"लघुसिद्धान्तकौमुदी/हलन्तपुंलिङ्गप्रकरणम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
हलन्तपुंलिङ्गप्रकरणम् |
(लघु) लघुसिद्धान्तकौमुदी using AWB |

पङ्क्तिः १:
{{लघुसिद्धान्तकौमुदी}}

अथ हलन्त पुंल्लिङ्गाः

हस्य ढः स्याज्झलि पदान्ते च।

झलि पदान्ते चोपदेशे दादेर्धातेर्हस्य घः॥

धात्ववयवस्यैकाचो झषन्तस्य बशो भष् से ध्वे पदान्ते च।

एषां हस्य वा घो झलि पदान्ते च।

यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात्॥

भस्य वाहः संप्रसारणमूठ्॥

संप्रसारणादचि पूर्वरूपमेकादेशः। एत्येधत्यूठ्स्विति वृद्धिः। विश्वौहः, इत्यादि॥

अनयोराम् स्यात्सर्वनामस्थाने परे॥

अस्य नुम् स्यात् सौ परे।

हे अनड्वन्। हे अनड्वाहौ। हे अनड्वाहः। अनडुहः। अनडुहा॥

सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते। अनडुद्भ्यामित्यादि॥ सान्तेति किम् ? विद्वान्। पदान्ते किम् ? स्रस्तम्।

ध्वस्तम्॥

साडरूपस्य सहेः सस्य मूर्धन्यादेशः।

दिविति प्रातिपदिकस्यौत्स्यात्सौ।

दिवो ऽन्तादेश उकारः स्यात् पदान्ते। सुद्युभ्यामित्यादि॥

एभ्य आमो नुडागमः॥

अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। चतुर्ण्णाम्, चतुर्णाम्॥

रोरेव विसर्गः सुपि। षत्वम्। षस्य द्वित्वे प्राप्ते॥

अचि परे शरो न द्वे स्तः। चतुर्षु॥

धातोर्मस्य नः पदान्ते। प्रशान्॥

किमः कः स्याद्विभक्तौ।

सौ। त्यदाद्यत्वापवादः॥

इदम इदो ऽय् सौ पुंसि।

अपदान्तादतो गुणे पररूपमेकादेशः॥

इदमो दस्य मः स्याद्विभक्तौ। इमौ। इमे। त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः॥

अककारस्येदम इदो ऽनापि विभक्तौ। आबिति प्रत्याहारः। अनेन॥

अककारस्येदम इदो लोप आपि हलादौ। नानर्थके ऽलो ऽन्त्यविधिरनभ्यासविकारे॥

एकस्मिन्क्रियमाणं कार्यमादाविवान्त इव स्यात्। सुपि चेति दीर्घः। आभ्याम्॥

अककारयोरिदमदसोर्भिस ऐस् न। एभिः। अस्मै। एभ्यः। अस्मात्। अस्य। अनयोः। एषाम्। अस्मिन्। अनयोः। एषु॥

इदमेतदोरन्वादेशे। किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः। यथा - अनेन व्याकरणमधीत मेनं छन्दो ऽध्यापयेति। अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वामिति॥ एनम्। एनौ। एनान्। एनेन। एनयोः। एनयोः॥

नस्य लोपो न ङौ सम्बुद्धौ च। हे राजन्। (

सुब्विधौ स्वरविधौ संज्ञाविधौ कृति तुग्विधौ च नलोपो ऽसिद्धो नान्यत्र - राजाश्व इत्यादौ। इत्यसिद्धत्वादात्वमेत्त्वमैस्त्वं च न। राजभ्याम्। राजभिः। राज्ञि, राजनि। राजसु॥

वमन्तसंयोगादनो ऽकारस्य लोपो न। यज्वनः। यज्वा। यज्वभ्याम्॥ ब्रह्मणः। ब्रह्मणा॥

एषां शावेवोपधाया दीर्घो नान्यत्र। इति निषेधे प्राप्ते - .

इन्नादीनामुपधाया दीर्घो ऽसंबुद्धौ सौ।

एकाजुत्तपरदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रतिपदिकान्तनुम्विभक्तिस्थस्य नस्य णः। वृत्रहणौ॥

ञिति णिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वम्। वृत्रघ्नः इत्यादि। एवं शार्ङ्गिन्, यशस्विन्, अर्यमन्, पूषन्॥

मघवन्शब्दस्य वा तृ इत्यन्तादेशः। ऋ इत्॥

अधातोरुगितो नलोपिनो ऽञ्चतेश्च नुम् स्यात्सर्वनामस्थाने परे।

अन्नन्तानां भानामेषामतद्धिते संप्रसारणम्। मघोनः। मघवभ्याम्। एवं

संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात्। इति यकारस्य नेत्वम्। अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम्। यूनः। यूना। युवभ्याम् इत्यादि॥

नञा रहितस्यार्वन्नित्यस्याङ्गस्य तृ इत्यन्तादेशो न तु सौ। अर्वन्तौ। अर्वन्तः। अर्वद्भ्यामित्यादि॥

एषामाकारो ऽन्तादेशः स्यात् सौ परे॥

पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे॥

पथिमथोस्थस्य न्थादेशः सर्वनामस्थाने।

भस्य पथ्यादेष्टेर्लोपः। पथः। पथा। पथिभ्याम्॥ एवं मथिन्, ऋभुक्षिन्॥

षान्ता नान्ता च संख्या षट्संज्ञा स्यात्।
नुट्॥

नान्तस्योपधाया दीर्घो नामि। पञ्चानाम्। पञ्चसु॥

हलादौ वा स्यात्॥

कृताकारादष्टनो जश्शसोरौश्। अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति।

एभ्यः क्विन्, अञ्चेः सुप्युपपदे, युजिक्रुञ्चोः, केवलयोः, क्रुञ्चेर्नलोपाभावश्च निपात्यते। कनावितौ॥

अत्र धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात्॥

अपृक्तस्य वस्य लोपः॥

क्विन्प्रत्ययो यस्मात्तस्य कवर्गो ऽन्तादेशः पदान्ते। अस्यासिद्धत्वाच्चोः कुरिति कुत्वम्।
ऋत्विग्भ्याम्॥

युजेः सर्वनामस्थाने नुम् स्यादसमासे। सुलोपः। संयोगान्तलोपः। कुत्वेन नस्य ङः।

चवर्गस्य कवर्गः स्याज्झलि पदान्ते च।

झलि पदान्ते च। जश्त्वचर्त्वे।

विश्वशब्दस्य दीर्घो ऽन्तादेशः स्याद्सौ राट्शब्दे च परे।

पदान्ते झलि च यः संयोगस्तदाद्योः स्कोर्लोपः।

त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ।

युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः॥

अनयोर्मपर्यन्तस्य त्वाहौ आदेशौ स्तः॥

एतयोष्टिलोपः।

द्वयोरुक्तावनयोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ॥

औङ्येतयोरात्वं लोके। युवाम्। आवाम्॥

अनयोर्मपर्यन्तस्य। यूयम्। वयम्॥

एकस्योक्तावनयोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ॥

अनयोरात्स्यात्। त्वाम्। माम्॥

आभ्यां शसो नः स्यात्। अमो ऽपवादः। आदेः परस्य। संयोगान्तलोपः। युष्मान्। अस्मान्॥

अनयोर्यकारादेशः स्यादनादेशे ऽजादौ परतः। त्वया। मया॥

अनयोरात्स्यादनादेशे हलादौ विभक्तौ। युवाभ्याम्। आवाभ्याम्। युष्माभिः। अस्माभिः॥

अनयोर्मपर्यन्तस्य। टिलोपः। तुभ्यम्। मह्यम्॥

आभ्यां परस्य। युष्मभ्यम्। अस्मभ्यम्॥

आभ्यां ङसेरत्। त्वत्। मत्॥

आभ्यां पञ्चम्यां भ्यसो ऽत्स्यात्। युष्मत्। अस्मत्॥

अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि॥

तव। मम। युवयोः। आवयोः॥

आभ्यां परस्य साम आकं स्यात्। युष्माकम्। अस्माकम्। त्वयि। मयि। युवयोः। आवयोः। युष्मासु। अस्मासु॥

पदात्परयोरपादादौ स्थितयोः षष्ठ्यादिविशिष्टयोर्वां नौ इत्यादेशौ स्तः॥

उक्तविधयोरनयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः॥

उक्तविधयोरनयोष्षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः॥

द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ स्तः॥

श्रीशस्तवावतु मापीह दत्तात्ते मे ऽपि शर्म सः। स्वामी ते मे ऽपि स हरिः पातु वामपि नौ विभुः॥

सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः। सो ऽव्याद्वो नः शिवं वो नो दद्यात् सेव्यो ऽत्र वः स नः॥

पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः॥ सुपदः। सुपदा। सुपाद्भ्याम्॥

हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः किति ङिति। नुम्। संयोगान्तस्य लोपः। नस्य कुत्वेन ङः।

लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः॥

लुप्ताकारनकारे ऽञ्चतौ परे पूर्वस्याणो दीर्गः। प्राचः। प्राचा। प्राग्भ्याम्॥

उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत्। उदीचः। उदीचा। उदग्भ्याम्। ,

वप्रत्ययान्ते ऽञ्चतौ।

तथा। सध्र्यङ्॥ ,

अलुप्ताकारे ऽञ्चतौ वप्रत्ययान्ते तिरसस्तिर्यादेशः।

पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न।

सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घो ऽसम्बुद्धौ सर्वनामस्थाने।

अत्वन्तस्योपधाया दीर्घो धातुभिन्नासन्तस्य चासम्बुद्धौ सौ परे। उगित्तवान्नुम्।

षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः॥ ,

अभ्यस्तात्परस्य शतुर्नुम् न।

षड्धातवो ऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः।

त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेः कञ् स्यात्। चात् क्विन्॥ ,

सर्वनाम्न आकारो ऽन्तादेशः स्याद्दृग्दृशवतुषु।

नशेः कवर्गो ऽन्तादेशो वा पदान्ते।

अनुदके सुप्युपपदे स्पृशेः क्विन्।

रेफवान्तयोर्धात्वोरुपधाया इको दीर्घः पदान्ते।

एतैः प्रत्येकं व्यवधाने ऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः। ष्टुत्वेन पूर्वस्य षः। पिपठीष्षु, पिपठीःषु॥

वस्वन्तस्य भस्य सम्प्रसारणं स्यात्। विदुषः। वसुस्रंस्विति दः। विद्वद्भ्याम्॥

सर्वनामस्थाने विवक्षिते पुंसो ऽसुङ् स्यात्।

अदस औकारो ऽन्तादेशः स्यात्सौ परे सुलोपश्च। तदोरिति सः।

अदसो ऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य मश्च। आन्तरतम्याद्ध्स्वस्य उः, दीर्घस्य ऊः। अमू। जसः शी। गुणः॥

अदसो दात्परस्यैत ईद्दस्य च मो बह्वर्थोक्तौ। अमी। पूर्वत्रासिद्धमिति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे। अमुम्। अमू। अमून्। मुत्वे कृते घिसंज्ञायां नाभावः॥

नाभावे कर्तव्ये कृते च मुभावो नासिद्धः। अमुना। अमूभ्याम् ३। अमीभिः। अमुष्मै। अमीभ्यः २। अमुष्मात्। अमुष्य। अमुयोः २। अमीषाम्। अमुष्मिन्। अमीषु॥

इति हलन्त पुंल्लिङ्गाः॥

[[वर्गः:लघुसिद्धान्तकौमुदी]]