"गरुडपुराणम्/आचारकाण्डः/अध्यायः २२४" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
आचारखण्डः using AWB
पङ्क्तिः १३:
सूत उवाच ।
चतुर्युगसहस्रान्ते ब्राह्मो नैमित्तिको लयः ।
अनावृष्टिश्च कल्पान्ते जायते शतवार्षिकी ॥ १,२२४.१ ॥</br />
उतिष्ठन्ति तदा रौद्रा दिवि सप्त दिवाकराः ।
ते तु पीत्वा जलं सर्वं शोषयन्ति जगत्त्रयम् ॥ १,२२४.२ ॥</br />
भूर्भुवः स्वर्महर्लोकं चराचरं जनस्तथा ।
विष्णुश्च रुद्रो भूत्वासौ पातालानि दहत्यधः ॥ १,२२४.३ ॥</br />
विष्णुर्दहेत्त्रिलोकञ्चि मुखान्मेघान् सृजत्यलम् ।
वर्षन्ते वै वर्षशतं नानावर्णा महाघनाः ॥ १,२२४.४ ॥</br />
विष्णुरूपःशतं वाति वर्षाणां वायुरूर्जितः ।
विष्णुरे कार्णवी भूते वर्षे ब्रह्मस्वरूपधृक् ।
शेतेऽनन्तासने विष्णुर्नष्टे स्थावरजङ्गमे ॥ १,२२४.५ ॥</br />
सुप्त्वा वर्षसहस्रं स जगद्भूयोऽसृजद्धरिः ।
अथ प्राकृतिकं वक्ष्ये प्रलयं शृणु शौनक ॥ १,२२४.६ ॥</br />
पूर्णे संवत्सरशते संहृत्य सकलं जगत् ।
ब्रह्माणं न्यस्य देहे हि मुक्तो योगबलैर्हरिः ॥ १,२२४.७ ॥</br />
ये गता ब्रह्मणः स्थानं तेऽपि यान्ति परं पदम् ।
अनावृष्ट्यर्कसम्पन्ना आसन्मेघास्तथा द्विज ।
शतं वर्षाणि वर्षद्भिर्मेधैरण्डं प्रपूर्यते ॥ १,२२४.८ ॥</br />
अन्तर्गतेन तोयेन भिन्नमण्डं जगत्पतेः ।
पूर्णे ब्रह्मायुषि गते भिद्यतेऽम्भसि लीयते ॥ १,२२४.९ ॥</br />
एवं सा जगदाधारा तोये चोर्वो प्रलीयते ।
आपस्तेजसि लीयन्ते तेजो वायौ प्रलीयते ॥ १,२२४.१० ॥</br />
वायुः खे खञ्च भूतादौ विशते च तदा महान् ।
महान्प्रपद्यतेऽव्यक्तं प्रकृतिः पुरुषे परे ॥ १,२२४.११ ॥</br />
शतवर्षं हरिः शेते सृजत्यथ दिनगमे ।
अव्यक्तादिक्रमेणैव व्यक्तीभूतं चराचरम् ॥ १,२२४.१२ ॥</br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नैमित्तिकप्रलयोनाम चतुर्विंशत्यधिकद्विशततमोऽध्यायः
</poem>
 
[[वर्गः:आचारखण्डः]]