली ॥६-९-१७॥
यावत् सुघोरा महती दुर्धर्षा हरि वाहिनी ।
न अवस्कन्दति नो लंकाम् तावत् सीता प्रदीयताम् ॥६-९-१८॥
विनश्येद्द् हि पुरी लंका शूराः सर्वे च आक्षसाः ।
रामस्य दयिता पत्नी न स्वयम् यदि दीयते ॥६-९-१९॥
प्रसादये त्वाम् बन्धुत्वात् कुरुष्व वचनम् मम ।
हितम् पथ्यम् त्व् अहम् ब्रूमि दीयताम् अस्य मैथिली ॥६-९-२०॥
पुरा शरत् सूर्य मरीच्चि सम्निभान् ।
नव अग्र पुन्खान् सुदृढान् नृप आत्मजः ।
सृजति अमोघान् विशिखान् वधाय ते ।
प्रदीयताम् दाशरथाय मैथिली ॥६-९-२१॥
त्यजस्व कोपम् सुख धर्म नाशनम् ।
भजस्व धर्मम् रति कीर्ति वर्धनम् ।
प्रसीद जीवेम सपुत्र बान्धवाः ।
प्रदीयताम् दाशरथाय मैथिली ॥६-९-२२॥
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।
विसर्जयित्वा तान् सर्वान् प्रैवेश स्वकम् गृहम् ॥६-९-२३॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे नवमः सर्गः ॥६-९॥