"ऋग्वेदः सूक्तं १.८६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
मरुतो यस्य हि कषये पाथा दिवो विमहसः |
स सुगोपातमो जनः ॥
यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम |
मरुतः शर्णुता हवम ॥
उत वा यस्य वाजिनो.अनु विप्रमतक्षत |
स गन्ता गोमतिव्रजे ॥
अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु |
उक्थं मदश्च शस्यते ॥
अस्य शरोषन्त्वा भुवो विश्वा यश्चर्षणीरभि |
सूरं चित सस्रुषीरिषः ॥
पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम |
अवोभिश्चर्षणीनाम ॥
सुभगः स परयज्यवो मरुतो अस्तु मर्त्यः |
यस्य परयांसिपर्षथ ॥
शशमानस्य वा नरः सवेदस्य सत्यशवसः |
विदा कामस्यवेनतः ॥
यूयं तत सत्यशवस आविष कर्त महित्वना |
विध्यता विद्युता रक्षः ॥
गूहता गुह्यं तमो वि यात विश्वमत्रिणम |
जयोतिष कर्ता यदुश्मसि ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८६" इत्यस्माद् प्रतिप्राप्तम्