"लघुसिद्धान्तकौमुदी/अजन्तपुंलिङ्गप्रकरणम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
अजन्तपुंलिङ्गप्रकरणम् |
(लघु) लघुसिद्धान्तकौमुदी using AWB |

पङ्क्तिः १:
{{लघुसिद्धान्तकौमुदी}}

अथ षड्लिङ्गेषु अजन्तपुंल्लिङ्गाः

धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात्॥

कृत्तद्धितान्तौ समासाश्च तथा स्युः॥

सु औ जस् इति प्रथमा। अम् औट् शस् इति द्वितीया। टा भ्याम् भिस् इति तृतीया। ङे भ्याम् भ्यस् इति चतुर्थी। ङसि भ्याम् भ्यस् इति पञ्चमी। ङस् ओस् आम् इति षष्ठी। ङि ओस् सुप् इति सप्तमी॥

इत्यधिकृत्य। ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः॥

सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः॥

द्वित्वैकत्वयोरेते स्तः॥

वर्णानामभावो ऽवसानसंज्ञः स्यात्। रुत्वविसर्गौ।

एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते॥

अकः प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेशः स्यात्। इति प्राप्ते॥

आदिचि न पूर्वसवर्णदीर्घः। वृद्धिरेचि। रामौ॥

बहुत्वविवक्षायां बहुवचनं स्यात्॥

प्रत्ययाद्यौ चुटू इतौ स्तः॥

सुप्तिङौ विभक्तिसंज्ञौ स्तः॥

विभक्तिस्थास्तवर्गसमा नेतः। इति सस्य नेत्त्वम्। रामाः॥

सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात्॥

यः प्रत्ययो यस्मात् क्रियते तदादिशब्दस्वरूपं तस्मिन्नङ्गं स्यात्॥

एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते सम्बुद्धेश्चेत्। हे राम। हे रामौ। हे रामाः॥

अको ऽम्यचि पूर्वरूपमेकादेशः। रामम्। रामौ॥

तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः॥

पूर्वसवर्णदीर्घात्परो यः शसः सस्तस्य नः स्यात्पुंसि॥

अट् कवर्गः पवर्गः आङ् नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधाने ऽपि रषाभ्यां परस्य नस्य णः समानपदे। इति प्राप्ते॥

नस्य णो न। रामान्॥

अदन्ताट्टादीनामिनादयः स्युः। णत्वम्। रामेण॥

यञादौ सुपि अतो ऽङ्गस्य दीर्घः। रामाभ्याम्॥

अनेकाल्शित्सर्वस्य। रामैर्ः॥

अतो ऽङ्गात्परस्य ङेयदिशः॥

आदेशः स्थानिवत्स्यान्न तु स्थान्यलाश्रयविधौ। इति स्थानिवत्त्वात् सुपि चेति दीर्घः। रामाय। रामाभ्याम्॥

झलादौ बहुवचने सुप्यतो ऽङ्गस्यैकारः। रामेभ्यः। सुपि किम् ? पचध्वम्॥

अवसाने झलां चरो वा। रामात्, रामाद्। रामाभ्याम्। रामेभ्यः। रामस्य॥

अतो ऽङ्गस्यैकारः। रामयोः॥

ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः॥

अजन्ताङ्गस्य दीर्घः। रामाणाम्। रामे। रामयोः। सुपि - एत्त्वे कृते॥

इण्कुभ्यां परस्यापदान्तस्यादेशस्य प्रत्ययावयवस्य यः सस्तस्य मूर्धन्यादेशः। ईषद्विवृतस्य सस्य तादृश एव षः। रामेषु। एवं कृष्णादयो ऽप्यदन्ताः॥

सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्। स्वमज्ञातिधनाख्यायाम्। अन्तरं बहिर्योगोपसंव्यानयोः। त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम्॥

अदन्तात्सर्वनाम्नो जसः शी स्यात्। अनेकाल्त्वात्सर्वादेशः। सर्वे॥

अतः सर्वनाम्नो डेः स्मै। सर्वस्मै॥

अतः सर्वनाम्न एतयोरेतौ स्तः। सर्वस्मात्॥

अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः। एत्वषत्वे। सर्वेषाम्। सर्वस्मिन्। शेषं रामवत्। एवं विश्वादयो ऽप्यदन्ताः॥

एतेषां व्यवस्थायामसंज्ञायां च सर्वनामसंज्ञा गणसूत्रात्सर्वत्र या प्राप्ता सा जसि वा स्यात्। पूर्वे, पूर्वाः। असंज्ञायां किम् ? उत्तराः कुरवः। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। व्यवस्थायां किम् ? दक्षिणा गाथकाः, कुशला इत्यर्थः॥

ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा। स्वे, स्वाः॑ आत्मीयाः, आत्मान इति वा। ज्ञातिधनवाचिनस्तु, स्वाः॑ ज्ञातयोर्ऽथा वा॥

बाह्ये परिधानीये चार्थे ऽन्तरशब्दस्य प्राप्ता संज्ञा जसि वा। अन्तरे, अन्तरा वा गृहाः॑ बाह्या इत्यर्थः। अन्तरे, अन्तरा वा शाटकाः॑ परिधानीया इत्यर्थः॥

एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः। पूर्वस्मात्, पूर्वात्। पूर्वस्मिन्, पूर्वे। एवं परादीनाम्। शेषं सर्ववत्॥

एते जसि उक्तसंज्ञा वा स्युः। प्रथमे, प्रथमाः॥ तयः प्रत्ययः। द्वितये, द्वितयाः। शेषं रामवत्॥ नेमे, नेमाः। शेषं सर्ववत्॥ (

अजादौ विभक्तौ। (प.) पदाङ्गाधिकारे तस्य च तदन्तस्य च। (प.) निर्दिश्यमानस्यादेशा भवन्ति। (प.) एकदेशविकृतमनन्यवत्, इति जरशब्दस्य जरस्। निर्जरसौ। निर्जरस इत्यादि। पक्षे हलादौ च रामवत्॥

दीर्घाज्जसि इचि च परे पूर्वसवर्णदीर्घो न स्यात्। विश्वपौ। विश्वपाः। हे विश्वपाः। विश्वपाम्। विश्वपौ॥

स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य॥

कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात्॥

यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसंज्ञं स्यात्॥

इत ऊर्ध्वं कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया। या परानवकाशा च॥

आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः। अलो ऽन्त्यस्य। विश्वपः। विश्वपा। विश्वपाभ्यामित्यादि। एवं शङ्खध्मादयः। धातोः किम् ? हाहान्॥

ह्रस्वान्तस्याङ्गस्य गुणः। हरयः॥

सम्बुद्धौ। हे हरे। हरिम्। हरी। हरीन्॥

शेष इति स्पष्टार्थम्। ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञम्॥

घेः परस्याङो ना स्यादस्त्रियाम्। आङिति टासंज्ञा। हरिणा। हरिभ्याम्। हरिभिः॥

घिसंज्ञस्य ङिति सुपि गुणः। हरये। हरिभ्याम्। हरिभ्यः॥

एङो ङसिङसोरति पूर्वरूपमेकादेशः। हरेः २। हर्योः २। हरीणाम्॥

इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च। हरौ। हरिषु। एवं कव्यादयः॥

सख्युरङ्गस्यानङादेशो ऽसम्बुद्धौ सौ॥

अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः॥

नान्तस्योपधाया दीर्घो ऽसम्बुद्धौ सर्वनामस्थाने॥

एकाल् प्रत्ययो यः सो ऽपृक्तसंज्ञः स्यात्॥

हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते॥

प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नस्य लोपः। सखा॥

सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात्॥

अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे। सखायौ। सखायः। हे सखे। सखायम्। सखायौ। सखीन्। सख्या। सख्ये॥

खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः। सख्युः॥

इतः परस्य ङेरौत्। सख्यौ। शेषं हरिवत्॥

घिसंज्ञः। पत्युः २। पत्यौ। शेषं हरिवत्। समासे तु भूपतये।

डत्यन्ता संख्या षट्संज्ञा स्यात्॥

जश्शसोः॥

लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात्॥

प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्। इति जसि चेति गुणे प्राप्ते॥

लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्। कति २। कतिभिः। कतिभ्यः २। कतीनाम्। कतिषु। युष्मदस्मत्षट्संज्ञकास्त्रिषु सरूपाः॥

त्रिशब्दस्य त्रयादेशः स्यादामि। त्रयाणाम्। त्रिषु। गौणत्वे ऽपि प्रियत्रयाणाम्॥

एषामकारो विभक्तौ। (

पप्यौ २। पप्यः। हे पपीः। पपीम्। पपीन्। पप्या। पपीभ्याम् ३। पपीभिः। पप्ये। पपीभ्यः २। पप्यः २। पप्योः। दीर्घत्वान्न नुट्, पप्याम्। ङौ तु सवर्णदीर्घः, पपी। पप्योः। पपीषु। एवं वातप्रम्यादयः॥ बह्व्यः श्रेयस्यो यस्य स

ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः। (

सम्बुद्धौ। हे बहुश्रेयसि॥

नद्यन्तात्परेषां ङितामाडागमः॥

आटो ऽचि परे वृद्धिरेकादेशः। बहुश्रेयस्यै। बहुश्रेयस्याः। बहुश्रेयसीनाम्॥

नद्यन्तादाबन्तान्नीशब्दाच्च परस्य ङेराम्। बहुश्रेयस्याम्। शेषं पपीवत्॥ अङ्यन्तत्वान्न सुलोपः।

श्नु प्रत्ययान्तस्येवर्णोवर्णान्तस्य धातोर्भ्रू इत्यस्य चाङ्गस्य चेयङुवङौ स्तो ऽजादौ प्रत्यये परे। इति प्राप्ते॥

धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचो ऽङ्गस्य यणजादौ प्रत्यये। प्रध्यौ। प्रध्यः। प्रध्यम्। प्रध्यौ। प्रध्यः। प्रध्यि। शेषं पपीवत्। एवं

प्रादयः क्रियायोगे गतिसंज्ञाः स्युः। (

एतयोरचि सुपि यण्न। सुधियौ। सुधिय इत्यादि॥ सुखमिच्छतीति

असम्बुद्धौ सर्वनामस्थाने परे। क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः॥

ऋतो ऽङ्गस्य गुणो ङौ सर्वनामस्थाने च। इति प्राप्ते -- .

ऋदन्तानाम् उशनसादीनाम् च अनङ् स्यात् असंबुद्धौ सौ॥

अबादीनाम् उपधाया दीर्घः असंबुद्धौ सर्वनामस्थाने।

अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत्। क्रोष्ट्रा। क्रोष्ट्रे॥

ऋतो ङसिङसोरति उदेकादेशः। रपरः॥

रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य। रस्य विसर्गः। क्रोष्टुः २। क्रोष्ट्रोः २।

धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचो ऽङ्गस्य यण् स्यादचि सुपि। खलप्वौ। खलप्वः। एवं सुल्वादयः॥

अस्य यण् स्यादचि सुपि। वर्षाभ्वावित्यादि॥

अस्य नामि वा धीर्घः। नृणाम्। नॄणाम्॥

ओकाराद्विहितं सर्वनामस्थानं णिद्वत्।

ओतो ऽम्शसोरचि आकार एकादेशः। गाम्। गावौ। गाः। गवा। गवे। गोः। इत्यादि॥

अस्याकारादेशो हलि विभक्तौ।

इत्यजन्तपुंल्लिङ्गाः।

[[वर्गः:लघुसिद्धान्तकौमुदी]]