"ऋग्वेदः सूक्तं १.१५८" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
वसू रुद्रा पुरुमन्तू वर्धन्ता दशस्यतं नो वर्षणावभिष्टौ |
दस्रा ह यद रेक्ण औचथ्यो वां पर यत सस्राथेकवाभिरूती ||
को वां दाशत सुमतये चिदस्यै वसू यद धेथे नमसा पदे गोः |
जिग्र्तमस्मे रेवतीः पुरन्धीः कामप्रेणेव मनसा चरन्ता ||
युक्तो ह यद वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः |
उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः ||
उपस्तुतिरौचथ्यमुरुष्येन मा मामिमे पतत्रिणी वि दुग्धाम |
मा मामेधो दशतयश्चितो धाक पर यद वां बद्धस्त्मनि खादति कषाम ||
न मा गरन नद्यो मात्र्तमा दासा यदीं सुसमुब्धमवाधुः |
शिरो यदस्य तरैतनो वितक्षत सवयं दास उरो अंसावपि गध ||
दीर्घतमा मामतेयो जुजुर्वान दशमे युगे |
अपामर्थं यतीनां बरह्मा भवति सारथिः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५८" इत्यस्माद् प्रतिप्राप्तम्