"लघुसिद्धान्तकौमुदी/त्वतलाधिकारप्रकरणम्" इत्यस्य संस्करणे भेदः

त्वतलाधिकारप्रकरणम्
(भेदः नास्ति)

११:५२, १२ जनवरी २०१६ इत्यस्य संस्करणं


अथ त्वतलोरधिकारः

तेन तुल्यं क्रिया चेद्वतिः॥ लसक_११५४ = पा_५,१.११५॥
ब्राह्मणेन तुल्यं ब्राह्मणवत् अधीते। क्रिया चेदिति किम् ? गुणतुल्ये मा भूत्। पुत्रेण तुल्यः स्थूलः॥

तत्र तस्येव॥ लसक_११५५ = पा_५,१.११६॥
मथुरायामिव मथुरावत् स्रुग्ध्ने प्रकारः। चैत्रस्येव चैत्रवन्मैत्रस्य गावः॥

तस्य भावस्त्वतलौ॥ लसक_११५६ = पा_५,१.११९॥
प्रकृतिजन्यबोधे प्रकारो भावः। गोर्भावो गोत्वम्। गोता। त्वान्तं क्लीबम्॥

आ च त्वात्॥ लसक_११५७ = पा_५,१.१२०॥
ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते। अपवादैः सह समावेशार्थमिदम्। चकारो नञ्स्नञ्भ्यामपि समावेशार्थः। स्त्रिया भावः - स्त्रैणम्। स्त्रीत्वम्। स्त्रीता। पौस्नम्। पुंस्त्वम्। पुंस्ता॥

पृथ्वादिभ्य इमनिज्वा॥ लसक_११५८ = पा_५,१.१२२॥
वावचनमणादिसमावेशार्थम्॥

र ऋतो हलादेर्लघोः॥ लसक_११५९ = पा_६,४.१६१॥
हलादेर्लघोरृकारस्य रः स्यादिष्ठेयस्सु परतः। पृथुमृदुभृशकृशदृढपरिवृढा नामेव रत्वम्॥

टेः॥ लसक_११६० = पा_६,४.१५५॥
भस्य टेर्लोप इष्ठेमेयस्सु। पृथोर्भावः प्रथिमा - .

इगन्ताच्च लघुपूर्वात्॥ लसक_११६१ = पा_५,१.१३१॥
इगन्ताल्लघुपूर्वात् प्रातिपदिकाद्भावे ऽण् प्रत्ययः। पार्थवम्। म्रदिमा, मार्दवम्॥

वर्णदृढादिभ्यः ष्यञ्च॥ लसक_११६२ = पा_५,१.१२३॥
चादिमनिच्। शौक्ल्यम्। शुक्लिमा। दार्ढ्यम्। द्रढिमा॥

गुणवचनब्राह्मणादिभ्यः कर्मणि च॥ लसक_११६३ = पा_५,१.१२४॥
चाद्भावे। जडस्य भावः कर्म वा जाड्यम्। मूढस्य भावः कर्म वा मौढ्यम्। ब्राह्मण्यम्। आकृतिगणो ऽयम्॥

सख्युर्यः॥ लसक_११६४ = पा_५,१.१२६॥
सख्युर्भावः कर्म वा सख्यम्॥

कपिज्ञात्योर्ढक्॥ लसक_११६५ = पा_५,१.१२७॥
कापेयम्। ज्ञातेयम्।

पत्यन्तपुरोहितादिभ्यो यक्॥ लसक_११६६ = पा_५,१.१२८॥
सैनापत्यम्। पौरोहित्यम्॥

इति त्वतलोरधिकारः॥ ११॥