"ईशावास्योपनिषद्" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
Hinduism using AWB |
||
पङ्क्तिः १:
{{Upanishad}}
ईशोपनिषत्<
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।<
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥<
ॐ शान्तिः शान्तिः शान्तिः॥<
<
॥अथ ईशोपनिषत्॥<
<
ॐ ईशावास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत्।<
तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धनम्॥१॥<
<
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः।<
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥२॥<
<
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः।<
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥३॥<
<
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।<
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥४॥<
<
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।<
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥५॥<
<
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।<
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥६॥<
<
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।<
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥७॥<
<
स पर्यगाच्छुक्रमकायमव्रणम् अस्नाविरँ शुद्धमपापविद्धम् ।<
कविर्मनीषी परिभूः स्वयम्भूःयाथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥<
<
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।<
ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥९॥<
<
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।<
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१०॥<
<
विद्यां चाविद्यां च यस्तद्वेदोभयँ सह ।<
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥११॥<
<
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।<
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ॥१२॥<
<
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।<
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१३॥<
<
सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह ।<
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥१४॥<
<
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।<
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥<
<
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह |<
तेजः यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥<
<
वायुरनिलममृतमथेदं भस्मांतँ शरीरम् ।<
ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥१७॥<
<
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।<
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥१८॥<
<
॥इति ईशोपनिषत्॥<
<
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।<
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥<
ॐ शान्तिः शान्तिः शान्तिः॥
== अधिकाध्ययनाय ==
पङ्क्तिः ७३:
#[http://web.archive.org/20040816081032/www.geocities.com/advaitavedant/isavasya.htm English Translation by Vidyavachaspati V. Panoli] (link broken)
#[http://www.bhakthinivedana.org/books/Isa/IsaIndex.htm Isa:va:syo:panishad English Translation by HH Sri Sri Sri Chinna Srimanna:ra:yana Jeeyar Swamiji]
[[वर्गः:काव्य]]
[[fr:Ishopanishad]]
|