"पञ्चविंशब्राह्मणम्/अध्यायः ५" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 170%"> </span></poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 170%">
५.१.१ वामदेव्यं महाव्रतं कार्यम्
५.१.२ त्रिवृच्छिरो भवति
५.१.३ त्रिवृद्ध्येव शिरो लोम त्वगस्थि
५.१.४ पाङ्क्त इतर आत्मा लोम त्वङ्मांसं अस्थि मज्जा
५.१.५ सकृद्धिङ्कृतेन शिरसा पाराचा स्तुवते
५.१.६ तस्माच्छिरोऽङ्गानि मेद्यन्ति नानुमेद्यति न कृश्यन्त्यनुकृश्यति
५.१.७ पुनरभ्यावर्तं इतरेणात्मना स्तुवते तस्मादितर आत्मा मेद्यति च कृश्यति च
५.१.८ अर्कवतीषु गायत्रीषु शिरो भवति
५.१.९ अन्नं वा अर्को ब्रह्मवर्चसं गायत्र्यन्नाद्यं चैवैभ्यो ब्रह्मवर्चसं च मुखतो दधाति
५.१.१० पञ्चदशसप्तदशौ पक्षौ भवतः प्रक्षाभ्यां वै यजमानो वयो भूत्वा स्वर्गं लोकं एति
५.१.११ तावाहुः समौ कार्यौ पञ्चदशौ वा सप्तदशौ वा सवीवधत्वाय
५.१.१२ तद्वाहुर्यत्समौ भवत एकवीर्यौ तर्हि भवत इति पञ्चदशसप्तदशावेव कार्यौ साचीव वै वयः पक्षौ कृत्वापतीयः पतति
५.१.१३ दक्षिणतो बृहत्कार्यं दक्षिणो वा अर्ध आत्मनो वीर्यवत्तरः
५.१.१४ अथो खल्वाहुरुत्तरत एव कार्यं ब्राह्मणाच्छंसिनोऽर्धात्त्रैष्टुभं वै बृहत्त्रैष्टुभो वै ब्राह्मणाच्छंसी त्रैष्टुभः पञ्चदशस्तोमः
५.१.१५ दक्षिणतो रथन्तरं कार्यं मैत्रावरुणस्यार्धाद्गायत्रं वै रथन्तरं गायत्रो मैत्रावरुणो गायत्रः सप्तदशस्तोमः
५.१.१६ एकविंशं पुच्छं भवति
५.१.१७ एकविंशो वै स्तोमानां प्रतिष्ठा तस्माद्वयः पुच्छेन प्रतिष्ठायोत्पतति पुच्छेन प्रतिष्ठाय निषीदति
५.१.१८ यज्ञायज्ञीयं पुच्छं कार्यं यज्ञायज्ञीयं ह्येव महाव्रतस्य पुच्छम्
५.१.१९ अथो खल्वाहुरतिशयं वै द्विपदां यज्ञायज्ञीयं भद्रं कार्यं समृद्ध्यै
 
५.२.१ वामदेव्यं महाव्रतं कार्यं तस्य गायत्रं शिरो बृहद्रथन्तरे पक्षौ यज्ञायज्ञीयं पुच्छम्
५.२.२ यो वै महाव्रते सहस्रं प्रोतं वेद प्र सहस्रं पशूनाप्नोति
५.२.३ तस्य प्राची दिक्शिरस्तच्छन्दोभिः सहस्रं असावन्यतरः पक्षः सनक्षत्त्रैः साहस्रोऽयं अन्यतरः पक्षः स ओषधिभिश्च वनस्पतिभिश्च साहस्रोऽन्तरिक्षं आत्मा तद्वयोभिः साहस्रं प्रतीची दिक्पुच्छं तदग्निभिश्च रश्मिभिश्च साहस्रं प्र ससस्रं पशूनाप्नोति य एवंव्वेद
५.२.४ तदाहुरपृष्ठं वै वामदेव्यं अनिधनं हीति
५.२.५ अनायतनं वा एतत्साम यदनिधनम्
५.२.६ राजनं महाव्रतं कार्यम्
५.२.७ एतद्वै साक्षादन्नं यद्राजनं पञ्चविधं भवति पाङ्क्तं ह्यन्नम्
५.२.८ हिङ्कारवद्भवति तेन वामदेव्यस्य रूपम्
५.२.९ निधनवद्भवति तेन प्र्ष्ठस्य रूपम्
५.२.१० अतिच्छन्दःसु पञ्चनिधनं वामदेव्यं ब्रह्मसाम कार्यम्
५.२.११ अति वा एषान्यानि च्छन्दांसि यदतिच्छन्दा अत्येतदन्यान्यहान्यहर्यन्महाव्रतम्
५.२.१२ ब्रह्मसाम्नैव तदन्यान्यहान्यतिमेदयति
५.२.१३ पञ्चनिधनं भवति पाङ्क्तं ह्यन्नम्
५.३.१ इलान्दं अग्निष्टोमसाम कार्यम्
५.३.२ एतद्वै साक्षादन्नं यदिलान्दं इरान्नं एतदिरायां एवान्नाद्येऽन्ततः प्रतितिष्ठन्ति
५.३.३ समुद्रो वा एतच्छन्दः सलिलं लोमशं समुद्र इव खलु वै स भवति सलिल इव लोमश इव यो भवति
५.३.४ तस्मादेतासु कार्यं समृद्ध्यै
५.३.५ व्रतं इति निधनं भवति महाव्रतस्यैव तद्रूपं क्रियते स्वरिति भवति स्वर्गस्य लोकस्य समष्ट्यै शकुन इति भवति शकुन इव वै यजमानो वयो भूत्वा स्वर्गंल्लोकं एति
५.३.६ यज्ञायज्ञीयं अग्निष्टोमसाम कार्यम्
५.३.७ यद्वा अन्या वाङ्नातिवदेत्तदग्निष्टोमसाम कार्यं न वै वाग्वाचं अतिवदति वाग्यज्ञायज्ञीयं वाच्येवान्ततः प्रतितिष्ठन्ति
५.३.८ वारवन्तीयं अग्निष्टोमसाम कार्यम्
५.३.९ अग्निर्वा इदं वैश्वानरोऽदहन्नैतस्माद्देवा अबिभयुस्तं वरणशाखयावारयन्त यदवारयन्त तस्माद्वारवन्तीयम्
५.३.१० तस्माद्वरणो भिषज्य एतेन हि देवा आत्मानं अत्रायन्त
५.३.११ तस्माद्ब्राह्मणो वारणेन न पिबेद्वैश्वानरं नेच्छमया इति
५.३.१२ पशवो वै वारवन्तीयं शान्तिः पशवः शान्तादेव तत्संव्वत्सरादुत्तिष्ठन्ति
 
५.४.१ प्राणेन पुरस्तादाहवनीयं उपतिष्ठन्ते प्राणं एव तज्जयन्ति
५.४.२ अपानेन पश्चात्पुच्छं उपतिष्ठन्ते अपानं एव तज्जयन्ति
५.४.३ व्रतपक्षाभ्यां पक्षावुपतिष्ठन्ते दिश एव तज्जयन्ति
५.४.४ प्रजापतेर्हृदयेनापिकक्षं उपतिष्ठन्ते ज्यैष्ठ्यं एव तज्जयन्ति
५.४.५ वसिष्ठस्य निहवेन चात्वालं उपतिष्ठन्ते स्वर्गं एव तल्लोकं ऑत्वा श्रियं वदन्ते
५.४.६ वैश्वदेव्यां ऋचि भवति विश्वरूपं वै पशूनां रूपं पशूनेव तज्जयन्ति
५.४.७ सत्त्रस्यर्द्ध्याग्नीध्रं उपतिष्ठन्त ऋद्धावेव प्रतितिष्ठन्ति
५.४.८ चतुरक्षराणिधनं भवति चतुष्पादाः पशवः पशुष्वेव प्रतितिष्ठन्ति
५.४.९ आतमितोर्निधनं उपयन्त्यायुरेव सर्वं आप्नुवन्ति
५.४.१० श्लोकानुश्लोकाभ्यां हविर्धाने उपतिष्ठन्ते कीर्तिं एव तज्जयन्ति
५.४.११ यामेन मार्जालीयं उपतिष्ठन्ते पितृलोकं एव तज्जयन्ति
५.४.१२ आयुर्णवस्तोभाभ्यां सद उपतिष्ठन्ते ब्रह्म चैव तत्क्षत्रं च जयन्ति
५.४.१३ ऋश्यस्य साम्ना गार्हपत्यं उपतिष्ठन्ते
५.४.१४ इन्द्रं सर्वाणि भूतान्यस्तुवंस्तस्यर्श्य एकं अङ्गं अस्तुतं अचायत्तदस्यैतेनास्तौत्तेनास्य प्रियं धामोपागच्छत्प्रियं एवास्यैतेन धामोपगच्छन्ति
५.४.१५ यत्परोऽक्षं निधनं उपेयुर्ह्रीतमुखं प्रतिमुञ्चेरन्प्रत्यक्षं उपयन्ति ह्रीतमुखं एवापजयन्ति
 
५.५.१ आसन्दीं आरुह्योद्गायति देवसाक्ष्य एव तदुपरिषद्यं जयति
५.५.२ औदुम्बरी भवत्यूर्गुदुम्बर ऊर्जं एवावरुन्द्धे
५.५.३ प्रादेशमात्री भवत्यस्य लोकस्यानुद्धानाय
५.५.४ छन्दोभिरारोहति स्वर्गं एव तल्लोकं आरोहति
५.५.५ छन्दोभिरुपावरोहत्यस्मिं लोके प्रतितिष्ठति
५.५.६ सर्वेणात्मना समुद्धृत्योद्गेयं एषु लोकेषु नेद्व्याहितोऽसानीति
५.५.७ एकस्यां स्तोत्रीयायां अस्तुतायां पादावुपाहरति
५.५.८ सह निधनेन प्रतिष्ठां उपयन्त्येषेष्वेव लोकेषु प्रतितिष्ठन्ते
५.५.९ प्रेङ्खां आरुह्य होता शंसति महस एव तद्रूपं क्रियते
५.५.१० यदा वै प्रजा मह आविशति प्रेङ्खास्तर्ह्यारोहन्ति
५.५.११ फलकं आरुह्याध्वर्युः प्रतिगृणाति
५.५.१२ कूर्चानितरेऽध्यासत ऊर्ध्वा एव तदुत्क्रामन्तो यन्ति
५.५.१३ अभिगरापगरौ भवतो निन्दत्येनानन्यः प्रान्यः शंसति य एनान्निन्दति पाप्मानं एषां सोऽपहन्ति यः प्रशंसति यदेवैषां सुष्टुतं सुशस्तं तत्सोऽभिगृणाति
५.५.१४ शूद्रार्यौ चर्मणि व्यायच्छेते तयोरार्यं वर्णं उज्जापयन्ति
५.५.१५ देवाश्च वा असुराश्चादित्ये व्यायच्छन्तस्तं देवा अभ्यजयंस्ततो देवा अभवन् । परासुरा अभवन्नात्मना परास्य भ्रातृव्यो भवति य एवंव्वेद
५.५.१६ यदार्यं वर्णं उज्जापयन्त्यात्मानं एव तदुज्जापयन्ति
५.५.१७ परिमण्डलं चर्म भवत्यादित्यस्यैव तद्रूपं क्रियते
५.५.१८ सर्वासु स्रक्तिषु दुन्दुभयो वदन्ति या वनस्पतिषु वाक्तां एव तज्जयन्ति
५.५.१९ भूमिदुन्दुभिर्भवति या पृथिव्यां वाक्तां एव तज्जयन्ति
५.५.२० सर्वा वाचो वदन्ति येषु लोकेषु वाक्तां एव तज्जयन्ति
५.५.२१ संनद्धाः कवचिनः परियन्तीन्द्रियस्यैव तद्रूपं क्रियतेऽथो महाव्रतं एव महयन्ति
 
५.६.१ सर्वे सहर्त्विजो महाव्रतेन स्तुवीरन्
५.६.२ अध्वर्युः शिरसोद्गायन्मैत्रावरुणो दक्षिणेन पक्षेण ब्राह्मणाच्छंस्युत्तरेण गृहपतिः पुच्छेनोद्गातात्मना
५.६.३ तद्यद्येवं कुर्युरेकैकया स्तोत्रीययास्तुतयोद्गातारं अभिसमेयुः
५.६.४ तिसृभिरुद्गातात्मन उद्गीयाथ या शिरसः स्तोत्रीया तां दध्यादपराभिस्तिसृभिरुद्गीयाथ या दक्षिणस्य पक्षस्य स्तोत्रीया तां दध्यादपराभिस्तिसृभिरुद्गीयाथ योत्तरस्य पक्षस्य स्तोत्रीया तां दध्यात्तिसृभिर्वैकया वा स्तुतं स्यादथ या पुच्छस्य स्तोत्रीया तां दध्यात्
५.६.५ आत्मन्येव तदङ्गानि प्रतिदधति स्वर्गस्य लोकस्य समष्ट्यै
५.६.६ अथो खल्वाहुः कथं अध्वर्युर्बह्वृचः साम गायेदित्युद्गातैव सर्वेणोद्गायेत्तदेव समृद्धं समृद्धावेव प्रतितिष्ठन्ति
५.६.७ हविर्धाने शिरसा स्तुत्वा संरब्धाः प्रत्यञ्च एयुस्ते दक्षिणेन धिष्ण्यान्परीत्य पश्चान्मैत्रावरुणस्य धिष्ण्यस्योपविश्य रथन्तरेण पञ्चदशेन स्तुवीरंस्त उदञ्चः संसर्पेयुर्जघनेन होतुर्धिष्ण्यं पश्चाद्ब्राह्मणाच्छंसिनो धिष्ण्यस्योपविश्य बृहता सप्तदशेन स्तुवीरंस्ते येनैव प्रसर्पेयुस्तेन पुनर्निःसृप्योत्तरेणाग्नीध्रं परीत्य पश्चाद्गार्हपत्यस्योपविश्य पुच्छेनैकविंशेन स्तुवीरंस्ते येनैव निःसर्पेयुस्तेन पुनः प्रसृप्य यथायतनं उपविश्यासन्दीं आरुह्योद्गातात्मनोद्गायति
५.६.८ तं पत्न्योऽपघाटिलाभिरुपगायन्त्यार्त्विज्यं एव तत्पत्न्यः कुर्वन्ति सह स्वर्गंल्लोकं अयामेति
५.६.९ कुले-कुलेऽन्नं क्रियते तद्यत्पृच्छेयुः किं इदं कुर्वन्तीतीमे यजमाना अन्नं अत्स्यन्तीति ब्रूयुः
५.६.१० यो वै दीक्षितानां पापं कीर्तयति तृतीयं एवांशं पाप्मनो हरत्यन्नादस्तृतीयं पिपीलिकास्तृतीयम्
५.६.११ परिमाद्भिश्चरन्ति त्वक्च वा एतल्लोम च महाव्रतस्य यत्परिमादस्त्वचं चैव तल्लोम च महाव्रतस्याप्त्वावरुन्धते
५.६.१२ वाणं वितन्वन्त्यन्तो वै वाणोऽन्तो महाव्रतं अन्तेनैव तदन्तं अभिवादयन्ति
५.६.१३ शततन्त्रीको भवति शतायुर्वै पुरुषः शतवीर्यः
५.६.१४ तं उल्लिखेत्प्राणाय त्वापानाय त्वा व्यानाय त्वेति प्राणापानव्यानानेव तदाप्त्वावरुन्धते
५.६.१५ परि कुम्भिन्यो मार्जालीयं यन्तीदं मध्विदं मध्विति सघोषा एव तद्वयो भूत्वा सह स्वर्गंल्लोकं यन्ति
 
५.७.१ देवा वै वाचं व्यभजन्त तस्या यो रसोऽत्यरिच्यत तद्गौरीवितं अभवदनुष्टुभं अनु परिप्लवते वागनुष्टुब्वाचो रसो गौरीवितम्
५.७.२ यद्गौरीवितेनान्वहंस्स्तुवते वाच्येव तद्वाचा रसं दधति
५.७.३ रसवद्वाचा वदति य एवंव्वेदेति
५.७.४ द्व्युदासं भवति स्वर्गस्य वा एतौ लोकस्यावसानदेशौ पूर्वेणैव पूर्वं अहः संस्थापयन्त्युत्तरेणोत्तरं अहरभ्यतिवदन्ति
५.७.५ एतद्वै यज्ञस्य श्वस्तनं यद्गौरीवितं यद्गौरीवितं अनुसृजेयुरश्वस्तना अप्रजसः स्युः
५.७.६ सं वा अन्यो यज्ञस्तिष्ठत इत्याहुर्वागेव न संतिष्ठत इति यद्गौरीवितं अन्वहं भवति वाचं एव तत्पुनः प्रयुञ्जते
५.७.७ स्वर्णिधनं अन्वहं भवति
५.७.८ देवक्षेत्रं वा एतेऽभ्यारोहन्ति ये स्वर्णिधनं उपयन्ति स उ वै सत्त्रिणः सत्त्रं उपनयेदित्याहुर्य एनान्देवक्षेत्रं अभ्यारोहेदिति न वै देवक्षेत्र आसीन आर्तिं आर्छति यत्स्वर्णिधनं अन्वहं भवति नैव कां चनार्तिं आर्छन्ति
५.७.९ च्यवन्ते वा एतेऽस्माल्लोकादित्याहुर्ये स्वर्णिधनं उपयन्तीति यदृचा स्वरूपं यन्त्यस्मिं लोके प्रतितिष्ठन्ति यदेकारोऽतरिक्षे यत्साम्नामुष्मिन्त्सर्वेषु लोकेषु प्रतितिष्ठन्ति स्वर्णिधनेन तुष्टुवानाः
५.७.१० सुज्ञानं भवति
५.७.११ देवा वै स्वर्गंल्लोकं यन्तोऽज्ञातादबिभयुस्त एतत्संज्ञानं अपश्यंस्तेन ज्ञात्रं अगच्छन्यत्सुज्ञानं अन्वहं भवति ज्ञात्रं एव गच्छन्ति
 
५.८.१ ये वै वाचं अन्नं आदयन्त्यन्नादा भवन्ति ये वितर्षयन्ति रुक्षा भवन्ति
५.८.२ गौरीवितं श्यावाश्वं निहव एतानि वै सामानि वाचोऽन्नं एतेषां वागन्नं यदेतानि न च्यवन्ते वाचं एव तदन्नं आदयन्ति तेन सर्वेऽन्नादा भवन्ति
५.८.३ अभिक्रान्तापक्रान्तानि भवन्त्यभिक्रान्तापक्रान्तं वै वाचो रूपम्
५.८.४ प्लवोऽन्वहं भवति
५.८.५ समुद्रं वा एते प्रस्नान्ति ये संव्वत्सरं उपयन्ति यो वा अप्लवः समुद्रं प्रस्नाति न स तत उदेति यत्प्लवो भवति स्वर्गस्य लोकस्य समष्ट्यै
५.८.६ अति विश्वानि दुरिता तरेमेति यदेवैषां दुष्टुतं दुःशस्तं तदेतेन तरन्ति
५.८.७ ओकोनिधनं षडहमुखे भवति
५.८.८ परां वा एते परावतं गच्छन्ति ये षडहस्यान्तं गच्छन्ति यदोकोनिधनं षडहमुखे भवति प्रज्ञात्यै
५.८.९ यदा वै पुरुषः स्वं ओक आगच्छति सर्वं तर्हि प्रजानाति सर्वं अस्मै दिवा भवति
 
५.९.१ एकाष्टकायां दीक्षेरन्
५.९.२ एषा वै संव्वत्सरस्य पत्नी यदेकाष्टकैतस्यां वा गतां रात्रिं वसति साक्षादेव तत्संव्वत्सरं आरभ्य दीक्षन्ते
५.९.३ तस्य सानिर्या यदपोऽ नभिनन्दन्तोऽभ्यवयन्ति
५.९.४ विच्छिन्नं वा एते संव्वत्सरस्याभिदीक्षन्ते य एकाष्टकायां दीक्षन्तेऽन्तनामानावृतू भवेते
५.९.५ आर्तं वा एते संव्वत्सरस्याभिदीक्षन्ते येऽन्तनामानावृतू अभिदीक्षन्ते
५.९.६ तस्मादेकाष्टकायां न दीक्ष्यम्
५.९.७ फाल्गुने दीक्षेरन्
५.९.८ मुखं वा एतत्संव्वत्सरस्य यत्फाल्गुनो मुखत एव तत्संव्वत्सरं आरभ्य दीक्षन्ते
५.९.९ तस्य सानिर्या यत्संमेघे विषुवान्संपद्यते
५.९.१० चित्रापूर्णमासे दीक्षेरन्
५.९.११ चक्षुर्वा एतत्संव्वत्सरस्य यच्चित्रापूर्णमासो मुखतो वै चक्षुर्मुखत एव तत्संव्वत्सरं आरभ्य दीक्षन्ते तस्य न निर्यास्ति
५.९.१२ चतुरहे पुरस्तात्पौर्णमास्या दीक्षेरन्
५.९.१३ तेषां अकाष्टकायां क्रयः संपद्यते तेनैकाष्टकां न संबट्कुर्वन्ति
५.९.१४ तेषां पूर्वपक्षे सुत्या संपद्यते पूर्वपक्षे मासाः संतिष्ठमाना यन्ति पूर्वपक्ष उत्तिष्ठन्ति तानुत्तिष्ठतः पशव ओषधयोऽनूत्तिष्ठन्ति तान्कल्याणी वागभिवदर्यरात्सुरिमे सत्त्रिण इति ते राध्नुवन्ति
 
५.१०.१ आ वा एते संव्वत्सरं प्याययन्ति य उत्सृजन्ति
५.१०.२ यथा वै दृतिराध्मात एवं संव्वत्सरोऽनुत्सृष्टो यन्नोत्सृजेयुरमेहेन प्रमायुकाः स्युः
५.१०.३ प्राणो वै संव्वत्सर उदाना मासा यदुत्सृजन्ति प्राण एवोदानान्दधति यो दीक्षितः प्रमीयते या संव्वत्सरस्यानुत्सृष्टस्य शुक्सा तं ऋच्छति
५.१०.४ तदाहुरुत्सृज्या३ं नोत्सृज्या३ं इति
५.१०.५ यद्युत्सृजेयुरुक्थान्युत्सृजेयुस्तदेवोत्सृष्टं तदनुत्सृष्टम्
५.१०.६ अथो खल्वाहुरेकत्रिकं कार्यं तदेव साक्षादुत्सृष्टं अभ्युत्षुण्वन्ति
५.१०.७ छिद्रो वा एतेषां संव्वत्सर इत्याहुर्ये स्तोमं उत्सृजन्तीति
५.१०.८ पशुं आलभन्ते स्तोमं एव तदालभन्ते स्तोमो हि पशुः
५.१०.९ श्व उत्सृष्टाः स्म इति वत्सानपाकुर्वन्ति प्रातः पशुं आलभन्ते तस्य वपया प्रचरन्ति ततस्सवनीयेनाष्टाकपालेन तत आग्नेयेनाष्टाकपालेन ततो दध्नैन्द्रेण ततश्चरुणा वैश्वदेवेन तत्प्रातःसवनं संतिष्ठन्ते
५.१०.१० ततः पशुपुरोडाशेनैकादशकपालेन ततः सवनीयेनैकादशकपालेन ततो मरुत्वतीयेनैकादशकपालेन ततश्चरुणैन्द्रेण तन्माध्यन्दिनं सवनं संतिष्ठन्ते
५.१०.११ पशुना प्रचरन्ति ततः सवनीयेन द्वादशकपालेन ततो वैश्वदेवेन द्वादशकपालेन ततश्चरुणाग्निमारुतेन तत्तृतीयं सवनं संतिष्ठन्ते
५.१०.१२ पृषदाज्येन प्रचर्य पत्नीस्संयाजयन्ति
 
 
</span></poem>
"https://sa.wikisource.org/wiki/पञ्चविंशब्राह्मणम्/अध्यायः_५" इत्यस्माद् प्रतिप्राप्तम्