"गरुडपुराणम्/आचारकाण्डः/अध्यायः १४८" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
आचारखण्डः using AWB
पङ्क्तिः १३:
धन्वन्तरिरुवाच ।
अथातो रक्तपित्तस्य निदानं प्रवदाम्यहम् ।
भृशोष्णतिक्तकट्वम्ललवणादिविदाहिभिः ॥ १,१४८.१ ॥</br />
कोद्रवोद्दालकैश्चान्यैस्तदुक्तैरति सेवितैः ।
कुपितं पैत्तिकैः पित्तं द्रवं रक्तञ्च मूर्छति ॥ १,१४८.२ ॥</br />
तैर्मिथस्तुल्यरूपत्वमागम्य व्याप्नुवंस्तनुम् ।
पित्तरक्तस्य विकृतेः संसर्गाद्दषणादपि ॥ १,१४८.३ ॥</br />
गन्धवर्णानुवृत्तेषु रक्तेन व्यपदिश्यते ।
प्रभवत्यसृजः स्थानात्प्लीहतो यकृतश्च सः ॥ १,१४८.४ ॥</br />
शिरोगुरुत्वमरुचिः शीतेच्छा धूमकोऽम्लकः ।
छर्धितश्छर्दिबै भत्स्यं कासः श्वासो भ्रमः क्लमः ॥ १,१४८.५ ॥</br />
लोहितो न हितो मत्स्यगन्धास्यात्वञ्च विज्वरे ।
रक्तहारिद्रहरितवर्णता नयनादिषु ॥ १,१४८.६ ॥</br />
नीललोहित पीतानां वर्णानामविवेचनम् ।
स्वप्ने इन्मादधर्मित्वं भवत्यस्मिन्भविष्यति ॥ १,१४८.७ ॥</br />
उर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः ।
कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्तते ॥ १,१४८.८ ॥</br />
ऊर्ध्वं साध्यं कफाद्यस्मात्तद्विरेचनसाधितम् ।
बह्वौषधानि पित्तस्य विरेको हि वरौषधम् ॥ १,१४८.९ ॥</br />
अनुबन्धी कफो यत्र तत्र तस्यापि शुद्धिकृत् ।
कषायाः स्वादवो यस्य विशुद्धौ श्लेष्मला हिताः ॥ १,१४८.१० ॥</br />
कटुतिक्तकषाया वा ये निसर्गात्कफावहाः ।
अधो याप्यञ्च नायुष्मांस्तत्प्रच्छर्दनसाधकम् ॥ १,१४८.११ ॥</br />
अल्पौषधञ्च पित्तस्य वमनं नावमौषधम् ।
अनुबन्धि बलं यस्य शान्तपित्तनरस्य च ॥ १,१४८.१२ ॥</br />
कषायश्च हितस्तस्य मधुरा एव केवलम् ।
कफमारुतसंस्पृष्टमसाध्यमुपनामनम् ॥ १,१४८.१३ ॥</br />
असह्यं प्रतिलोमत्वादसाध्यादौषधस्य च ।
न हि संशोधनं किञ्चिदस्य च प्रतिलोमिनः ॥ १,१४८.१४ ॥</br />
शोधनं प्रतिलोमञ्च रक्तपित्तेऽभिसर्जितम् ।
एवमेवोपशमनं संशोधनमिहेष्यते ॥ १,१४८.१५ ॥</br />
संसृष्टेषु हि दोषेषु सर्वथा छर्दनं हितम् ।
तत्र दोषोऽत्र गमनं शिवास्त्र इव लक्ष्यते ॥ १,१४८.१६ ॥</br />
उपद्रवाश्च विकृतिं फलतस्तेषु साधितम् ॥ १,१४८.१७ ॥</br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रक्तपित्तनिदानं नामाष्टचत्वारिंशदुत्तरशततमोऽध्यायः
</poem>
 
[[वर्गः:आचारखण्डः]]