"गरुडपुराणम्/आचारकाण्डः/अध्यायः १८४" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
आचारखण्डः using AWB
पङ्क्तिः १३:
रजनीकदलीक्षारलेपः सिध्मविनाशनः ।
कुष्ठस्य भागमेकन्तु पथ्याभागद्वयं तथा ।
उष्णोदकेन संपीय कटिशूलविनाशनम् ॥ १,१८४.१ ॥</br />
अभया नवनीतञ्च शर्करापिप्पलीयुतम् ।
पानादर्शोहरं स्याच्च नात्र कार्या विचारणा ॥ १,१८४.२ ॥</br />
आटरूषकपत्रेण घृतं मृद्वग्निना पचेत् ।
चूर्णं कृत्वा तु लेपोऽयं अर्शरोगहरः परः ॥ १,१८४.३ ॥</br />
गुग्गुलुत्रिफलायुक्तं पीत्वा नश्येद्भगन्दरम् ।
अजाजीशृङ्गवेरञ्च दथा मण्डं विपाचयेत् ॥ १,१८४.४ ॥</br />
लवणेन तु संयुक्तं मूत्रकृच्छ्रविनाशनम् ।
यवक्षारं शर्करा च मूत्रकृच्छ्रविनाशकृत् ॥ १,१८४.५ ॥</br />
चिताग्निः खञ्जरीटस्य विष्ठा फेनो हयस्य च ।
सौभाञ्जनं वासनेत्रं नर एतैस्तु धूपितः ।
अदृश्यस्त्रिदशैः सर्वैः किं पुनर्मानवैः शिव ॥ १,१८४.६ ॥</br />
तिलतैलं यवान्दग्ध्वा मषीं कृत्वा तु लेपयेत् ।
तेनैव सह तैलेन अग्निदग्धः सुखी भवेत् ॥ १,१८४.७ ॥</br />
लज्जालोः शरपुङ्खाया लेपः साज्योऽग्निनाशनः ।
ओं नमो भगवते ठ ठ छिन्धि छिन्धि ज्वलनं प्रज्वलितं नाशय नाशय हुं फट् ॥ १,१८४.८ ॥</br />
करे बद्धं तु निर्गुण्ड्या मूलं ज्वरहरं द्रुतम् ।
मूलञ्च श्वेतगुञ्जायाः कृत्वा तत्सप्तखण्डकम् ॥ १,१८४.९ ॥</br />
हस्ते बध्वा नाशयेच्च अर्शांस्येव न संशयः ।
विष्णुक्रान्ताजमूत्रेण चौरव्याघ्नादिरक्षणम् ॥ १,१८४.१० ॥</br />
ब्रह्मदण्ड्यास्तु मूलानि सर्वकर्माणि कारयेत् ।
त्रिफलायास्तु चूर्णं हि साज्यं कुष्ठविनाशनम् ॥ १,१८४.११ ॥</br />
आज्यं पुनर्नवाबिल्वैः पिप्पलीभि साधितम् ।
हरेद्धक्कां श्वासकासौ पीतं स्त्रीणाञ्च गर्भकृत् ॥ १,१८४.१२ ॥</br />
भक्षयेद्वा नरीबीजं पयसाज्येन पाचितम् ।
घृतशर्करया युक्तं शुक्रः स्यादक्षयस्ततः ॥ १,१८४.१३ ॥</br />
विडङ्गं मधुकं पाठां मांसीं सर्जरसं तथा ।
रहिद्रां त्रिफलाञ्चैव मपामार्गं मनः शिलाम् ॥ १,१८४.१४ ॥</br />
उदुम्बरं धातकीञ्च तिलतैलेन पषेयेत् ।
योनिं लिङ्गं च म्रक्षेत स्त्रीपुसोः स्यात्प्रियं मिथः ॥ १,१८४.१५ ॥</br />
नमस्ते ईशवरदाय आकर्षिणि विकर्षिणि मुग्धे स्वाहा इति ।
योनिलङ्गस्य तैलेन शङ्कर म्लक्षणात्ततः ॥ १,१८४.१६ ॥</br />
पुनर्नवामृता दूर्वा कनकञ्चैन्द्रवारुणी ।
बीजे नैषां जातिकाया रसेन रसमर्दनम् ॥ १,१८४.१७ ॥</br />
मूषाय मध्यगं कृत्वा रसं मारणमीरितम् ।
मध्वाज्यसहितं दुग्धं वलीपलितनाशनम् ॥ १,१८४.१८ ॥</br />
मध्वाज्यं गुडताम्रञ्च कारवेल्लरसस्तथा ।
दहनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु ॥ १,१८४.१९ ॥</br />
पीतं धरत्तूपुष्पञ्च सीसकञ्च पलं मतम् ।
लाङ्गलिकायाः शाखा च स्वर्णञ्च दहनाद्भवेत् ॥ १,१८४.२० ॥</br />
धत्तूरबीजतैलेन दीपप्रज्वलनाद्धर ।
समाधावुपविष्टन्तु गगनस्थो न पश्यति ॥ १,१८४.२१ ॥</br />
वृषस्य मृन्मयस्यैव युक्तो भेको निगृह्यते ।
शङ्करावयवैर्युक्तो धूपं घ्रात्वा च गर्जति ।
विस्मयं कुरुते चैव वृषवन्नात्र संशयः ॥ १,१८४.२२ ॥</br />
रात्रौ च सार्षपं तैलं कीटं खद्यो तनामकम् ।
ताभ्यां दीपः प्रज्वलितो वाग्मिज्वालकलापवत् ॥ १,१८४.२३ ॥</br />
चूर्णं छुच्छुन्दरीधं दग्ध्वा रुद्र प्रलेपयेत् ।
तप्यते तक्षणाद्दग्धो यदि सम्यक्प्रलेपयेत् ।
चन्दनेन भवेन्मोक्षः पानाल्लेपात्सुखी भवेत् ॥ १,१८४.२४ ॥</br />
कुञ्जरस्य मदाक्तस्य स्वयं नेत्रे शिववाञ्जयेत् ।
युद्धे विजयते सोऽपि महाशूरश्च जायते ॥ १,१८४.२५ ॥</br />
दन्तं डुण्डुभसर्पस्य मुखे संगृह्य वै क्षिपेत् ।
तिष्ठते च जलान्तस्तु निर्विकल्पं स्थले यथा ॥ १,१८४.२६ ॥</br />
कुम्भीरनेत्रदंष्ट्राश्च अस्थीनि रुधिरं तथा ।
वसातैलसमायुक्तमेकत्र तन्नियोजयेत् ।
आत्मानं म्लक्षयेत्तेन जले तिष्ठेद्दिनत्रयम् ॥ १,१८४.२७ ॥</br />
कुम्भीरकस्य नेत्राणि हृदयं कच्छपस्य च ।
मूषिकस्य वसास्थीनि शिशुमारवसा तथा ।
एतान्येकत्र संलेपाज्जले तिष्ठेद्यथा गृहे ॥ १,१८४.२८ ॥</br />
लोहचूर्णं तक्रपीतं पाण्डुरोगहरं भवेत् ।
तण्डुलीय कगोक्षूरमूलं पीतं पयोन्वितम् ॥ १,१८४.२९ ॥</br />
कमलादिहरंपितं मुखरोगहरं तथा ।
जातीमूलं तक्रपीतं कोलमूलं त्वजीर्णनुत् ॥ १,१८४.३० ॥</br />
सतक्रं कुशमलं वा मर्कटी मूलमेव वा ।
काञ्जिकेन च वाकुच्या मूलं वै दन्तरोगनुत् ॥ १,१८४.३१ ॥</br />
तथेन्द्रवारुणीमूलं वारिपीतं विषादिहृत् ।
सुरभिकामूलपा नाद्वा तन्नाशो भवेच्छिव ॥ १,१८४.३२ ॥</br />
शिरोरोगहरं लेपाद्गुञ्जाचूर्णं सकाञ्जिकम् ।
बला चातिबला यष्टी शर्करा मधुसंयुता ॥ १,१८४.३३ ॥</br />
वन्ध्यागर्भकरी पीता नात्र कार्या विचारणा ।
श्वेतापराजितामूलं पिप्पलीशुण्ठिकायुतम् ॥ १,१८४.३४ ॥</br />
परिपिष्टं शिरोलेपाच्छिरः शूलविनाशनम् ।
निर्गुण्डिकाशिखां पीत्वा गण्डमालां विनाशयेत् ॥ १,१८४.३५ ॥</br />
केतकीपत्रजं क्षारं गुडेन सह भक्षयेत् ।
तक्रेण शरपुङ्खां वा पीत्वा प्लीहां विनाशयेत् ॥ १,१८४.३६ ॥</br />
मातुलङ्गस्य निर्यासं गुडाज्येन समन्वितम् ।
वातपित्तजशूलानि हन्ति वै पानयोगतः ।
शुण्ठी सौवर्चलं हिङ्गु पीतं हृदयरोगनुत् ॥ १,१८४.३७ ॥</br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैद्यशास्त्रे चतुरशीत्यधिकशततमोऽध्यायः
</poem>
 
[[वर्गः:आचारखण्डः]]