"मत्स्यपुराणम्/अध्यायः २४०" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) मत्स्यपुराणम् using AWB
पङ्क्तिः १:
{{मत्स्यपुराणम्}}
 
<poem>
 
Line ५ ⟶ ७:
मनुरुवाच।
इदानीं सर्वधर्मज्ञ! सर्वशास्त्रविशारद!।
यात्राकालविधानं मे कथयस्व महीक्षिताम् ।। २४०.१ ।।
 
मत्स्य उवाच।
यदा मन्येत नृपतिराक्रन्देन बलीयसा।
पार्ष्णिग्राहाभिभूतोऽयं तदा यात्रां प्रयोजयेत् ।। २४०.२ ।।
 
दुष्टा योधा भृता भृत्याः साम्प्रतञ्च बलं मम।
मूलरक्षासमर्थोऽस्मि तदा यात्रां प्रयोजयेत् ।। २४०.३ ।।
 
अशुद्धपार्ष्णिनृपतिर्न तु यात्रां प्रयोजयेत्।
पार्ष्णिग्राहाधिकं सैन्यं मूले निक्षिप्य च व्रजेत् ।। २४०.४ ।।
 
चैत्र्यां वा मार्गशीर्ष्यां वा यात्रां यायान्नराधिपः।
चैत्र्यां पश्येच्च नैदाघं हन्ति पुष्टिञ्च शारदीम् ।। २४०.५ ।।
 
एतदेव विपर्यस्तं मार्गशीर्ष्यां नराधिपः।
शत्रोर्वा व्यसने यायात् काल एव सुदुर्लभः ।। २४०.६ ।।
 
दिव्यान्तरिक्षक्षितिजैरुत्पातैः पीडितं परम्।
षडक्ष पीड़ा सन्तप्तं पीड़ितञ्च तथा ग्रहैः ।। २४०.७ ।।
 
ज्वलन्ती च तथैवोल्का दिशं याञ्च प्रपद्यते।
भूकम्पोल्का दिशं याति याञ्चकेतुः प्रसूयते ।। २४०.८ ।।
 
निर्घातश्च पतेद्यत्र तां यायाद्वसुधाधिपः।
स बलव्यसनोपेतं तथा दुर्भिक्षपीड़ितम् ।। २४०.९ ।।
 
सम्भूतान्तरकोपञ्च क्षिप्रं प्रायादरिं नृपः।
यूकामाक्षीकबहुलं बहुपङ्कन्तथा बिलम् ।। २४०.१० ।।
 
नास्तिकं भिन्नमर्यादं तथा मङ्गलवादिनम्।
अपेतप्रकृतिञ्चैव निःसारञ्च तथा जयेत् ।। २४०.११ ।।
 
विद्विष्टनायकं सैन्यं तथा भिन्नं परस्परम्।
व्यसनाशक्तनृपतिं बलं राजाभियोजयेत् ।। २४०.१२ ।।
 
सैनिकानां न शास्त्राणि स्फुरन्त्यङ्गानि यत्र च।
दुःस्वप्नानि च पश्यन्ति बलन्तदभियोजयेत् ।। २४०.१३ ।।
 
उत्साहबलसम्पन्नः स्वानुरक्त बलस्तथा।
तुष्टपुष्टबलो राजा परानभिमुखो व्रजेत् ।। २४०.१४ ।।
 
शरीरस्फुरणे धन्ये तथा दुःस्वप्न नाशने।
निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् ।। २४०.१५ ।।
 
ऋक्षेषु षट्सु शुद्धेषु ग्रहेष्वनुगुणेषु च।
प्रश्नकाले शुभे जाते परान् यायान्नराधिपः ।। २४०.१६ ।।
 
एवन्तु दैवसम्पन्नस्तथा पौरुषसंयुतः।
देशकालोपपन्नान्तु यात्रां कुर्यान्नराधिपः ।। २४०.१७ ।।
 
स्थले नक्रस्तु नागस्य तस्यापि सजले वशे।
उलूकस्य निशि ध्वाङ्क्षः स च तस्य दिवा वशे ।। ४०.१८ ।।
 
एवं देशञ्च कालञ्च ज्ञात्वा यात्रां प्रयोजयेत् ।। २४०.१९ ।।
 
पदाति साग बहुलां सेनां प्रावृषि योजयेत्।
हेमन्ते शिशिरे चैव रथवाजिसमाकुलाम्
खरोष्ट्रबहुलां सेनां तथा ग्रीष्मे नराधिपः ।। २४०.२० ।।
 
चतुरङ्गबलोपेतां वसन्ते वा शरद्यथ।
सेना पदातिबहुला यस्य स्यात्पृथिवीपतेः ।। २४०.२१ ।।
 
अभियोज्यो भवेत्तेन शत्रुर्विषममाश्रितः।
गम्ये वृक्षावृते देशे स्थितं शत्रुन्तथैव च ।। २४०.२२ ।।
 
किञ्चित् पङ्के तथा यायाद् बहुनागो नराधिपः।
तथाश्वबहुलो यायाच्छत्रुं समं पथिस्थितम् ।। २४०.२३ ।।
 
तमाश्रयन्तो बहुलास्तांस्तु राजा प्रपूजयेत्।
खरोष्ट्रबहुलो राजा शत्रूर्बन्धेन संस्थितः ।। २४०.२४ ।।
 
बन्धनस्थोऽभियोज्योऽरिस्तथा प्रावृषिभूभृजा।
हिमपातयुते देशे स्थितं ग्रीष्मेऽभियोजयेत् ।। २४०.२५ ।।
 
यवसेन्धनसंयुक्त कालः पार्थिव! हैमनः।
शरद्वसन्तौ धर्मज्ञ! कालौ साधारणौ स्मृतौ ।। २४०.२६ ।।
 
विज्ञाय राजा हितदेशकालौ दैवं त्रिकालञ्च तथैव बुद्ध्वा।
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२४०" इत्यस्माद् प्रतिप्राप्तम्