"गरुडपुराणम्/आचारकाण्डः/अध्यायः १४६" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
आचारखण्डः using AWB
पङ्क्तिः १२:
धन्वन्तरिरुवाच ।
सर्वरोगनिदानञ्च वक्ष्ये सुश्रुत तत्त्वतः ।
आत्रेयाद्यैर्मुनिवरैर्यथा पूर्वमुदीरितम् ॥ १,१४६.१ ॥</br />
रोगः पाप्मा ज्वरो व्याधिर्विकारो दुष्ट आमयः ।
यक्ष्मातङ्कगदा बाधाः शब्दाः पर्यायवाचिनः ॥ १,१४६.२ ॥</br />
निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा ।
संप्राप्तिश्चैति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥ १,१४६.३ ॥</br />
निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः ।
निदानमाहुः पर्यायैः प्राग्रूपं येन लक्ष्यते ॥ १,१४६.४ ॥</br />
उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः ।
लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम् ॥ १,१४६.५ ॥</br />
तदेव व्यक्ततां यातं रूपमित्यभिधीयते ।
संस्थानां व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः ॥ १,१४६.६ ॥</br />
हेतुव्याधिविपर्यस्तविपर्यस्तार्थकारिणाम् ।
औषधान्नविहाराणामुपयोगं सुखावहम् ॥ १,१४६.७ ॥</br />
विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः ।
विपरीतोऽनुपशयो व्याध्यसात्म्येतिसंज्ञितः ॥ १,१४६.८ ॥</br />
यथा दुष्टेन दोषेण यथा चानुविसर्पता ।
निर्वृत्तिरामयस्यासौ संप्राप्तिरभिधीयते ॥ १,१४६.९ ॥</br />
संख्याविकल्पप्राधान्यबलकालविशेषतः ।
सा भिद्यते यथात्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति ॥ १,१४६.१० ॥</br />
दोषाणां समवेतानां विकल्पोशांशकल्पना ।
स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत् ॥ १,१४६.११ ॥</br />
हेत्वादिकार्त्स्न्यावयवैर्बलाबलविशेषषणम् ।
नक्तन्दिनार्धभुक्तांशैर्व्याधिकालो यथामलम् ॥ १,१४६.१२ ॥</br />
इति प्रोक्तो निदानार्थः स व्यासेनोपदेक्ष्यते ।
सर्वेषामेव रोगाणां निदानं कुपिता मलाः ॥ १,१४६.१३ ॥</br />
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् ।
अहितस्त्रिविधो योगस्त्रयाणां प्रागुदाहृतः ॥ १,१४६.१४ ॥</br />
तिक्तोषणकषायाम्लरूक्षाप्रमितयोजनैः ।
धावनोदीरणनिशाजागरात्युच्चभाषणैः ॥ १,१४६.१५ ॥</br />
क्रियाभियोगबीशोकचिन्ताव्यायाममैथुनैः ।
ग्रीष्माहोरात्रभुक्त्यन्ते प्रकुप्यति समीरणः ॥ १,१४६.१६ ॥</br />
पित्तं कट्वालतीक्ष्णोष्णकटुक्रोधविदाहिभिः ।
शरन्मध्याह्नरात्र्यर्धविदाहसमयेषु च ॥ १,१४६.१७ ॥</br />
स्वाद्वम्ललवणस्निग्धगुर्वभिष्यन्दिशीतलैः ।
आस्यास्वप्नसुखाजीर्णदिवास्वप्नादिबृंहणैः ॥ १,१४६.१८ ॥</br />
प्रिच्छर्दनाद्ययोगेन भुक्तान्नस्याप्यजीर्णके ।
पूर्वाह्ने पूर्वरात्रे च श्लेष्मा वक्ष्यामि सङ्करान् ॥ १,१४६.१९ ॥</br />
मिश्रीभावात्समस्तानां सन्निपातस्तथा पुनः ।
संकीर्णाजीर्णविषमविरुद्धाद्यशनादिभिः ॥ १,१४६.२० ॥</br />
व्यापन्नमद्यपानीयशुष्कशाकाममूलकैः ।
पिण्याकमृत्यवसरपूतिशुष्ककृशमिषैः ॥ १,१४६.२१ ॥</br />
दोषत्रयकरैस्तैस्तैस्तथान्नपरिवर्ततः ।
धातोर्दुष्टात्पुरो वाताद्द्विग्रहावेशविप्लवात् ॥ १,१४६.२२ ॥</br />
दुष्टामान्नैरतिश्लैष्मग्रहैर्जन्मर्क्षपीडनात् ।
मिथ्यायोगाच्च विविधात्पापानाञ्च निषेवणात् ।
स्त्रीणां प्रसववैषम्यात्तथा मिथ्योपचारतः ॥ १,१४६.२३ ॥</br />
प्रतिरोगमिति क्रुद्धा रोगविध्यनुगामिनः ।
रसायनं प्रपद्याशु दोषा देहे विकुर्वते ॥ १,१४६.२४ ॥</br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे सर्वरोगनिदानं नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः
</poem>
 
[[वर्गः:आचारखण्डः]]