"लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३२१" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%"> </span></poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
श्रीनारायण उवाच-
शृणु लक्ष्मि! चतुर्दश्या व्रतेन नृपसत्तमः । चित्रधर्मस्य सत्पुत्रो दृढधन्वेति विश्रुतः ।। १ ।।
प्रापद् राज्यं पुत्रपौत्रान् ललनां च पतिव्रताम् । अन्ते च भगवल्लोकमवाप योगिदुर्लभम् ।। २ ।।
सर्वसद्गुणसम्पन्नो दृष्टवान् वेदपारगः । प्रजारक्षाकरः पुत्रो बभूवेति च तत्पिता ।। ३ ।।
विचार्य चित्रधर्मा तं स्वराज्ये त्वभ्यषेचयत् । अथ चाराधयामीशं कृष्णनारायणं प्रभुम् ।। ४ ।।
तदर्थं वनभूमिर्वै योग्या भवति सर्वथा । ध्रुवाम्बरीषशर्यातिययातिशशबिन्दवः ।। ५ ।।
भगीरथ शिबि रन्तिदेव रुक्मांगदादयः । दिवोदासाऽभयखट्वांगदराजर्षिसत्तमाः ।। ६ ।।
एते चान्ये च कल्पेषु कल्पान्तरेषु भूभृतः । वनं ययुर्महासत्त्वास्त्यक्त्वा भोगाननेकशः ।। ७ ।।
अध्रुवेण ध्रुवं प्राप्ता आराध्य पुरुषोत्तमम् । अतो मयाऽपि कर्तव्यमरण्ये हरिसेवनम् ।। ८ ।।
छित्वा पाशं वासनाख्यं दारापुत्रगृहादिषु । इति निश्चित्य मनसा चित्रधर्मा ययौ वनम् ।। ९ ।।
पुलहाश्रममासाद्य तपस्तेपे हरिं स्मरन् । शुद्धो भूत्वा दिव्यतनुर्हरेर्धाम जगाम सः ।। १० ।।
दृढधन्वा पितुश्चौर्ध्वदैहिकं चाकरोत्ततः । पुष्करावर्तनगरे राजधानीं विधाय सः ।। ११ ।।
भार्यया गुणसुन्दर्या वैदर्भ्या सह भूपतिः । शशास सकलां पृथ्वीं चतुर्भिस्तनयैः सह ।। १ २।।
चित्रवाक्चित्रवाट्चित्रकुण्डलमणिकुण्डलैः । एकदा निशि सुप्तस्य चिन्ताऽऽसीद् दृढधन्वनः ।। १३ ।।
दानं तपो जपं होमं नाऽहं वै कृतवान् क्वचित् । तथापि वैभवा राज्यं केन भाग्येन मे ननु ।। १४।।
ब्राह्मे मुहूर्ते उत्थाय स राजा मृगयामनाः । जगामाऽश्वं समारुह्याऽरण्ये वै सरसस्तटम् ।। १५।।
समागमद्वटे तत्र कश्चिन्मानुषवाक् शुकः । स तु पपाठ सुश्लोकमेकमेव पुनः पुनः ।। १६ ।।
‘सत्यपि वैभवे राज्ये देहादौ सुखदे तथा । न चिन्तयसि लक्ष्मीशं कथं पारं समेष्यसि' ।। १७।।
श्रुत्वा राजा कीरवाक्यं मुमुदे भवतारकम् । कृत्वा तु मृगयां राजा कीरवाक्यं विचारयन् ।। १८ ।।
आजगाम गृहं तावत् तत्र वाल्मीकिराययौ । राजा प्रपूज्य वाल्मीकिं पप्रच्छ कीरभाषितम् ।। १९ ।।
किमुवाच कथं प्राह कोऽसावासीच्छुको मुने! । श्रुत्वा क्षणं च तद्ध्यात्वा वाल्मीकिराह भूपतिम् ।। २० ।।
शृणु राजँस्तव पूर्वजन्मनश्चरितं यथा । ताम्रपर्णीतटे देशे द्रविडे त्वं द्विजोऽभवः ।। २१ ।।
सुदेवाख्यश्च ते पत्नीं गौतमी गौतमोद्भवा । अप्रजा सा पतिं प्राहाऽपत्यं विना सुदुःखिता ।। २२ ।।
सन्ततिः शुद्धवंश्या स्यादत्र परत्र शर्मणे । तमप्राप्य वरं पुत्रं जीवितं त्वत्र निष्फलम् ।। २३ ।।
तस्मात्सत्पुत्रलाभार्थमावाभ्यां परमेश्वरः । आराधनीयः सततं तपसा पुरुषोत्तमः ।। २४।।
धर्मपत्न्या वचो मत्वा ताम्रपर्णीतटे शुभे । शुष्कपर्णजलाहारौ पंचमे पंचमे दिने ।। २५ ।।
चत्वार्यब्दसहस्राणि चेरतुः परमं तपः । लोकाश्चकम्पिरे तेन प्रादुर्बभूव माधवः ।।२६ ।।
गरुडस्थो हरिः प्राह सुदेव! भद्रमस्तु ते । गौतमि! श्रीरस्तु तेऽपि कुरुतं मा तपो बहु ।।२७।।
श्रुत्वा तौ नेमतुः कृष्णमूचतुर्जय माधव! । सुदेवः प्राह भगवन्! पुत्रं देहि हरे प्रभो! ।।२८।।
हरिः प्राह ललाटे ते वर्णाः सर्वे मयेक्षिताः । तत्र नैवाऽस्ति ते पुत्रसुखं सप्तसु जन्मसु ।।२९।।
गौतम्युवाच भाग्याग्रे रमानाथो निरर्थकः । दैवमालंबनीयं चेत्! हरिणा किं प्रयोजनम् ।।३ ०।।
श्रुत्वा हरिं गरुडस्तु प्राह कृष्णं जनार्दनम् । भक्तदुःखाऽसहिष्णो! त्वं हर्यर्थं सार्थकं कुरु ।।३ १ ।।
त्वदाराधनमाहात्म्यं निष्फलं नैव नैव हि । कर्तुमकर्तुं सामर्थ्यं मा कुरु त्वं निरर्थकम् ।।।३ २।।।
गरुडस्याऽऽग्रहं दृष्ट्वा तथास्त्वित्यवदद्धरिः । परं तज्जनितं दुःखं दम्पत्योर्भविता ध्रुवम् ।।३ ३ ।।
इत्युक्त्वा गरुडे स्थित्वा गोलोकं हरिराययौ । गते काले सुदेवस्य पत्न्यां पुत्रोऽभवच्छुभः ।।३४।।
व्यवर्धत गते काले चोपनीतोऽथ पाठितः । देवलर्षिः क्वचित्तत्र समायात् पापनाशनः ।।३५।।।
करं दृष्ट्वा छत्रपद्मयवचामरचिह्नितम् । स्फुटदायुष्यरेखं च प्राहाऽऽधुन्वन् शिरस्तदा ।।।३६।।
सुदेव! तनयोऽयं ते द्वादशे हायने जले । मृत्युमेष्यति तस्मात्ते माऽस्तु शोकोऽनुभाविनि ।। ३७।।
श्रुत्वा शुशूचतुस्तौ च देवलो निर्ययौ ततः । अथ प्राप्तेऽनिष्टकालेऽगच्छद्वापीं हि तत्सुतः ।। ३८।।
पतितोऽगाधतोयेऽसौ ममज्ज च ममार च । ज्ञात्वा पुत्रस्य निधनं वयस्येभ्यः पिता प्रसूः ।।३९।।
ययतुस्तत्र संगृह्य शवं रुरुदतुर्बहु । विलापं चक्रतुश्चाति तत्यजतुर्जलान्नकम् ।।४०।।
श्रीकृष्णवल्लभो मासः सोऽभवत्पुरुषोत्तमः । अजानतोस्तयोरासीत्पुरुषोत्तमसेवनम् ।।४१।।
तेनाऽत्यन्तप्रसन्नः सन्प्रादुरासीद्धरिः स्वयम् । सपत्नीको नमश्चक्रे दण्डवच्छ्रीहरिं द्विजः ।।४२।।
हरिः प्राह सुदेव! त्वं भाग्यवानसि साम्प्रतम् । द्वादशाब्दसहस्रायुः पुत्रस्तेऽयं कृतो मया ।।४३।।
पुरुषोत्तममाहात्म्यात् प्रसन्नेन मया द्विज! । सुचिरं जीवितोऽयं हि तनयः सुखदोऽस्तु ते ।।४४।।
गार्हस्थ्यमतुलं भुक्त्वा सह पुत्रेण सर्वदा । ततस्त्वं ब्रह्मणो लोकं गत्वा तत्र महत् सुखम् ।।४५ ।।
दिव्याब्दवर्षसाहस्रं भुक्त्वा गन्तासि भूतले । ततो राजा चक्रवर्ती दृढधन्वा भविष्यसि ।।।४६ ।।
सम्वत्सराणामयुतं राज्यं भोक्ष्यसि पार्थिवम् । गौतमीयं तव पत्नी नाम्ना तु गुणसुन्दरी । । ४७ । ।
पुत्राश्चत्वार एका च कन्या ते तत्र भाविनः । यदा विरमसे मां त्वं कृष्णनारायणं प्रभुम् ।।४८ ।।
अयं ते तनयो विप्र! शुको भूत्वा तदा वने । बोधयिष्यति भक्तेस्तु वाक्यं कृष्णविचिन्तकम् ।। ४९ ।।
वाल्मीकिस्त्वां कथां सर्वां यथार्थां कथयिष्यति । ततो वैराग्यमापन्नः कृत्वा भक्तिं परां हरेः ।।५ ० ।।
गमिष्यसि सपत्नीको मोक्षं परं हरेः पदम् । वदत्येवं महाविष्णौ समुत्तस्थौ द्विजात्मजः ।। ५१ ।।
दम्पती तं सुतं दृष्ट्वा महानन्दौ बभूवतुः । ननाम शुकदेवोऽपि श्रीहरिं पितरौ तु तौ ।। ५२ ।।
गरुडो ब्राह्मणश्चापि नेमुर्हरिं सभार्यकः । कृष्णः प्राहाऽधिमासस्याऽनायासेनापि पालनात् । ।५ ३ ।।
सुतदारापतिपत्नीक्षेत्रराज्यसुखानि वै । भवन्त्येव न सन्देहः किमु पुत्रसजीवनम् ।।५४।।
एकमप्युपवासं यः करोति पुरुषोत्तमे । दग्ध्वाऽनन्तान्यनिष्टानि लब्ध्वा पुण्यनिधीन् स तु । ।५५ ।।
सुरयानं समारुह्य वैकुण्ठं याति देहवान् । एकतः सर्वपुण्यानि त्वेकतः पुरुषोत्तमम् ।।५६।।
तोलयामास वेधोऽभूद् गुरुर्वै पुरुषोत्तमः । ईशसृष्टौ जीवसृष्टौ ब्रह्मसृष्टावपि स्वयम् ।। ५७ । ।
पुरुषोत्तममासस्तु सर्वत्र वर्तते महान् । तस्य वै पालनेनाऽत्र विजयस्ते भविष्यति । ।५८ । ।
इत्युक्त्वा श्रीहरिर्धाम ययौ गरुडवाहनः । सुदेवः सः सपत्नीकस्तं मासं समपूजयत् ।।५९ । ।
भुक्त्वाऽथ विषयान् सर्वान् सहस्राब्दान्यहर्निशम् । जगाम ब्रह्मणो लोकं सपत्नीको द्विजोत्तमः । । ६० । ।
तत्रत्यं सुखमासाद्य सपत्नीको भुवं गतः । स एव दृढधन्वा त्वं प्रथितः पृथिवीपतिः ।। ६१ ।।
महिषीयं तव पत्नी गौतमी गुणसुन्दरी । शुकदेवश्च ते पुत्रो हरिणा योऽनुजीवितः । । ६२ ।।
द्वादशाब्दसहस्रायुर्भुक्त्वा वैकुण्ठमेयिवान् । स एव वै शुको भूत्वाऽबोधयत् त्वां स्मृतिं हरेः ।।६ ३ ।।
पुन्नामनरकात् त्राता पुत्रस्ते सार्थकोऽभवत् । इत्येतत् कथितं राजन् प्राग्वृत्तं ते यथा ह्यभूत् ।।६४।।
शतधन्वा तदाऽपृच्छत् पूजाविधिं मुनिं तदा । वाल्मीकिस्त्वाह तं सर्वं विधिं विस्तरतो नृपम् ।।६५ ।।
ब्राह्मे मुहूर्ते चोत्थाय परंब्रह्म विचिन्तयेत् । ततो व्रजेन्नैर्ऋताशां शौचार्थं जलभाजनः ।।६६ ।।
कर्णे कृत्वा ब्रह्मसूत्रं शौचं मूत्रं विसर्जयेत् । जलेनेन्द्रिययुगलं प्रक्षाल्य मृज्जलादिभिः ।।६७।।
गन्धलेपक्षयशुद्धिं कृत्वा गण्डूषकान् बहून् । दन्तशुद्धिं तथा कृत्वा स्नायात्तीर्थादिवारिषु ।।६८ ।।
आयुर्बलं यशो वर्चः प्रजा पशुवसूनि च । ब्रह्म प्रज्ञा च मेधा च वर्धन्ते स्नायिनोऽन्वहम् ।।६९।।
शुद्धे वस्त्रे परिधाय प्राङ्मुखो बद्धसंशिखः । सपवित्रेण हस्तेन कुर्यादाचमन ततः ।।७० ।।
ऊर्ध्वपुण्ड्रं सबिन्दुं च कुर्याच्चन्दनमृत्स्नया । शंखचक्रादि कुर्याच्च धारयेत् तुलसीस्रजम् ।।७ १ ।।
प्राणायामं तथा सन्ध्यां गायत्रीजपनं चरेत् । शुचौ देशे गोमयेन मण्डलं तण्डुलादिभिः ।।।७२ ।।
कारयित्वा च तन्मध्ये कलशं सजले न्यसेत् । कलशस्य मुखे विष्णुः कण्ठे रुद्रः सदा स्थितः ।।७३ ।।
तस्य मूले स्थितो ब्रह्मा मध्ये तिष्ठन्ति मातरः । कुक्षौ तिष्ठन्ति भूद्वीपसहिताः सप्त सागराः ।।७४।।
तिष्ठन्ति ऋग्यजुःसामाऽथर्वाणोऽङ्गयुतास्तथा । गंगा गोदावरी सौर्या कावेरी च सरस्वती ।।७५।।
तिष्ठन्त्वत्र जले नद्यः पापनाशविधायिकाः । चन्दनाऽक्षतपुष्पाणि समर्पयामि ओं नमः ।।७६ ।।
नैवेद्यं फलताम्बूले समर्पयामि ओं नमः । इत्यभ्यर्च्य ततः शंखं पूजयेदक्षतादिभिः ।।७७।।
घण्टां च पूजयेद् रम्यामक्षतैः कुंकुमादिभिः । पात्रं घटोपरि न्यस्येत् तिलयुक्शर्करान्वितम् ।।७८।।
पीताम्बरं शुभं चापि हैमं राधायुतं हरिम् । पुरुषोत्तममासस्य दैवतं तं प्रपूजयेत् ।।७९।।
अनलोत्तारणं कृत्वा कुर्वीत प्राणधारणाम् । स्पृष्ट्वा द्वौ तत्कपालौ तु दक्षिणेन करेण वै ।।८ ० ।।
दत्वा च हृदयेऽङ्गुष्ठं प्राणाँस्तत्र सुधारयेत् । अस्यै प्राणाः प्रतिष्ठन्तु चास्यै प्राणाः क्षरन्तु च ।।८ १ ।।
अस्यै देवत्वयुक्तायै स्वाहा नारायणाय वै । ध्यायेद् देवं तत आवाहयेन्नाथं हृदि स्थितम् ।।८ २।।
आवाहयामि राधाश्रीसहितं पुरुषोत्तमम् । आसनं चार्पयाम्यस्मै श्रीकृष्णाय तु शार्ङ्गिणे ।।८ ३ ।।
समर्पयामि सलिलं पादप्रक्षालनाय ते । अर्घ्यं फलान्वितं चैवाऽर्पयामि परमात्मने ।।८४।।
तीर्थजलान्याचमनं तेऽर्पयामि राधिकापते । पयो दधि घृतं क्षौद्रं शर्करा चार्पयामि ते ।।८५।।
पञ्चस्नानं जलस्नानं तथा ते कारयाम्यहम् । पीतधौत्रं चोत्तरीयं समर्पयामि केशव! ।।८६।।
कौस्तुभं ब्रह्मसूत्रं च भूषां ददामि ते प्रभो । सुगन्धतैलसारादि चन्दनं चार्पयामि ते ।।८७।।
कुंकुमाक्षतपुष्पाणि चार्पयानि गृहाण वै । धूपं दिव्यरसोपेतं त्वर्पयामि च ते प्रभो ।।८८ ।।
दीपं घृतोज्ज्वलं तुभ्यं चार्पयामि हरे प्रभो । पायसाद्यं च नैवेद्यं समर्पयामि केशव ।।८९।।
आचमनं जलपानं फलं ताम्बूलकं तथा । करोद्वर्तनकं चैव समर्पयामि माधव ।।९० ।।
सुवर्णदक्षिणां हाराऽक्षतान् ददामि केशव! । नीराजयामि देवेशं प्रदक्षिणं करोमि च ।। ९१ ।।
पुष्पांजलिं चार्पयामि नमस्कारं करोमि च । न्यूनं ते पूजने किंचित् क्षमस्व पुरुषोत्तम ।।।९२।।
होमं कुर्यादखण्डं च घृतदीपं समाचरेत् । पुरुषोत्तमतुष्ट्यर्थे सर्वार्थफलसिद्धये ।। ९३ ।।
इति नित्यं पूजयेत्तं दद्याद्दानानि शक्तितः । भोजयेद् भोज्यपात्राणि वृद्धाँश्च पादयोर्नमेत् ।।९४।।
हविष्यभोजनं कुर्याद् व्रती देवप्रसादकम् । गोधूमाः शालयो मुद्गा यवास्तिलाश्च शर्कराः ।।९५।।
कङ्गूखर्जूरनीवारा द्राक्षाः कन्दाश्च कर्कटी । मूलं शाकानि पत्राणि खाद्यपुष्पाणि मूलकम् ।।९६।।
कान्दकानि कदलानि दधिं दुग्धं तथाऽऽर्द्रकम् । शुण्ठी चाम्रफलं तक्रं पनसं च हरीतकीं ।।९७।।
पिप्पलीजीरकं चामलकं तिन्तिडिका तथा । क्रमुकं चैक्षवं सर्वं सात्त्विकं व्रतिभोजनम् ।। ९८ ।।
राजसं राजिकाराद्धं तामसं चामिषादिकम् । वातुलं द्विदलाद्यं च परान्नादि विवर्जयेत् ।।९९ ।।
ब्रह्मचर्यमधःशय्यां पत्रावल्यां च भोजनम् । एकभुक्तं च कुर्वीत निन्दामात्रं विवर्जयेत् ।। १०० ।।
उपोषणेन दुग्धेन दध्ना जलेन सर्पिषा । पत्रेणापि फलेनापि कर्तव्यः पुरुषोत्तमः ।। १०१ ।।
व्रतभंगो यथा न स्यात्तथा कार्यं प्रभोजनम् । तुलसीदललक्षेणाऽऽर्चने पुण्यमनन्तकम् ।। १० २।
पुरुषोत्तममासस्य व्रत्यपि पुरुषोत्तमः । चतुर्भुजो भवेदेव वैकुण्ठे वसति ध्रुवम् ।। १०३ ।।
अखण्डदीपो दातव्यो मासे श्रीपुरुषोत्तमे । सौभाग्यनगरे राजा चित्रबाहुरभूत्पुरा ।। १ ०४।।
तस्य चन्द्रकला भार्या ह्युभावास्तां सुधार्मिकौ । अगस्त्यश्च मुनिस्तस्य भवनं त्वाजगाम ह ।। १० ५।।
पूजयित्वा विनयेन चित्रबाहुरुवाच ह । अद्य मे गृहसाम्राज्यजन्मादि सफलं खलु ।। १०६ ।।
यस्त्वं समागतो मेऽद्य गृहे श्रीकृष्णवल्लभः । तुभ्यं सर्वं ददाम्यद्य वैष्णवाय महात्मने ।। १ ०७।।
मेरुतुल्यफलं स्याच्च मनागप्यर्पितं तु ते । विष्णवे विष्णुभक्तायाऽनर्पितो दिवसोऽफलः ।। १०८ ।।
वैष्णवा वाङ्मनःकायकर्मभिः सेवनार्हणाः । तस्य धन्याः प्रजाः सर्वा यद्गृहे वैष्णवो जनः ।। १०९ ।।
वस्तव्यं वैष्णवे देशे राज्ये वैष्णवभूभृति । अमंगलं तथा काणं बोध्यं राष्ट्रमवैष्णवम् ।। ११० ।।
श्रीकृष्णाश्रितभक्तस्य राज्ञो राज्यं विवर्धते । मुने! लक्ष्मीर्विपुलं मे तथा राज्यमकंटकम् ।। १११ ।।
पतिव्रता च मे पत्नी केन पुण्येन मे वद । श्रुत्वाऽगस्त्यश्च तं प्राह चमत्कारपुरे पुरा ।। ११ २।।
त्वमभूः शूद्रजातीयो मणिग्रीवोऽतिनास्तिकः । सुरा मांस व्यवायाति चौर्य दुर्गुणवारिधिः ।। ११ ३।।
पतिभक्ता त्वियं भार्या सदा सद्भावनावती । राज्ञा विवासितस्त्वं तु गतोऽरण्यं प्रियायुतः ।। ११ ४।।
मृगयाजीवनस्त्वं तु वने संदृष्टवान् मुनिम् । तृषितं च मुमूर्षुँ च ह्युग्रदेवं द्विजं तदा ।। १ १५।।
उत्थायोत्तोल्य सलिलं फलं दत्वाऽप्रमोदयत् । मुनिः प्राह सुसन्तुष्टो मणिग्रीव! सुखी भव । । ११६ ।।
जीवितं दत्तवाँस्त्वं मे ब्रूहि किं ते ददाम्यहम् । मणिग्रीवस्तदा प्राह दारिद्र्यं नश्यतान्मम ।। १ १७।।
अतुला वैभवाः सन्तु पूर्णा मे स्युर्मनोरथाः । इतीच्छामि तदा प्राह मुनिस्तथा भवन्तु ते ।। ११८ ।।
आगामिन्यधिमासे वै पावने पुरुषोत्तमे । दीपो देयो मन्दिरे श्रीपुरुषोत्तमतुष्टये ।। ११ ९।।
न ते तीव्रदारिद्र्यं समूलं नाशमेष्यति । तिलतैलेन वाऽऽज्येनेङ्गुदीतैलेन वापि च ।। १२० ।।
मासमेकं सदा स्नात्वा देवं नत्वा प्रदीपकम् । देहि तेन महाराज्यं पृथ्व्यां ते वै भविष्यति ।। १२१ ।।
यज्ञादीनि तु कर्माणि कृच्छ्रचान्द्रायणानि च । वेदपाठो गयाश्राद्धं कुरुक्षेत्रग्रहास्तथा ।। १ २२।।
तीर्थानि सर्वदानानि धर्मकार्याणि यानि च । पुरुषोत्तमदीपस्य कलां नार्हन्ति षोडशीम् ।। १२३ ।।
अधिमासव्रतं श्रेष्ठं दीपश्चान्तःप्रकाशकः । धनधान्यपशुपुत्रपौत्रदारायशस्करम् ।। १ २४।।
वन्ध्यात्वनाशकं नार्या अवैधव्यकरं व्रतम् । राज्यदं चेष्टदं भर्तृप्रदं पत्नीप्रदं व्रतम् ।। १२५ ।।
विद्यासिद्धिकोशमोक्षप्रदं दीपार्पणव्रतम् । इति पूर्वं त्वया दत्तो दीपं श्रीहरये वने ।। १२६ ।।
तेन पुण्येन सद्राज्यं लक्ष्मीं पत्नीं पतिव्रताम् । प्राप्तवानसि राजेन्द्र! पुनः कुर्या लभिष्यसि ।। १ २७।।
इत्युक्त्वाऽगस्त्यऋषिराट् प्रयागं संजगाम ह । राज्ञा तेनापि विधिना प्राप्ते श्रीपुरुषोत्तमे ।। १२८ ।।
कृतं दीपप्रदानं च ततो मोक्षमवाप सः । इत्युक्त्वाऽर्हणमादाय वाल्मीको निर्जगाम ह ।। १ २९।।
ततो मासे समायाते श्रेष्ठे श्रीपुरुषोत्तमे । चतुर्दश्यां प्रगे कृष्णदुन्दुभिर्दृढधन्वना ।। १३० ।।
श्रुतः कुर्वन्तु चाऽद्यैव व्रतं दीपं सजागरम् । स्वर्गं मोक्षं प्राप्नुवन्तु तेन पुण्येन मद्वरात् ।। १३१ ।।
इति श्रुत्वा दृढधन्वा स्मृत्वा सर्वं व्रतं तदा । सकुटुम्बो निराहारश्चक्रे सदीपजागरम् ।। १३२ ।।
महान्तमुत्सवं चक्रे ददौ दानानि गोभुवाम् । रात्रौ समाजगामाऽयं श्रीकृष्णः पुरुषोत्तमः ।। १३३ ।।
सकुटुम्बं गरुडेन ब्रह्मलोकं निनाय तम् । किमु कथ्यं महालक्ष्मि! माहात्म्यमाधिमासिकम् ।। १ ३४।।
कर्ता धर्ता समुद्धर्ता यत्र श्रीपुरुषोत्तमः । पोष्टा तुष्टः प्रदाता च भोक्ता श्रीपुरुषोत्तमः ।। १ ३५।।
य इदं शृणुयाल्लक्ष्मि! पठेद्वा पाठयेदपि । सोऽधिमासफलं लब्ध्वा ब्रह्मलोकं प्रयाति हि ।। १ ३६।।।
सकामः स्वर्गमासाद्य पारमेष्ठ्यपदं तथा । महेशादिपदं प्राप्य ब्रह्मलोके महीयते ।। १३७ ।।
यैस्तु संपूजितो मासः सर्वं तैरभिपूजितम् । सर्वं प्राप्तं भवेत् तेन प्राप्तः श्रीपुरुषोत्तमः ।। १३८ ।।
येन नीतोऽधिमासोऽयं वन्ध्यस्तस्य तु सम्पदः । वन्ध्याः पुण्यं कृतं सर्वे वन्ध्यं स्यान्नात्र संशयः ।। १३९ ।।
ये केचित् सुखिनः सन्ति सुरमानवदानवाः । पुरुषोत्तममासस्य फलं लक्ष्मि! न चेतरत् ।। १४०।।
इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये दृढधन्वाऽरण्ये शुकोक्तश्लोकं श्रुत्वा तदर्थं वाल्मीकं पृष्ट्वा, स्वीयं प्राग्भवीयं सुदेवद्विजत्वं पुत्रवत्त्वं च पुत्रनिधने च पुरुषोत्तममासकरणेन पुत्रजीवितत्वं स त्वयं पुत्रः शुकः श्लोकवक्ता त्वं त्विदानीं दृढधन्वा जात इति वृत्तान्तं ज्ञातवान्; पुरुषोत्तममासपूजाविधिं च ज्ञातवान्, अधिकमासे दीपदानेन मणिग्रीवशूद्रस्य जन्मान्तरे चित्रबाहुनृपतित्वं राज्यप्राप्तिश्चागस्त्येन कथिता, तदपि ज्ञातवान् , ततश्च चतुर्दशीव्रतं कृत्वा दृढधन्वा सकुटुम्बो मोक्षमवापेत्यादिनिरूपणनामा एक-विंशत्यधिकत्रिशततमोऽध्यायः ।। १.३२१ ।।
 
</span></poem>