"प्रबोधसुधाकरः/मनोनिन्दाप्रकरणम्" इत्यस्य संस्करणे भेदः

{{प्रबोधसुधाकरः}} <poem> हसति कदाचिद्रौति भ्रान्तं... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १४:
तदनभिलषितं कुर्यान्निर्व्यापारं ततो भवति ॥ ५४॥
 
 
 
॥ ४॥ विषयनिग्रहप्रकरणम् ।
संसृतिपारावारे ह्यगाधविषयोदकेन सम्पूर्णे ।
नृशरीरमम्बुतरणं कर्मसमीरैरतस्ततश्चलति ॥ ५५॥
 
छिद्रैर्नवभिरुपेतं जीवो नौकापतिर्महानलसः ।
छिद्राणामनिरोधाज्जलपरिपूर्ण पतत्यधः सततम् ॥ ५६॥
 
छिद्राणां तु निरोधात्सुखेन पारं परं याति ।
तस्मादिन्द्रियनिग्रहमृते न कश्चित्तरत्यनृतम् ॥ ५७॥
 
पश्यति परस्य युवति सकाममपि तन्मनोरथं कुरुते ।
ज्ञात्वैव तदप्राप्तिं व्यर्थं मनुजोऽतिपापभाग्भवति ॥ ५८॥
 
पिशुनैः प्रकाममुदितां परस्य निन्दां श्रुणोति कर्णाभ्याम् ।
तेन परः किं म्रियते व्यर्थं मनुजोऽतिपापभाग्भवति ॥ ५९॥
 
अनृतं परापवादं रसना वदति प्रतिक्षणं तेन ।
परहानिर्लब्धिः का व्यर्थं मनुजोऽतिपापभाग्भवति ॥ ६०॥
 
विषयेन्द्रिययोर्योगे निमेपसमयेन यत्सुखं भवति ।
विषये नष्टे दुःखं यावज्जिवं च तत्तयोर्मध्ये ॥ ६१॥
 
हेयमुपादेयं वा प्रविचार्य सुनिश्चितं तस्मात् ।
अल्पसुखस्य त्यागादनल्पदुःखं जहाति सुधीः ॥ ६२॥
 
धीवरदत्तमहामिषमश्नन्वैसारिणो म्रियते ।
तद्वद्विषयान्भुञ्जन्कलाकृष्टो नरः पतति ॥६३॥
 
उरगग्रस्तार्धतनुर्भेकोऽश्नातीह मक्षिकाः शतशः ।
एवं गतायुरपि सन्विषयान्समुपार्यत्यन्धः ॥ ६४॥
 
</poem>