"शतपथब्राह्मणम्/काण्डम् १/अध्यायः ८/ब्राह्मण २" इत्यस्य संस्करणे भेदः

<span style="font-size: 16pt; line-height: 200%"> १.८.२ अथानुयाजकर्म ते वा एते... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ११:
 
अथ सम्मार्ष्टि । युनक्त्येवैनमेतद्युक्तो यदत ऊर्ध्वमसंस्थितं यज्ञस्य तद्वहादिति तस्मात्सम्मार्ष्टि सकृत्सकृत्सम्मार्ष्टि त्रिस्त्रिर्वा अग्रे देवेभ्यः सम्मृजन्ति नेत्तथा करवाम यथा देवेभ्य इति तस्मात्सकृत्सकृत्सम्मार्ष्ट्यजामितायै जामि ह कुर्याद्यत्त्रिः पूर्वं त्रिरपरं तस्मात्सकृत्सकृत्सम्मार्ष्टि - १.८.२.[५]
 
 
स सम्मार्ष्टि । अग्ने वाजजिद्वाजं त्वा ससृवांसं वाजजितं सम्मार्ज्मीति सरिष्यन्तमिति वा अग्र आह सरिष्यन्निव हि तर्हि भवत्यथात्र ससृवांसमिति ससृवेव ह्यत्र भवति तस्मादाह ससृवांसमिति - १.८.२.[६]
Line २५ ⟶ २४:
 
स वै खलु बर्हिः प्रथमं यजति । तद्वै कनिष्ठं छन्दः सद्गायत्री प्रथमा छन्दसां युज्यते तदु तद्वीर्येणैव यच्छ्येनो भूत्वा दिवः सोममाहरत्तदयथायथं मन्यन्ते यत्कनिष्ठं छन्दः सद्गायत्री प्रथमाच्छन्दसां युज्यतेऽथात्र यथायथं देवाश्छन्दांस्यकल्पयन्ननुयाजेषु नेत्पापवस्यसमसदिति - १.८.२.[१०]
 
 
स वै खलु बर्हिः प्रथमं यजति । अयं वै लोको बर्हिरोषधयो बर्हिरस्मिन्नेवैतल्लोक ओषधीर्दधाति ता इमा अस्मिंलोक ओषधयः प्रतिष्ठितास्तदिदं सर्वं जगदस्यां तेनेयं जगती तज्जगतीं प्रथमामकुर्वन् - १.८.२.[११]
 
अथ नराशंसं द्वितीयं यजति । अन्तरिक्षं वै नराशंसः प्रजा वै नरस्ता इमा अन्तरिक्षमनु वावद्यमानाः प्रजाश्चरन्ति यद्वै वदति शंसतीति वै तदाहुस्तस्मादन्तरिक्षं नराशंसोऽन्तरिक्षमु वै त्रिष्टुप्तत्त्रिष्टुभं द्वितीयामकुर्वन् - १.८.२.[१२]
 
 
अथाग्निरुत्तमः । गायत्री वा अग्निस्तद्गायत्रीमुत्तमामकुर्वन्नेवं यथायथेन