"महाभारतम्-01-आदिपर्व-006" इत्यस्य संस्करणे भेदः

आदिपर्व using AWB
No edit summary
 
पङ्क्तिः १२६:
1-6-7 आवर्तन्ती सृतिं तस्याः। सृतिं मार्गं। अनुवर्त्म सृता तस्या इति पाठान्तरं।। 7 ।।
षष्ठोऽध्यायः।। 6 ।।
 
<poem><span style="font-size: 14pt; line-height: 175%">
सूत उवाच॥
 
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् |
ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ॥१॥
 
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह |
रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ॥२॥
 
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् |
तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ॥३॥
 
सा तमादाय सुश्रोणी ससार भृगुनन्दनम् |
च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता ॥४॥
 
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः |
रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ॥५॥
 
सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ॥५॥
 
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी |
अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः ॥६॥
 
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा |
नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ॥७॥
 
वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ॥७॥
 
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् |
तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ॥८॥
 
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः |
केनासि रक्षसे तस्मै कथितेह जिहीर्षवे ॥९॥
 
न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥९॥
 
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा |
बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥१०॥
 
पुलोमोवाच॥
 
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता |
ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥११॥
 
साहं तव सुतस्यास्य तेजसा परिमोक्षिता |
भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ॥१२॥
 
सूत उवाच॥
 
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् |
शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि ॥१३॥1.6.14
</span></poem>
 
{{footer
| previous = [[महाभारतम्-01-आदिपर्व-005|आदिपर्व-005]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-006" इत्यस्माद् प्रतिप्राप्तम्