"गरुडपुराणम्/आचारकाण्डः/अध्यायः १४५" इत्यस्य संस्करणे भेदः

आचारखण्डः using AWB
({{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती)
 
(आचारखण्डः using AWB)
ब्रह्मोवाच ।
भारतं संप्रवक्ष्यामि भारावतरणं भुवः ।
चक्रे कृष्णो युध्यमानः पाण्डवादिनिमित्ततः ॥ १,१४५.१ ॥</br />
विष्णुनाभ्यब्जतो ब्रह्मा ब्रह्मपुत्रोऽत्रिरत्रितः ।
सोमस्ततो बुधस्तस्मादिलायां च पुरूरवाः ॥ १,१४५.२ ॥</br />
तस्यायुस्तत्र वंशेऽभूद्ययातिर्भरतः कुरुः ।
शन्तनुस्तस्य वंशेऽभूद्गङ्गायां शन्तनोः सुतः ॥ १,१४५.३ ॥</br />
भीष्मः सर्वगुणैयुक्तो ब्रह्मवैवर्तपारगः ॥ १,१४५.४ ॥</br />
शन्तनोः सत्यवत्यां च द्वौ पुत्रौ संबभूवतुः ।
चित्राङ्गदन्तु गन्धर्वः पुत्रं चित्राङ्गदोऽवधीत् ॥ १,१४५.५ ॥</br />
अन्यो विचित्रवीर्योऽभूत्काशीराजसुतापतिः ।
विचित्रवीर्ये स्वर्याते व्यासात्तत्क्षेत्रतोऽभवत् ॥ १,१४५.६ ॥</br />
धृतराष्टोऽम्बिकापुत्रः पाण्डुराम्बालिकासुतः ।
भुजिष्यायान्तु विदुरो गान्धार्यां धृतराष्ट्रतः ॥ १,१४५.७ ॥</br />
दुर्योधनप्रधानास्तु शतसंख्या महाबलाः ।
पाण्डोः कुन्त्याञ्च माद्यां च पञ्च पुत्राः प्रजज्ञिरे ॥ १,१४५.८ ॥</br />
युधिष्ठिरो भीमसेनो ह्यर्जुनो नकुलस्तथा ।
सहदेवश्च पञ्चैते महाबलपराक्रमाः ॥ १,१४५.९ ॥</br />
कुरुपाण्डवयोर्वैरं दैवयो गाद्बभूव ह ।
दुर्योधनेनाधीरेण पाण्डवाः समुपद्रुताः ॥ १,१४५.१० ॥</br />
दग्धा जतुगृहे वीरास्ते मुक्ताः स्वधियामलाः ॥ १,१४५.११ ॥</br />
ततस्तदेकचक्रायां ब्राह्मणस्य निवेशने ।
विविशुस्ते महात्मानो निहत्य बकराक्षसम् ॥ १,१४५.१२ ॥</br />
ततः पाञ्चालविषयेद्रौपद्यास्ते स्वयंवरम् ।
विज्ञाय वीर्यशुल्कान्तां पाण्डवा उपयेमिरे ॥ १,१४५.१३ ॥</br />
द्रोणभीष्मानुमत्या तु धृतराष्ट्रः समानयत् ।
अर्द्वराज्यं ततः प्राप्ता इन्द्रप्रस्थे पुरोत्तमे ॥ १,१४५.१४ ॥</br />
राजसूयन्ततश्चक्रुः सभां कृत्वा यतव्रताः ।
अर्जुनो द्वारवत्यान्तु सुभद्रां प्राप्तवान्प्रियाम् ।
वासुदेवस्य भगिनीमनुमत्या मुरद्विषः ॥ १,१४५.१५ ॥</br />
नन्दिघोषं रथं दिव्यमग्नेर्घनुरनुत्तमम् ।
गाण्डीवं नाम तद्दिव्यं त्रिषु लोकेषु विश्रुतम् ।
अक्षयान्सायकांश्चैव तथाभेद्यञ्च दंशनम् ॥ १,१४५.१६ ॥</br />
स तेन धनुषा वीरः पाण्डवो जातवेदसम् ।
कृष्णद्वितीयो बीभत्सुरतर्पयत वीर्यवान् ॥ १,१४५.१७ ॥</br />
नृपान्दिग्विजये जित्वा रत्नान्यादाय वै ददौ ।
युधिष्ठिराय महते भ्रात्रे नीतिविदे मुदा ॥ १,१४५.१८ ॥</br />
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः परिवारितः ।
जितो दुर्योधनेनैव मायाद्यूतेन पापिना ।
कर्णदुः शासनमते स्थितेन शकुनेर्मते ॥ १,१४५.१९ ॥</br />
अथ द्वादश वर्षाणि वने तेपुर्महत्तपः ।
सधौम्या द्रौपदीषष्ठा मुनिवृन्दाभिसंवृताः ॥ १,१४५.२० ॥</br />
ययुर्विराटनगरं गुप्तरूपेण संश्रिताः ।
वर्षमेकं महाप्राज्ञा गोग्रहात्तमपालयन् ॥ १,१४५.२१ ॥</br />
तते याताः स्वकं राष्ट्रं प्रार्थयामासुरादृताः ।
पञ्चग्रामानर्धराज्याद्वीरा दुर्योधनं नृपम् ॥ १,१४५.२२ ॥</br />
नाप्तवन्तः कुरुक्षेत्रे युद्धञ्चक्रुर्बलान्विताः ।
अक्षौहिणीभिर्दिव्याभिः सप्तभिः परिवारिताः ॥ १,१४५.२३ ॥</br />
एकादशभिरुद्युक्ता युक्ता दुर्योधनादयः ।
आसीद्युद्धं संकुलं च देवासुररणोपमम् ॥ १,१४५.२४ ॥</br />
भीष्मः सेनापतिरभूदादौ दौर्योधने बले ।
पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह ।
शस्त्राशस्त्रि महाघोरं धसरात्रं शराशरि ॥ १,१४५.२५ ॥</br />
शिखण्ड्यर्जुनबाणैश्च भीष्मः शरशतैश्चितः ।
उत्तरायणमावीक्ष्य ध्यात्वा देवं गदाधरम् ॥ १,१४५.२६ ॥</br />
उक्त्वा धर्मान्बहुविधांस्तर्पयित्वा पितॄन्बहून् ।
आनन्दे तु पदे लीनो विमले मुक्तकिल्बिषे ॥ १,१४५.२७ ॥</br />
ततो द्रोणो ययौ योद्धुं धृष्टद्युम्नेन बीर्यवान् ।
दिनानि पञ्च तद्युद्धमासीत्परमदारुणम् ॥ १,१४५.२८ ॥</br />
यत्र ते पृथिवीपाला हताः पार्थेन संगरे ।
शोकसागरमासाद्य द्रोणोऽपि स्वर्गमाप्तवान् ॥ १,१४५.२९ ॥</br />
ततः कर्णा ययौ योद्धुमर्जुनेन मिहात्मना ।
दिनद्वयं महायुद्धं कृत्वा पार्थास्त्रसागरे ।
निमग्नः सूर्यलोकन्तु ततः प्राप स वीर्यवान् ॥ १,१४५.३० ॥</br />
ततः शल्यो ययौ योद्धुं धर्मराजेन धीमता ।
दिनार्धेन हतः शल्यो बाणैर्ज्वलनसन्निभैः ॥ १,१४५.३१ ॥</br />
दुर्योधनोऽथ वेगेन गदामादाय वीर्यवान् ।
अभ्यधावत वै भीभं कालान्तकयमोपमः ॥ १,१४५.३२ ॥</br />
अथ भीमेन वीरेण गदया विनिपातितः ।
अश्वत्थामा गतो द्रौणिः सुप्तसैन्यं ततो निशि ॥ १,१४५.३३ ॥</br />
जघान बाहुवीर्येण पितुर्वधमनुस्मरन् ।
धृष्टद्युम्नं जघानाथ द्रौपदेयांश्च वीर्यवान् ॥ १,१४५.३४ ॥</br />
द्रौपद्यां रुद्यमानायामश्वत्थाम्नः शिरोमणिम् ।
ऐषिकास्त्रेण तं जित्वा जग्राहार्जुन उत्तमम् ॥ १,१४५.३५ ॥</br />
युधिष्ठिरः समाश्वास्य स्त्रीजनं शोकसंकुलम् ।
स्नात्वा सन्तर्प्य देवांश्च पितॄनथ पितामहान् ॥ १,१४५.३६ ॥</br />
आश्वासितोऽथ भीष्मेण राज्यञ्चैवाकरोन्महत् ।
विष्णुमीजेऽश्वमेधेन विधिवद्दक्षिणावता ॥ १,१४५.३७ ॥</br />
राज्ये परीक्षितं स्थाप्य यादवानां विनाशनम् ।
श्रुत्वा तु मौसले राजा जप्त्वा नामसहस्रकम् ॥ १,१४५.३८ ॥</br />
विष्णोः स्वर्गं जगामाथ भीमाद्यैर्भ्रातृभिर्युतः ।
वासुदेवः पुनर्बुद्धसंमोहाय सुरद्विषाम् ॥ १,१४५.३९ ॥</br />
कल्किर्विष्णुश्च भविता शंभलग्रामके पुनः ।
अश्वारूढोऽखिलांल्लोकांस्तदा भस्मीकरिष्यति ॥ १,१४५.४० ॥</br />
देवादीनां रक्षणाय ह्यधर्महारणाय च ।
दुष्टानाञ्च वधार्थाय ह्यवतारं करोति च ॥ १,१४५.४१ ॥</br />
यथा धन्वन्तरिर्वंशे जातः क्षीरोदमन्थने ।
देवादीनां जीवनाय ह्यायुर्वेदमुवाच ह ॥ १,१४५.४२ ॥</br />
विश्वामित्रसुतायैव शुश्रुताय महात्मने ।
भारतांश्चावतारांश्च श्रुत्वा स्वर्गं व्रजेन्नरः ॥ १,१४५.४३ ॥</br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भारतादिवर्णनं नाम पञ्चचत्वारिंशदुत्तरशततमोऽध्यायः
</poem>
 
[[वर्गः:आचारखण्डः]]
२,४००

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/49989" इत्यस्माद् प्रतिप्राप्तम्