"लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३२२" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%"> </span></poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
श्रीनारायण उवाच-
शृणु लक्ष्म्यधिमासान्ते दिने त्वक्षरधामनि । कृतमुद्यापनं सर्वैः पुरुषोत्तममन्दिरे ।। १ ।।
राधाकृष्णादयः सर्वे गोलोकस्थाः समाययुः । वासुदेवादयो व्यूहाः स्वप्रजाभिः समाययुः ।। २ ।।
महावैकुण्ठलोकस्था वयं नारायणादयः । त्वया सह प्रजाभिश्च गता अभूम चाक्षरम् ।। ३ ।।
अव्याकृताऽमृतधामभूमश्रीपुरतत्स्त्रियः । न्यायेश्वरादयः सर्वे मुदा तत्र ययुस्तदा ।। ४ ।।
महाविष्णुप्रभृतयो हिरण्यगर्भसृष्टयः । प्रवैराजाश्चावरणा ईश्वरा जग्मुरक्षरम् ।। ५ ।।
विष्णोर्जलावरणोर्ध्ववैकुण्ठस्था ययुस्तथा । सदाशिवस्य धामस्था महामायाप्रजा ययुः ।। ६ ।।
एवं त ईश्वराश्चावतारा गत्वाऽक्षरं परम् । चक्रुरुद्यापनं तत्र पुरुषोत्तममासिकम् ।। ७ ।।
ब्रह्मणः सत्यलोके चर्षयो मुनिजनास्तथा । मातृगणाः पितरश्च देवा जग्मुश्च वैष्णवः ।। ८ ।।
उद्यापनप्रकर्तारो दिव्या ययुर्नरादयः । तीर्थानि देवताः सर्वा देव्यो जग्मुर्दिशस्तथा ।। ९ ।।
तत्त्वान्यपि ययुस्तत्र सरितः सिन्धवस्तथा । पर्वताश्च तथाऽखाता द्वीपाः खण्डा ययुस्तथा ।। १ ०।।
ग्रहास्ताराश्च नक्षत्रमण्डल वृक्षवल्लयः । दिव्या वै भक्तवर्यास्तु दैत्या दानवराक्षसाः ।। ११ ।।
ओषधयस्तथा सर्पा नागाः पतत्त्रयोऽमलाः । जलवासाः स्थलवासा वायुवासा ययुस्तदा ।। १ २।।
पातालस्था विवरस्था दिव्यादिव्या ययुस्तदा । व्रतिनः सहवासाश्च भक्ता उद्यापनंकृते ।। १३ ।।
सत्ये पैतामहे लोके सन्निधौ ययुरादरात् । पुरुषोत्तममासस्योद्यापनार्थं ययुश्च ते ।। १४।।
गन्धर्वाः किन्नराः सूतादयश्च सुरमानवाः । भट्टचारणभृत्याश्च रौद्रा अपि च शांकराः ।। १५।।
एते चान्ये व्रतपूर्तिफलार्थं चोत्सवे गताः । शृणु लक्ष्मि! तत्र तत्र यथाशक्ति यथाधनम् ।। १६ ।।
कृतमुद्यापनं सर्वैः सर्वेष्टसिद्धिदायकम् । भुक्तिमुक्तिप्रदं द्रव्यदानपूर्वं कृतं तु तैः ।। १७।।
शृणु तैस्तु कृतमुद्यापनं संश्रावयामि ते । पुरुषोत्तममासस्य यदुक्तं हरिणा स्वयम् ।। १८ ।।
पक्षद्वये चतुर्दश्याममायां पूर्णिमातिथौ । एकादश्यां नवम्यां वा व्रताहेऽष्टमिकातिथौ ।। १ ९।।
यत्र तिथौ भवेदानुकूल्यं तत्रापि वा तिथौ । उद्यापनं प्रकुर्याद्वै व्रतसम्पूर्तिहेतवे ।। २ ० ।।
पुरुषोत्तममासस्य दुन्दुभिश्च स्थले स्थले । उद्धोषयति गत्वैव कुर्वन्तूद्यापनं शुभम् ।। २ १।।
पुरुषोत्तममासस्य फलं पूर्णं भविष्यति । श्रुत्वाऽपि डिण्डमं चान्ये चक्रुरुद्यापनं गृहे ।। २२।।
रात्रौ भूशायिनो भूत्वा ब्रह्मचर्यं प्ररक्ष्य च । प्रातरुत्थाय ते सर्वे चक्रुर्ध्यानं हरेस्ततः ।। २३ ।।
कृत्वा शौचादिकाः सर्वा दैहिकीर्बाह्यतः क्रियाः । दिव्यादिव्यं यथावर्ष्म कृत्वा स्नानादिकं ततः ।।।२४।।
जपं होमं तथा सन्ध्यां स्वाध्यायं तर्पणादिकम् । यथालोकं यथावर्ष्म यथायोग्यं विधाय ते ।। २५ ।।
नित्यां पूजां वृद्धपूजां कृत्वा पूज्यार्हणादिकम् । आचम्य च भुवं कृत्वा संस्कृतां बहुविस्तराम् ।। २६।।।
चक्रुश्च मण्डपं तत्र बहुस्तंभसमन्वितम् । रत्नहीरकहाराद्यैराम्राऽशोकादितोरणैः ।। २७।।
कदलीस्तम्भपत्राद्यैः कल्पवल्ल्यास्तरोः फलैः । कलशैः रंगवल्लीभिश्चाम्बरैः कानकान्वितैः ।। २८ ।।
बन्धयित्वा प्रदीपैश्च शोभयित्वा सुगन्धिभिः । वासयित्वा च तन्मध्ये पञ्चधान्यैश्च सप्तभिः ।। २ ९।।
धान्यैर्वा कारयित्वैव सर्वतोभद्रमण्डलम् । सपत्नीकान् विष्णुभक्तान् निमन्त्र्य च यथाबलम् ।। ३० ।।
न्यसुश्चतुरः कलशाँश्चतुर्दिक्षु च मण्डले । सुवस्त्रश्रीफलपूगीनागवल्लीदलान्वितान् ।।३ १ ।।
तत्राऽक्षतान् पूरयित्वा शर्कराद्रव्यमिश्रितान् । वासुदेवं संकर्षणं प्रद्युम्नं चानिरुद्धकम् ।।३ २।।
ईशानतः क्रमान्न्यस्य मध्ये च कलशे शुभे । सफले साम्बरे पूगीस्वर्णमुद्राऽक्षतान्विते ।। ३ ३।।
पञ्चरत्नयुते स्वर्णे न्यधुः श्रीपुरुषोत्तमम् । राधालक्ष्म्यादिसहितं सौवर्णे दिव्यरूपिणम् ।। ३४।।
एवं तैर्व्रतिभिः सर्वैः स्थापनं श्रीहरेः कृतम् । आचार्यश्च गुरुस्तत्र पूजनार्थं प्रवेशितः ।। ३५।।
देहशुद्धिः कारिता च यजमानस्य तेन वै । तत आवाहितो देवश्चासनं च प्रदापितः ।। ३६।।
पादप्रक्षालनार्थ वै दत्तं जलं सुतीर्थजम् । चतुर्दिक्षु कृता दीपाः सुगन्धस्तत्र कारितः ।।३७।।
अर्घ्यं फलादिभिर्युक्तं दम्पत्या च समर्पितम् । आचमनीयसलिलं दत्तं देवाय तीर्थजम् ।। ३८ ।।
दधि दुग्धं घृतं क्षौद्रं शर्करा चामृतं तथा । अभिषेक जलस्नानं दत्तानि केशवाय वै ।। ३ ९।।
वस्त्रेण मार्जितो देवौ वस्त्राभूषणभूषितः । गन्धसारोत्तरतैलसुगन्धाद्यैः सुवासितः ।।४० ।।
कुंकुमकज्जलचूर्णचन्दनाद्यैः सुशोभितः । मणिहीरकमौत्तिकहारोपवीतभूषितः ।।४ १ ।।
किरीटकुण्डलकटकोर्मिकाशृंखलान्वितः । छत्रयष्टिनक्तकचामरपत्त्राणरक्षितः ।।४२।।
पर्यंक गेन्दुक कशिप्वा दर्शादि प्रदापितः । पुष्पतुलसीपद्माद्यैः पुण्ड्रैश्चन्द्रैः सुशोभितः ।।४३ ।।
अथ तन्मण्डपे ताम्रपात्रे होमश्च कारितः । चतुर्थ्यन्तैर्नाममन्त्रैस्तिलैर्घृतेन सत्फलैः ।।४४।।
अष्टोत्तरशतवारं ततश्च तर्पणं कृतम् । देवाश्च पितरश्चेति तृप्यन्तां पुरुषोत्तमः । ।४५।।
अथ नीराजितो देवो बहुवर्त्यनलैस्तथा । नमस्कृतः स्तुतः प्रदक्षिणीकृतश्च वैष्णवैः ।।४६।।
दण्डवत्सत्कृतश्चापि ध्यातः श्रीपुरुषोत्तमः । क्षमापितो हरिः पुष्पांजलिर्दत्तश्च शार्ङ्गिणे ।।४७।।
अथ संभोजितो देवो मिष्टान्नैस्तर्पितोऽमृतैः । अर्पितश्च जलैर्मिष्टफलैस्ताम्बूलचर्वितः ।।४८ ।।
सुगन्धैरुद्वर्तितश्च करयोः पुरुषोत्तमः । स्वास्थ्यैर्विश्रमितो देवः पादयोरभिवाहितः ।।४९।।
एवं सर्वैः पूजितश्च भगवान् पुरुषोत्तमः । आविर्भूतोऽदृश्यताग्रे फलन्त्वनन्तकं ददौ ।।५ ० ।।
अथाऽऽचार्याय संदत्ता दक्षिणा हेमरूप्यका । धेनुदानं कृतं चापि स्वर्णशृंगारभूषितम् ।।५ १ ।।
घृतवस्त्रतिलपात्रं दत्तं विप्राय तत्र च । प्रतिमा च प्रदत्ता संहिताशास्त्रं समर्पितम् ।।५२ ।।
कांस्यानि संपुटात्मानि त्रिंशद्दत्तानि वै तदा । तदा त्रिंशत्त्रिंशदपूपैश्च मध्ये सम्पूरितानि वै ।।५३ ।।
एतद्ब्रह्माण्डदानं वै कल्पितं पुरुषोत्तमे । प्रत्यङ्गं तु यावन्ति छिद्राणि सन्ति पद्मजे ।।५४।।
तावद्वर्षसहस्राणि वैकुण्ठे वसतिर्भवेत् । ततो वसतिर्गोलोके ततो धाम्न्यक्षरे परे ।।५५ ।।
अथवाऽपूपसामग्र्यपक्वा देया द्विजन्मने । अथ संभोजिता विप्राः सन्तः साध्यश्च बालकाः ।।५६।।
पायसान्नैश्च मिष्टान्नैर्व्यञ्जनैश्चामृतादिभिः । चतुर्धा भोजनैर्भक्ष्यभोज्यलेह्यसुचोष्यकैः ।।५७।।
रसैर्दुग्धादिभिर्वार्भिः शर्करैलादिमिश्रितैः । ततो जलं मुखशुद्धिस्ताम्बूलकं च दक्षिणा ।।५८।।
वस्त्राण्याभरणान्युत्तमोत्तमान्यर्पितानि वै । देवीभ्यो देवताभ्यश्च गुरुभ्योऽप्यर्पितानि च ।।५९ ।।
तत्तल्लोकज तत्त्वानि दानयोग्यानि यानि वै । भूतेभ्य आश्रितेभ्यश्चातिथिभ्योऽन्नं समर्पितम् ।। ६० ।।
ततो भुक्तं स्वजनैश्च सह व्रतिभिरादरात् । फलाहारादिकं योग्यं व्रतभंगाऽकरं हि यत् ।।६ १ ।।
मध्याह्नेऽपि कृतं तद्वन्निशि रात्रौ च वै तथा । पूजितो भोजितो देवो जागरेण युतैर्जनैः ।।६२ ।।
गीतं च नर्तनं पुण्यं भजनं च कृतं जनैः । प्रातः स्नात्वा पूजितश्च क्षमाप्याऽथ विसर्जितः ।।६ ३ ।।
आचार्याय प्रदत्तः स मूर्तिरूपः परेश्वरः । एवमुद्यापनं कृत्वा ययुः सर्वे निजालयम् ।।६४।।
फलं चानन्तकं प्राप्तं पुरुषोत्तमसेवनात् । ततो लक्ष्मि! यथाशक्ति व्रतमेतत्समाचरेत् ।। ६५।।
दुःखदारिद्र्यदौर्भाग्यनाशः स्यादिष्टमाप्नुयात् । नियमानां परित्यागस्ततः कुर्याद् व्रती जनः ।।६६।।
मध्यभोजी नक्तभोजी ब्राह्मणान् भोजयेद् व्रती । अयाचिते व्रते लब्धे स्वर्णदानं समाचरेत् ।।६७।।
मासोपवासिना देया दोग्ध्री गौर्दक्षिणायुता । धात्रीव्रती प्रदद्याच्च दधिं क्षीरं च शर्कराम् ।।६८ ।।
फलानां नियमे लक्ष्मि! फलदानं समाचरेत् । तैलरोधे घृतं देयं घृतरोधे पयोऽर्पणम् ।।६९।।
धान्यानां नियमे दद्याद् धान्यानि तानि तानि च । भूशायित्वे तु पर्यंकगेन्दुककशिपुच्छदान् ।।७०।।
फलपत्रादिनियमे तानि दद्याद् द्विजन्मने । मौने घण्टाशंखवाद्यान् दद्याद् देवाय पद्मजे ।।७ १।।
नखकेशधरो दद्यादादर्शं केशकर्चिकाम् । उपानहौ प्रदद्याच्च ह्युपानदादिवर्जने ।।७२।।
क्षारत्यागे रसान् दद्याद् दीपदाने तु दीपकान् । एकान्तरोपवासी च कुंभानष्टौ प्रदापयेत् ।।७३ ।।
राज्ञां यावत्य इष्टाश्च स्मृद्धयोऽत्र भवन्ति वै । देया दाने च ताः सर्वा यथाशक्ति यथाधनम् ।। ७४।।
एकान्नेन व्रती यायाच्चतुर्बाहुः परां गतिम् । एकभोज्युपवास्येव सर्वान्कामानवाप्नुयात् ।।७५।।
पूर्वाह्णे भुंजते देवा मध्याह्ने मुनयस्तथा । अपराह्णे पितृगणा नक्तभोजी नरो भवेत् ।।७६।।
दिने दिनेऽश्वमेधस्य फलं नक्तादनो लभेत् । द्वादशीव्रतकृद् याति गरुडेन हरेः पदम् ।।७७।।
यस्य यस्य नियमः स्यात्तत्तद्दाने नियोजयेत् । तेन पूर्णं व्रतं स्याच्च ब्रह्मलोकप्रदं भवेत् ।।७८।।
अनित्येन शरीरेण साध्यं मोक्षपदं सदा । पुरुषोत्तमतुल्यं तु नास्ति लक्ष्मि! त्रिलोकके ।।७९।।
सहस्रजन्मतप्तेन तपसाऽपि न गम्यते । यत्फलं गम्यते लोके पुरुषोत्तमसेवया ।।८ ०।।
त्रिरात्रस्नानतश्चात्र शाखामृगोऽक्षरं ययौ । आसीद्वै केरले देशे द्विजो धनातिलोलुपः ।।८ १ ।।
तेन कदर्यनाम्ना सः ख्यातिं जगाम देहिषु । सदन्नवस्त्रं भुक्तं न स्वाहा स्वधा कृता न वा ।।८२।।
धनं पृथ्व्यां रक्षितं च धर्मकार्यं कृत न च । न व्रतं नोत्सवश्चापि न ग्रहणं न कुंभनम् ।।८३।।
कृतं कृतं भिक्षणं तु धनस्याऽटन् विदीनवत् । सोऽगान्मालाकारवाटिकायां दुःखं रुदन्मुहुः ।।८४।।
मालाकारो दयां कृत्वा ररक्ष स्वान्तिके हि तम् । वाटिकारक्षकं कृत्वा माली ग्रामे गतो भवेत् ।।८५।।
पश्चाज्जघास पक्वानि चाक्रीणत फलानि सः । एवं स्तेनक्रियाकर्तुर्जग्मुरयुतवत्सराः ।।८६।।
ममार च वने तत्र नाऽवाप वह्निदारुणी । यमदूतैर्नीयमानस्ताड्यमानो यमालयम् ।।८७।।
गच्छन्नुवाच दुष्कर्मफलं प्राप्तं मयाऽद्य वै । मानुषं जन्म संप्राप्य न किञ्चित् सुकृतं कृतम् ।।८८ ।।
चौर्यादिसञ्चितं द्रव्यं स्थितं भूमौ निरर्थकम् । न धृतं नाऽत्तमेवेति पुण्यं चापि कृतं नहि ।।८ ९ ।।
न कुटुम्बं पोषितं च भार्या कष्टेन योजिता । कदर्यो विलपन्नेवं गतो यमपुरं ततः ।। ९० ।।
चित्रगुप्तोऽवदद्धर्मं पापद्वयं बहूग्रकम् । फलचौर्यं तथा विश्वासघातित्वं परं बहु ।।९ १ ।।
श्रुत्वा प्राह यमो दूतान् प्रेतमेनं विधत्थ वै । ततोऽस्तु वानरोऽयं तु मुहुर्नरकयातनः ।। ९२।।
इति दूतैः प्रापितः सः प्रेततां निर्जले वने । ततः कपिरभूत् कालंजरे शैले भयंकरे ।। ९३ ।।
तत्रेन्द्रेण कृतः पूर्वं कुण्डो मृगसुतीर्थकः । तत्रैव वानरो जातः पूर्वपुण्यात् तदल्पकात् ।।९४।।
शृणु पूर्वकृतं पुण्यं पुरुषोत्तमशंसनम् । चित्रकुण्डलवैश्योऽभूत् पुरुषोत्तमसद्व्रती ।। ९५।।
दानकृत् तं च भिक्षार्थं कदर्यो गतवान् पुरा । प्रशशंस च तं वैश्यं धनलोभेन भिक्षुकः ।। ९६ ।।
पुरुषोत्तममासस्य व्रतं यद् विधिना त्वया । कृतं तादृक् कृतं नैव केनापि त्वत्र भूतले ।। ९७।।
कृतार्थोऽसि त्वया यत्सेवितः श्रीपुरुषोत्तमः । धन्यदो मोक्षदश्चायं मासः श्रीपुरुषोत्तमः ।।९८ । ।
देहि मह्यं धनं किञ्चिदिति मासं शशंस सः । तेन पुण्येन तीर्थेऽत्र वानरत्वमुपागमत् ।। ९९।।
जन्मतस्तस्य वक्त्रेऽभूत्पीडाऽसृगव्रणसंभवा । दन्ताः पेतुः क्षुधा व्याप्तो ज्वरातिपीडितोऽभवत् ।। १०० ।।
पतितः कुण्डनिकटे आयान्माः पुरुषोत्तमः । दशमीदिनतः पञ्चाहानि कुण्डजले ययुः ।। १०१ ।।
व्यसुस्तीर्थजले जातस्तेन दिव्यवपुर्धरः । चतुर्भुजोऽभवद् दिव्यदेवीपार्षसेवितः ।। १० २।।
तीर्थमृतेस्तथा जातः स्नानात् पञ्चाहसत्कृतान् । अज्ञानाच्च तथा जातं किं पुनर्विधिना कृतात् ।। १०३ ।।
ते सदा सुभगाः पुण्यास्तेषां च सफलो भवः । येषां पुमुत्तमो मासः स्नानदानजपैर्गतः ।। १०४ ।।
तानि कोटिगुणान्येव कृतानि पुरुषोत्तमे । कपिर्जगाम गोलोकं विमानवरमास्थितः ।। १०५ ।।
एवं कदर्यश्चौरोऽपि वानरत्वं गतोऽपि च । पुरुषोत्तमयोगेन प्राप्तो गौलोकमेव सः ।। १०६ ।।
पुरुषोत्तममासस्य कथायाः श्रवणादपि । मासोपोषणपूजादिफलं पूर्णमवाप्यते ।। १ ०७।।
श्रुत्वा धर्मं विजानाति श्रुत्वा पापं च नश्यति । श्रुत्वा निवर्तते मोहः श्रुत्वा ज्ञानामृतं मिलेत् ।। १०८ ।।
लक्ष्मीनारायणसंहिताख्यं वेदं पठेद् व्रती । शृणुयाच्छ्रीपुरुषोत्तममासे मोक्षदा हि सा ।। १०९ ।।
यया नार्या कृतो नैव मासः श्रीपुरुषोत्तमः । तत्पतिनाऽऽदृतश्चेत् सा लभेत् तत्फलं वरम् ।। ११० ।।
सती नारी सदा पातिव्रत्यधर्मपरा यदि । पतिरूपो भवत्यस्या मासः श्रीपुरुषोत्तमः ।। १११ ।।
कुरूपो वा कुवृत्तो वा दुःस्वभावोऽपि मद्यपः । रोगी क्रोधी स्थवीरो वा मूकोऽन्धो बधिरोऽपि वा ।। ११ २ ।।
रौद्रो दीनः कदर्यो वा दरिद्रः कुत्सितोऽपि वा । कातरः कितवो वापि विषयी लम्पटोऽपि वा ।। ११३ ।।
सततं देववत्पूज्यः सत्या साध्व्या पतिर्हरिः । विधवया कन्यया च पतिरेव हरिः सदा ।। १ १४।।
सेवनीयः पूजनीयो ध्यातव्योऽध्यासितव्य उत् । वाचा च कर्मणा देहेनापि भावनया तथा ।। ११ ५।।
न पत्युर्विषमं कार्यं नोद्वेजनीय ईश्वरः । बाला युवती जरठा पत्यधीना प्रिया भवेत् ।। ११६ ।।
कामेन लोभेन बलेन वापि दैन्येन भावेन समाश्रयेण ।
रूपेण वासेन धनादिना वा सतृष्णया वेन्द्रियधातुपुष्ट्या ।। १ १७।।
सदम्बरैर्यानवरैश्च वाहनैराभूषणैर्हीरकरत्नकोटिभिः ।
सुनृत्यगीतैर्बहुलासनैरपि नान्यं भजेत् सा खलु साधुलक्षणा ।। ११८ ।।
अन्यस्मै दर्शनार्थं शृंगारं कुरुते न वै । स्वानुरूपं नरं या न चिन्तयति प्रिया सती ।। ११९ ।।
सुरूपं तरुणं रम्यं कामिनीनां च वल्लभम् । दृष्ट्वा न विकृतिं याति सा वै बोध्या महासती ।। १२० ।।
भुंक्ते भुक्ते यथा पत्यौ दुःखिते दुःखिना च या । मुदिते मुदिता सुप्ते सुप्ता जागर्ति जाग्रति ।। १२१ ।।
वृद्धभक्ता पतिकार्येऽनुकूला नाऽधिकव्यया । गृहाऽऽगतं पतिं प्रत्युत्तिष्ठत्यासनवारिभिः ।। १२२ ।।
प्रसन्नवदना काले भोजनादिप्रदायिनी । भुक्तवन्तं श्रावयेन्नाऽप्रियं शान्तिं ददेत्तथा ।। १२३ ।।
सेवार्थं सर्वदा भाव्यं प्रीत्यर्थं प्रियया सदा । वस्तुव्ययं न चात्यर्थं कुर्वीत गृहरक्षिका ।। १२४।।
शृंगारश्चातिभूषादि धारयेत् पतितुष्टये । त्रेतादौ प्रमदानां स्यादार्तवाऽशोचमेव ह ।। १ २५।।
तत्र चतुरहान्येव गृहकार्यं न संस्पृशेत् । स्नात्वा सूर्यं पतिं कृष्णं दृष्ट्वा पश्चात् क्रियापरा ।। १ २६।।
भवेत्, भवेत्पुत्रकामा युग्मरात्रिरतिप्रिया । पुत्रीकामा त्वयुग्मासु रात्रिषु स्वामिसेविका ।। १ २७।।
आषोडशरात्रिकं वै गर्भाधानबलं भवेत् । तदुत्तरं कमलस्य द्वारं बद्धं प्रजायते ।। १२८ ।।
न बिभत्सा भवेत् क्वापि रूक्षवाणी भवेन्न च । शूर्पवातं नाऽऽददीत नोपाविशेत्तथांऽगने ।। १ २९।।।
द्वारदारौ चुल्लिकायां पेषण्यां निषदीत न । गुरुं वाऽत्युष्णमाहारमजीर्णं न समाचरेत् ।। १३० ।।
तेनाऽपत्यवती स्यादन्यथा गर्भक्षरो भवेत्। सपत्नी स्थानमिर्ष्यायाः साध्वीर्ष्या परिवर्जयेत् ।। १३१ ।।
गृहक्लेशं न जनयेद् रक्षयेत् सर्वथा गृहम् । नाऽऽक्रोशेत् पतिमालक्ष्य भर्त्सयेन्न विमानयेत् ।। १३ २।।
रत्या दद्यात्सुखं तस्मै स्वामिने रक्षिणे सदा । पत्याज्ञया बहिर्गच्छेद् देवदर्शनहेतवे ।। १३ ३।।
पत्यौ देशान्तरं प्राप्ते साध्वी वर्तेत सर्वथा । रंगरागविहीना वै श्वश्र्वाद्याज्ञाकरी सदा ।। १ ३४।।
वस्त्रैरंगैश्च मलिना न भवेच्छुद्धिमाचरेत् । स्वामिशिष्टं प्रसादान्नजलं भुञ्जीत भावतः ।। १ ३५।।
स्नायान्न वस्त्रशून्या वै न नग्ना स्यात् कदाचन । नोलूखले न मुसले न घटादौ न चाश्मनि ।। १ ३६।।
न यन्त्रे न च रथ्यायां सती तूपाविशेत् क्वचित् । पतिपादोदकं तीर्थं पिबेत् तीर्थफलप्रदम् ।। १ ३७।।
व्रतोपवासनियमान् पतिमुल्लंघ्य नाऽऽचरेत् । भर्तुश्चरणावभ्यर्च्य भोक्तव्यं प्रियया सदा ।। १३८ ।।
पत्याक्षेप्त्री सरमा स्यादुलूकी स्वोदरंभरा । सूकरी चान्यपार्श्वस्था वागुरी गुप्तभक्षिका ।। १३ ९।।
अवमानकरी मूका सापत्नेर्ष्या तु दुर्भगा । पत्युः कष्टप्रदा नारी कुरूपा रोगिणी भवेत् ।। १४ ०। ।
भर्ता ब्रह्मा हरो विष्णुर्गुरुस्तीर्थं व्रतं जपः । शुद्धिः स्वर्गं शुभं दानं तस्मात्पतिं सुसेवयेत् ।। १४१ ।।
जीवहीनोऽशुचिर्देहा भर्तृहीनाऽशुचिः सती । पतिव्रता प्रिया स्वस्याः पतिं स्वर्गं नयेत् सती ।। १४२।।।
यमदूताः पलायन्ते सतीं दृष्ट्वा तु दूरतः । यावत्स्वलोमसंख्यास्ति तावत्कोट्ययुतानि वै ।। १४३ ।।
भर्त्रा स्वर्गसुखं भुंक्ते रममाणा पतिव्रता । विधवया पतिं स्मृत्वा तर्पणं कार्यमन्वहम् ।। १४४।।
दर्भतिलोदकैः पिष्टफलैर्गोग्रासकैस्तथा । अन्यैश्च दानकार्यैश्च पुण्यं समर्जयेत्तु सा ।। १४५ ।
ब्रह्माण्डं संपुटाकारं कांस्यपात्रकृतं ददेत् । मध्यत्रिंशदपूपपूरितं तन्तुसुवेष्टितम् ।। १४६ ।।
पूजितं चाक्षतपुष्पकुंकुमैरर्पयेत् सती । पत्नीव्रतो भवेत् तद्वन्पुमान् पत्नीपरायणः ।। १४७।।
स्वस्य प्राणं तथा देहं क्षेत्रं शान्तिस्थलीं शुभाम् । पत्नीं सम्मानयेन्नित्यं माधुर्येण विलोकयेत् ।। १४८ ।।
मिष्टं दद्याच्च भाषेताऽऽकारयेत्प्रेमभावतः । तिरस्कुर्वीत नो पत्नीं ताडयेन्नाऽऽक्षिपेन्न च ।। १४९ ।।
वस्त्रभूषाद्यलंकारैर्द्रवचन्दनपुष्पकैः । तैलतन्तुकज्जलाद्यैस्तोषयेत् स्वप्रियां सदा ।। १५० ।।
नोद्वेजयेन्न प्रसह्य भुञ्जीत न च रोधयेत् । क्षुधया तृषया पत्नीं कर्मणा दुःखयेन्न च ।। १५१ ।।
न चाऽविगणयेन्मानहीनां दासीं प्रियां पतिः । वंशदां रतिदां वल्लीवदाश्रितां प्रपोषयेत् ।। १५२ ।।
अथेच्छुकीं न प्रवदेन्नेत्यपि नोच्चरेत्पतिः । ओमित्युच्चार्य संदद्यादपेक्षितधनादिकम् ।। १५३ ।।
भोज्यकार्यं गृहकार्यं रतिकार्यं तनुक्रियाम् । पतिकार्यं तथाऽन्यच्च कुर्वाणां सुप्रमोदयेत् ।। १ ५४।।
नान्यां नारीं समीक्षेत नान्यां व्यवायकृतद्भवेत् । नान्यां प्रियो भवेत् क्वापि पत्नीं लक्ष्मीं विहाय वै ।। १५५ ।।
नान्यां पुष्टिप्रदः स्याच्च नान्यया च रमेत वै । यानवाहनदेशाद्युत्सवसामाजकेषु च ।। १५६।।
नान्यापरो भवेत् क्वापि यदि स्वर्गं हि वाञ्छति । एवं धर्मपरौ त्वत्र दम्पती मोक्षभागिनौ ।। १५७।।
इन्द्रद्युम्नः शतद्युम्नो यौवनाश्वो भगीरथः । कल्पकल्पान्तरे चान्ये वैष्णवा राजभूसुराः ।। १५८ ।।
पुरुषोत्तममाराध्य ययुर्भगवदन्तिकम् । पुरुषोत्तममासस्य दुन्दुभिर्येन संश्रुतः ।। १५९।।
तेन तेन च सर्वत्रोत्सवोऽनुष्ठित एव ह । दुन्दुभेस्तु प्रपूजा च कृता नारायणेन च ।। १६० ।।
यदा यदाऽधिमासोऽपि समागच्छेत् तदा तदा । दुन्दुभिना पटहेन कर्तव्याऽऽज्ञाप्रघोषणा ।। १६१ ।।
धाम्न्यक्षरे रक्षितः श्रीपुमुत्तमेन सर्वदा । कृष्णनारायणेन श्रीपुरुषोत्तमशार्ङ्गिणा ।। १६२ ।।
राधया च श्रिया लक्ष्म्या पार्वत्या प्रभया तथा । माणिक्यया जयया च रमया सहितः प्रभुः ।। १६३
प्रत्यहं त्वधिमासेऽयं पूजनीयः परेश्वरः । भोजनाय सेवनीयो ध्यातव्यः पुरुषोत्तमः ।। १६४
श्रोतव्यं मासमाहात्म्यं श्लोकोऽध्यायः प्रपूर्णकः। गंगादिसर्वतीर्थानां फलं स्यान्नात्र संशयः । । १६५
पृथ्वीप्रदक्षिणापुण्यं ब्रह्माण्डोद्धारपुण्यकम् । श्रवणेन भवेदस्य मासा मुक्तिस्तथा भवेत् ।। १६६।।
वर्णास्तथाऽऽश्रमवन्तः श्रेष्ठतां सर्वथा गताः । श्रुत्वा मुक्तिं समायान्ति पशुचर्या जना अपि ।। १६७ । ।
पुरुषोत्तममाहात्म्यं लेखयित्वा सबन्धनम् । दद्यादस्य फलं वंशत्रयं गोलोकगो भवेत् ।। १६८ । ।
माहात्म्यपुस्तकाधारे गृहे तीर्थानि सर्वशः । वसन्ति देवताश्चापि वर्तते पुरुषोत्तमः ।। १६९।।
श्रोता वक्ता श्रावयिता वर्णयिता प्रशंसकः । रक्षको व्रतकृद् दाता सर्वे ते पुरुषोत्तमाः ।। १७० ।।
कृष्णनारायणोऽनादिश्रीहरिः पुरुषोत्तमः । संहितोपसमादेष्टा पूजनीयो विशेषतः ।। १७१ ।।
लक्ष्मीः श्रुत्वा चातितृप्ता पुपूज पुरुषोत्तमम् । कृष्णनारायणं देवं पुपूज स्वपतिं हरिम् । । १७२ । ।
त्वन्मुखामृतपानेन कृतार्थाऽस्मीत्युवाच सा । व्यासं पतिस्वरूपं संपुपूज च ननाम च ।। १७३ ।।
अहं नारायणो वक्ता लक्ष्मीस्त्वं च नरायणी । गृह्णामि त्वत्कृतां पूजां किमन्यच्छ्रोतुमिच्छसि । । १७४। ।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्येऽक्षरधाम्नि सर्वसृष्टीश्वरैः कृतः पुरुषोत्तममासव्रतोद्यापनाविधिः, नियमपूर्त्यर्थं दानानि, दीपदानफलं, कदर्यमुक्तिः, वानरमोक्षणम्, पतिव्रता- धर्माः, पत्नीव्रतधर्माः, कांस्यसंपुटात्मक ब्रह्माण्डदानं, दुन्दुभिपूजनं, श्रवणादिफलं, चेत्यादिनिरूपणनामा द्वाविंशत्यधिकत्रिशततमोऽध्यायः ।। १.३२२ ।।
 
</span></poem>