"गरुडपुराणम्/आचारकाण्डः/अध्यायः १३०" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
आचारखण्डः using AWB
पङ्क्तिः १२:
ब्रह्मोवाच ।
एवं भाद्रपदे मासि कार्तिकेयं प्रपूयेत् ।
स्नानदानादिकं सर्वमस्यामक्षय्यमुच्यते ॥ १,१३०.१ ॥</br />
सप्तम्यां प्राशयेच्चपि भोज्यं विप्रान्रविं यजेत् ।
ओं खखोल्कायमृतत्वं (तन्तं) प्रियसङ्गमो भव सद स्वाहा ॥ १,१३०.२ ॥</br />
अष्टम्यां पारणं कुर्यान्मरीचं प्राश्य स्वर्गभाक्
सप्तम्यां नियतः स्नात्वा पूजयित्वा दिवाकरम् ॥ १,१३०.३ ॥</br />
दद्यात्फलानि विप्रेभ्यो मार्तण्डः प्रीयतामिति ।
खर्जूरं नारिकेलं वा प्राशयेन्मातुलुङ्गकम् ॥ १,१३०.४ ॥</br />
सर्वे भवन्तु सफला मम कामाः समन्ततः ।
(इति फलसप्तमी)
संपूज्य देवं सप्तम्यां पायसेनाथ भोजयेत् ॥ १,१३०.५ ॥</br />
विप्रांश्च दक्षिणां दत्त्वा स्वयं चाथ पयः पिबेत् ।
भक्ष्यं चोष्यं तथा लेह्यं ओदनं चेति कीर्तितम् ॥ १,१३०.६ ॥</br />
धनपुत्रादिकामस्तु त्यजेदेतदनोदनः
वाय्वाशी विजयेत्क्षुच्च कुर्याद्विजयसप्तमीम् ।
अद्यादर्कं च कामेच्छुरुपवासे तरेन्मदम् ॥ १,१३०.७ ॥</br />
गोधूममाषयवषष्टिककांस्यपात्रं पाषाणपिष्टमधुमैषुनमद्यमांसम् ।
अभ्यञ्जनाञ्जनतिलांश्च विवर्जयेद्यः तस्येषितं भवति सप्तसु सप्तमीषु ॥ १,१३०.८ ॥</br />
(इति विजयसप्तमीव्रतम्) ।
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सप्तमीव्रतनिरूपणं नाम त्रिंशोत्तरशततमोऽध्यायः
</poem>
 
[[वर्गः:आचारखण्डः]]