"प्रबोधसुधाकरः/मनोलयप्रकरणम्" इत्यस्य संस्करणे भेदः

{{प्रबोधसुधाकरः}} <poem> संसारतापतप्तं नानायोनिभ्र... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१२:१३, २२ जनवरी २०१६ इत्यस्य संस्करणं

  1. देहनिन्दाप्रकरणम्
  2. विषयनिन्दाप्रकरणम्
  3. मनोनिन्दाप्रकरणम्
  4. विषयनिग्रहप्रकरणम्
  5. मनोनिग्रहप्रकरणम्
  6. वैराग्यप्रकरणम्
  7. आत्मसिद्धिप्रकरणम्
  8. मायासिद्धिप्रकरणम्
  9. लिङ्गदेहादिनिरूपणप्रकरणम्
  10. अद्वैतप्रकरणम्
  11. कर्तृत्वभोक्तृत्वप्रकरणम्
  12. स्वप्रकाशताप्रकरणम्
  13. नादानुसन्धानप्रकरणम्
  14. मनोलयप्रकरणम्
  15. प्रबोधप्रकरणम्
  16. द्विधाभक्तिप्रकरणम्
  17. ध्यानविधिप्रकरणम्
  18. सगुणनिर्गुणयोरैक्यप्रकरणम्
  19. आनुग्रहिकप्रकरणम्

संसारतापतप्तं नानायोनिभ्रमात्परिश्रान्तम् ।
लब्ध्वा परमानन्दं न चलति चेतः कदा क्वापि ॥ १५०॥

अद्वैतानन्दभरात्किमिदं कोऽहं च कस्याहम् ।
इति मन्थरतां यातं यदा तदा मूर्छितं चेतः ॥ १५१॥

चिरतरमात्मानुभवादात्माकारं प्रजायते चेतः ।
सरिदिव सागरयाता समुद्रभावं प्रयात्युच्चैः ॥ १५२॥

आत्मन्यनुप्रविष्टं चित्तं नापेक्षते पुनर्विषयान् ।
क्षीरादुद्धृतमाज्यं यथा पुनः क्षीरतां न यातीह ॥ १५३॥

दृष्टौ द्रष्टरि दृश्ये यदनुस्यूतं च भानमात्रं
स्यात् ।
तत्रोपक्षीणं चेच्चित्तं तन्मूर्छितं भवति ॥ १५४॥

याति स्वसंमुखत्वं दृङ्मात्रं वा यदा तदा भवति ।
दृश्यद्रष्टृविभेदो ह्यसंमुखेऽस्मिन्न तद्भवति ॥ १५५॥

एकस्मिन्दृङ्मात्रे त्रेधा द्रष्ट्रादिकं हि समुदेति ।
त्रिविधे तस्मिँल्लीने दृङ्मात्रं शिष्यते पश्चात् ॥ १५६॥

दर्पणतः प्राक्पश्चादस्ति मुखं प्रतिमुखं तदाभाति ।
आदर्शेऽपि च नष्टे मुखमस्ति मुखे तथैवात्मा ॥ १५७॥