"लघुसिद्धान्तकौमुदी/भ्वादिप्रकरणम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
भ्वादिप्रकरणम् |
(लघु) लघुसिद्धान्तकौमुदी using AWB |

पङ्क्तिः १:
{{लघुसिद्धान्तकौमुदी}}

अथ तिङन्ते भ्वादयः

Line ४ ⟶ ६:
लट्, लिट्, लुट्, ऌट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, ऌङ्। एषु पञ्चमो लकारश्छन्दोमात्रगोचरः॥

लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च॥

वर्तमान क्रिया वृत्तेर्धातोर्लट् स्यात्। अटावितौ। उच्चारण सामर्थ्याल्लस्य नेत्वम्।

एते ऽष्टादश लादेशाः स्युः॥

लादेशाः परस्मैपद संज्ञाः स्युः॥

तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः। पूर्व संज्ञापवादः॥

अनुदात्तेतो ङितश्च धातोरात्मनेपदं स्यात्॥

स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले॥

आत्मनेपद निमित्त हीनाद्धातोः कर्तरि परस्मैपदं स्यात्॥

तिङ उभयोः पदयोस्त्रिकाः क्रमादेतत्संज्ञाः स्युः॥

लब्ध प्रथमादि संज्ञानि तिङस्त्रीणि त्रीणि प्रत्येकमेकवचनादि संज्ञानि स्युः॥

तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमाने ऽप्रयुज्यमाने च मध्यमः॥

तथाभूते ऽस्मद्युत्तमः॥

मध्यमोत्तमयोरविषये प्रथमः स्यात्। भू ति इति जाते॥

तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः॥

कर्त्रर्थे सार्वधातुके परे धातोः शप्॥

अनयोः परयोरिगन्ताङ्गस्य गुणः। अवादेशः। भवति। भवतः॥

प्रत्ययावयवस्य झस्यान्तादेशः। अतो गुणे। भवन्ति। भवसि। भवथः। भवथ॥

अतो ऽङ्गस्य दीर्घो यञादौ सार्वधातुके। भवामि। भवावः। भवामः। स भवति। तौ भवतः। ते भवन्ति। त्वं भवसि। युवां भवथः। यूयं भवथ। अहं भवामि। आवां भवावः। वयं भवामः॥

भूतानद्यतन परोक्षार्थवृत्तेर् धातोर्लिट् स्यात्। लस्य तिबादयः।

लिटस्तिबादीनां नवानां णलादयः स्युः।

भुवो वुगागमः स्यात् लुङ्लिटोरचि॥

लिटि परे ऽनभ्यासधात्ववयस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य।

अत्र ये द्वे विहिते तयोः पूर्वो ऽभ्याससंज्ञः स्यात्॥

अभ्यासस्यादिर्हल् शिष्यते अन्ये हलो लुप्यन्ते। इति वलोपः॥

अभ्यासत्याचो ह्रस्वः स्यात्॥

भवतेरभ्यासोकारस्य अः स्याल्लिटि॥

अभ्यासे झलां चरः स्युर्जशश्च। झशां जशः खयां चर इति विवेकः। बभूव। बभुवतुः। बभूवुः॥

लिडादेशस्तिङ्ङार्धधातुकसंज्ञः॥

वलादेरार्धधातुरस्येडागमः स्यात्। बभूविथ। बभूवथुः। बभूव। बभूव। बभूविव। बभूविम।

भविष्यत्यनद्यतनेर्ऽथे धातोर्लुट् स्यात्॥

धातोः

तिङ्शिद्भ्यो ऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात्। इट्॥

तासेरस्तेश्च सस्य लोपस्स्यात् सादौ प्रत्यये परे।

रादौ प्रत्यये तथा। भवितारौ। भवितारः। भवितासि। भवितास्थः। भवितास्थ। भवितास्मि। भवितास्वः। भवितास्मः/

भविष्यदर्थाद्धातोरॢट् क्रियार्थायां क्रियायां सत्यामसत्यां वा। स् य इट्। भविष्यति। भविष्यतः। भविष्यन्ति। भविष्यसि। भविष्यथः। भविष्यथ। भविष्यामि। भविष्यावः। भविष्यामः/

विध्याद्यर्थेषु धातोर्लोट्॥

लोट इकारस्य उः। भवतु॥

आशिषि तुह्योस्तातङ् वा। परत्वात्सर्वादेशः। भवतात्॥

लोटस्तामादयस्सलोपश्च॥

ङितश्चतुर्णां तामादयः क्रमात्स्युः। भवताम्। भवन्तु॥

लोटः सेर्हिः सो ऽपिच्च॥

अतः परस्य हेर्लुक्। भव। भवतात्। भवतम्। भवत।

लोटो मेर्निः स्यात्॥

लोडुत्तमस्याट् स्यात् पिच्च। हिन्योरुत्वं न, इकारोच्चारण सामर्थ्यात्॥

ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः॥

उपसर्गसिथान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात्। प्रभवाणि

सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः। अलो ऽन्त्यस्येति सलोपः। भवाव। भवाम।

अनद्यतन भूतार्थ वृत्तेर् धातोर् लङ् स्यात्॥

एष्वङ्गस्याट्॥

ङितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोपः। अभवत्। अभवताम्। अभवन्। अभवः। अभवतम्। अभवत। अभवम्। अभवाव। अभवाम॥

एष्वर्थेषु धातोर्लिङ्॥

लिङः परस्मैपदानां यासुडागमो ङिच्च॥

सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः। इति प्राप्ते -- .

अतः परस्य सार्वधातुकावयवस्य यास् इत्यस्य इय्। गुणः॥

भवेत्। भवेताम्।

लिङो झेर्जुस् स्यात्। भवेयुः। भवेः। भवेतम्। भवेत। भवेयम्। भवेव। भवेम॥

आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात्॥

आशिषि लिङो यासुट् कित्। स्कोः संयोगाद्योरिति सलोपः॥

गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः। भूयात्। भूयास्ताम्। भूयासुः। भूयाः। भूयास्तम्। भूयास्त। भूयासम्। भूयास्व। भूयास्म।

भूतार्थे धातोर्लुङ् स्यात्॥

सर्वलकारापवादः॥

स्मोत्तरे माङि लङ् स्याच्चाल्लुङ्॥

शबाद्यपवादः॥

इचावितौ॥

एभ्यः सिचो लुक् स्यात्। गापाविहेणादेशपिबती गृह्यते॥

भू सू एतयोः सार्वधातुके तिङि परे गुणो न। अभूत्। अभूताम्। अभूवन्। अभूः। अभूतम्। अभूत। अभूवम्। अभूव। अभूम।

अडाटौ न स्तः। मा भवान् भूत्। मा स्म भवत्। मा स्म भूत्॥

हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे ऌङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम्। अभविष्यत्। अभविष्यताम्। अभविष्यन्। अभविष्यः। अभविष्यतम्। अभविष्यत। अभविष्यम्। अभविष्याव। अभविष्याम। सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्, इत्यादि ज्ञेयम्॥

अभ्यासस्यादेरतो दीर्घः स्यात्। आत। आततुः। आतुः। आतिथ। आतथुः। आत। आत। आतिव। आतिम। अतिता। अतिष्यति। अततु॥

अजादेरङ्गस्याट् लुङ्लङॢङ्क्षु। आतत्। अतेत्। अत्यात्। अत्यास्ताम्। लुङि सिचि इडागमे कृते --- .

विद्यमानात् सिचो ऽस्तेश्च परस्यापृक्तस्य हल ईडागमः॥

इटः परस्य सस्य लोपः स्यादीटि परे। (

सिचो ऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस्। आतिषुः। आतीः। आतिष्टम्। आतिष्ट। आतिषम्। आतिष्व। आतिष्म। आतिष्यत्॥

संयोगे परे ह्रस्वं गुरु स्यात्॥

गुरु स्यात्॥

पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः सार्वधातुकार्धधातुकयोः। धात्वादेरिति सः। सेधति। षत्वम्। सिषेध॥

असंयोगात्परो ऽपिल्लिट् कित् स्यात्। सिषिधतुः। सिषिधुः। सिषेधिथ। सिषिधथुः। सिषिध। सिषेध। सिषिधिव। सिषिधिम। सेधिता। सेधिष्यति। सेधतु। असेधत्। सेधेत्। सिध्यात्। असेधीत्। असेधिष्यत्। एवम् --

उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णो गदादिषु परेषु। प्रणिगदति॥

अभ्यासकवर्गहकारयोश्चवर्गादेशः॥

उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे। जगाद। जगदतुः। जगदुः। जगदिथ। जगदथुः। जगद॥

उत्तमो णल् वा णित्स्यात्। जगाद, जगद। जगदिव। जगदिम। गदिता। गदिष्यति। गदतु। अगदत्। गदेत्। गद्यात्॥

हलादेर्लघोरकारस्य वृद्धिर्वेडादौ परस्मैपदे सिचि। अगादीत्, अगदीत्। अगदिष्यत्॥

धात्वादेर्णस्य नः। णोपदेशास्त्वनर्द्नाटिनाथ्नाध्नन्दनक्कनॄनृतः॥

उपसर्गस्थान्निमित्तात्परस्य धातोर्नस्य णः। प्रणदति। प्रणिनदति। नदति। ननाद॥

लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्वमभ्यासलोपश्च किति लिटि। नेदतुः। नेदुः॥

प्रागुक्तं स्यात्। नेदिथ। नेदथुः। नेद। ननाद, ननद। नेदिव। नेदिम। नदिता। नदिष्यति। नदतु। अनदत्। नदेत्। नद्यात्। अनादीत्, अनदीत्। अनदिष्यत्॥

उपदेशे धातोराद्या एते इतः स्युः॥

नन्दति। ननन्द। नन्दिता। नन्दिष्यति। नन्दतु। अनन्दत्। नन्देत्। नन्द्यात्। अनन्दीत्। अनन्दिष्यत्। अर्च पूजायाम्॥ ९॥ अर्चति॥

द्विहलो धातोर्दीर्घीभूतात्परस्य नुट् स्यात्। आनर्च। आनर्चतुः। अर्चिता। अर्चिष्यति। अर्चतु। आर्चत्। अर्चेत्। अर्च्यात्। आर्चीत्। आर्चिष्यत्॥

एषामचो वृद्धिः सिचि परस्मैपदेषु। अव्राजीत्। अव्रजिष्यत्॥

हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नेडादौ सिचि। अकटीत्। अकटिष्यत्॥

एभ्य आयः प्रत्ययः स्यात् स्वार्थे॥

सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञकाः। धातुत्वाल्लडादयः। गोपायति॥

आर्धधातुकविवक्षायामायादयो वा स्युः। (

आर्धधातुकोपदेशे यददन्तं तस्यातो लोप आर्धधातुके॥

आमः परस्य लुक्॥

आमन्ताल्लिट्पराः कृभ्वस्तयो ऽनुप्रयुज्यन्ते। तेषां द्वित्वादि॥

अभ्यासऋवर्णस्यात् प्रत्यये। रपरः। हलादिः शेषः। वृद्धिः। गोपायाञ्चकार। द्वित्वात्परत्वाद्यणि प्राप्ते ----- .

द्वित्वनिमित्ते ऽचि अच आदेशो न द्वित्वे कर्तव्ये। गोपायाञ्चक्रतुः॥

उपदेशे यो धातुरेकाजनुदात्तश्च तत आर्धधातुकस्येण्न।

&न्ब्स्प्॑ूदॄदन्तैर्यौतिरुक्ष्णुशीङ्स्नुनुक्षुश्विडीङ्श्रिभिः।

Line ३१५ ⟶ ३१७:
गोपायाञ्चकर्थ। गोपायाञ्चक्रथुः। गोपायाञ्चक्र। गोपायाञ्चकार। गोपायाञ्चकर। गोपायाञ्चकृव। गोपायाञ्चकृम। गोपायाम्बभूव, गोपायामास। जुगोप। जुगुपतुः। जुगुपुः॥

स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड् वा स्यात्। जुगोपिथ, जुगोप्थ। गोपायिता, गोपिता, गोप्ता। गोपायिष्यति, गोपिष्यति, गोप्स्यति। गोपायतु। अगोपायत्। गोपायेत्। गोपाय्यात्, गुप्यात्। अगोपायीत्॥

इडादौ सिचि हलन्तस्य वृद्धिर्न। अगोपीत्, अगौप्सीत्॥

झलः परस्य सस्य लोपो झलि। अगौप्ताम्। अगौप्सुः। अगौप्सीः। अगौप्तम्। अगौप्त। अगौप्सम्। अगौप्स्व। अगौप्स्म। अगोपायिष्यत्, अगोपिष्यत्, अगोप्स्यत्॥

क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटो ऽपि स्यात्॥

उपदेशे ऽजन्तो यो धातुस्तासौ नित्यानिट् ततस्थल इण्न॥

उपदेशे ऽकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात्॥

तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मते। तेन अन्यस्य स्यादेव। अयमत्र संग्रहः --- &न्ब्स्प्॑जन्तो ऽकारवान्वा यस्तास्यनिट्थलि वेडयम्।

&न्ब्स्प्॑ृदन्त ईदृङ्नित्यानिट् क्राद्यन्यो लिटि सेड्भवेत्॥

चिक्षयिथ, चिक्षेथ। चिक्षियथुः। चिक्षिय। चिक्षाय, चिक्षय। चिक्षियिव। चिक्षियिम। क्षेता। क्षेष्यति। क्षयतु। अक्षयत्। क्षयेत्॥

अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः। क्षीयात्॥

इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि। अक्षैषीत्। अक्षेष्यत्॥

एभ्यः श्यन्वा कर्त्रर्थे सार्वधातुके परे। पक्षे शप्॥

क्रमो दीर्घः परस्मैपदे शिति। क्राम्यति, क्रामति। चक्राम। क्रमिता। क्रमिष्यति। क्राम्यतु, क्रामतु। अक्राम्यत्, अक्रामत्। क्राम्येत्। क्रामेत्। क्रम्यात्। अक्रमीत्। अक्रमिष्यत्॥

पादीनां पिबादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे। पिबादेशो ऽदन्तस्तेन न गुणः। पिबति॥

आदन्ताद्धातोर्णल औकारादेशः स्यात्। पपौ॥

अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः। पपतुः। पपुः। पपिथ, पपाथ। पपथुः। पप। पपौ। पपिव। पपिम। पाता। पास्यति। पिबतु। अपिबत्। पिबेत्॥

घुसंज्ञकानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि। पेयात्। गातिस्थेति सिचो लुक्। अपात्। अपाताम्॥

सिज्लुकि आदन्तादेव झेर्जुस्॥

अपदान्तादकारादुसि पररूपमेकादेशः। अपुः। अपास्यत्॥

उपदेशे एजन्तस्य धातोरात्वं न तु शिति। जग्लौ। ग्लाता। ग्लास्यति। ग्लायतु। अग्लायत्। ग्लायेत्॥

घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वार्धधातुके किति लिङि। ग्लेयात्, ग्लायात्॥

एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु। अग्लासीत्। अग्लास्यत्॥

ऋदन्तस्य संयोगादेरङ्गस्य गुणो लिटि। उपधाया वृद्धिः। जह्वार। जह्वरतुः। जह्वरुः। जह्वर्थ। जह्वरथुः। जह्वर। जह्वार, जह्वर। जह्वरिव। जह्वरिम। ह्वर्ता॥

ऋतो हन्तेश्च स्यस्येट्। ह्वरिष्यति। ह्वरतु। अह्वरत्। ह्वरेत्॥

अर्तेः संयोगादेरृदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च। ह्वर्यात्। अह्वार्षीत्। अह्वरिष्यत्॥

श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च। शृणोति॥

अपित्सार्वधातुकं ङिद्वत्। शृणुतः॥

हुश्नुवोरनेकाचो ऽसंयोगपूर्वस्योवर्णस्य यण् स्यादचि सार्वधातुके। शृण्वन्ति। शृणोषि। शृणुथः। शृणुथ। शृणोमि॥

असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः। शृण्वः, शृणुवः। शृण्मः, शृणुमः। शुश्राव। शुश्रुवतुः। शुश्रुवुः। शुश्रोथ। शुश्रुवथुः। शुश्रुव। शुश्राव, शुश्रव। शुश्रुव। शुश्रुम। श्रोता। श्रोष्यति। शृणोतु, शृणुतात्। शृणुताम्। शृण्वन्तु॥

असंयोगपूर्वात्प्रत्ययोतो हेर्लुक्। शृणु, शृणुतात्। शृणुतम्। शृणुत। गुणावादेशौ। शृणवानि। शृणवाव। शृणवाम। अशृणोत्। अशृणुताम्। अशृण्वन्। अशृणोः। अशृणुतम्। अशृणुत। अशृणवम्। अशृण्व, अशृणुव। अशृण्म, अशृणुम। शृणुयात्। शृणुयाताम्। शृणुयुः। शृणुयाः। शृणुयातम्। शृणुयात। शृणुयाम्। शृणुयाव। शृणुयाम। श्रूयात्। अश्रौषीत्। अश्रोष्यत्॥

एषां छः स्यात् शिति। गच्छति। जगाम॥

एषामुपधाया लोपो ऽजादौ क्ङिति न त्वङि। जग्मतुः। जग्मुः। जगमिथ, जगन्थ। जग्मथुः। जग्म। जगाम, जगम। जग्मिव। जग्मिम। गन्ता॥

गमेः परस्य सादेरार्धधातुकस्येट् स्यात् परस्मैपदेषु। गमिष्यति। गच्छतु। अगच्छत्। गच्छेत्। गम्यात्॥

श्यन्विकरणपुषादेर्द्युतादेरॢदितश्च च्लेरङ् परस्मैपदेषु। अगमत्। अगमिष्यत्॥

टितो लस्यात्मनेपदानां टेरेत्वम्। एधते॥

अतः परस्य ङितामाकारस्य इय् स्यात्। एधेते। एधन्ते॥

टितो लस्य थासः से स्यात्। एधसे। एधेथे। एधध्वे। अतो गुणे। एधे। एधावहे। एधामहे॥

इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि॥

आम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः। आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात् कृञो ऽप्यात्मनेपदम्॥

लिडादेशयोस्तझयोरेश् इरेजेतौ स्तः। एधाञ्चक्रे। एधाञ्चक्राते। एधाञ्चक्रिरे। एधाञ्चकृषे। एधाञ्चक्राथे॥

इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य ढः स्यात्॥ एधाञ्चकृढ्वे। एधाञ्चक्रे। एधाञ्चकृवहे। एधाञ्चकृमहे। एधाम्बभूव। एधामास। एधिता। एधितारौ। एधितारः। एधितासे। एधितासाथे॥

धादौ प्रत्यये परे सस्य लोपः। एधिताध्वे॥

तासस्त्योः सस्य हः स्यादेति परे। एधिताहे। एधितास्वहे। एधितास्महे। एधिष्यते। एधिष्येते। एधिष्यन्ते। एधिष्यसे। एधिष्येथे। एधिष्यध्वे। एधिष्ये। एधिष्यावहे। एधिष्यामहे॥

लोट एकारस्याम् स्यात्। एधताम्। एधेताम्। एधन्ताम्॥

सवाभ्याम् परस्य लोडेतः क्रमाद्वामौ स्तः। एधस्व। एधेथाम्। एधध्वम्॥

लोडुत्तमस्य एत ऐ स्यात्। एधै। एधावहै। एधामहै॥ आटश्च। ऐधत। ऐधेताम्। ऐधन्त। ऐधथाः। ऐधेथाम्। ऐधध्वम्। ऐधे। ऐधावहि। ऐधामहि॥

सलोपः। एधेत। एधेयाताम्॥

लिङो झस्य रन् स्यात्। एधेरन्। एधेथाः। एधेयाथाम्। एधेध्वम्॥

लिङादेशस्य इटो ऽत्स्यात्। एधेय। एधेवहि। एधेमहि॥

लिङस्तथोः सुट्। यलोपः। आर्धधातुकत्वात्सलोपो न। एधिषीष्ट। एधिषीयास्ताम्। एधिषीरन्। एधिषीष्ठाः। एधिषीयास्थाम्। एधिषीध्वम्। एधिषीय। एधिषीवहि। एधिषीमहि। ऐधिष्ट। ऐधिषाताम्॥

अनकारात्परस्यात्मनेपदेषु झस्य अदित्यादेशः स्यात्। ऐधिषत। ऐधिष्ठाः। ऐधिषाथाम्। ऐधिढ्वम्। ऐधिषि। ऐधिष्वहि। ऐधिष्महि। ऐधिष्यत। ऐधिष्येताम्। ऐधिष्यन्त। ऐधिष्यथाः। ऐधिष्येथाम्। ऐधिष्यध्वम्। ऐधिष्ये। ऐधिष्यावहि। ऐधिष्यामहि॥

स्वार्थे। ङित्त्वात्तङ्। कामयते॥

आम् अन्त आलु आय्य इत्नु इष्णु एषु णेरयादेशः स्यात्। कामायाञ्चक्रे। आयादय इति णिङ् वा। चकमे। चकमाते। चकमिरे। चकमिषे। चकमाथे। चकमिध्वे। चकमे। चकमिवहे। चकमिमहे। कामयिता। कामयितासे। कमिता। कामयिष्यते, कमिष्यते। कामयताम्। अकामयत। कामयेत। कामयिषीष्ट॥

इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा ढः। कामयिषीढ्वम्, कामयिषीध्वम्। कमिषीष्ट। कमिषीध्वम्॥

ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात् कर्त्रर्थे लुङि परे।

अनिडादावार्धधातुके परे णेर्लोपः स्यात्।

चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात्॥

चङि परे अनभ्यासस्य धात्ववयवस्यैकाचः प्रथमस्य द्वे स्तो ऽजादेर्द्वितीयस्य॥

चङ्परे णौ यदङ्गं तस्य यो ऽभ्यासो लघुपरः, तस्य सनीव कार्यं स्याण्णावग्लोपे ऽसति॥

अभ्यासस्यात इत् स्यात् सनि॥

लघोरभ्यासस्य दीर्घः स्यात् सन्वद्भावविषये। अचीकमत, णिङ्भावपक्षे -- (

अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात्। प्लायते। पलायते॥

दय् अय् आस् एभ्य आम् स्याल्लिटि। अयाञ्चक्रे। अयिता। अयिष्यते। अयताम्। आयत। अयेत। अयिषीष्ट। विभाषेटः। अयिषीढ्वम्, अयिषीध्वम्। आयिष्ट। आयिढ्वम्, आयिध्वम्। आयिष्यत॥

अनयोरभ्यासस्य सम्प्रसारणं स्यात्। दिद्युते॥

द्युतादिभ्यो लुङः परस्मैपदं वा स्यात्। पुषादीत्यङ्। अद्युतत्, अद्योतिष्ट। अद्योतिष्यत॥ एवं

वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात्स्ये सनि च॥

वृतुवृधुशृधुस्यन्दूभ्यः सकारादेरार्धधातुकस्येण् न स्यात् तङानयोरभावे। वर्त्स्यति, वर्तिष्यते। वर्तताम्। अवर्तत। वर्तेत। वर्तिषीष्ट। अवर्तिष्ट। अवर्त्स्यत्, अवर्तिष्यत्॥

शसेर्ददेर्वकारादीनां गुणशब्देन विहितो यो ऽकारस्तस्य एत्त्वाभ्यासलोपौ न। दददे। दददाते। दददिरे। ददिता। ददिष्यते। ददताम्। अददत। ददेत। ददिषीष्ट। अददिष्ट। अददिष्यत॥

एषामत एत्त्वमभ्यासलोपश्च स्यात् किति लिटि सेटि थलि च। त्रेपे। त्रपिता, त्रप्ता। त्रपिष्यते, त्रप्स्यते। त्रपताम्। अत्रपत। त्रपेत। त्रपिषीष्ट, त्रप्सीष्ट। अत्रपिष्ट, अत्रप्त। अत्रपिष्यत, अत्रप्स्यत॥

शे यकि यादावार्धधातुके लिङि च ऋतो रिङ् आदेशः स्यात्। रीङि प्रकृते रिङ्विधानसामर्थ्याद्दीर्घो न। भ्रियात्॥

ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। भृषीष्ट। भृषीयास्ताम्। अभार्षीत्॥

सिचो लोपो झलि। अभृत। अभृषाताम्। अभरिष्यत्, अभरिष्यत॥

वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि। इयाज॥

वचिस्वप्योर्यजादीनां च संप्रसारणं स्यात् किति। ईजतुः। ईजुः। इयजिथ, इयष्ठ। ईजे। यष्टा॥

यक्ष्यति, यक्ष्यते। इज्यात्, यक्षीष्ट। अयाक्षीत्, अयष्ट॥

झषः परस्योस्तथोर्धः स्यान्न तु दधातेः॥

अनयोरवर्णस्य ओत्स्याड्ढलोपे। उवोढ। ऊहे। वोढा। वक्ष्यति। अवाक्षीत्। अवोढाम्। अवाक्षुः। अवाक्षीः। अवोढम्। अवोढ। अवाक्षम्। अवाक्ष्व। अवाक्ष्म। अवोढ। अवक्षाताम्। अवक्षत। अवोढाः। अवक्षाथाम्। अवोढ्वम्। अवक्षि। अवक्ष्वहि। अवक्ष्महि॥

इति भ्वादयः॥ १॥

[[वर्गः:लघुसिद्धान्तकौमुदी]]