Content deleted Content added
०३:४४, ८ फेब्रवरी २०१६ इत्यस्य संस्करणं
पृष्ठ ०५८७
- आ
आ अव्य० आप--क्विप् पृ० पलोपः । १ वाक्ये (वाक्यस्यान्य-
- थात्वद्योतने पूर्ब्बंमेवममंस्था इदानीमेवमिति प्रतिपादने)
- २ स्मृतौ (आ एवं मन्यसे इति स्मृतस्यान्यथा प्रतिपादने)
- ३ अनुकम्पायाम् । ४ समुच्चये, ५ अङ्गीकारे, ६ ईषदर्थे
- ७ क्रियायोगे, ८ सीमायां ९ व्याप्तौ च । वाक्यस्मृतिभिन्ने-
- ऽस्य ङित्त्वमिच्छन्ति अङितोऽस्य एकाज्निपातत्वात् प्रगृ-
- ह्यसंज्ञा ङितस्तु न । अतवोक्तम् “मर्य्यादायामभिविधौ
- क्रियायोगेषदर्थयोः । य आकारः स ङित् प्रोक्तः वाक्य-
- स्मरणयोरङित्” तत्र सीमायाम् आ--आत्मबोधात्
- आत्मबोधात् “लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात्” ।
- व्याप्तौ ब्रह्मास्त्यासकलात् । सकलं व्याप्येत्यर्थः । एतदर्थे
- विकल्पेन अव्ययीभावः । आत्मबोधम् । आसकलम् । धातुयोगः
- उपसर्गः । यथा आगच्छत् ग्रामात् । ईषदर्थे आकम्पः
- आकेकरः । वाक्यञ्च वाक्यार्थद्योतकता । स्मरणं प्रमाणा-
- न्तरावावगतस्य नतु शब्दमात्रेणावगतस्येति तयोर्भेदः ।
आकन पु० आ + कन--अच् । ऋषिभेदे कर्ण्णा० फिञ् ।
- आकनायनिः तद्गणे आनक इति वा पाठः ।
आकम्प पु० आ + ईषदर्थे कपि--घञ् । ईषत्कम्पे ।
आकम्पन त्रि० आकम्पते आ + कपि--युच् । १ ईषत्कम्पनशीले ।
- २ भावे ल्युट् । ईषत्कम्पे न० । आ + कपि--णिच्--ल्यु ।
- ३ ईषच्चालके त्रि० । ततएव भावे ल्युट् । ४ ईषच्चालने न० ।
आकम्पित त्रि० आ + कपि--कर्त्त रि क्त । १ ईषत्कम्पिते “अनो-
- कहाकम्पितपुष्पगन्धी” रघुः । भावे क्त । २ ईषत्कम्पने
- न० । णिच्--कर्म्मणि क्त । ३ ईषच्चालिते त्रि० ।
आकत्य न० न कतः स्वच्छताकारी अकतस्तस्य भावः
- ष्यञ् । अस्वच्छत्वकारित्वे । “न नञ्पूर्व्वात्तत्पुरुषादि
- त्यादि” पा० सूत्रे तस्य पर्य्युदासात् तत्पुरुष एव ष्यञ् ।
- बहुब्रीहौ तु तलादि । अकतता अकतत्वम् ।
|
आकम्प्र त्रि० आ + कपि--र । ईषत्कम्पशीले ।
आकर पु० आकुर्व्वन्ति संघीभूय कुर्व्वन्ति व्यवहारमत्र आ +
- कृ--घः । १ समूहे, “शब्दाकरकरग्राममर्थमण्डलमण्डलम्”
- कविल्पद्रु० “बभूव वज्राकरभूषणायाः रघुः” । २ श्रेष्ठे च ।
- आकीर्य्यन्ते धातवोऽत्र कॄ--अप् । ३ रत्नाद्युत्पत्तिस्थाने
- “आकरे पद्मरागाणां जन्म काचमणेः कुतः” हितो०
- “शुचीनाकरकर्म्मान्ते भीरूनन्तर्निवेशने” “आयव्ययौ च
- नियतावाकारान् कोषमेव च” “सर्व्वाकरष्वधीकारो
- महायन्त्रप्रवर्त्तनम्” मनुः । “दिलीपसूनुर्भणिराकरोद्भवः”
- रघुः । ४ स्थानमात्रे च कमलाकरः पद्माकरैत्यादि ।
- “हरिदश्वः कमलाकरानिव” रघुः “शैलोन्द्रोहिमवान्नाम
- धातूनामाकरो महान्” रामा० । आकरः स्यपरभूरि-
- कथानां प्रायशो हि सुहृदां सहवासः” नैष० ।
आकरिक त्रि० आकरे नियुक्तः ठञ् । स्वर्ण्णाद्युत्पत्तिस्थानेषु
- राज्ञा नियुक्ते तत्र हि नियुक्तस्य लोभाधिक्येन पापस-
- म्भवात् तत्राधिकारस्य मनुना उपपातकमध्ये
- परिगणना कृता । “सर्व्वाकरेष्वंधीकार इति” ।
आकरिन् त्रि० आकरः उत्पत्तिस्थानं प्राशस्त्येनास्त्यस्य
- इनि स्त्रियां ङीप् । “प्रशस्ताकरजाते । “दधतमाक-
- रिभिः करिभिः क्षतैः” किरा० ।
आकर्ण अव्य० कर्ण्णपर्य्यन्तम् अव्य० । कर्ण्णपर्य्यन्ते “आकर्ण्ण
- मुल्लसितमस्य विकाशिकाशम्” माघः ।
आकर्णन न० आ + कर्ण्ण--ल्युट् । श्रवणे “मुदा तदाकर्ण्ण
- न तत्पराभूत्” नैष० ।
आकर्ष पु० आकृष्यते विषयान्तरतोऽनेन आ + कृष--घञ् ।
- १ पाशके, २ शारिफलके, ३ द्यूते, ४ इन्द्रिये धन्विनो
- ५ धनुरभ्यासे च । भावे घञ् । ६ आकर्षणे । आधारे
- घञ् । ७ निकषे उपले । खलादिगतं धान्वमाकृष्यतेऽनेन
- करणे घञ् । अङ्कुशाकारे (आकुँड़ा) इति ख्याते ८ काष्ठ-
- भेदे । “आकर्षः श्वेव आकर्षश्वः” सि० कौ० । आकर्षति
- कर्त्तरि अच् । ९ आकर्षके त्रि० । मध्वित्याकर्षैः कुशैः”
- कात्या० १३, ३, २० । मध्वाकर्षैः कुशैः” कर्क० “आकर्षस्ते-
- ऽवाक्फलः सुप्रणीतोहृदि प्रौढोमन्त्रपदः समाधिः” भा०
- स० ६ अ० आकर्षकः हृदयाकर्षकः समाधिः चिन्तनम्
- अवाक्फलः नीचफलः । आकर्षे (षे) ण चरति ष्ठल्
- आकर्षिकः । आकर्षणचारिणि त्रि० स्त्रियां ङीष् ।
|
पृष्ठ ०५८८
आकर्षक पु० आकर्षति सन्निकृष्टस्थं लौहं आ + कृष--ण्वुल् ।
- (चुम्बक) इति ख्याते १ अयस्कान्ते । २ आकर्षणकर्त्तरि
- त्रि० आकर्षे नियुक्तः आकर्षादि० कन् । आकर्षनियुक्ते
- “आकषः निकषोपल इति रेफरहितः पाठः युक्तः” सि० कौ० ।
आकर्षण त्रि० आ + कृष--ल्युट् । अन्थत्र स्थितस्य वस्तुनः
- १ बलेन अन्यत्र नयने “योषिदाकर्षणे चैव विनियोगः
- प्रकीर्त्तितः” तन्त्रम् । आकृष्यतेऽनेन करणे ल्युट् ।
- २ आकर्षणसाधने तन्त्रोक्ते षट्कर्म्मान्तर्गते विधानभेदे च ।
- यथा “अथाकर्षणविधानानि कथयामि समासतः । यदुक्तं
- त्रैपुरे तन्त्रे यच्चोक्तं भूतडामरे । श्रीवीजं मान्मथं
- वीजं लज्जावीजं समुद्धरेत् । प्रथमं प्रणवं दत्त्वा त्रि-
- पुरादेविपदन्ततः । अमुकीति पदं द्व्यन्तमांकर्षेति द्विधा
- पदम् । खाहान्तं मन्त्रमुद्धृत्य जपेद्दशसहस्रकम् ।
- षट्कोणञ्च समालिख्य रक्तचन्दनकुङ्कुमैः । षड़ङ्गङ्कारये-
- न्मन्त्री लज्जावीजसमन्वितम् । षड्दीर्घभाक्खरैणैव
- नादविन्दुविभूषितम् । रक्तपुष्पाक्षतधूपनैवेद्यैः
- परिपूज्य ताम् । भावयंश्चेतसा देवीं त्रिनेत्रां चन्त्रशेखराम् ।
- बालार्ककिरणप्रख्यां सिन्दूरारुणविग्रहाम् । पद्मञ्च
- दक्षिणे पाणौ जपमालाञ्च वामके । मन्त्रस्यास्य प्रसादेन
- रम्भामपि तथोर्व्वशीम् । आकर्षयेन्न सन्देहः किं
- पुनर्मानुषीमिह । भूर्ज्जपत्रे समालिख्य कुङ्कुमालक्तवारिणा ।
- काश्मीरागुरुकस्तूरीरोचनामिलितेन तु । अनामारक्त-
- मिश्रेण कामलाक्षीमनुं जपेत् । (आँ श्रीं कामलाक्षि
- अमुकोमाकर्षय आकर्षय हुँ फट्) । इमं मन्त्रं जपेदादौ
- सहस्रैकं जपेत् पुनः । भूर्जपत्रं समादाय गुलिकां
- कारयेत् सुधीः । तेनैव साध्यपादोत्थमृत्तिकापङ्कवेष्टितम् ।
- शोधितं तेजसा भानोर्वेष्टयेत् कटुभिस्त्रिभिः । प्रतिमां
- स्त्रीनिभां कृत्वा तस्यां क्षिपेत्तथोदरे । गुलिकां पातयेत्
- पात्रे प्रतिमां साध्यरूपिणीम् । तादृशाभिमुखो-
- भूत्वा निर्जने निशि साधकः । यावद्गच्छति चित्तञ्च तावद्रूपं
- जपेन्मनुम् । यावदायाति संत्रस्ता मदनालसविग्रहा”
- तन्त्रसा० । तत्र होमसाधनद्रव्यमुक्तं तत्रैव । “आकर्षणे
- तथा लोध्रं सतिलं मधुरान्वितम्” ।
आकर्षणी स्त्री आकृष्यतेऽनया आ + कृष--ल्युट् टित्त्वात्
- ङीप् । उच्चस्थपुष्पाद्याहरणार्थे (आङ्शि) १ यष्ठिकाभेदे ।
- २ मुद्राभेदे च मुद्राशब्दे विवरणम् ।
|
आकर्षा(षा)दि पु० पाणिन्युक्ते कन् प्रत्ययनिमित्ते शब्दगणभेदे
- आक(ष)र्ष, त्सरु, पिशाच, पिचण्ड, अशनि, अश्मन्,
- चय, निचय, विजय, जय, आचय, नय, पाद, दीप,
- ह्रद, ह्राद, ह्लाद, गद्गद, शकुनि “आकर्षा(षा)दिभ्यः
- कन्” पा० ।
आकर्षिन् त्रि० आ + कृष--णिनि । आकर्षकारके स्त्रियां
- ङीप् । सम्पूर्व्वात् तु । दूरगामिनि गन्धे । सहि
- दूरादेव नासिकां प्राप्य घ्रातृपुरुषं स्वग्रहणायानुकूल-
- यन् समाकर्षतीवेति तस्य तथात्वम् ।
आकलन न० आ + कल--ल्युट् । १ आकाङ्क्षायाम्, २ ग्रहणे
- ३ संग्रहे ४ गणने ५ ऽनुसन्धाने च “सेव्यापि सानुनयमाक-
- लनाय यन्त्रा” माघः ।
आकलित त्रि० आ + कल--क्त । १ अनुसृते २ ग्रथिते च ।
- प्रहितभुजाऽऽकलितस्तनेन निन्ये” । “सुवर्ण्णसूत्रा-
- कलिताधराम्बराम्” इति च माघः ।
आकल्प पु० आ + कृप--णिच्--घञ् । १ वेशरचनायाम्, २ भूषणे
- च “रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं
- प्रसन्नम्” शिवध्यानम् । “आकल्पसाधनैस्तैस्तैरुपसेदुः
- प्रसाधकाः” “अकृतकविधिसर्व्वाङ्गीण माकल्पजातम्” रघुः ।
- ३ कल्पपर्य्यन्ते अव्य० । “आकल्पं नरकं भुङ्क्ते” इति स्मृतिः
आकष पु० आकष्यते यत्र कष--अच् । स्वर्णादिकषणसाधने
- (कोष्ठि) प्रस्तरभेदे । आकषे नियुक्तः कन् । आकषकः
- तत्रनियुक्ते त्रि० तेन चरति ष्ठल् आकषिकः तेन
- चारिणि । स्त्रियां ङीष् ।
आकस्मिक त्रि० अकस्मादित्यव्ययं कारणाभावे कारणं विना
- भवः विनया० ष्ठक् टिलोपः । अकस्माद्भवे । स्त्रियां ङीष् ।
- जगत आकस्मिकत्ववादिनश्चार्वाका इत्थमाहुः । अकस्मा-
- देव भवति कार्य्यं न किञ्चिदपेक्षमिति तदेतन्मतम् गौ० सू०
- उक्तम् । “अनिमित्ततोभावोत्पत्तिः कण्टकतैक्ष्ण्यादिवत्”
- एतदवतरणिकायां वृत्तिः । यदि कार्य्याणामाकस्मिकत्वं
- तदा न परमाण्वादीनामुपादानत्वं न वेश्वरस्य निमि-
- त्तत्वमत आचस्मिकत्वनिराकरणाय प्रकरणमारभते
- तत्र पूर्ब्बेपक्ष सूत्रम् अनिमित्तत इत्यादि । प्रथमार्थे
- तसिल् । अनिमित्ता भावोत्पत्तिरित्यर्थः तथा च
- घटाद्युत्पत्तिर्न कारणनियम्या उत्पत्तित्वात् कण्टकतैक्ष्ण्य-
- मयूरचित्रताद्युत्पत्तिवत् इति सूत्रतात्पर्य्यम्” कुसुमा०
- हरि० “अकस्मादिति किं हेतुनिषेधपरं वा स्वातिरिक्त
- हेतुनिषेधपरं परिमार्थिकहेतुनिषेधपरं वा । अत्रोभ-
- यत्राहेतुकत्वमन्त्येऽलीकहेतुकत्वं पर्य्यवस्यति” । तथा च
- आकस्मिकशब्दस्य तादृशार्थचतुष्टयपरता । “स्वभावा-
|
पृष्ठ ०५८९
- दित्यर्थ परं वेत्युक्तेश्च स्वाभाविकार्थताऽपि तु सर्व्वद० सं०
- “नन्वदृष्टानिष्टौ जगद्वैचित्र्यमाकस्मिकं स्यादिति चेन्न
- तद्भद्रं स्वभावादेव तदुपपत्तेः” अतएवोक्तम् “अग्निरुष्णो
- जलं शीतं शीतस्पर्शस्तथानिलः । केनेदं चित्रितं
- तस्मात् स्वभावादेव तत्स्थितिरिति चार्व्वाकमतम् तस्या-
- युक्तत्वपरीक्षणं चार्व्वाकशब्दशेषे दृश्यम् ।
आकाङ्क्षा स्त्री आ + काङ्क्ष--अङ् । १ अभिलाषे, न्यायमते
- २ वाक्यार्थज्ञानहेतौ यत्पदं विना यत्पदस्यानन्वयस्तत्पदे
- तत्पदवत्त्वरूपे, संबन्धे ३ पदान्तरव्यतिरेकेणान्वयाभावे च
- “यत्पदेन विना यस्यानुभावकता भवेत् आकाङ्क्षा” भाषा०
- शब्दचिन्ताणौ तु “अथ केयमाकाङ्क्षेत्याक्षिप्य “उच्यते
- अभिधानापर्य्यवसानमाकाङ्क्षेति” लक्षयित्वा स्वयमेव तद्विवृतंयथा
- “यस्य येन विनास्वार्थान्वयाननुभावकत्वं तस्य तदपर्य्यसानं
- नाम, विभक्तिधात्वाख्यातक्रियाकारकपदानां परस्परं विना
- परस्परस्य न स्वार्थान्वयानुभावकत्वम् । परमते नीलोघटोनास्तीति
- नीलं घटमानयेत्यादौ नामार्थानां कारकाणाञ्च न
- परस्परमन्वयबोघः । विशेषणान्वितविभक्त्यर्थानन्वयादिति
- विशिष्टवैशिष्ट्येनैवान्वयः । किन्त्वार्थः समाजः । अस्माकन्तु
- नीलघटयोरभेदानुभवबलादभेद एव संसर्गः । विशेषणविभक्तिः
- साधुत्वार्था । यद्वा समानविभक्तिकयोरभेदानुभवबला-
- द्विशेषणान्वितविभक्तेरभेदार्थकत्वम् अतोविशेषणविशेष्यभा-
- वानुभावकत्वं तत्तत्पदयीर्न परस्परं विना । द्वारमित्यध्या-
- हारं विना प्रतियोग्यलाभान्न स्वार्थान्वयानुभावकत्वम् विश्व-
- जिता यजेत” मयेदं कार्य्य मिति प्रवर्त्तकं तात्पर्य्यविषयज्ञानं
- नाधिकारिणं विनेति तदाकाङ्क्षा । यद्वा कर्त्तुरिवाधिका-
- रिणोऽप्याक्षेपादेव लाभ इति तदन्वयोन शाब्दः किन्त्वानु-
- मानिकः । गौणलाक्षणिकयोरननुभावकत्वपक्षे तदुपस्थापि-
- तस्वाप्यध्याहृतस्येवेतरपदं विना नानुभावकत्वम् घटः कर्मत्व-
- मानयनं कृतिरित्यादावभेदेन नान्वयबोधोऽयोग्यत्वात् तत्तत्
- पदेभ्यस्तात्पर्य्यविषयतत्तत्पदार्थस्वरूपज्ञानञ्च पदान्तरं
- विनैव घटमानयतीत्यत्रेव क्रमेण तथान्वयतात्पर्य्येऽपि
- क्रियाकारकभावेन नान्वयबोधः नामविभक्तिधात्वा-
- ख्यातक्रियाकारकपदार्थानामन्वयबोधे तान्येव समर्थानि
- न तु तदर्थकानि पदान्तराणि अग्निः करणत्वमोदनः
- कर्म्मता पाकः कृतिरिष्टसाधनता इति पदेभ्योऽग्निनौ-
- दनं पचेतेत्यत्रेवान्वयाबोधनात् अग्निकरणकौदनकर्मक-
- पाकविषयकृतिरिष्टसाधनमिति वाक्यं न पदम् । अतएव
- द्वारभित्यत्र पिधेहीति पदाध्याहारः । क्रियापदार्थस्यान्यत
|
- उपस्थितावपि कारकानन्वयात् । असामर्थ्यन्तु स्वभावात् ।
- अनासन्नमप्यासन्नदशायामासन्नभ्रमेणैवान्वयबोधसमर्थमेव ।
- वह्निना सिञ्चतीत्यत्र क्रियाकारकपदयोरन्वयबोधसामर्थ्ये-
- ऽप्ययोग्यताज्ञानं प्रतिबन्धकं दाहे समर्थस्याग्नेर्मणिरिव ।
- अतएव योग्यताभ्रमात् प्रतिबन्धकाभावे ततोऽप्यन्वयबोधः ।
- न हि स्वभावतोऽसमर्थमारोपितसामर्थ्यमिह भवति पचति-
- वेति प्रकृते तु पदार्थस्वरूपज्ञानं न त्वन्वयभ्रमोऽपि । पुरु-
- षपदं विनापि राज्ञ इत्यस्य पुत्रेण समं स्वार्थानुभावकत्वमिति
- न तदाकाङ्क्षा यद्वा त्रयाणां स्मरणेऽजनितान्वयबोध-
- दशायां पुरुषान्वयतात्पर्य्याभावान्नान्वयबोध इत्यग्रेऽपि
- तथा । न च पुत्रस्योत्थिताकाङ्क्षत्वात्तेनैवान्वयबोध इति
- वाच्यं तात्पर्य्यवशात् क्वचित् पुरुषेणैव प्रथमसन्वयबोधात्
- अतएवान्वयबोधसमर्थत्वे सत्यजनिततात्पर्य्यविषयान्वय-
- बोधकत्वमाकाङ्क्षेति केचित् । प्रकृतिपत्ययाभ्यामन्वयबोधे
- जनितेऽपि वाक्यैकवाक्यतावत् क्रियाकारकपदयोरजनिता-
- न्वयबोधकत्वमाकाङ्क्षा । नव्यास्तु पदविशेषजन्या पदार्थो-
- पस्थितिः, घटः कर्मत्वमानयनं कृतिरित्येवंविधपदाजन्य-
- पदार्थोपस्थितिर्वाऽऽसत्तिरन्वयबोधाङ्गमित्यासत्त्यभावादेवं
- विघशब्दान्नान्वयबोधः त्वयाप्येवंविधपदार्थोपस्थितेना-
- काङ्क्षाहेतुत्वेनावश्यमुपेयत्वात् जनितान्वयबोधान्नान्वया-
- न्तरबीधस्तात्पर्य्याभावादित्याकाङ्क्षायाः कारणत्वमेव नास्ति
- किन्तु स्वजनकोपस्थितेः परिचायकत्वमिति” । अत्र दिङ्-
- मात्रं माथुरी व्याख्या प्रदर्श्यते प्रपञ्चस्तु तत एवावगन्तव्यः ।
- “सिद्धान्तयति अभिधानेति अभिधानपदं करणव्युत्पत्त्या-
- शब्दोच्चारणपरम् अभिधत्तेयतस्तस्यापर्य्यवसानं फलानुत्-
- पादस्तथा च तदुच्चारणजन्यतादृशशाब्दबुद्धौ तदुच्चारण-
- जन्यतादृशशाब्दधीप्रागभाव आकाङ्क्षा इति फलितं
- तच्च पूर्ब्बोक्तरूपेण दुष्टम् । न चाभिधानपदं भावव्युत्-
- पत्त्या शाब्दबोधपरं तस्यापर्य्यससानम् अभावः तथा
- च तादृशशाब्दबोधे तादृशशाब्दबोधाभाव आकाङ्क्षा इति
- फलितमिति वाच्यं घटः कर्मत्वमित्यादावतिव्याप्ते रित्यतः
- पारिभाषिकमभिधानापर्य्य वसानपदार्थमाह यस्येति । यत्
- पदतिष्ठं यत्पदं विनेत्यर्थः । न स्वार्थान्वयानुभावकत्वमिति
- न यादृशान्वयबोध इत्यर्थः तस्य तदिति तत्पदस्य
- तत्पदवत्त्वमित्यर्थः । अपर्य्यवसानं तादृशान्वयबोधेऽभिधाना-
- पर्य्यावसानं तथा च यत्पदनिष्ठयत् पदव्यतिरेकप्रयु-
- क्तयादृशबुद्ध्यभावः तत्पदस्य तत्पदवत्त्वं तादृशान्वयबुद्धे
- रभिधानापर्य्यवसानमिति फलितार्थः । पदत्वमत्र शब्दत्वम् ।
|
पृष्ठ ०५९०
- प्रयुक्तत्वञ्च कारणाभावात् कार्य्याभाव इति प्रतीतिसाक्षिकः
- स्वरूपसम्बन्धविशेषः तत्प्रतियोगिजन्यतादृशप्रतियोगिकत्वं
- तत्प्रयुक्तत्वम् । भवति चाव्यवहितपूर्ब्बवर्त्तितारूपसमभि-
- व्याहारसम्बन्धेन घटपदनिष्ठस्यानुस्वारपदस्य व्यतिरेक प्रयुक्तो
- घटवत्कर्मत्वमिति भेदान्वयबुद्ध्यभाव इति । घटपदस्यानु-
- स्वारपदवत्त्वं तादृशान्वयबोधस्याकाङ्क्षा । एवं विनिगमना
- विरहेणाव्यवहितोत्तरवर्त्तितारूपसमभिव्याहारसम्बन्धेना-
- नुस्वारपदनिष्ठस्य घटपदव्यतिरेकप्रयुक्तोऽपि घटवत्
- कर्भत्वमिति भेदान्वयबुद्ध्यभाव इति तादृशशाब्दबोधेऽनुस्वा-
- रपदस्य घटपदवत्त्वमपि आकाङ्क्षा । अव्यवहित पूर्ब्बवर्त्तिता
- रूपसमभिभ्याहारसम्बन्धेन घटपदस्य कर्मत्वपदवत्त्वम्,
- अव्यवहितोत्तरवर्त्तितारूपसमभिव्याहारसम्बन्धेन कर्मत्वपदस्य
- घटपदवत्त्वञ्च न घटवत् कर्म त्वमिति भेदान्वयबोधे आकाङ्क्षा-
- अव्यवहितपूर्व्ववर्त्तितारूपसमभिव्याहारसम्बन्धेन घटपद-
- निष्ठस्य कर्मत्वपदस्याव्यवहितोत्तरवर्त्तितारूपसमभिव्याहा-
- रसम्बन्धेन कर्मत्वपदनिष्ठस्य घटपदस्य च व्यतिरेकयोर्घटवत्
- कर्मत्वमिति भेदान्वयबुद्ध्यभावाप्रयोजकत्वात् । कारणाभाव-
- स्यैव कार्य्याभावप्रयोजकत्वात् अव्यवहितपूर्ब्बवर्त्तिता-
- सम्बन्धेन घटपदनिष्ठस्य कर्मत्वपदस्याव्यवहितोत्तरवर्त्तिता
- सम्बन्धेन कर्मत्वपदनिष्ठस्य घटपदस्य भेदान्वयबुद्धाव-
- हेतुत्वात्” ।
- “वेदान्तपरिभाषायान्तु अन्यथोक्तं यथा तत्र
- पदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकाङ्क्षा क्रिया-
- श्रवणे कारकस्य कारकश्रवणे क्रियायाः करणश्रवणे
- इतिकर्त्तव्यतायाश्च जिज्ञासाविषयत्वःत् । अजिज्ञासो-
- रपि वाक्यार्थबोधात् योग्यत्वमुपात्तं तदवच्छेदकञ्च क्रि-
- यात्वकारकत्वादिकमिति नातिव्याप्तिः । अभेदान्वये च
- सनानविभक्तिकपदप्रतिपाद्यत्वं तद । च्छेदकमिति तत्त्वमस्यादि
- वाक्येषु नाव्याप्तिः । एतादृशाभिप्रायेणैव बलाबलाधिकरणे
- “सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिन” मित्यत्र वैश्वदेव-
- यागस्यामिक्षान्वितत्वेन न वाजिनाकाङ्क्षेत्यादिव्यवहारः ।
- ननु तत्रापि वाजिनस्य जिज्ञासाविषयत्वेऽपि तद्योग्यत्व-
- मस्त्येव, प्रदेयद्रव्यत्वस्य यागनिरूपितजिज्ञासाविषयताव-
- च्छेदकत्वात् इति चेन्न स्वसमानजातीयपदार्थान्वयबोध-
- विरहसहकृतप्रदेयद्रव्यत्वस्यैव तदवच्छेदकत्वेन वाजिन-
- द्रव्यस्य स्वसमानजातीयामिक्षाद्रव्यान्वयबोधसहकृतत्वेन
- तादृशावच्छेदकत्वाभावात् । आमिक्षायान्तु नैवं, वाजिना-
- म्वयस्य तदानुपस्थानात् । उदाहरणान्तरेष्वपि दुर्ब्बलत्व
|
- प्रयोजकाकाङ्क्षाविरह एवमेव द्रष्टव्यः” । “आकाङ्क्षेयं
- तगुरुतया नैव गन्तुं समर्थेति” पदाङ्कदूतम् “साकाङ्क्ष
- शब्दैर्योबोधः पदार्थान्वयगीचरः” इति “योग्यतार्थगता-
- काङ्क्षा शब्दनिष्ठानुभाविका” इति शब्दशक्ति० “वाक्यं स्याद्यो-
- ग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” सा० द० “आकाङ्क्षाप्रतीति
- पर्य्यवसानविरहः स च जिज्ञारूपः” सा० द० ।
आकाङ्क्षित त्रि० आ + काङ्क्ष--कर्म्मणि क्त । इच्छाविषये ।
आकाङ्क्षिन् त्रि० आकाङ्क्षति आ + काङ्क्ष--णिनि । इच्छा-
- वति “अफलाकाङ्क्षिभिर्यज्ञोविघिदृष्टोय इज्यते । यष्टव्यमे
- वेति मनः समाधाय स सात्विकः” गोता । स्त्रियां ङीप् ।
- “तं भावार्थप्रसवसमयाकाङ्क्षिणीनां प्रजानाम्” रघुः ।
आकाय पु० आ + चि--कर्म्मणि घञ् चितौ कुत्वम् । १
- चीयमानेऽग्नौ “आकायमग्निं चिन्वीत” सि० कौ० उ० २ निवासे
- इति केचित् तत्र कुत्त्वं चिन्त्यमूलम् ।
आकार पु० आ + कृ--घञ् । १ मूर्त्तौ, २ अवयवसंस्थानविशेषे
- च । आक्रियते आविष्क्रियते हृद्गतोभावोऽनेन
- आकृ--करणे घञ् । ३ हृद्गतभावावेदके मुखप्रसादवैवर्ण्यरूपे
- प्रीत्यप्रीतिसूचके देहचेष्टने । भावे घञ् । ४ हृद्गगतभावावेदने,
- ५ इङ्गिते च । “आकारश्छाद्यसानोऽपि न शक्योविनि-
- गूहितुम् । बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम्”
- “आकारसदृशप्रज्ञः” रघुः । “तस्य संवृतमन्त्रस्य गूढा-
- कारेङ्गितस्य च” रघुः । इङ्गितं हृहतोभावो बहिराकार
- आकृतिः” । सज्जनः । ६ तादात्म्ये ७ अभेदोपगमे च ।
- आकरश्च सांख्यादिभतसिद्धः अभेदस्थानीयः पदार्थभेदः
- विषयिताविशेषो वा । “यत् संबद्धं सत् तदाकारोल्लेखि
- विज्ञानं तत् प्रत्यक्षमिति” सां० सू० । “सम्बद्धं भवत्
- सम्बद्धवस्त्वाकारधारि भवति यद्विज्ञानं बुद्धिवृत्तिस्तत्
- प्रत्यक्षम् स्वार्थसन्निकर्षजन्याकाराश्रयो वृत्तिः प्रत्यक्षमिति
- फलितम् । “वृत्तिः संबन्धार्थं सर्पती” त्यागामिसूत्रात्
- वृत्तेर्न सन्निकर्षजन्यत्वमित्याकाराश्रयग्रहणम् चक्षुरादि
- द्वारकबुद्धिवृत्तिश्च प्रदीपस्य शिखातुल्या बाह्यार्थसन्निकर्षा-
- नन्तरमेव तदाकारोल्लेखिनी भवतीति नासम्भवः” भा० ।
- वेदान्तिभिरपि अन्तःकरणस्य सावयवत्वस्वीकारेण बुद्धि-
- वृत्तेस्तदाकारत्वमुररीकृतं यथोक्तं वेदा० परिभा० । “यथा
- तड़ागोदकं छिद्रान्निर्गत्य कुल्यात्यना केदारान् प्रविश्य
- तद्वदेव चतुष्कोणाद्याकारं भवति तथा तैजसमन्तःकर-
- णमपि चक्षुरादिद्वारा धटादिविषयदेशं गत्वा घटादि-
- विषयाकारेण परिणमते । स एव परिणामो वृत्ति-
|
पृष्ठ ०५९१
- रित्युच्यते । अनुमित्यादिस्थले तु अन्तःकरणस्य न
- वह्न्यादिदेशगमनं वह्न्यादेश्चक्षुराद्यसन्निकर्षात् तथा चायं
- घटैत्यादि प्रत्यक्षस्थले घटादेस्तदाकारवृत्तेश्च
- बहिरेकत्र देशे समवस्थानात् तदुभयावच्छिन्नं चैतन्यमेकमेव
- विभाजकयोरप्यन्तःकरणवृत्तिघटादिविषययोरेकदेशस्थितत्वेन
- भेदाजनकत्वात्” । सचाकारस्तेषां मते बाह्यवस्तुविषय-
- सत्त्वेन तत्सन्निकर्षेण सम्भवति । बाह्यवस्तुसत्त्वानङ्गीकर्तृमते
- तु अनादिवामनयैव तदाकारोल्लेख इति यथोक्तं सर्व्वदर्श-
- न स०” । “तस्मात् स्वव्यतिरिक्तग्राह्यविरहात्तदात्मिका
- बुद्धिः स्वयमेव स्वात्मरूपप्रकाशिका प्रकाशवदिति
- सिद्धम् । तदुक्तम् “नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या
- नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्य्यात् स्वयं सैव
- प्रकाशते” इति । ग्राह्यग्राहकयोरभेदश्चानुमातव्यः
- यत् येन वेद्यते तत्ततो न भिद्यते यथा ज्ञाने-
- नात्मा, वेद्यन्ते ज्ञानेन नीलादयः । भेदे हि सत्यधुना
- अनेनार्थस्य सम्बन्धित्वं न स्यात् तादात्म्यस्य नियमहे-
- तोरभावात् तदुत्पत्तेरनियामकत्वात् यश्चायं ग्राह्य-
- ग्राहकसंवित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमसि
- द्वित्वावभास इव भ्रमः अत्राप्यनादिरविच्छिन्नप्रवाहा-
- ऽभेदवासनैव निमित्तम् । यथोक्तम् “सहोपालम्भ-
- नियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैर्दृश्ये-
- तेन्दाविवाद्वये” इति । अविभागोऽपि बुद्ध्यात्मा विपर्य्यासि-
- तदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यत इति”
- च । न च रसवीर्य्यविपाकादि समानमाशामोदकोपार्जि-
- तमोदकानां स्यादिति वेदितव्यं वस्तुतो वेद्यवेदकाकार-
- विधुराया अपि बुद्धेर्व्यवहर्तृ परिज्ञानानुरोधेन विभिन्नग्रा-
- ह्यग्राहकाकाररूपवत्तया तिमिराद्युपहताक्षाणां केशेन्द्र-
- नाड़ीज्ञानाभेदवदनाद्युपप्लववासनासामर्थ्याद्व्यवस्थोपपत्तेः
- पर्य्यनुयोगायोगात् । यथोक्तम् “अवेद्यवेदकाकारा यथा
- भ्रान्तैर्निरीक्ष्यते । विभक्तलक्षणाग्राह्यग्राहकाकारविप्लवाः ।
- तथा कृतव्यवस्थेयं केशाद्रिज्ञानभेदवत् । यदा तदा न
- सञ्चोद्या ग्राह्यग्राहकलक्षणेति” । तस्माद्बुद्धिरेवानादिवा-
- सनावशादनेकाकारावभासत इति सिद्धम्” । “अन्येतु न तन्म-
- न्यन्ते तथा हि यदुक्तं ग्राह्यं वस्तुजातं नास्तीति तदयुक्तं
- प्रमाणाभावात् । न च सहोपालम्भनियमः प्रमाणमिति
- वक्तव्यं वेद्यवेदकयोरभेदसाधकत्वेनाभिमतस्य तस्याप्रयो-
- जकत्वेन सन्दिग्धविपक्षव्यावृत्तिकत्वात् । ननु भेदे सहोपा-
- लम्भनियमात्मकं साधनं न स्यादिति चेन्न ज्ञानस्यान्त
|
- र्मुखतया च भेदेन प्रतिभासमानतया एकदेशत्वैककालत्व-
- लक्षणसहत्वनियमासम्भवाच्च । नीलाद्यर्थस्य ज्ञानाकारत्वे
- अहमिति प्रतिभासः स्यात् नत्विदमिति प्रतिपत्तिः
- प्रत्ययादव्यतिरेकात् । अथोच्येत ज्ञानस्वरूपोऽपि
- नीलाकारो भ्रान्त्या बहिर्वद्भेदेव प्रतिभासत इति न
- तत्राहमुल्लेख इति । यथोक्तं “परिच्छेदान्तरा-
- द्योऽय भागो बहिरिव स्थितः । ज्ञानस्याभेदिनो बाह्य
- प्रतिभासोऽप्युवप्लव” इति “यदन्तर्ज्ञेयतत्त्वं तद्बहिर्वदवभासत”
- इति च । तदयुक्तं बाह्यार्थाभावे तदुत्पत्तिरहिततया
- बहिर्वदित्युपमानोक्तेरयुक्तेः न हि वसुमित्रो बन्ध्यापुत्र-
- वदवभासत इति प्रेक्षावानाचक्षीत भेदप्रतिभासस्य भ्रान्तत्वे
- अभेदप्रतिभासस्य प्रामाण्यं, तत्प्रामाण्ये च भेदप्रति-
- भासस्य भ्रान्तत्वमिति षरस्पराश्रयप्रसङ्गाच्च अविसंवादा-
- न्नीलतादिकमेव संविदाना बाह्यमेवोपाददते
- जगत्युपेक्षन्तेऽवान्तरमिति व्यवस्थादर्शनाच्च । एवञ्चायमभेद-
- साघको हेतुर्गोमयपायसीयन्यायवदाभासतां भजेत् ।
- अतोबहिर्वदिति वदता बाह्यं तद्ग्राह्यमेवेति भावनीयमिति
- भवदीय एव वाणो भवन्तं प्रहरेत् । ननु ज्ञानाभिन्न-
- कालस्यार्थस्य बाह्यत्वमनुप्रपन्नमिति चेत् न तदनुपपन्नम्
- इन्द्रियसन्निकृष्टस्य विषयस्योत्पाद्ये ज्ञाने स्वाकारसमर्पक-
- तया समर्पितेन चाकारेण तस्यार्थस्यानुमेयतोपपत्तेः
- अतएव प्रर्य्यनुयोगपरिहारौ समग्रहीषाताम् । “भिन्नकालं
- कथं ग्राह्यमिति चेत् ग्राह्यतां विदुः । हेतुत्वमेव च
- व्यक्तेर्ज्ञानाकारार्पणक्षममिति” । तथा च यथा पुष्ट्या
- भोजनमनुमीयते यथा च भाषयया देशः यथा वा सम्भ्र-
- मेण स्नेहः तथा ज्ञानाकारेण ज्ञेयमनुमेयम्” ।
- आकारे कुशलः ठञ् आकारिकः । तत्र निपुणे त्रि० ।
आकारगुप्ति स्त्री गुप--क्तिन् आकारस्य हृद्गतभावस्य गुप्ति
- र्गोपनम् । रत्यादिजनितमुखप्रसादस्य भयजनितविषादा-
- देश्च अन्यहेतुकत्वप्रख्यापनेन वास्तविकत्वापह्नेवे गोपने ।
आकारण न० आ + कृ--णिच् ल्युट् । १ आह्वाने । युच्
- स्त्रीत्वात् टाप् । आकारणाप्यत्र ।
आकाल अव्य० कालपर्य्यन्तम् अव्ययी० । यत्काले निमित्तं
- पूर्ब्बदिने जातम् तत्परदिने तत्कालपर्य्यन्ते “भार्य्याः
- परमगुरुसंस्थायां चाकालमभोजनं कुर्व्वीरन्निति” आपस्त० ।
आकालिक त्रि० अकाले भवं ठञ् । १ असमयोत्पन्ने वस्तुनि ।
- स्त्रियां ङीप् “आकालिकों वीक्ष्य मधुप्रवृत्ति” मिति कुमारः ।
- समानकालौ आद्यन्तौ यस्य समानकालस्य आकलडादेशः
|
पृष्ठ ०५९२
- इकञ्च नि० इति मल्लि० । २ आशुविनाशिनि, आद्यन्त-
- योरभावात्, । आकालं व्याप्नोति ठञ् । ३ पूर्ब्बदिवसे
- यत्समये उत्पत्तिः परेद्युस्तत्समयपर्य्यन्तव्यापके काले
- “आकालिकमनध्यायमेतेष्विति” “एतानाकालिकान्
- विद्यादनध्यायानृतावपि” “आकालिकमनध्यायं विद्यात्
- सर्व्वाद्भुतेषु च” इति च मनुः । आशुविनाशित्वात्
- ४ विद्युति स्त्री ।
आकाश पुंन० समन्तादाकाशन्ते सूर्य्यादयोऽत्र । १ स्वनामख्याते
- द्रव्यभेदे । स च न्यायादिमते नित्यः सर्वमूर्त्तसंयोगी शब्द-
- मात्रविशेषगुणकः संण्वापरिमाणपृथक्त्वसंयोगविभागरूप-
- सामान्यगुणकश्च । तत्सत्त्वे प्रमाणञ्च मुक्ता० दर्शितम्
- यथा “शब्दोविशेषगुणः चक्षुर्ग्रहणायोम्यबहिरिन्द्रिय-
- ग्राह्यजातिमत्त्वात्, स्पर्शवत् । शब्दोद्रव्यससवेतः
- गुणत्वात् संयोगवत् इत्यनुमाने शब्दस्य द्रव्यसम-
- वेतत्वे सिद्धे शब्दो न स्पर्शवद्विशेषगुणः अग्निसं-
- योगासमवायिकारणकत्वाभावे सति अकारणगुणपूर्ब्बक-
- प्रत्यक्षत्वात्, सुखवत् । पाकजरूपादौ व्यभिचारवारणाय
- सत्यन्तं, पटरूपादौ व्यभिचारवारणाय अकारणगुण-
- पूर्ब्बकेति, जलपरमाणुरूपादौ व्यभिचारवारणाय प्रत्य-
- क्षेति । शब्दोन दिक्कालमनोगुणः विशेषगुणत्वात्, नात्म-
- विशेषगुणः बहिरिन्द्रियग्राह्यत्वात् रूपवत् इत्थञ्च
- शब्दाधिकरणं नवमं द्रव्यं गगननामकं सिध्यतीति । न च
- वाय्ववयवेषु सूक्ष्मशब्दक्रमेण वायौ कारणगुणपूर्ब्बकः
- शब्दौत्पद्यतामिति वाच्यम् अयावद्द्रव्यभावित्वेन वायु-
- विशेषगुणत्वाभावात्” । “व्याख्यातञ्च दिनक० “शब्दः पृथिव्या
- द्यष्टद्रव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यानाश्रितत्वे सति द्रव्या-
- श्रितत्वात् इत्येवंरूपं बोध्यम् । दर्शितं सूचितम् । अत्रानुमाने
- स्वरूपासिद्धिं परिहर्त्तुमाह तथाहीति घटादौ व्यभिचार-
- वारणाय चक्षुर्ग्रहणायोग्येति आत्मनि व्यभिचारवारणाय-
- बहिरिन्द्रियग्राह्येति रसत्वादौ व्यभिचारवारणाय-
- जातिमदिति एतच्चानुमानमग्रिमद्रव्यसमवेतत्वसाधकानु-
- माने स्वरूपासिद्धिनिरासायेति बोध्यम् । गुणत्वादिति
- एतदनुमानेनोक्तपरिशेषानुमानहेतौ विशेष्यासिद्धिर्निरस्ता ।
- विशेषणासिद्ध्युद्धारमाह शब्दोन स्पर्शवद्विशेषगुण इति ।
- न स्पर्शवतोद्रव्यस्य पृथिव्यादिचतुष्टयस्य विशेषगुण इत्यर्थः ।
- अकारणगुणपूर्ब्बकप्रत्यक्षत्वादिति अकारणगुणपूर्ब्बकत्वे
- सति प्रत्यक्षत्वादित्यर्थः । हेतुसत्त्वं प्रतिपादयितुं
- पाकज इति । जलपरमाण्विति अनित्यानां पार्थिवरूपा-
|
- दीनां केषाञ्चिदग्निसंयोगासमवायिकारणत्वात् केषा-
- ञ्चित्कारणपूर्व्वक्त्वादत्रोपेक्षा । न दिक्कालेति शब्द इत्यनु-
- वर्त्तते बहिरिन्द्रियेति । मनसोऽन्यदिन्द्रियं बहिरिन्द्रियं
- तेन प्रत्यक्षत्वादित्यर्थः । एतेनानात्मगुणग्राहकेन्द्रियत्वं
- बाह्येन्द्रियत्वं तच्च मनस्यप्यतिप्रसक्तं तेनापि रूपादि-
- ग्रहणादिति निरस्तम् । इत्थञ्च अनेन प्रकारेण पृथिव्या-
- द्यष्टद्रव्यानाश्रितत्वसिद्धौ च । सिद्ध्यति इति पूर्ब्बोक्तपरि-
- शेषानुमानेन सिद्ध्यतीत्यर्थः । नन्वेतत्सर्वं तदोपपद्येत यदि
- शब्दस्य विशेषगुणत्वे किञ्चित्प्रमाणं स्यात् तत्रैवच न मानं
- पश्याम इति चेत् न शब्दोविशेपगुणः लौकिकप्रत्यासत्त्ये-
- न्द्रियग्राह्यत्वे सति लौकिकप्रत्यासत्त्या द्वीन्द्रियग्रहण-
- योग्यताराहित्ये च सति गुणत्वव्याप्यजातिमत्त्वादित्यनु-
- मानस्यैव तत्र प्रमाणत्वात् प्रभात्वमादाय व्यभिचारवारणाय
- गुणत्वव्याप्येति गुरुत्वत्वमादाय व्यभिचारवारणाय प्रथमं
- सत्यन्तं, संख्यात्वमादाय व्यभिचारवारणाय द्वितीयं सत्यन्तम् ।
- सांसिद्धिकद्रवत्वस्नेहधर्माधर्ममावनासु प्रकृतहेतोरभावेऽपि
- तत्र हेत्वन्तरेणैव विशेषगुणत्वं साधनीयमिति भावः ।
- पूर्व्वोक्तानुमाने बाधं स्वरूपासिद्धिं च आशङ्कते न चेति ।
- वायाविति तथा च स्पर्शवद्वायुगुणत्वस्य तत्र सत्त्वात्तदभाव-
- साधने बाध इति भावः । कारणगुणपूर्ब्बकत्वकथनं तु
- अकारणगुणपूर्ब्बकत्वघटितहेतोरसिद्धिप्रदर्शनार्थम् ।
- अपावद्द्रव्यभावित्वेनेति स्वाश्रयनाशजन्यनाशप्रतियोगि यद्यत्
- तद्भिन्नत्वेनेत्यर्थः । ननु तथाप्याकाशे प्रत्यक्षमेव प्रमाणं
- किमिति नोपन्यस्तमिति चेन्न चाक्षुषत्वे प्रयोजकस्य महत्त्वे
- सत्युद्भूतरूपवत्त्वस्याकाशेऽसंभवेन चक्षुषः प्रमाणत्वासम्भ-
- वात् । ननु यदि आकाशे न चाक्षुषस्तदेह पक्षीति चाक्षुषे-
- ऽधिकरणत्वेन किंभासत इति चेदालोक एवेति कल्प्यम्” ।
- निष्क्रमणप्रवेशनाद्युत्क्षेपणधर्म्मवत्त्वादाकाशसिद्धिरिति
- सांख्यादयोमन्यन्ते” सांख्यमताभिप्रायेणैव सुश्रुते ।
- “आन्तरीक्षास्तु शब्दः शब्देन्द्रियं सर्वच्छिद्रसमूहो विविक्तता
- चेत्युक्तम्” । “शब्दःश्रोत्रेन्द्रियञ्चापि छिद्राणि च विविक्तता ।
- वियतोदर्शिता एते गुणा गुणाविचारिभिरिति” च वेदान्ति-
- भिरुक्तमिति वेदितव्यम् । तदेतन्मतंवै० सूत्रे निराकृतम् यथा
- “निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् २ ० । तदलिङ्गमेक-
- द्रव्यत्वात् कर्म्मणः २१ । कारणान्तरानुकॢप्तिवैधर्म्याच्च २२ ।
- संयोगादभाबः कर्म्मणः २३ । कारणगुणपूर्व्वकः कार्य्यगुणो
- दृष्टः २४ । कार्य्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः २५
- परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः २६ ।
|
पृष्ठ ०५९३
- परिशेषाल्लिङ्गमाकाशस्य २७ । द्रव्यत्वनित्यत्वे वायुना
- व्याख्याते २८ । तत्त्वम्भावेन २९ । शब्दलिङ्गाविशेषा-
- द्विशेषलिङ्गाभावाच्च ३० ।” सू० “इतिशब्दः प्रकारार्थः
- उत्क्षेपणादीन्यपि कर्म्माणि सगृह्लाति स्पर्शवद्द्रव्य-
- सञ्चारो, निष्क्रमणं, प्रवेशनञ्च तत्कार्य्यमाकाशस्य
- लिङ्गमिति सांख्याः २० । तदेतद् दूषयितुमाह ।
- निष्क्रमणप्रवेशनादिकर्म्म न तावत् समवायिकारणतया
- आकाशमनुमापयति कर्म्मण एकद्रव्यत्वात् एकमात्रमूर्त्त-
- समवायिकारणकत्वात् न कर्म्मापि व्यासज्यवृत्तीत्युक्तं न
- वाऽमूर्त्तवृत्तीति २१ । ननु चासमवायिकारणतयैवाकाशमनु-
- मापयिष्यति निष्क्रमणप्रवेशनादीत्यत आह । अनुकॢप्ति-
- र्लक्षणम् अनुकल्प्यते ज्ञाप्यतेऽनेनेति व्युत्पत्त्या, कारणा-
- न्तरस्य असमवायिकारणस्य याऽनुकॢप्तिर्लक्षणं तद्वैध-
- र्म्म्यादित्यर्थः । द्रव्यन्तावदसमवायिकारणं न भवत्येव
- असमवायिकारणता च कारणैकार्थप्रत्यासत्त्या कार्य्यैकार्थ-
- प्रत्यासत्त्या च, प्रथमा तन्तुरूपाणां पटरूपं प्रति, इयञ्चा-
- समवायिकारणता महतीति संज्ञां लभते गुरुप्रतिपत्तिक-
- त्वात्, द्वितीया च यथा आत्ममनःसंयोगस्य ज्ञानादिकं
- प्रति, इयञ्चासमवायिकारणता लघ्वीति संज्ञां लभते
- लघुप्रतिपत्तिकत्वात्, आकाशस्य तु निष्क्रमणप्रवेशनादौ
- कर्म्मणि न समवायिकारणता नाप्यसमवायिकारणता
- तथाच न कर्म्माकाशसत्त्वे लिङ्गमिति २२ । ननु निमित्त-
- कारणमस्तु कर्म्मण्याकाशम्, दृश्यते ह्याकाशे पक्षि-
- काण्डादीनां सञ्चारमत आह । मूर्त्तसंयोगेन कर्म्मकार-
- णस्य वेगगुरुत्वादेः प्रतिबन्धात् कर्म्मणोऽभावोऽनुत्पादो न
- त्वाकाशाभावात् तस्याव्यापकत्वात्, तस्मादाकाशान्वयोऽ-
- न्यथासिद्ध एव नाकाशनिमित्ततां साधयतीत्यर्थः २३ । एवं
- सांख्यमते दूषिते शब्दमाकाशे लिङ्गमुपपादयिष्यन्
- परिशेषानुमानाय पीठमारचयन्नाह । पृथिव्यादिलक्षणे कार्य्ये
- ये विशेषगुणा रूपादयस्ते कारणगुणपूर्व्वका दृष्टाः शब्दो-
- ऽपि विशेषगुणः जातिमत्त्वे सति वाह्यैकेन्द्रियमात्र-
- ग्राह्यत्वात् रूपादिवत् तथाच तादृशं कार्य्यं नोपलभ्यते
- यत्र कारणगुणपूर्व्वकः शब्दः स्यादित्यर्थः २४ । ननु वीणा-
- वेणुमृदङ्गशङ्खपटहादौ कार्य्ये शब्द उपलभ्यते तथाच
- तत्कारणगुणपूर्व्वकः स्यादत आह । भवेदेवं यथा तन्तु-
- कपालादिषु रूपरसाद्यनुभूयते तत्सजातीयञ्च रूपरसाद्यन्तरं
- पटघटादावुपलभ्यते तथा वीणावेणुमृदङ्गाद्यवयवेषु यः
- शब्द उपलब्धस्तत्सजातीयश्चेत् वीणावेणमृदङ्गादावप्युप-
|
- लभ्येत नचैवम्, प्रत्युत निःशब्दैरेवावयवैर्वोणाद्यारम्भ-
- दर्शनात् नोरूपैस्तु तन्तुकपालादिभिः पटघटाद्यारम्भस्या-
- दर्शनात् किञ्च यदि शब्दः स्पर्शवतां विशेषगुणः स्यात्
- तदा तत्र तार--तारतर--मन्द--मन्दतरादिभावो नानुभूयेत
- नह्येकावयव्याश्रिता रूपादयो वैचित्र्येणानुभूयन्ते तस्मान्न
- स्पर्शवद्विशेषगुणः शब्दः २५ । नन्वात्मगुणो मनोगुणो वा
- शब्दी भविष्यतीत्यत आह । शब्दो यद्यात्मगुणः स्यात्
- तदाऽहं सुखी यते जाने इच्छामीत्यादिवत् अहं पूर्य्ये
- अहं वाद्ये अहं शब्दवानित्यादि धीः स्यात् नत्वेवमस्ति,
- किन्तु शङ्खः पूर्य्यते, वीणा वाद्यते इति प्रतियन्ति लौकिकाः ।
- किञ्च शब्दो नात्मगुणः बाह्येन्द्रियग्राह्यत्वात् रूपादि-
- वत्, अपि च शब्दो यद्यात्मयोग्यविशेषगुणः स्याद्वधि-
- रेणाप्युपलभ्येत दुःखादिवत् । तस्मात् सुष्ठूक्तं परत्र
- समवायादिति, अमनोगुणत्वे हेतुमाह प्रत्यक्षत्वादिति,
- नात्ममनसोर्गुण इति समासे कर्त्तव्ये यदसमासकरणं
- तेन तुल्यन्यायतया प्रत्यक्षत्वादित्यनेनैव हेतुना दिक्का-
- लयोरपि गुणत्वं शब्दस्य प्रतिषिद्धमिति सूचितम् २६ ।
- यदर्थमयं परिकरस्तदाह शब्द इति शेषः । अत्रापि
- शब्दः क्कचिदाश्रितो गुणत्वात् रूपादिवदिति सामान्यतो-
- दृष्टोदष्टद्रव्यातिरिक्तद्रव्य सिद्धिः । गुणश्चायं बाह्यैके-
- न्द्रियग्राह्यजातीयत्वात् रूपादिवत् अनित्यत्वे सति
- विभुसमवेतत्वात् ज्ञानादिवत् अनित्यत्वञ्च साधयिष्यते ।
- परिशेषसिद्धस्य द्रव्यस्यावयवकल्पनायां प्रमाणा-
- भावान्नित्यत्वं, सर्व्वत्र शब्दोपलब्धेर्विभुत्वम् २७ ।
- शब्दलिङ्गस्य द्रव्यस्य द्रव्यत्वनित्यत्वे अतिदेशेन साधयन्नाह ।
- अद्रव्यवत्त्वाद्यथा वायोर्नित्यत्वं तथाकाशस्यापि,
- गुणवत्त्वाद्यथा वायोर्द्रव्यत्वं तथाकाशस्यापीत्यर्थः २८ । तत्
- किं बहून्याकाशानि एकमेव वेत्यत आह । व्याख्यात-
- मिति विपरिणतेनान्वयः । भावः सत्ता सा यथैका
- तथाकाशमप्येकमेवेत्यर्थः २९ । नन्वनुगतप्रत्ययमहिम्ना सत्ताया
- एकत्वं सिद्धम् आकाशे कथमेकत्वं तद्दृष्टान्तेन सेत्स्यती-
- त्यत आह । तत्त्वमाकाशस्य सिद्धमित्यर्थः । वैभवे सति सर्वेषां
- शब्दानां तदेकाश्रयतयैवोपपत्तावाश्रयान्तरकल्पनायां
- कल्पनागौरवप्रसङ्गः अन्यदपि यदाकाशं कल्पनीयं तत्रापि
- शब्द एव लिङ्गं तच्चाविशिष्टं न च विशे षसाधकं भेदसाधकं
- लिङ्गान्तरमस्ति । आत्मनां यद्यपि ज्ञानादिकमविशिष्टमेव
- लिङ्गं तथापि व्यवस्थातो लिङ्गान्तरादात्मबानात्व-
- सिद्धिरिति वक्ष्यते” ३० उप० । इत्थं च तस्य नित्यत्वं
|
पृष्ठ ०५९४
- निरवयवद्रव्यत्वादिति सिद्धम् । सांख्यादयस्तु शब्दतन्मात्रत-
- स्तदुत्पत्ति मुररीचक्रुः “प्रकृतेर्महान् महतोऽहङ्कारोऽह-
- ङ्कारात् पञ्चतन्मात्राणि” इत्युपक्रम्य “पञ्चभ्यः पञ्चभूतानि”
- इत्युक्तेः । वेदान्तिनस्तु अविद्यासहकृतब्रह्मण
- एव सकाशात्तदुत्पत्तिमङ्गीचक्रुः तस्य चोत्पत्तिमत्त्वे
- “तस्माद्वा एतस्मादात्मनः आकाशः सम्भूतः” इति श्रुति
- र्मानम् । यतो वा इमानि भूतानि जायन्ते
- इत्यादिश्रुत्या ब्रह्मणः सर्व्वभूतकारणत्वान्यथानुपत्त्याऽपि
- तस्योत्पत्तिमत्त्वम् । श्रुतेर्गौणोत्पत्तिपरत्वं च आशङ्गा-
- पूर्ब्बकं शा० सूत्रभाष्ययोर्निराकृतं यथा । “नवियदश्रुतेः
- सू० “वेदान्तेषु तत्र तत्र भिन्नप्रस्थाना उत्पत्तिश्रुतय
- उपलभ्यन्ते । केचिदाकाशस्योत्पत्तिमामनन्ति केचिन्न ।
- तथा केचिद्वायोरुत्पत्तिमामनन्ति केचिन्न । एवं जीवस्य
- प्राणानाञ्च । एवमेव क्रमादिद्वारकोऽपि विप्रतिषेधः
- श्रुत्यन्तरेषु लक्ष्यते । विप्रतिषेधाच्च परपक्षाणामनपेक्षत्वं
- स्थापितं तद्वत् स्वपक्षस्यापि विप्रतिषेधादेवानापेक्षत्वमा-
- शङ्क्येतेत्यतः सर्ववेदान्तगतसृष्टिश्रुत्यर्थनिर्मिलत्वाय परः
- प्रपञ्च आरभ्यते । तदर्थ निर्मिलत्वे च फलं यथोक्ताश-
- ङ्कानिवृत्तिरेव । तत्र प्रथमं तावदाकाशमाश्रित्य विचिन्त्यते
- किमस्योत्पत्तिरस्त्युत नास्तोति । तत्र तावत् प्रतिपद्यते ।
- न वियदश्रुतेरिति न खल्वकाशमुत्पद्यते कस्मात् अश्रुतेः
- नह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति । छान्दोग्ये हि “सदे-
- व सोम्येदमग्र आसीदेकमेवाद्वितीयमिति” सच्छब्दवाच्यं
- ब्रह्म प्रकृत्य “तदैक्षत तत्तेजोऽसृजतेति च पञ्चानां
- महाभूतानां मध्यमं तेजआदिं कृत्वा त्रयाणां तेजोऽबन्नानामु-
- त्पत्तिः श्राव्यते । श्रुतिश्च नः प्रमाणमतीन्द्रियार्थविज्ञानो-
- त्पत्तौ । न चात्र श्रुतिरस्त्याकाशोत्पत्तिप्रतिपादिनी तस्मा-
- न्नास्त्याकाशस्योत्पत्तिरिति” भा० “अस्ति तु” सू० । तुशब्दः
- पक्षान्तरपरिग्रहे । मा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिः
- श्रुत्यन्तरे त्वस्ति । तैत्तिरीयकाः समामनन्ति “सत्यं ज्ञानमनन्तं
- ब्रह्मेति” प्रकृत्य “तस्माद्वा एतस्मादात्मन आकाशः सम्भूत”
- इति । ततश्च श्रुत्योर्विप्रतिषेधः क्वचित्तेजःप्रमुखा सृष्टिः
- क्वचिदाकाशप्रमुखेति । नन्वेकवाक्यताऽनयोः श्रुत्यो-
- र्युक्ता । सत्यं युक्ता न तु सावगन्तुं शक्यते कुतः “तत्ते-
- जोऽसृजतेति” सकृच्छ्रु तस्य स्रष्टुः स्रष्टव्यद्वयेन सम्ब-
- न्धानुपपत्तेः तत्तेजोऽसृजत तदाकाशमसृजतेति । ननु
- सकृच्छ्रुतस्य कर्त्तुः कर्त्तव्यद्वयेन सम्बन्धो दृश्यते यथा स
- सूपं पक्त्वौदनं पचतीति । एवं तदाकाशं सृष्ट्वा ते-
|
- जोऽसृजतेति योजयिष्यामः । नैवं युज्यते प्रथमजत्वं हि
- छान्दोग्ये तेजसोऽवगम्यते तैत्तिरीयके त्वाकाशस्य ।
- नचोभयोः प्रथमजत्वं सम्भवति । एतेनेतरश्रुत्यक्षरविरो-
- घोऽपि व्याख्यातः । तस्माद्वा एतस्मादात्मन आकाशः
- सम्भूत इत्यत्रापि तस्मात् आकाशः सम्भूतस्तस्मात्तेजः
- सम्भूतमिति सकृच्छुतस्यापादानस्य सम्भवनस्य च
- वियत्तेजोभ्यां युगपत्सम्बन्धानुपपत्तेः । वायोरग्निरिति
- च पृथगाम्नानात् । अस्मिन् विप्रतिषेधे कश्चिदाह ।
- “गौण्यसम्भवात्” सू० । नास्ति वियत उत्पत्तिः अश्रुतेरेव ।
- या त्वितरा वियदुत्पत्तिवादिनी श्रुतिरुदाहृता सा गौणी
- भवितुमर्हति । कस्मात्? असम्भवात् । नह्याकांशस्योत्-
- पत्तिः सम्भावयितुं शक्या श्रीमत्कणभुगभिप्रायानुसारिषु
- जीवत्सु । ते हि कारणसामग्र्यसम्भवादाकाशस्योत्-
- पत्तिं वारयन्ति । समवाय्यसमवायिनिमित्तकारणेभ्यो
- हि किल सर्व्वमुत्पद्यमानमुत्पद्यते । द्रव्यस्य चैकजाती-
- मनेकञ्च द्रव्यं समवायि कारणम्भवति । नचाकाशस्यैकजा-
- तीथमनेकञ्च द्रव्यमारम्भकमस्ति यस्मिन् समवायिकारणे
- ऽसमवायिकारणे च तत्संयोगे आकाशमुत्पद्येत ।
- तदभावात्तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेवाकाशस्य
- भवति । उत्पत्तिमताञ्च तेजःप्रभृतीनां पूर्ब्बोत्तरकालयो-
- र्विशेषः सम्भाव्यते प्रागुत्पत्तेः प्रकाशादिकार्य्यं न
- बभूव पश्चाच्च मवतीति । आकाशस्य पुनर्न पूर्ब्बोत्तरकाल-
- योर्विशेषः सम्भावयितुं शक्यते । किं हि प्रागुत्पत्तेर-
- नवकाशमशुषिरमच्छिद्रं बभूवेति शक्यतेऽध्यवसातुम् ।
- पृथिव्यादिवैधर्म्म्याच्च विभुत्वादिलक्षणादाकाशस्याजत्व
- सिद्धिः । तस्माद्यथा लोके आकाशं कुरु आकाशो-
- जात इत्येवं जातीयको गौणः प्रयोगो भवति यथा च
- घटाकाशः करकाकाशो गृहाकाश इत्येकस्याप्याकाशस्यैवं-
- जातीयको भेदव्यपदेशो भवति । वेदेऽपि आरण्याना-
- काशेष्वालभेरन्निति । एवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्या
- भा० “शब्दाच्च” सू० । शब्दःखल्वप्याकाशस्याजत्वं ख्याप-
- यति । अत आह “वायुश्चान्तरिक्षञ्चैतदमृतमिति” न चा
- मृतस्योत्पत्तिरुपपद्यते । “आकाशवत् सर्व्वगतश्च नित्य
- इति” चाकाशेन ब्रह्मणोनित्यत्वसर्व्वगतत्वाभ्यां धर्म्माभ्या-
- मुपसिमानः आकाशस्यापि तौ धर्म्मौ सूचयति । न च
- तादृशस्योत्पत्तिरुपपद्यते । यथाऽनन्तोयमाकाश एवमनन्त-
- आत्मा वेदितव्य इति चोदाहरणम् । आकाशशरीरं ब्रह्म
- आकाशआत्मेति । नह्याकाशस्योत्पत्तिमत्त्वे ब्रह्मण-
|
पृष्ठ ०५९५
- स्तेन विशेषणं सम्भवति नीलेनेवोत्पलस्य । तस्मान्नित्य
- मेवाकाशेन साधारणं ब्रह्मेति गम्यते” भा० । “स्याच्चैकस्य
- ब्रह्मशब्दवत्” सू० । इदंपदोत्तरं सूत्रम् । स्यादेतत् कथं
- पुनरेकस्य सम्भूतशब्दस्य तस्माद्वा एतस्मादात्मन आकाशः
- सम्भूत इत्यस्मिन्नधिकारे परेषु तेजःप्रभृतिष्वनुवर्त्तमानस्य
- मुख्यत्वं आकाशे च गौणत्वमिति । अत उत्तरमुच्यते ।
- स्याच्चैकस्यापि सम्भूतशब्दस्य विषयविशेषवशाद्गौणोमुख्यश्च
- प्रयोगः ब्रह्मशब्दवत् । यथैकस्यापि ब्रह्मशब्दस्य “तपसा ब्रह्म
- विजिज्ञासस्व तपो ब्रह्म” इत्यस्मिन्नधिकारेऽन्नादिषु गौणः
- प्रयोग आनन्दे च मुख्यः यथा च तपसि ब्रह्मविज्ञान-
- साधने ब्रह्मशब्दोभक्त्या प्रयुज्यते अञ्जसा तु विज्ञेये ब्रह्मणि
- तद्ववत् । कथं पुनरनुत्पत्तौ नभसः “एकमेवाद्वितीय”
- मितीयं प्रतिज्ञा समर्थ्यते । ननु नभसा द्वितीयेन सद्वितीयं
- ब्रह्म प्राप्नोति, कथञ्च ब्रह्मणि विदिते सर्व्वं विदितं स्या-
- दिति । तदुच्यते । एकमेवेति तावत्कार्य्यापेक्षयोपपद्यते ।
- यथा लोके कश्चित् कुम्भकारकुले पूर्ब्बेद्युर्मृदं दण्ड-
- चक्रादीनि चोपलभ्यापरेद्युश्च नानाविधान्यमत्राणि प्रसा-
- रितान्युपलभ्य ब्रूयात् मृदेवेहैकाकिनी पूर्ब्बेद्युरासी-
- दिति । स च तयावधारणया मृत्कार्य्यजातमेव पूर्ब्बेद्यु-
- र्नासीदित्यभिप्रेयात् न चक्रदण्डादि तद्वत् । अद्वितीय
- श्रुतिरधिष्ठात्रन्तरं वारयति यथा मृदोऽमत्रप्रकृतेः
- कुम्भकारोऽधिष्ठाता दृश्यते नैवं ब्रह्मणोजगत्प्रकृतेरन्योऽधि-
- ष्ठितास्तीति । न च नभसापि द्वियीयेन सद्वितीयं ब्रह्म-
- प्रसज्यते । लक्षणान्यत्वनिमित्तं हि नानात्वं न च
- प्रागुत्पत्तेर्ब्रह्मनभसोर्लक्षणान्यत्वमस्ति । क्षीरोदकयोरिव
- संसृष्टयोर्व्यापित्वामूर्त्तत्वादिधर्म्मसामान्यात् । सर्गकाले
- तु ब्रह्म जगदुपादयितुं यतते स्तिमितमितरत्तिष्ठति
- तेनान्यत्वमवसीयते । तथाकाशशरीरं ब्रह्मेत्यादि श्रुति-
- भ्योपि ब्रह्माकाशयोरभेदोपचारसिद्धिः । अतएव च
- ब्रह्मविज्ञानेन सर्वविज्ञानसिद्धिः । अपि च सर्वं कार्य्य
- मुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते
- ब्रह्मणा चाव्यतिरिक्तदेशकालमेवाकाशं भवतीत्यतो ब्रह्मणा
- तत्कार्य्येण च विज्ञातमेवाकाशं भवति यथा क्षीरपूर्णे
- घटेकतिचिदबिवन्दवः प्रक्षिप्ताः सन्तः क्षीरग्रहणेनैव गृहीता
- भवन्ति । न हि क्षीरग्रहणादब्विन्दुग्रहणं परिशिष्यते
- एवं ब्रह्मणा तत्कार्य्यैश्चाव्यतिरिक्तदेशकालत्वाद्गृहीत-
- मेव ब्रह्मग्रहणेन नभो भवति । तस्माद्भाक्तं नभसः सम्भ-
- वश्रवणमिति एवं प्राप्ते इदमाह । “प्रतिज्ञाऽहानिरव्यति-
|
- रेकात्शब्देभ्य” । सू० “येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं
- विज्ञातमिति” “आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं
- सर्वं विदितमिति” “कस्मिन्नु भगवोविज्ञाते सर्वमिदं विज्ञातं
- मवतीति” न काचन सद्बहिर्वा विद्यास्तीति “चैवंरूपा प्रति-
- वेदान्तं प्रतिज्ञा विज्ञायते तस्याः प्रतिज्ञाया एवमहा-
- निरनुपरोधः स्यात् यद्यव्यतिरेकः कृत्स्नस्य वस्तुजातस्य
- विज्ञेयाद्ब्रह्मणः स्यात् । व्यतिरेके हि सत्येकविज्ञानेन सर्वं
- विज्ञायत इतीयं प्रतिज्ञा हीयेत । सचाव्यतिरेक एवमुपपद्यते
- यदि कृत्स्नं वस्तुजातमेकस्मात् ब्रह्मण उत्पद्यते । शब्देभ्यश्च
- प्रकृतिविकारव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिरवगम्यते । तथा
- हि “येनाश्रुतं श्रुतं भवतीति” प्रतिज्ञाय मृदादिदृष्टान्तैः
- कार्य्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञैषा समर्थ्यते । तत्साध-
- नायैव चोत्तरे शब्दाः “सदेव सोम्येदमग्र आसीत्” “एकमेवा
- द्वितीयं ब्रह्म” “तदैक्षत तत्तेजो सृजते” इत्येवंकार्य्यजातं
- ब्रह्मणः प्रदर्श्याव्यतिरेकं प्रदर्शयन्ति “ऐतदात्म्यमिदं सर्व्वम्”
- इत्यारम्या प्रपाठकपरिसमाप्तेः । तद्तद्याकाशं न ब्रह्मकार्यं
- स्यात् न ब्रह्मणि विज्ञाते आकाशं विज्ञायेत ततश्च प्रतिज्ञा-
- हानिः स्यात् । न च प्रतिज्ञाहान्या वेदस्याप्रामाण्य
- युक्त कर्त्तुम् । तथा च प्रतिवेदान्तं ते ते शब्दास्तेन तेन
- दृष्टान्तेन तामेव प्रतिज्ञां ज्ञापतन्ति “इदं सर्वं यदयमात्मा”
- “ब्रह्मैवेदममृतं पुरस्तात्” इत्येवमादयः । तस्मात् ज्वलना-
- दिवदेव गगनमप्युत्पद्यते । यदुक्तमश्रुतेर्न वियदुपद्यत इति
- तदयुक्तं वियदुत्पत्तिविषयस्य श्रुत्यन्तरस्य दर्शितत्वात्
- “तस्माद्वा एतस्मादात्मन आकाशः सम्भूत” इति । सत्यं
- दर्शितं विरुद्धन्तु “तत्तेजोऽसृजत” इत्यनेन श्रुत्यन्तरेण ।
- न एकवाक्यत्वात् सर्वश्रुतीनाम् । भवत्वेकवाक्यत्वमविरु-
- द्धानाम् इह तु विरोध उक्तः । सकृच्छ्रुतस्थ स्रष्ठुः स्रष्टव्यद्वय
- सम्बन्धासम्भवात्, द्वयोश्च प्रथमजत्वासम्भवाद्विकल्पा
- सम्भवाच्चेति । नैष दोषः तेजःसर्गस्य तैत्तिरीयके
- तृतीयत्वश्रवणात् “तस्माद्वा एतस्मादात्मन आकाशः
- सम्मूतः आकाशाद्वायुः वायोरग्रिरिति” । अशक्या हीयं
- श्रुतिरन्यथा परिणेतुम् । शक्या तु परिणेतु छान्दोग्यश्रुतिः
- तदाकाशं वायुञ्च सृष्ट्वा “तत्तेजोऽसृजतेति” । न हीयं
- श्रुतिस्ते जोजनिप्रधाना सती श्रुव्यन्तरप्रसिद्धामाकाश-
- स्योत्पत्तिं वारयितु शक्नाति एकस्य वाक्यस्य व्यापार-
- द्वयासम्भवात् । स्रष्टा त्वेकोपि क्रमेणानेक स्रष्टव्यं
- सृजेत् इत्येकवाक्यत्वकल्पनायां सम्भवन्त्यां न विरुद्धार्थत्वेन
- श्रतिर्हातव्या । नचास्माभिः सकृच्छ्रतस्य स्रश्चु । स्रष्टव्यद्वय
|
पृष्ठ ०५९६
- सम्बन्धोऽभिप्रेयते श्रुत्यन्तरवशेन स्रष्टव्यान्तरोपसंग्रहात् ।
- यथा च “सर्वं खल्विदं ब्रह्म तज्जलान्” इत्यत्र साक्षादेव
- सर्वस्य वस्तुजातस्य ब्रह्मजत्वं श्रूयमाणं न प्रदेशान्त-
- रविहितं तेजःप्रमुखमुत्पत्तिक्रमं वारयति एवं तेजसो-
- पि ब्रह्मजत्वं श्रूयमाणं न श्रुत्यन्तरविहितं नभःप्रमुख-
- सुत्पत्तिक्रमं वारयितुमर्हति । ननु शमविधानार्थमेत-
- द्वाक्यं “तज्जलानिति शान्त उपासीतेति” श्रुतेः नैतत्सृष्टि-
- वाक्यं न तस्मादेतत्प्रदेशान्तरप्रसिद्धं क्रममनुरोद्धुमर्हति ।
- “तत्तेजोसृजतेत्येतत्सृष्टिवाक्यं तस्मादत्र यथाश्रुति क्रमो-
- ग्रहीतव्य इति । नेत्युच्यते । न हि तेजःप्राथम्यानुरो-
- धेन श्रुत्यन्तरप्रसिद्धोवियत्पदार्थः परित्यक्तव्यो भवति
- पदार्थधर्म्मत्वात् क्रमस्य । अपि च तत्तेजोऽसृजतेति नात्र
- क्रमस्य वाचकः कश्चित् शब्दोऽस्ति अर्थात्तु क्रमोगम्यते स च
- वायोरग्निरित्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्य्यते ।
- विकल्पसमुच्चयौ तु वियत्ते जसोः प्रथमजत्वविषयौ असम्भवान-
- भ्युषगमाभ्यां निवारितौ । तस्मान्नास्ति श्रुत्योर्विप्रतिषेधः ।
- अपि च छान्दोग्ये “येनाश्रुतं श्रुतं भवतितो” त्येतां प्रतिज्ञां
- वाक्योपक्रमे श्रुतां समर्थयितुमसमाम्नातामपि वियदुत्पत्ता-
- वुपसंख्यातव्यं किमङ्ग पुनस्तेत्तिरीयके समाख्यातं न संगृ-
- ह्यते । यच्चोक्तमाकाशस्य सर्वेणानन्यदेशत्वात् ब्रह्मणा
- तत्कार्य्यैश्च सह विदितमेव तद्भवति अतो न प्रतिज्ञा
- हीवते । न च “एकमेवाद्वितीयमिति” श्रुतिकोपो भवति क्षीरोद-
- कवत् ब्रह्मनभमोरव्यतिरकोपपत्तेरिति । अत्रोच्यते न क्षी-
- रोदकन्यायेनेदमेकविज्ञानेन सर्व्वविज्ञानं नेतव्यम् ।
- मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यावेनैवेदं सर्व-
- विज्ञानं नेतव्यमिति गम्यते । क्षीरोदकन्यायेन सर्वविज्ञानं
- कल्प्यमानं न सम्यग्विज्ञानं स्यात् । न हि क्षीरज्ञानगृहीत
- स्योदकस्य सम्यग्ज्ञानगृहीतत्वमस्ति । न च वेदस्य
- पुरुषाणामिव मायालोकवञ्चनादिभिरर्थावधारणमुपपद्यते ।
- सावधारणा चेयम् “एकमेवाद्वितीयमिति” श्रुतिः क्षीरो-
- दकन्यायेन नीयमाना पीड्येत । न च स्वकार्य्यापेक्षयैवेदं
- वस्त्वकदेशविषयं सर्वविज्ञानमेकाद्वितीयतावधारणञ्चेति
- न्याय्यम् । मृदादिष्वपि हि तत्सम्भवान्न तदपूर्ब्बवदुपन्य-
- सितव्यम्भवति “श्वेतकेतो यन्नुसोम्येदं महामना अनूचान-
- मानीस्तब्धोऽस्युत तमादशमप्राक्षोयेनाश्रुतं श्रुतम्भवती” त्या-
- दिना । तस्मादशेषवस्तुविषयमेवेदं सर्वविज्ञानं सर्वस्य
- ब्रह्मकार्य्यत्वापेक्षयोपन्यस्यत इति द्रष्टव्यम् । यत् पुनरेत-
- दुकमसम्भवाद्गौणी गगनस्योत्पत्तिश्रुतिरिति । अत्र
|
- व्रूमः “यावद्विकारन्तु विभागो लोकवत्” सू० । तु शब्दीऽ-
- सम्भवाशङ्काव्यावृत्त्यर्थः । न खल्वाकाशोत्पत्तावसम्भवाशङ्का
- कर्त्तव्या यतोयावत् किञ्चित् विकारजातं दृश्यते
- घटघटिकोदञ्चनादि वा कटककेयूरकुण्डलादि वा
- सूचीनाराचनिस्त्रिंशादि वा तावानेव विभा-
- गोलोके लक्ष्यते नत्वविकृतं किञ्चित् कुतश्चिद्विभ-
- क्तमुपलभ्यते । विभागश्चाकाशस्य पृथिव्यादिभ्योऽ-
- वगम्यते तस्मात् सोऽपि विकारो भवितुमर्हति । एतेन
- दिक्कालमनःपरमाणूनां कार्य्यत्वं व्याख्यातम् । नन्वात्मापि
- आकादिभ्यो विभक्त इति तस्यापि कार्य्यत्वं घटादिवत्
- प्राप्नोति, न “आत्मन आकाशः सम्भूत इति श्रुतेः । यदि
- ह्यात्मापि विकारः स्यात्तस्मात् परमन्यन्न श्रुतमित्याका-
- शादि सर्व्वं कार्य्यं निरात्मकमात्मनः कार्य्यत्वे स्यात् तथा
- च शून्यवादः प्रसज्येत । आत्मत्वादेवात्मनो निराकरण
- शङ्कानुपपत्तिः । नह्यत्मागन्तुकः कस्यचित्, स्वयंसिद्ध-
- त्वात् । नह्यत्मात्मनः प्रमाणमपेक्ष्य सिध्यति । तस्य हि
- प्रत्यक्षादीनि प्रमाणान्यन्यसिद्धये उपादीयन्ते । नह्याका-
- शादयः पद्रार्थाः प्रमाणनिरपेक्षाः स्वयंसिद्धाः केनचि-
- दभ्युपगम्यन्ते । आत्मा तु प्रमाणादिव्यवहाराश्रयत्वात्
- प्रागेव प्रमाणादिव्यवहारात् सिद्ध्यति । नचेदृशस्य नराकिरणं
- सम्भवति । आगन्तुकं हि वस्तु निराक्रियते न स्वरूपम् ।
- य एव हि निराकरणकर्त्ता तदेव तस्य स्वरूपम् । नह्यग्ने-
- रौष्ट्यमग्निना निराक्रियते । तथाहमेवेदं जानामि वर्त्तमानं
- वस्तु अहमेवातीततरञ्चाज्ञासिषम् अहमेवानागततरञ्च ज्ञा-
- स्यामीत्यतीतानागतवर्त्तमानभावेनान्यथाभवत्यपि ज्ञातव्ये
- न ज्ञातुरन्यथाभावोऽस्ति सर्वदा वर्त्तमानस्वभावत्वात् ।
- तथा भस्मीभवत्यपि देहे नात्मन उच्छेदोवर्त्त मानस्वभाव-
- त्वादन्यस्वभावत्वं वा न सम्भावयितुं शक्यम् । एवमप्रत्याख्ये
- यस्वभावत्वादेवाकार्य्यत्वमात्मनः कार्यत्वञ्चाकाशस्य ।
- यत्तूक्तं स्वसमानजातीयमनेकं कारणद्रव्यं व्योम्नोनास्तीति
- तत्प्रत्युच्यते । न तावत् स्वसमानजातीममेवारभते न भिन्नजा-
- तीयमिति नियमोऽस्ति न हि तन्तूनां तत्संयोगानाञ्च
- समानजातीयत्वमस्ति द्रव्यत्वगुणत्वाभ्युपगमात् । न च निमित्त
- कारणानामपि तुरीवेमादीनां समानजातीयत्वनियमोऽस्ति ।
- स्यादेतत् समवायिकारणविषयएव समानजातीयत्वाभ्युप-
- गमो न कारणान्तरविषय इति तदप्यनैकान्तिकम् । सूत्रगो-
- बालैर्ह्यनेकजातीयैरेका रज्जुः सृज्यमाना दृश्यते । तथा
- सूत्रैरूर्णादिभिश्च विचित्रान् कम्बलान् वितन्वते । सत्त्व-
|
पृष्ठ ०५९७
- द्रव्यत्वाद्यपेक्षया वा समानजातीयत्वे कल्प्यमाने नियमान-
- र्थक्यम् सर्वस्य सर्वेण समानजातीयत्वात् । नाप्यनेकमेवा-
- रभते नैकमिति नियमोऽस्ति अणुमनसोराद्यकर्मारम्भा-
- भ्युपगमात् । एकैकोहि परमाणुर्मनश्चाद्यं स्वकर्म्मारभते न
- द्रव्यान्तरैः संहत्येत्यभ्युपगम्यते । द्रव्यारम्भ एवानेकद्रव्या-
- रम्भकत्वनियम इति चेन्न परिणामाभ्युपगमात् । भवेदेष
- नियमो यदि संयोगसचिवं द्रव्यं द्रव्यान्तरस्यारम्भकम-
- भ्युपगम्येत तदेव तु द्रव्यं विशेषवदवस्थान्तरमापद्यमानं कार्यं
- नामाभ्युपगम्यते तच्च क्वचिदनेकं परिणमते मृद्वीजाद्यङ्कु-
- रादिभावेन क्वचिदेकं परिणमते क्षीरादि दध्यादिभावेन ।
- नेश्वरशासनमस्ति अनेकमेव कारणं कार्यं जनयतीति ।
- अतः शास्त्रप्रामाण्यादेकस्माद्ब्रह्मण आकाशादि महाभू-
- तोत्पत्तिक्रमेण जगज्जातमिति निश्चीयते । तथा चोक्तं
- “उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धीति” । यच्चोक्त-
- माकाशोत्पत्तौ न पूर्ब्बोत्तरकालयोर्विशेषः सम्भावयितुं
- शक्यत इति तदयुक्तं येनैव हि विशेषेण पृथिव्यादिभ्यो
- व्यतिरिच्यमाणं नभः स्वरूपवदिदानीमध्यवसोयते स एव
- विशेषः प्रागुत्पत्तेर्नासीदिति गम्यते । यथा च न ब्रह्म-
- स्थूलादिभिः पृथिव्यादिस्वभावैः स्वभाववत् “अस्थूलमन-
- ण्वित्यादि” श्रुतिभ्यः एवमाकाशस्वभावेनापि न स्वभाववत्
- अनाकाशमिति श्रुतेरवगम्यते । तस्मात् प्रागुत्पत्तेरना-
- काशमच्छिद्रमिति स्थितम् । यदप्युक्तं पृथिव्यादिवैधर्म्या-
- दाकाशस्याजत्वमिति तदप्यसत् । श्रुतिविरोधे सत्युत्प-
- त्त्यसम्भवानुमानस्याभासत्वोपपत्तेः उत्पत्त्यनुमानस्य च
- दर्शितत्वात् अनित्यमाकाशमनित्यगुणाश्रयत्वात् घटादिव-
- दित्यादिप्रयोगसम्भवाच्च । आत्मनानैकान्तिकमिति चेन्न
- तस्यौपनिषदं प्रति अनित्यगुणाश्रयत्वासिद्धेः । विभुत्वादीना-
- ञ्चाकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात् । यच्चैतदुक्तं
- शब्दाच्चेति । तत्रामृतत्वश्रुतिस्तावद्वियति “अमृता दिवौकस
- इतिवद्द्रष्टव्या उत्पत्तिप्रलययोरुपपादित्वात् । “आका-
- शवत् सर्व्वगतश्च नित्यः” इत्यपि प्रसिद्धमहत्त्वेनाकाशे-
- नोपमानं क्रियते निरतिशयमहत्त्वाय नाकाशसमानत्वाय ।
- यथेषुरिव सविता धावतीति क्षिप्रगतित्वायोच्यते नेषुतुल्य-
- गतित्वाय तद्वत् । एतेनानन्तत्वोपमानश्रुतिर्व्याख्याता ।
- “ज्यायानाकाशादिति” श्रुतिभ्यश्च ब्रह्मणः सकाशात्
- आकाशस्योनपरिमाणत्वसिद्धिः । “न तस्य प्रतिमास्तीति च
- ब्रह्मणोऽनुपमानत्वं दर्शयति । “अतोऽन्यदार्त्तमिति” च
- ब्रह्मणोऽन्येषामाकाशादीनामार्त्तत्वं दर्शयति । तपसि
|
- ब्रह्मशब्दवदाकाशस्य जन्मश्रुतेर्गौणत्वमित्येतदाकाशसम्भव
- श्रुत्यनुमानाभ्यां परिहृतम् । तस्मादब्रह्मकार्यं वियदिति
- सिद्धम्” ।
- तस्य जन्यत्वेऽपि आप्रलयस्थायित्वात् गौणनित्यत्वम् । वैशे-
- षिकाणां नित्यत्वानुमानं तु बलवदागमविरुद्धत्वात्
- नरकपालशुचित्वानुमानवत् बाधितमिति द्रष्टव्यम् । सांख्यमते
- दिक्कालयोराकाशएवान्तर्भावः अतएव सां० कौमुद्याम्
- कालरूपतत्त्वान्तरं निराकृतं यथा “कालश्च वैशेषिकाभिमत
- एकोन अनागतादिव्यवहारभेदं प्रवर्त्तयितुमर्हतीति तस्मा-
- दयं यैरुपादिभेदैरनागतादिभेदं प्रतिपद्यते सन्तु त
- एवोपाधयोऽनागतादिव्यवहारहेतवः कृतमत्रान्तर्गडुना काले
- नेति सांख्याचार्य्याः तस्मान्न कालरूपतत्त्वान्तराभ्युपगम
- इति” सूत्रे तु आकाशप्रकृतिकत्वं तयोरुक्तम् यथा
- “दिक्कालावाकाशादिभ्यः” सू० । नित्यौ यौ दिक्वालौ
- तावाकाशप्रकृतिभूतौ प्रकृतेर्गुणविशेषावेव । अतो दिक्काल-
- योर्विभुत्वोपपत्तिः । “आकाशवत् सर्वगतश्च नित्य” इत्यादि
- श्रुत्युक्तं विभुत्वं चाकाशस्योपपन्नम् । यौ तु खण्डदिक्कालौ
- तौ तु तत्तदुपाधिसंयोगादाकाशादुत्पद्येते इत्यर्थः ।
- आदिशब्देनोपाधिग्रहणमिति । यद्यपि तत्तदुपाधि-
- विशिष्टाकाशमेव खण्डदिक्कालौ तथापि विशिष्टस्याति
- रिक्तताभ्युपगमवादेन वैशेषिकनयेनास्य कार्य्यतावत् तत्कार्य्य-
- त्वमत्रोक्तम्” सां० भा० । पदार्थखण्डने शिरोमणिना
- अस्य ईश्वरस्वरूपानतिरेक उक्तः “दिक्कालावीश्वरान्नाति-
- रिच्येते गगनमपि तथेति” । सौगतमतसिद्धे
- आवरणाभावरूपे निरुपाख्ये २ पदार्थभेदे च । तदेतत्
- मतम्” शा० सू० भाष्ययोर्निराकृतम् “आकाशे चाभावात्”
- सू० । “यच्च तेषामेवाभिप्रेतं निरोधद्वयमाकाशञ्च निरु-
- पाख्यमिति तत्र निरोधद्वयस्य निरुपाख्यत्वं पुरस्तान्निरा-
- कृतम् आकाशस्येदानीं निराक्रियते । आकाशे चायुक्तो-
- निरुपाख्यत्वाभ्युपगमः प्रतिसंख्याप्रतिसंख्यानिरोधयोरिव-
- वस्तुत्वप्रतिपत्तेरविशेषात् आगमप्रामाण्यात्तावदात्मनः
- आकाशःसम्भूतैत्यादि श्रुतिभ्यः आकाशस्य वस्तुत्वसिद्धिः ।
- विप्रतिपन्नानपि प्रति शब्दगुणानुमेयत्वं वक्तव्यं गन्धादीनां
- गुणानां पृथिव्यादिवस्त्वाश्रयत्वदर्शनात् । अपि
- चावरणाभावमात्रमाकाशमिच्छतस्तव एकस्मिन्सुपर्ण्णे पतत्यावर-
- णस्य विद्यमानत्वात् सुपर्ण्णान्तरस्य पित्सतोऽनवकाशत्वप्रसङ्गः
- यत्रावरणाभावस्तत्र पतिष्यतीति चेत् येनावरणाभावो विशि-
- ष्यते तत्तर्हि वस्तु भूतमेवाकाशं स्यान्नावरणाभावमात्रम्
|
पृष्ठ ०५९८
- अपि चावरणाभावमात्रमाकाशं मन्यमानस्य सौगतस्य
- स्वाभ्युपगमविरोधः प्रसज्येत । सौगते हि समये पृथिवी-
- भगवन्! किंसन्निश्रयेत्यस्मिन् प्रश्नप्रतिवचनप्रवाहे
- पृथिव्यादीनामन्ते वायुः किंसन्निश्रय इत्य स्य प्रश्नस्य प्रति-
- वचनं भवति वायुराकाशसन्निश्रय इति तदाकाशस्यावस्तुत्वे
- न समञ्जसं स्यात् तस्मादप्ययुक्तमाकाशस्यावस्तुत्वम् । अपि
- च निरोधद्वयमाकाशञ्च त्रयमप्येतन्निरुपाख्यमवस्तु नित्यञ्चेति
- विप्रतिषिद्धं नह्यवस्तुनोनित्यत्वमनित्यत्वं वा सम्भवति वस्त्वा-
- श्रयत्वाद्धर्म्मधर्म्मिव्यवहारस्य । धर्म्म धर्मिभावे हि घटादिव-
- द्वस्तुत्वमेव स्यात् न निरुपाख्यत्वम्” भा० । आ समन्तात्
- काशते अच् । “रतिमाकाशभवा सरस्वती” कु०
- “आकाशगङ्गापयसः पतेताम्” माघः आकाशात्तु विकु-
- र्व्वाणात् सर्व्वशब्दवहः शुचिः मनुः” “घटसंवृतआकाशे
- नीयमाने यथा घटे” सां० प्र० भा० “आकाशो जायते
- तस्मात् तस्य शब्दगुणः स्मृतः” मनुः । रूपादिषु मध्ये
- शब्दमात्रग्राहकतया श्रोत्रस्याकाशात्मकत्वेऽपि कर्ण्णशस्कु-
- न्तीरूपोपाधिभेदान्नानात्वमौपाधिकमेकस्यादिशः प्राचीत्वा-
- दिवत् एकस्य कालस्य क्षणादित्ववच्च । ३ परब्रह्मणि
- “आकाशोहवै नामरूपयोर्निर्वर्हिता ते यदन्तरा तदन्वेष्टच्यं
- तद्वाव विजिज्ञासितव्यम्” श्रुतिः “यावानयमाकाशस्तावान-
- यमन्तर्हृदयाकाश” इति छा० उ० । “आकाशस्तल्लिङ्गात्”
- शा० सू० । “आकाशवत् सर्वगतश्च नित्यः” श्रुतिः गीता
- च । ४ छिद्रे गणितादिप्रसिद्धे ५ शून्याङ्के च ।
आकाशकक्षा स्त्री ६ त० । ब्रह्माण्डपुटवेष्टने लोकालोकपर्वत-
- रूपसीमापर्य्यन्तव्यापके सूर्य्यकिरणस ञ्चारावधिभूते
- वृत्ताकारे गगनस्थे गोलक्षेत्रे । तन्मितिरुक्ता” सि० शि०
- “कोटिघ्नैर्नख नन्दषट्कनखभूभूभृद्भुजगेन्दुभिर्ज्योतिःशास्त्र-
- विदोवदन्ति नभसः कक्षामिमां योजनैः १८७१२-
- ०६९२०००००००० । तद्ब्रह्माण्डकटाहसम्पुटतटे केचि-
- ज्जगुर्वेष्टनम् केचित् प्रोचुरदृश्यदृश्यकगिरिं पौराणिकाः
- सूरयः । करतलकलितामलकवदमलं सकलं विदन्ति ये
- गोलम् । दिनकरकरनिकरकरम्बिततमसो नभसः परिधि-
- रुदितस्तैः ।” तथा च सूर्य्यकिरणप्रचारावधिस्थानस्य
- नभःकक्षात्वेन कल्पितम् । वस्तुतोऽपरिच्छिन्नत्वादाशस्य
- ततोऽपि सत्त्वात् न तन्मात्रमानम् । अतएव “ब्रह्माण्डमे-
- तन्मितमस्तु नो वेति” ब्रह्माण्डस्यानिर्द्धारितप्रमाणकत्वं
- तत्रोक्तम् । व्याख्यातं च प्र० मि० “एभिस्तुल्यां गणकाः
- नभसः कक्षामाकाशपरिघिं वदन्ति तत्र कथमनन्तस्याकाश-
|
- स्येयत्ता वक्तुं शक्यते इत्याशङ्क्य अहर्पतिद्युतिभाजोनभसः
- परिधेरिदं मानं वदन्ति अतएव पौराणिका-
- गणकाः ब्रह्माण्डपरिघिं वदन्ति केचिल्लोका-
- लोकं वदन्ति यतस्तदन्तर्वर्त्तिन एवार्करश्मयः । एवमन्ये
- वदन्तीति नास्माकं मतमित्यर्थः प्रमाणशून्यत्वात्” ।
- करतलकलितसकलब्रह्माण्डगोला एवं वक्तुं शक्नुवन्ति न
- वयम्” । तेन पौराणिकमतमेतत् सूर्य्यकिरणसञ्चार-
- स्थानपर्य्यन्तत्वोपाधिना तत्कल्पनमिति द्रष्टव्यम् ।
आकाशकल्प पु० ईषदसमाप्तः आकाशः आकाश + कल्पप् ।
- ब्रह्मणि “निस्सङ्गत्वाद्विभुत्वाच्च तथाऽनश्वरभावतः । ब्रह्म-
- व्योम्नोर्न भेदोऽस्ति चैतन्यं ब्रह्मणोऽधिकम्” इत्युक्तेः व्योम-
- गतजड़ताशून्यतया ततोवैलक्षण्यात् तस्य तत्कल्पत्वम् ।
आकाशगङ्गा स्त्री आकाशपथवाहिनी गङ्गा । मन्दाकिन्याम् ।
- “उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः
- पतेताम्” माघः । आकाशनद्यादयोऽप्यत्र । आकाशस्याव-
- लम्बनत्वाभावेऽपि मेरुशिखरस्यात्युच्चतया स्यर्गताकल्पनेन
- तस्यैवाकाशतुल्यता ततएव वहने आकाशे वहनोत्प्रे-
- क्षणात् तथात्वम् । अतएव गङ्गाया स्त्रिपथगामित्वं पुराणे-
- षूक्तम् यथा च गङ्गायास्त्रिपथगत्वं तथा गङ्गाशब्दे वक्ष्यते
आकाशगा स्त्री आकाशे अत्युच्चस्थाने सुमेरुशिखरे गच्छति
- गम--ड । १ स्वर्गगङ्गायाम् २ आकाशगामिमात्रे त्रि० ।
आकाशजननी स्त्री आकाशस्य छिद्रस्य जननीव पोषिका ।
- छिद्रवत्यां प्रगण्ड्याम् । दुर्गमध्यस्थितानां जनानां बाह्यार्थ-
- दर्शनार्थं छिद्रवती भित्तिः प्रगण्डी तद्द्वारैव हि रिपुप्रत्या-
- सत्तौ आग्नेयास्त्रं स्वयमलक्षिततया बहिः सेन्यैः क्षिप्यते ।
- दुर्गनिर्माणोपदेशे “प्रगण्डीः कारयेत् सम्यगाकाशजननी-
- स्तथा । आपूरयेच्च परिखां स्थाणुनक्रझषाकुलाम्” शा० भा०
- प० ६९ अ० “सञ्चारो यत्र लोकानां दूरादेवावबध्यते
- प्रगण्डी सा च विज्ञेया बहिःप्राकारसंज्ञिता” प्रगण्डीं
- परिभाष्य “दुर्गप्राकारभित्तौ शूराणामुपवेशस्थानानि प्रगण्डी ।
- आकाशजननी तत्रैव एककक्षायां भित्तौ तत्रत्यानां रक्ष-
- णभूतायां बाह्यार्थदर्शनानि क्षुद्रच्छिद्राणि यद्द्वाराग्नेया-
- स्त्रगुलिकाः प्रक्षिप्यन्ते इति” नीलक० ।
आकाशदीप पु० आकाशे दीयमानोदीपः । “तुलायां तिलतै-
- लेन सायंसन्ध्यासमागमे । आकाशदीपं यो दद्यात्
- मासमेकं निरन्तरम्” ब्रह्माण्डपु० उक्ते तुलास्थरवौ
- सायमुच्चस्थाने दीयमाने दीपे ।
आकाशभाषित न० आकाशे भाषितम् । अलक्ष्यशरीराणां
- अदृश्यानां देवादीनां गगनोद्भवे वचने आकाशवाण्याम् ।
|
पृष्ठ ०५९९
आकाशमण्डल न० आकाशोमण्डलमिव । १ नभोमण्डले
- आकाशस्य निरयवत्वेन अनवच्छिन्नत्वेन च वेष्टनाकार
- मण्डलाभावेऽपि भूगोलवृत्तोपाधिकृतं तदीयं मण्डलमिव
- भवति । योहि नभोभागो भूगोलनानावृतः सन् दृष्टिप्रचार
- पथवर्त्त्यालोकगन् तस्यैव भूगोलोपाधिना गोलाकारत्वं
- कल्प्यते । एतेनापि प्रमाणेन भूमेर्गोलाकारत्वानुमानम् यदि
- भूमिर्गोलाकारा न स्यात् कथं तदाऽनन्तानवच्छिन्नस्याका-
- शस्य गोलाकारत्वमुपलक्ष्येत कस्यचिदुपाधेरेव च स्यभा-
- वात् तस्य गोलाकारत्वमुपलक्ष्यते इति कल्प्यम् अन्यस्य च
- परिधेरदर्शनात् परिशेषात् भुमेरेव तथात्वसिद्धिरिति तस्या
- गोलाकारता तद्वशाच्चाकाशस्य तथात्वकल्पनमिति “आकाश-
- मण्डलभध्यमध्यास्ते” काद० नभोमण्डलादयोऽप्यत्र “नैत-
- न्नमीमण्डलमम्बुराशिः” सा० द० तन्त्रोक्ते भूतशुद्धौ
- चिन्तनीये भ्रूमध्यावधिब्रह्मरन्ध्रान्तस्थिते वृत्ताकारे स्वच्छे
- २ नभोमण्डले च “वृत्तं दिवस्तत् षड़्विन्दुलाञ्छितं
- मातरिस्वनः” तन्त्र० । पदार्थादर्शे, भूतशुद्धौ वायोराकाशे
- विलापनमभिधाय “ततोभ्रूमध्यादि ब्रह्मरन्ध्रपर्य्यन्तं स्वच्छं
- वर्त्तुलमाकाशमण्डलम्” इत्युक्तम् । तदेव मण्डलं विद्वेषे
- चिन्तनीयम् यथोक्तं “जलस्य मण्डलं प्रोक्त” मित्युपक्रम्य
- “वृत्तं दिवस्तद्विद्वेषे” मन्त्रमहो० ।
आकाशमय पु० आकाश + प्रायार्थे मयट् । आकाशप्राये
- आत्मनि । “स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयो
- वाङ्मयः प्राणमयः चक्षुर्मयः श्रोत्रमय आकाशमयो वायु-
- मयस्तेजोमयः अम्मयः पृथिवीमयः” शत० ब्रा० ।
- “योऽयमात्मनः संसारसंबन्धः स वास्तवो न भवति किन्त्वौ
- पाधिक एवेति तदुपाघीन् दर्शयितुमात्मनो वास्तवरूपमाह
- स वा इति । स प्रकृतः संसारी अयमविद्यातत्कार्य्यविनि-
- र्मुक्तः स्वप्रकाशोऽपरोक्षः आत्मा कूटस्थःसाक्षी चिद्धातुरेव-
- म्भूतः सोऽयमात्मा वै ब्रह्म अशनायाद्यतीतः परमात्मैव ।
- ब्रह्मैव सन्नयमात्माऽविद्ययाऽब्रह्मवत् प्रतिपन्नः पुनः सम्यग्-
- ज्ञानात्तत्प्रध्वंसे ब्रह्मैवावतिष्ठतैति भावः । इदानीं
- यत्प्रयुक्तमेवंविधब्रह्मात्मनो बन्धस्तानुपाधीनाह विज्ञा-
- नमय इति विज्ञानं बुद्धिस्तत्प्रायः बुद्धेरैक्याध्यासाद्धि
- तद्धर्म्मस्य कर्त्तृत्वादेरात्मनि आरोपितत्वं तत्प्रायत्वम् ।
- अस्मिन् प्रकरणे सर्वोऽपि मयट् प्रायार्थे न तु विकारार्थे
- तत्र तदसम्भवात्” शा० भाष्यम् ।
आकाशमांसी स्त्री आकाशभवा मांसी । क्षुद्रजटामांस्याम् राजनि० ।
|
आकाशमूली स्त्री आकाशे भूमिशून्यदेशे मूलमस्याः ङीप् ।
- कुम्भिकायाम् (पाना) ।
आकाशयान न० आकाशे यायते ऽनेन या--करणे ल्युट्
- ७ त० । आकाशगमनसाधने विमाने ।
आकाशरक्षिन् पु० आकाशे इव अत्युच्चप्राचीरोपरि स्थितः सन्
- रक्षति रक्ष--णिनि । दुर्गबहिःप्राचीरोपरिस्थिते रक्षके ।
- “सञ्चारोयत्र लोकानां दूरादेवावबुध्यते । प्रगण्डी सा
- च विज्ञेया बहिःप्राकारसंज्ञिता । प्रणिधिस्तत्र यत्नेन
- कर्त्तव्यो भूतिमिच्छता । स एवाकाशरक्षीति ह्युच्यते
- शास्त्रकोविदैः” । भा० शा० अ० ६९ व्या० नी० क० ।
आकाशवचन न० आकाशे वचनम् । पात्राप्रवेशेऽपि
- तदीयवाक्यं प्रविष्टपात्रेण श्रुत्वा आकाशवाक्यत्वेन कल्गिते
- नाटकाङ्गे १ वाक्यभेदे “नेपथ्यीक्तं श्रुतं तत्र आकाशवचनं
- तथा । समाश्रित्यापि कर्त्तव्यमामुखं नाटकादिषु”
- सा० द० । अलक्षितशरीरतया देवादिभिरुच्चार्य्यमाणे
- २ वाक्ये च ।
आकाशवत् त्रि० आकाशः गम्यतयाऽस्त्यस्य मतुप् मस्य वः
- स्त्रियां ङीप् । आकाशगामिनि “प्रतिगृह्य दक्षिणमूरु-
- मपाच्छाद्य तस्मिन् सादयित्वाऽकाशवतीभिरङ्गलीरपि-
- दध्यात्” आश्वला० श्रौ० सू० ।
आकाशवर्त्मन् न० आकाशोवर्त्मेव गम्यत्वात् । आकाशरूपे पथि ।
आकाशवल्ली स्त्री आकाशस्य वल्ली शाखेव अत्युच्चशिखत्वात् ।
- (असरवेल इति) ख्यातायां लतायाम् राजनि० ।
आकाशवाणी स्त्री आकाशे भवा वाणी । अदृश्योत्पादक-
- पुरुषत्वेनाकाशादिवोत्पन्नायां देवादिवाचि ।
आकाशसलिल न० आकाशत् पतितं सलिलम् । आकाशात्
- पतिते जले । तच्च चतुर्विधं मेघादिधारानिस्मृतं धारं,
- चन्द्रकरतआगतं कारम्, तुषारकृतं तौषारम्, संहत
- हिमखण्डेननिर्वृत्तं च हैमम् । तच्च सुश्रुते दर्शितम्
- अम्बुशब्दे ३३० पृष्ठे उक्तम् ।
आकाशस्फटिक पु० आकाशेभवः स्फटिकैव । वर्षोपले
- करकाख्ये संहतजलखण्डे । तदुत्पादविलयौ श्रोपति-
- राह । “उद्भूतैः पांसुभिर्भूमेः प्रचण्डपवनोच्चयात् ।
- मेघमण्डलमानीतैर्मालिन्यपरिवर्ज्जितैः । मिश्रणाज्जल-
- विन्दूनां पिण्डभावोभवेदिह । दृषद्वन्निपतन्त्येते द्रवन्ते च
- पुनःक्षितौ” ।
आकाशास्तिकाय पु० कर्म्म० अर्हन्मतसिद्धे जीवभिन्ने
- आवरणाभाबरूपे पदार्थभेदे । सच अर्हच्छब्दे ३८२ पृष्ठे दर्शितः
|
पृष्ठ ०६००
आकाशीय त्रि० आकाशस्येदं छ । नाभसे “वायव्यमिद-
- माकाशीयमिति” । “शब्दबहुलमाकाशीयं तन्मार्दवशौषिर-
- लाघवमिति” च सुश्रुतः । दिगा० यत् आकाश्यमप्यत्र त्रि० ।
आकाशे अव्य० आ + काश--के । “दूरस्थामाषणं यत् स्याद-
- शरीरनिवेदनम् । परोक्षान्तरितं वाक्यं तदाकाशे
- निगद्यते” भरतोक्ते नाटकाङ्गे वाक्यभेदे “कञ्चुकी (दृष्ट्वा
- आकाशे) विहङ्गिके । अपि श्वश्रूजनपादबन्धनं कृत्वा
- प्रतिनिवृत्ता भानुमती” (कर्ण्णं दत्त्वा) किं कथयसि आर्या
- एषा भानुमतीत्यादि” वेणीस० ।
आकिञ्चन्य न० अकिञ्चनस्य भावः ष्यञ् । दरिद्रतायाम् ।
आकिदन्ति पु० १ देशभेदे २ तद्देशवासिनि च । दामन्या०
- आयुधजीविसंघार्थे छ । आकिदन्तीयः तद्देशीयायु-
- जीविसंघे । बहुषु छस्य लुक् । आकिदन्तयः ।
आकीर्ण्ण त्रि० आ + कॄ--क्त । १ व्याप्ते, ३ विक्षिप्ते च ।
- “आकीर्ण्णमृषिपत्नीनामुटजद्वाररोधिभिः” रघुः । “स्वपु-
- ष्पैराकीर्ण्णं कुसुमधनुषो मन्दिरमहो” श्यामास्तवः ।
आकीम् अव्य० आ--कन्--वा० ङीमि । १ वर्ज्जने २ वितर्के च
- चादिगणे माकीमित्यत्र आकीम् इति पाठान्तरम् “आकीँ
- सूर्य्यस्य रोचनाद्विश्वादेवाँ उषर्बुधः” ऋ० १, १४, ९, ।
आकुञ्चन न० आ + कुचि--ल्युट् । सङ्कोचे, प्रसारितस्य
- संक्षिप्तत्वसम्पादनसाधने क्रियाभेदे “आकुञ्चनन्तु
- सत्स्वेवावयवानामारम्भकसंयोगेषु परस्परमवयवानामनार-
- म्भकसंयोगोत्पादकं वस्त्राद्यवयविकौटिल्योत्प्रादकं
- कर्म्म, यतो भवति सङ्कुचति पद्मं सङ्कुचति वस्त्रं सङ्कुचति
- चर्म्मेति प्रत्ययः” वै० सू० उप० । स च कर्म्मभेदः कर्म्म
- च पञ्चविधम् । “उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं
- गमनमिति कर्म्मांणि” वै० सू० । अत्र च उत्क्षेपणत्वा-
- वक्षेपणत्वाकुञ्चनत्वप्रसारणत्वगमनत्वानि कर्म्मत्वसाक्षाद्याप्याः
- पञ्च जातयः” वै० सू० उ० । कर्म्म च “एकद्रव्य मगुणं
- मंयोगविभागेष्वनपेक्षकारणमिति कर्म्मलक्षणम्” वै० सू०
- उक्वलजणकम् । विवृतञ्च उप० “एकमेव द्रव्यमाश्रयो-
- यस्य तदेकद्रव्य न विद्यते गुणोऽस्मिनित्यगुणम्” संयो-
- गविभागेष्वनपेक्षकारणगिति स्वोत्पत्त्यनन्तरोत्पत्तिकभाव
- भूतानपेक्षमित्यर्थः तेन समवायिकारणापेक्षायां पूर्ब्बसंयो-
- गाभावापेक्षयाञ्च नासिद्धत्वम् । स्वोत्पत्त्यनन्तरोत्पत्तिका-
- नपेक्षत्वं वा विवक्षितम् पूर्ब्बसंयोगध्वं सस्यापि स्वोत्पत्त्यन-
- न्तरानुत्पत्तिकत्वेन अभावत्येन तस्याद्यक्षणे सम्बन्धा-
- भावात् तेन नित्यावृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं
|
- कर्म्मत्वम् । प्रचलतीति प्रत्ययासाधारणकारणतावच्छेदक-
- जातिमत्त्वं वा गुणान्यनिर्गुणमात्रवृत्तिजातिमत्त्वं वा
- स्वोत्पत्त्यव्यवहितोत्तरक्षणवृत्तिविभागकारणतावच्छेदकजा-
- तिमत्त्वं वा” “उत्क्षेपणं तथावक्षेपणमाकुञ्चनं तथा ।
- प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्ज च” भाषा०
- “सन्धिगतः पीड्यमानो न प्रवर्त्तत आकुञ्चनप्रसारणोन्न-
- मनविनमनप्रधावनोत्कासनप्रबाहणैश्च स्रवति” “प्रसा-
- रणाकुञ्चनबन्धनपीड़नैर्भृशमुपचरेत्” अनुगृह्यते चाकु-
- ञ्चनप्रसारणादिभिर्विशेषैः” इति च सुश्रुतः ।
आकुञ्जित त्रि० आ + कुचि--क्त । १ आभुग्ने २ सङ्कोचिते च ।
- “नतांसमाकुञ्चितसव्यपादम्” भट्टिः ।
आकुल त्रि० आ + कुल--क । व्यग्रे । “तं तथा कृपयाविष्ट
- मश्रुपूर्ण्णाकुलेक्षणम्” गीता “त्रासाकुलः परिपतन् परितो
- निकेतान्यूर्म्मिः” “अभिचोद्यं प्रतिष्ठासुरासीत् कार्य्यद्वया-
- कुलः” इति च माघः । निराकुलः पर्य्याकुलः व्याकुलः
- समाकुलः । आकुलत्वञ्च मनश्चाञ्चल्यसम्पादकमानसावस्था-
- भेदः स्वक्रियाऽसामर्थ्यञ्च । कृत्यर्थे णिच् आकुलयति
- अभूततद्भावे च्वि क्राद्यनुप्रयोगः आकुलीभूतः आकुली-
- कृतः “द्रविणं परिमितमविकव्ययिनं जनमाकुलीकुरुते”
आकुलाकुल त्रि० आकुल + प्रकारे द्वित्वम् । १ आकुलप्रकारे
- २ अत्यन्ताकुले च ।
आकुलि पु० आ + कुल--इन् । व्याकुलत्वे ।
आकुलित त्रि० आ + कुल--क्त । व्याकुलीभूते आकुल + कृत्यर्थे
- णिच् कर्म्मणि क्त । आकुलीकृते “मार्गाचलव्यतिकराकु-
- लितेव सिन्धुः” कुमा० ।
आकुलीकृत त्रि० अनाकुलः आकुलः कृतः आकुल + च्वि--कृ
- कर्म्मणि क्त व्याकुलतां प्रापिते ।
आकुलीभूत त्रि० आकुल + च्वि--भू--क्त । स्वयं तथाभूते ।
आकूत न० आ + कू--भावे क्त । आशये अभिप्राये । “स्वां स्वां
- प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम्” सा० का०
- यथा शाक्तीकादयः--“कृतसङ्केताः परास्कन्दने प्रवृत्ताः
- तत्रान्यतमस्याकूतमवगम्यान्यतमः प्रवर्त्तते तथा अन्यत-
- मस्य करणस्याकूतात् स्वकार्य्य करणाभिमुखादन्यतमं करणं
- प्रवर्त्तते” इति सां० कौ० “इतीरिताकूतमनीलवाजिनः”
- किरा० ।
आकूणित आ + कूण--क्त । ईषत्सङ्कुचिते । “मदनशरशल्य वेदनाकूणितत्रिभागेण” काद० ।
|
पृष्ठ ०६०१
आकूति स्त्री आ + कू--भावे क्तिन् । अभिप्राये । “आकूती-
- नाञ्च चित्तीनां प्रवर्त्तक! नमामि ते” भा० व० २६२
- अ० । द्रोपदीकृतकृष्णस्तवः । “आकूतिः सत्या मनसो
- मे अस्तु” ऋ० १०, १२४, ४ । “सं म आकूतिरृध्यात्”
- ऋ० ४, ३६, २ । संज्ञायां क्तिच् । स्वायम्भुवमनोः
- शतरूपायां पत्न्यामुत्पादिते कन्याभेदे तत्कथा यथा ।
- “कस्य रूपमभूद्द्वेधा यत् कायमभिचक्षते । ताभ्यां रूपविभा-
- गाभ्यां मिथुनं समपद्यत । यस्तु तत्र पुमान् सोऽभू-
- न्मनुः स्वायम्भुवः स्वराट् । स्त्रो यासीत् शतरूपाख्या
- महिष्यस्य महात्मनः । तदा मिथुनधर्म्मेण प्रजा ह्येधाम्बभू-
- विरे । स चापि शतरूपायां पञ्चापत्यान्यजीजनत् ।
- प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत! । आकूति-
- र्देवहूतिश्च प्रसूतिरिति सत्तम! । आकूतिं रुचये प्रादात्
- कर्द्दमाय तु मध्यमाम् । दक्षायादात् प्रसूतिञ्च यतआपू-
- रितं जगत्” भा० ३ स्क० ।
आकृति स्त्री आक्रियते व्यज्यते जातिरनया करणे क्तिन् ।
- जातिव्यञ्जकेऽवयवसंस्थानभेदे । “आकृतिग्रहणा जातिः”
- महाभा० । “जात्याकृतिव्यक्तयस्तु पदार्थः” गौ० सू०
- तत्राकृतिलक्षणं तत्रैवोक्तम् “आकृतिर्जातिलिङ्गाख्या”
- गौ० । “जातेर्गोत्वादेः मास्नादिः संस्थानविशेषो हि
- लिङ्गमिति । “इयमाकृतिरेव शक्यार्थः इति केचिन्म-
- न्यन्ते । तदभिप्रायेण, महाभा० । “येनोच्चारितेन सास्रा-
- लाङ्गूलककुदखुरविषाणिनां संप्रत्ययो भवति स शब्द
- इति” अनाकृतिः संज्ञा आकृतिमन्तः संज्ञिन” इति ।
- “लोकेऽपि ह्याकृतिमतो मांसपिण्डस्य देवदत्त इति संज्ञा
- क्रियते” इति च महाभा० । गौतमेन तु इतरपक्षनिरा-
- करणेन त्रयाणामेव शक्यार्थत्वमुररीकतं यथा । “आकृतिस्त-
- दपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः” सू० । आकृतिः पदार्थः
- कुतः सत्त्वस्य प्राणिनोगवादेर्व्यवस्थानरिद्धेर्व्यवस्थितत्व-
- सिद्धेः तदपेक्षत्वादाकृत्यपेक्षत्वात् अयमश्वोगौरयमित्यादि
- व्यवहारस्याकृतत्यपेक्षत्वात् आकृतिरेव शक्यार्थः । इति
- यन्मतं तद्दूषयित्वा जातेः पदार्थत्वमाह “व्यक्त्याकृति
- युक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृद्गवके जातिः” सू० ।
- मृद्गवके व्यक्त्याकृतियुक्तेऽपि प्रोक्षणादीममप्रसङ्गात् जातिः
- पदार्थः । इतरथा मृद्गवकस्यापि व्यक्तित्वात् गवाकृतिमत्त्वाच्च
- वैधप्रोक्षणादिप्रसङ्ग इति भावः । एवं जात्याकृतिव्यक्तीनां
- प्रत्येकस्य शक्यत्वपक्षं निराकृत्य त्रयाणामेव शक्यत्वमि-
- त्याह । जात्याकृतिव्यक्तयस्तु पदार्थः” सू० “तुशब्देन
- एकमात्रपदार्थत्वव्यवच्छेदः एककवचनं तु तिसृष्व-
- प्येकैव शक्तिरिति सूचनाय, विभिन्नशक्तौ कदाचित्
|
- कस्यचिदुपस्थितिः स्यात् । शक्तेस्तुल्यत्वेऽपि व्यक्तेर्विशे-
- ष्यत्वं तथैव शक्तिग्रहात् । नचाकृत्यादिसाधारण-
- शक्यतावच्छेदकाभावात् न शक्त्यैक्यम् इति वाच्यम् तथा
- नियमे मानाभावात् इदं गवादिपदमभिप्रेत्याह तेन
- पश्वादिपदस्य जात्यवाचकत्वेऽपि न क्षतिः जातिपदं वा
- धर्म्म परं तथैव लक्षणस्य वक्तव्यत्वादिति” वृत्तिः । एवं
- शक्यत्वं व्यवस्थाप्य आकृतेर्लक्षणमुक्तं “आकृतिर्जाति-
- लिङ्गाख्या” सू० प्राग्विवृतम् । एतेनाकृतिशब्दस्य
- जातिव्यक्त्योः संबन्धपरत्वकल्पनमर्वाचीनानां परास्तम्
- सम्बन्धस्य जातिलिङ्गत्वाभावात् तस्य शक्यतावच्छेदसम्बन्ध-
- त्वेन शक्यत्वाभावाच्च । शा० भा० आकृतीनां नित्यत्वोक्तिः
- तुल्याकृतिमवाहनित्यत्वाभिप्रायेण द्रष्टव्या “यत्राकृति-
- स्तत्र गुणा वसन्ति” नीतिः “न तुलाविषये तवाकृतिः”
- “त्वदुदाहरणाकृतौ गुणाः” इति च नैष० २ आकारे “इङ्गितं
- हृद्गतोभावो बहिराकार आकृतिरिति” सज्जनोक्तेः
- ३ आकृतियुक्ते देहे “किमिव हि मधुराणां मण्डनं नाकृ-
- तीनाम्” शकु० । “स्पष्टाकृतिः पत्ररथेन्द्रकेतोः” रघुः ।
- “स्फुरितं मनोगतमिवाकृतयः” “गोवर्द्धनस्याकृतिरन्व-
- कारि” इति च माघः । “नाकृतिगुरुता गुरुता” उद्भटः ।
- ४ आकरे मूलग्रन्थादौ च आकृतिगणः ।
आकृतिगण पु० आकृतौ आकारप्रसिद्धोगणः शाक० त० ।
- पाणिन्युक्ततत्तत्कर्म्मनिमित्ते शब्दसमूहे । यथा स्वरा-
- दिराकृतिगणः कण्डादिरित्यादि गणप्राठे भूरिप्रयोगः ।
आकृतिच्छत्रा स्त्री छादयति छद--णिच् कर्त्तरि ष्ट्रन् ह्रस्वः
- २ त० । (घोषा) घोषातकीलतायाम् ।
आकृष्ट त्रि० आ + कृष--क्त । कृताकर्षणे । “नाकृष्टं न च
- टङ्कितं न नमितं नोत्थापितं स्थानतः” महाना० ।
आकृष्टि स्त्री आ + कृष--क्तिन् । आकर्षणे ।
आके अव्य० आ + कन--डे । १ अन्तिके २ दूरे च निरु० ।
- “त्वमग्ने ऋभुराके नमस्य” ऋ० २, १, १०
आकेकरा स्त्री आके अन्तिके कीर्य्यते कॄ--कर्म्मणि अप् ।
- “द्वष्टिराकेकरा किञ्चित्स्फुटापाङ्गे प्रसारिता । मीलि-
- तार्द्धा’परा लोके तारा व्यवर्त्तनोद्भवा” इत्युक्तलक्षणे दृष्टिभेदे
- नेत्रादिविशेषणत्वे न० “निमीलदाकेकरलोलचक्षुषा” माघः ।
आकेनिप त्रि० आकेऽन्तिके निपतन्ति नि + पत--ड । अन्ति-
- कपातिनि “आकेनिपासो अहभिर्दविध्वतः” ऋ० ४, ४५, ६,
आकोकेर पु० ज्योतिषोक्ते मकरराशौ । “क्रियतावुरिजित्त
- मकुलीरलेयपाथेययूककौर्पाख्याः । तैक्षिक आकोकेरोहृ-
- द्रोगश्चान्त्यभं चेत्थम्” ज्यो० ।
|
पृष्ठ ०६०२
आ(अ)कौशल न० अकुशलस्य भावः अण् द्विपदवृद्धिः पूर्व्वस्य वा । अपाटवे ।
आक्रन्द आ + कन्द--घञ् । १ सारवे रोदने, २ आह्वाने,
- ३ शब्दे, च । कर्मणि घञ् । ४ मित्रे, ५ भ्रातरिच । आधारे
- घञ् । ६ दारुणे युद्धे, दुःखिनां ७ रोदनस्थाने च ।
- आक्रन्दयति अच् । ८ पार्ष्णिग्राहपश्चाद्वर्त्तिनि नृपभेदे ।
- अरिशब्दे ३५५ पृष्ठे विवृतिः “आक्रन्दे चाप्यपैहीति
- न दण्डंमनुरब्रवीत्” मनुः पार्ष्णिग्राहञ्च संप्रेक्ष्य
- तथाक्रन्दञ्च मण्डले” मनुः ।
आक्रन्दन न० आ + क्रन्द--ल्युट् । १ सारवरोदने २ आह्वाने च ।
आक्रन्दिक त्रि० आक्रन्दे दुःखिनां रोदनस्थानं धावति ठञ्
- टक् वा । दुःखिःनां रोदनस्थानधावके ठञि स्त्रियां ङीप्
आक्रन्दिन् त्रि० आक्रन्दति आ + क्रदि + णिनि । रोदनपूर्ब्ब-
- काह्वायके । “परस्पराक्रन्दिनि चक्रवाकयोः” कुमा० ।
आक्रन्दे अव्य० आ + क्रन्द--आधारे के । युद्धे निरु० ।
आक्रम पु० आ + क्रम--घञ् अवृद्धिः । १ बलेनातिक्रमणे । ल्युट् ।
- आक्रमणमप्यत्र न० । आक्रम्यते परलोकोऽनेन करणे
- घञ् । परलोकप्राप्तिसाधने २ विद्याकर्म्मादौ । “अथ यथाक्र-
- मोऽयं परलोके स्थाने भवति तमाक्रममाक्रम्योभयान्
- पाप्मन आनन्दांश्च पश्यति” वृ० उप । “अयं पुरुषः
- परलोकस्थाने प्रतिपत्तव्ये निमित्ते यथाक्रमो भवति
- यादृशेन परलोकप्रतिपत्तिसाधनेन विद्याकर्म्मपूर्ब्बप्रज्ञा-
- लक्षणेन युक्तोभवति तमाक्रमं परलोकस्थानायो खीभूतं
- प्राप्ताङ्कुरीभावमिव वीजं तमाक्रममाक्रम्यावष्टभ्य” भा०
- “अथ केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमते”
- शत० ब्रा० । ३ कृताक्रमणे ४ अभिभूते ५ व्याप्ते ६ आग्रहे
- च । आक्रामति पराभवति क्षुधाम् आ + क्रम--अच् ।
- ७ अन्ने “आक्रमोऽस्याक्रमाय त्वा” यजु० १५, ९ । “आक्र-
- मोऽन्नम्” वेददीपः ।
आक्रान्त त्रि० आ + क्रम--क्त । १ पराभूते २ खोपरिगत्या
- व्याप्ते सममेव समाक्रान्तं द्वयं द्विरसगामिना” रघुः ।
- “नितान्तमाक्रान्त इवाङ्गनानाम्” माघः ।
आक्रान्ति स्त्री आ--क्रम भावे क्तिन् । आक्रमणे उपरिस्थानेन
- प्राप्तौ “आक्रान्तिसम्मानितपादपीठम्” कुमा० ।
आक्रीड़ पु० आक्रीड़त्यत्र आ + क्रीड--घञ् । क्रीड़ास्थाने
- उद्यानादौ । “आक्रीड़पर्व्वतास्तेन कल्पिताः स्वेषु
- येश्मसु” कुमा० “कमप्याक्रीड़मासाद्य तत्र विशिश्रमिषुः”
- दशकु० । कर्त्तरि अच् । २ विहारशीले त्रि० ।
|
आक्रीडिन् त्रि० आ + क्रीड़--घिणुन् । क्रीड़ाशीले स्त्रि यां ङीप्
आक्रुष्ट त्रि० आ + क्रुश--क्त । १ कृताक्रोशे यं प्रति आक्रोश
- कृतस्तस्सिन् । २ शब्दिते ३ निन्दिते च । “भेरीभिराक्रुष्ट-
- महागुहामुखम्” माघः । भावे क्त । ४ परुषभाषणे न०
- “मार्ज्जारमूषिकास्पर्शे आक्रुष्टे क्रोधसम्भवे” कात्या०
- “आक्रुष्टे परुषभाषणे” श्रा० त० रघुनन्दनः ।
आक्रोश पु० आ + क्रुश--घञ् । १ विरुद्धचिन्तने, २ शापे ३
- निन्दायाञ्च ल्युट् आक्रोशनमप्यत्र न० । ४ अपवादे “पूर्ण्ण-
- मासीद्दुराक्रोशं स्तनतस्तस्य भूतले” रामा० “कुलाक्रोश-
- करं लोके धिक् ते चारित्रमीदृशम्” रामा० ।
आक्रोशक त्रि० आ + क्रुश--ण्वुल् । आक्रोशकारके ।
आक्रोष्टृ त्रि० आ + क्रुश--तृच् । आक्रोशकारके । आक्रु-
- श्यमानोनाक्रोशेन्मन्युरेव तितिक्षत्तः ॥ आक्रोष्टारं निर्द-
- हति सुकृतं चास्य विन्दति” भा० आ० प० ८६ अ० ।
आक्ली अव्य० आ + क्लिद--डी । विकारे उर्य्यादि । आक्लीकृत्य ।
आक्लेद पु० आ + क्लिद--घञ् । आर्द्रीभावे ।
आक्षद्यूतिक न० अक्षद्यूतेन निर्वृत्तम् ठक् । आक्रीड़या जाते वैरे ।
आक्षपाटिक पु० अक्षपटेक्रीड़ास्थाने व्यवहारस्थाने वा नियुक्तः
- ठक् । १ अक्षक्रीड़ाध्यक्षे २ व्यंवहाराध्यक्षे प्राद्धिवेके च ।
आक्षपाद त्रि० अक्षपादस्येदम् अण् । १ गौतमसाम्बन्धिमते । तेन
- प्रोक्तम् अण् । तत्कृते २ शास्त्रे च तच्च शास्त्रं प्रमाणादि
- षोडशपदार्थतत्त्वावेदकं पञ्चाध्यायात्मकम् । प्रमाणप्रमे-
- येत्यादि सूत्रमारभ्य हेत्वाभासाश्च यथोक्ताः इत्यन्तसूत्र-
- समुदात्मकम् । तस्य संक्षिप्तार्थः न्यायशब्दे वक्ष्यते । अक्ष-
- पादप्रणीतं वेत्ति अण् । न्यायमतामिज्ञे ३ नैयायिके च ।
आक्षार पु० आ + क्षर--णिच्--घञ् । अगम्यागमनं कृतं त्वयेति
- पुरुषं प्रति, अगम्यगमनं त्वया कृतमिति स्त्रियं च
- प्रति दूषणे । ल्युट् आक्षारणमप्यत्र न० । युच् टाप् ।
- अत्रार्थे स्त्री ।
आक्षारित त्रि० आ + क्षर--णिच्--क्त । आक्षारोमिथुनविषयापवादस्तेन दूषिते ।
आक्षिक त्रि० अक्षेण दीव्यति जयति जितं वेति अक्ष + ठक् ।
- १ अक्षेण देवके २ अक्षेण जयिनि ३ अक्षजिते च ।
- “प्रातिभाव्यं वृथादानमाक्षिकं सौरिकं च यत्” मनुः
- भारभूतानक्षान् हरति वहत्यावहति वा वंशा० अक्ष
- पूर्ब्बात् भारात् ठक् । आक्षभारिकः अक्षभारवाहकादौ
- त्रि० अक्षोऽत्र वंशादिसाहचर्य्यात् कलिद्रुमः ।
आक्षित् त्रि० आ + क्षि--क्विप् । “आवर्त्तमाने “आक्षित् पूर्ब्बा-
- स्वपरा” ऋ० ३, ५५, ५ । “आक्षित् आवर्त्तमानः” भा० ।
|
पृष्ठ ०६०३
आक्षिप्त त्रि० आ + क्षिप--क्त । १ कृताक्षेपे यस्याक्षेपः कृतस्त-
- स्मिन् २ आकृष्टे च ।
आक्षीव पु० आ + क्षोव--णिच्--अच् । १ शोभाञ्जनवृक्षे ।
- क्षीव--क्त नि० क्षीवोमत्तः प्रादि० । २ ईषन्मत्ते
- ३ सम्यक्प्रमत्ते च त्रि० ।
आक्षेप पु० आ + क्षिप--घञ् । १ भर्त्सने, २ अपवादे, ३
- आकर्षणे, धनादिन्यासरूपे, ४ निक्षेपे ५ अर्थालङ्कारभेदे स च
- ३९४ पृष्ठे दृश्यः । ६ निवेशने “गोरोचनाक्षेपनितान्तगौरैः”
- कुमा० ७ उपस्थापने “स्वसिद्धये पराक्षेपः परार्थे स्वसम-
- र्पणम् । उपादानं लक्षणं चेति” काव्यप्र० । ८ अनुमाने
- यथा जातिशक्तिवादिनां मते व्यक्तेराक्षेपात् बोघः ।
- सचानुमानमेव । तथा हि गामानयेति वाक्येगोत्वकर्म्मका-
- नयनं गोकर्म्मकानयनं विनाऽनुपपन्नमित्यनुपपत्तिज्ञानेन
- गोत्वाश्रयस्य व्यक्तेरनुमानेन भानम् । यथोक्तं शब्दशक्ति०
- “गामानयेत्यादौ गोत्वादिकर्म्मकत्वेनैवानयनादेरन्वयधोः
- गोत्वादिशक्तत्वेन पदज्ञानस्य गोत्वाद्यानयनबुद्धिं प्रत्येव-
- हेतुत्वात् गामनयेत्यादौ स्वाश्रयवृत्तित्वसम्बन्धेनैव प्रकृ-
- त्यर्थस्य गोत्वादेः साकाङ्क्षत्वात् गवादिकर्म्मताकत्वेन
- बोधस्तूत्तरकालमाक्षेपात् । कर्म्मत्वं गोवृत्ति गोत्वनिष्ठकर्मता-
- त्वात्, आनयनं गोवृत्तिकर्मताकम् गोत्ववृत्तिकर्मताकत्वा-
- दित्याद्यनुमानसाम्राज्यात्” । ९ सतिस्कारवचनेच “विरुद्ध-
- माक्षेपवचस्तितिक्षतः” किरा० ।
आक्षेपक त्रि० आ + क्षिप--ण्वुल् । १ निन्दके २ आकर्षके । “यदा
- तु धमनीः सर्व्वाः कुपितोऽभ्येति मारुतः । तदा क्षिपत्याशु
- मुहुर्मुहुर्देहं नभश्चरः । मुहुर्मुहुस्तदाक्षेपादाक्षेपक इति
- स्मृत” इत्युक्तलक्षणे ३ वातरोगभेदे ४ व्याधे च पु० मेदि० ।
आक्षेपण न० आ + क्षिप--ल्युट् । आक्षेपार्थे “पतनपी-
- ड़नप्रहाराक्षेपणव्यालमृगदशनप्रभृतिभिरमिघातविशैषेः”
- सुश्रु० ।
आ(अ)क्षैत्रज्ञ न० अक्षेत्रज्ञ एव ब्राह्मणा० स्वार्थे ष्यञ् ।
- द्विपदवृद्धिः पूर्ब्बपदस्य वा । अक्षेत्रज्ञे क्षेत्रानभिज्ञे ।
आक्षेपिन् त्रि० आक्षिपति आ + क्षिप--णिनि । १ आकर्षके ।
- आक्षेपः सूक्ष्मदृष्ट्या पर्य्यालोचमस्त्र्यस्य इनि । २ सूक्ष्म-
- दृष्ट्या आलोचनपूर्ब्बकाकर्षके च । “बाह्याभ्यन्तरविष-
- याक्षेपी चतुर्थः” पात० सू० । प्राणायामशब्दे विवृतिः ।
आक्षोट पु० आ + अक्ष--ओट । शैलपीलुभेदे ।
|
आक्षोड पु० आ + अक्ष--ओड़ । शैलपीलुवृक्षे
- (आखरोट) इति ख्याते । “विल्वामलकमृद्वीका-
- फलमाम्रातदाड़िमम् । भव्यं पानिवताक्षोडम्” स्मृतिः
- “आक्षोडम्जम्बूफलकारफलं काश्मीरप्रसिद्धम्” श्राद्धनत्त्वे
- रघुनन्दनः ।
आख पु० आखनत्यनेन आ + खन--ड । खनित्रे । अच्
- स्वार्थे कन् गौरा० पाठान्तरम् ङीप् । आखकी क्षुद्र-
- खनित्रे स्त्री ।
आखण्डल पु० आखण्डयति भेदयति पर्व्वतान् आ +
- खडिडलच् डस्य नेत्त्वम् । इन्द्रे । “आखण्डलः काममिद
- बभाषे” कुमा० “तमीशः कामरूपाणामत्याखण्डलविक्रमः”
- रघुः ।
आखण्डि आ + खण्ड--इन् आखण्डके भेदके पत्र्यादि० पूर्ब्ब पदाद्युदात्तम् ।
आखन पु० आखनत्यनेन आ + खन--घ । खननसाधने
- खतित्रे । वेदे तु पृ०णत्वम् । “एवं तथाश्मानमाखण
- मृत्वा” छा० उ० । न शक्यते खनितुं कुद्दालादिभि
- रपि ढङ्कैश्छेत्तुं न शक्योऽखणस्तमृत्वा” शा० भाष्यम् ।
आखनिक आ + खन--कर्त्तरि इकन् । १ चौरे, २ शूकरे, ३ मूषिके
- च ४ खननकर्त्तरि त्रि० ।
आखनिवक पु० आ + खन--करणे कर्त्तरि वा इकवक । खनित्रे
- १ चौरे २ शूकरे ३ सूषिके च ५ खनके त्रि० । डर ।
- आखरोप्यत्र । पात्रेसमितादिः युक्तारोह्यादिश्च ।
आखर पु० आ + खन--करणे ड । खनित्रे ।
आखरेष्ठ त्रि० आखरे तिष्ठति स्था--क षत्वम् वेदे नित्यम-
- लुक् । आखरे स्थिते “कृष्णोऽप्याखरेष्ठः” सि० कौ० ।
आखान पु० आ + खन घञ् । समन्तात् खनने ।
आखु पु० आ + खन--डु । १ मूषिके, २ चौरे, ३ शूकरे च ।
- कर्म्मणि डु । ४ देवताड़वृक्षे । “विभवे सति नैवात्ति ने
- ददातिजुहोति न । तमाहुराखु” मित्युक्तलक्षणे ५ कृपणे च
आखुकर्ण्णपर्णिका स्त्री आखुकर्ण्णाविवा पर्ण्णान्यस्वा वा कप् ।
- (उन्दुरकाणी) लतायाम् ।
आखुकर्णी स्त्री आखोः मूषिकस्य कर्ण्ण इव पर्ण्णमस्याः
- ङीप् (उन्दुरकाणी) नूषिककर्णतुल्यपर्णयुक्तायां लतायाम् ।
आखुग पु० आखुना मूषिकेण गच्छति । गम--ड । मूषिक-
- वाहने गणेशे । तस्य यथा मूषिकवाहनत्वं तथा गणेश-
- शब्दे वक्ष्यते आखुवाहनादयोऽप्यत्र ।
आखुपर्णिका स्त्री आखुः तत्कर्ण्णाविव पर्णमस्याः वा कप् ।
- (उन्दुरकाणी) वृक्षे । कबभावे ङीप् । आखुपर्ण्णीत्यपि तत्रैव ।
आखुभुज् पु० आखुं भुङ्क्ते भुज--क्विन् । भूषिकभक्षके विड़ाले ।
- क । आखुभुजोऽप्यत्र ।
|
पृष्ठ ०६०४
आखुकरीष न० ६ त० । मूषिकशुष्क पुरीषरूपकरोषे “तस्मा-
- दाखुकरीषं सम्भरति” शत० ब्रा० ।
आखुपाषाण पु० आखुः खनकः पाषाणः कर्म० “आखुपाषाण-
- नामायं लोहसङ्करकारकः” इत्युक्ते पाषाणभेदे राजनि० ।
आखुविषहा स्त्री आखुविषं मूषिकविषं हन्ति हन--ड ।
- मूषिकविषहरे १ देवताडवृक्षे, २ देवतालीलतायाञ्च ।
आखूत्कर पु० आखुभिरुत्कीर्य्यते उत् + कॄ--कर्म्मणि--अप्!
- मूषिकैरुत्वीर्य्यमाणेषु पांसुषु । (उन्दुरमाटि) । “हिरण्यं
- निधायोखूत्करान्निवपति” कात्या० ४, ८, १६ ।
आखूत्थ त्रि० आखुभ्य उत्तिष्ठति उद + स्था क । १ आखूत्-
- द्भवे । भावे क । २ आखूनामुत्थाने न० सि० कौ० ।
आखेट पु० आखिट्यन्ते त्रास्यन्ते प्राणिनोऽत्र आ + खिट--घञ् ।
- प्राणित्रासार्थायां मृगयायाम् । स्वार्थेकन् आखेटकोऽप्यत्र
आखेटशीर्षक न० । आखेट इव शीर्षास्य ॥ “कपिशीर्षं
- द्रुमशीर्षं तथा चाखेटशीर्षकम् । इति कुट्टिमसंभेदाः
- स्युः” इत्युक्ते (सुड़ङ्ग) कुट्टिमभेदे ।
आखेटिक पु० आखेटे कुशलः ठक् । मृगयाकुशले १ कुक्कुरे । २ तत्कुशलमात्रे च ।
आखोट पु० आखः स्वनित्रमिव उटानि पर्णान्यस्य ।
- (आखरोट) इति ख्याते शैलपीलौ ।
आख्या स्त्री आ + ख्यायते अनेन आ + ख्या--अङ् । संज्ञायां
- रूढेनाम्नि वाचकशब्दे । “पश्चादुमाख्यां सुमुखी जगाम” कुमा
- नाम च “येन स्वीयपदार्थस्य मुख्यतः प्रतिपादने । खोत्तर-
- प्रयमापेक्षा तन्नाम स्यात्तदर्थकमिति” शब्दश० उक्तलक्षणकम्
- “यत् प्रातिपदिकं नाम तन्नाम्नो नातिरिच्यते” इति च तत्रो
- क्तं “यादृशशब्देन स्वोपस्थाप्ययदर्थमुख्यविशेष्यकान्वयबोधार्थं
- स्वोत्तरप्रथमाविभक्तिरपेक्ष्यते तादृशः शब्द एव तदर्थकं
- नाम । घटादयोहि शब्दाः प्रथमान्तत्वेन निश्चिता एव
- स्वार्थमुख्यविशेष्यकं बोधमुत्पादयन्ति नत्वन्यथा न हि
- घट इत्यादित इव घटादित्यादितोऽपि षटादिमुख्यविशे-
- ष्यकः सुबर्थसंख्यादेरवगमः । पीतपटेत्यादिकः समासोऽपि
- स्वोत्तरं प्रथमाप्रतिसन्धानदशायामेव पटादिमुख्यधर्म्मि
- ताकस्य पीताद्यन्वयबोधस्य जनकः अतएव “नापदं प्रयु-
- ञ्जीतेति” वृद्धाः । पदं विभक्त्यन्तं पीतपटरूपमित्यादावपि
- नावान्तरवाक्यार्थबोधपूर्ब्बको महावाक्यार्थबोधः
- पटादिनाम्नः प्रथमान्तत्वाभावेन तदर्थे पीताद्यन्वयधियः
- पूर्ब्बमसम्भवात् विशिष्टवैशिष्ट्याबगाहितया प्रमाणान्तरेण
- पटधर्म्मिकपीतनिश्चयादपि तत्र सम्भवात् । नचान्योन्य-
- परस्परादिनामस्वव्याप्तिः “एभ्यः प्रथमा नाभिधीयते” इति
|
- वृद्धैः स्मरणादिति वाच्यं मल्लांभ्यामन्योन्यं हन्यत इत्यादौ
- मल्लयोः परस्परकर्त्तृकहननकर्म्मत्वान्वयानुरोधेन तेषामपि
- प्रथमान्तत्वादन्यथा सकर्म्मकस्य हन्तेर्भावाख्यातसाकाङ्क्ष-
- त्वानुपपत्तेरकर्म्मकस्यैव धातोस्तथात्वात्” । तेन न्याय-
- मते प्रथमान्तमुख्यविशेष्यकशाब्दबोधस्वीकारेण तथात्वं वैया-
- करणादिमते तु न तथा “भावप्रधानमाख्यातं सत्त्वप्रधानानि
- नामानीति या० उक्तेः भावप्रधानत्वे नैव बोधः तथाच “अर्थ
- वदधातुरप्रत्ययः प्रातिपदिकं” “कृत्तद्धितसमासाश्चेति” पा०
- उक्त लक्षणं प्रातिपदिकमेव नामेत्यभिधीयते अतएवोक्तम्
- “उणाद्यन्तं कृदन्तञ्च तद्धितान्तं समासजम् । नामसंज्ञा
- भवेत्तस्य स्वाद्युत्पत्तिस्तदुत्तरम्” तच्च नाम चतुर्विधम् “रूढ़ञ्च
- लक्षकञ्चैव योगरूढ़ञ्च यौगिकम् । तच्चतुर्द्धा परे रूढ़यौगिकं
- मन्वतेऽधिकम्” शब्दश० व्याख्यातं च स्वयमेव जगदी-
- शेन । “निरुक्तं नामविभजते । रूढ़ञ्चेत्यादि तत् नाम ।
- चत्रयमवधारणार्थं तेन किञ्चिन्नाम क्वचिदर्थे
- रूढमेव यथा गोप्रभृतौ गवादि गमेर्डो दाभाभ्यां नुर्धेट-
- इच्चेत्यादेरौणादिकप्रत्ययस्य शक्तिविरहेण यौगिकत्व-
- विरहात् । किञ्चिल्लक्षकमेव यथा तीरादौ गङ्गादि, आद्य-
- व्युत्पत्त्या पूरवत्तीरे शक्तिग्रहस्याविशिष्टत्वेऽप्याजानिक-
- प्रयोगापत्त्या तदप्रामाण्यकल्पनात् शक्तेः पूर्ब्बपूर्ब्बप्रयोग
- नियतत्वात् । किञ्चिद्योगरूटमेव यथा पङ्कजातपद्मादौ
- पङ्कजादि “किञ्चित् यौगिकमेव यथा पाककर्त्रादौ
- पाचकादि । रूढयौगिकभप्यधिकं नाम यथा मण्डपमहा-
- रजतादि तद्धि कदाचिदवयववृत्त्या योगार्थमेव कदाचिच्च
- समुदायशक्त्या रूढार्थमेवाभिधत्ते इत्यपरेषाम्मतम् ।
- गौर्व्वाहीक इत्यादौ तु शक्यार्थसदृशत्वावच्छिन्नबोधकतया
- गौणं गवादिपदं गोसदृशादौ लक्षकमेव न तु ततोभिद्यते”
- तत्र रूढादिलक्षणानि तत्रैवोक्तानि यथा “रूढं सङ्केतव-
- न्नाम सैव संज्ञेति कीर्त्त्यते । नैमित्तिकी पारिभाषिक्यौपा-
- धिक्यपि तद्भिदा । यन्नाम यादृशार्थे सङ्केतितमेव न तु
- यौगिकमपि तद्रूढं योगरूढ़न्तु पङ्गजादिकं न तथा
- रूढनामैव च संज्ञापदेनाभिलप्यते न तु रूढादिवत्
- संज्ञापि नाम्नोऽवान्तरभेदः, येन विभागव्याघातः स्यात् ।
- संज्ञायाश्च त्रयोभेदाः नैमित्तिकी पारिभाषिकी
- औपाधिकी चेति । पाचकपाठकादयस्तु न संज्ञाः सङ्केतशून्यत्वा-
- दिति ये तु रूढस्य नाम्नश्चतुर्व्विधत्वमाहुस्तन्मतमुन्यस्यति ।
- जातिद्रव्यगुणस्पन्दैर्धर्सैः सङ्केतवत्तया । जातिशब्दादि-
- भेदेन चातुर्व्विध्यं परे जगुः । गोगवयादीनां गोत्वादि
|
पृष्ठ ०६०५
- जात्या पश्वाढ्यादीनां लाङ्गूलधनादिद्रव्येण धन्यपिशु-
- नादीनां पुण्यद्वेषादिगुणेन चलचपलादीनाञ्च शब्दानां
- कर्म्मणावच्छिन्नशक्तिमत्त्वाच्चातुर्व्विध्यजेव रूढानामिति ।
- यदुक्तं दण्डाचार्य्यैः “शब्दैरेव प्रतीयन्ते जातिद्रव्य-
- गुणक्रियाः । चातुर्व्विध्यादमीषास्तु शब्द उक्तश्चतुर्विध”
- इति तदेतज्ज्वड़मूकमूर्खादीनामन्यशून्यादीनाञ्च शब्दा-
- नामपरिग्रहापत्त्या परित्यक्तमस्माभिः । नैमित्तिकसंज्ञां
- लक्षयति । जात्यवच्छिन्नसङ्केतवती नैमित्तिकी मता ।
- जातिमात्रे हि सङ्केताद्व्यक्तेर्भानं सुदुष्करम् । यन्नाम
- जात्यवच्छिन्नसङ्केतवत् सा नैमित्तिकी संज्ञा यथा गोचैत्रा
- दिः सा हि गोत्वचैत्रत्वादिजात्यवच्छिन्नमेव गवादिकम-
- भिधत्ते न तु गोत्वादिजातिमात्रं गोपदं गोत्वे सङ्के-
- तितमित्याकारकग्रहात्गामानयेत्यादौ गोत्वादिना
- गवादेरन्वयानुपपत्तेः एकशक्तत्वग्रहस्यान्यानुभावकत्वेऽतिप्रस-
- ङ्गात् । ननु गामानयेत्यादौ गोत्वादिकर्मताकत्वेनैवानय-
- नादेरन्वयधीर्गोत्वादिशक्तत्वेन पदज्ञानस्य गोत्वाद्यन्वय-
- बुद्धिं प्रत्येव हेतुत्वात् सुबर्थकर्म्मत्वादौ खाश्रयवृत्तित्वसम्ब-
- न्धेनैव प्रकृत्यर्थस्य गोत्वादेः साकाङ्क्षत्वात् गवादिकर्मता-
- कत्वेन बोधस्तूत्तरकालमोक्षेपात् कर्मत्वं गोवृत्ति गोत्वनिष्ठ-
- कर्मतात्वात् आनयनं गोवृत्तिकर्म्मताकं गोत्ववृत्तिकर्मताकत्वा-
- दित्याद्यनुमानसाम्राज्यात् । न च वस्तुगत्या यद्गोत्व-
- शक्तत्वं तज्ज्ञानस्य हेतुत्वे गोपदं जातिशक्तमित्येवं
- ग्रहादपि शुद्धगोत्वस्यान्वयवोधापत्तिः गोत्वत्वावच्छिन्नशक्त-
- त्वप्रकारकज्ञानत्वेन तथात्वे च लाघवाद्गोत्वावच्छिन्नशक्त-
- ताप्रकारकज्ञानत्वेनैव हेतुत्वं गोत्वत्वाद्यप्रवेशादिति वाच्यम्
- गोपदं गोत्वशक्तमित्याकारज्ञानत्वेन हेतुतायां शुद्धस्यैव
- गोत्वस्य विषयितासम्बन्धेन शक्त्यऽशे विशेषणत्वेन गोत्वत्वा-
- दिप्रवेशगौरवस्यायोगात् । न हि ससवायान्यसष्वन्धेन
- जातेः प्रकारतायां धर्म्मावच्छिन्नत्वनियमोमानाभावात्
- अयं गौरित्यादिव्यवसायोत्तरमिमं गोत्वेन जानामीत्या-
- कारे तस्य ज्ञाततालिङ्गकानुमानेऽनुव्यवसाये वा व्यभि-
- चाराच्च प्रागनुपस्थित्या गोत्वत्वादेस्तत्रोपनयायोगात् ।
- एतेन जातेर्निरवच्छिन्नप्रकारत्वस्य सनवायसंसर्गावच्छि-
- न्नत्वनियमात् केवलस्य गोत्वादेः शक्त्यंशे विषयतया
- सुबर्थकर्म्मत्वांशे च परम्परया प्रकारत्वायोग इत्यपि प्रत्युक्तम्
- उक्तस्थल एव व्यभिचारात् । नचैवं कालोगौः पदं
- गौरित्यादिप्रत्ययोऽपि प्रमा स्यात् कालिकादिसम्बन्धेन
- गोत्वादिमति तत्प्रकारकत्वादिति वाच्यं कालिकादि-
|
- सम्बन्धेन गोत्वादेः प्रामाण्यस्य गोत्वत्वाद्यवच्छिन्नप्रकार-
- तागर्भत्वेन तादृशमतेः प्रमात्वायोगात् अन्यथा
- घटत्वादिजातेः संस्थानसमवेतत्वमते संयोगोघट इत्यादिप्र-
- तीतेः समवायेन प्रमात्वस्य दुर्व्वारतापत्तेः शाब्दस्येव
- प्रत्यक्षस्यापि कालोगौरित्यादिबोधस्य नियमतोगवाद्य-
- भेदावगाहित्वैनैवाप्रमात्वसम्भवाच्चेति भट्टमतानुवर्त्तिनः ।
- तन्मन्दं विनाप्याक्षेपं गामानयेत्यादितोगवादिकर्म्मता-
- कत्वेनानयनादेरन्वयबोधस्यानुभविकत्वात् गौर्गच्छतीत्यादौ
- शुद्धगोत्वे गतिमत्त्वाद्यन्वयस्यानुभवेनास्पर्शनात् गोत्वत्वा-
- द्यनुपस्थित्या च गोत्वं गच्छतीत्याद्यनुमवस्यासम्भवात्
- स्वाश्रयवृत्तित्वसम्बन्धेन गतिमत्त्वादिहेतुना गवादौ
- साक्षात्सम्बन्धेन गतिमत्त्वाद्याक्षेपस्य व्यभिचारादिदोषेण
- दुःशकत्वाच्च । एतेन कर्म्मत्वादौ गोत्वादेः स्वाश्रय
- वृत्तित्वसम्बन्धेनान्वयबोधोत्तरं कर्मत्वस्य गोत्ववृत्तित्वं
- गोवृत्तित्वं विनानुपपन्नमित्यनुपपत्तिधीसहकृतेन गामित्या-
- दिवाक्येनैव कर्मत्वं गवीयमित्यौपादानिकोगवादिव्यक्ते-
- र्बोध इति श्रीकरमतमप्यनादेयं मिथोविरुद्धाभ्यां शाब्द-
- त्वार्थापत्तित्वाभ्यामवच्छिन्नबोधस्यालीकत्वेन शब्दानुप-
- पत्तिभ्यां सम्भूय तथाविधौपादानिकबोधस्य जननायो-
- गाच्च । यत्तु गौर्ज्जायते गौर्नश्यति सर्व्वत्र गोत्वादि-
- जातिशक्तेनैव गवादिपदेन लक्षणया गोत्वादिविशिष्टा
- व्यक्तिर्बोध्यते व्यक्तीनां बहुत्वेनान्यलभ्यत्वेन च तत्र
- शक्तेरकल्पनात् तात्पर्य्यानुपपत्तेरपि लक्षणाया वीजत्वात्
- यदाहुर्मण्डनाचार्य्याः “जातेरस्तित्वनास्तित्वे न हि कश्चि-
- द्विवक्षति । नित्यत्वाल्लक्षणीयायाव्यक्ते स्ते हि विशेषणे” इति
- तदपि तुच्छं व्यक्तिविनांकृतायां गोत्वादिजातौ गवादिपदस्य
- मुख्यप्रयोगाभावेन तन्मात्रस्याशक्यत्वे तद्वति गवादौ
- लक्षणाया वक्तुमशक्यत्वात् शक्यसम्बन्धस्यैव लक्षणात्वात् ।
- न च गोरन्यो महिष इत्यादौ पञ्चम्यर्थेऽवधित्वे प्रतियो-
- गित्वे वा स्वावच्छेद्यत्वसम्बन्धेन शुद्धस्य गोत्वादेरन्वयात्तथा-
- विधस्थल एव जातौ मुख्यप्रयोगः तत्र पञ्चम्याः स्वार्थे-
- ऽवधित्वादौ स्वनिष्ठगोत्वावच्छेद्यत्वसंसर्गेण प्रकृत्यर्थस्य
- गवादेरन्वयबोधकत्वात् अन्यथा गोगोत्वयोर्भक्तिशक्तिभ्यां
- गोपदेन बोधने वृत्तिद्वययौगपद्यापत्तेः वस्तुतः शुद्धस्य
- गोत्वादेः शाब्दधीप्रकारतायाःसमवायावच्छिन्नत्वनियमात्त-
- स्यावधित्वादौ स्वावच्छेद्यत्वादिसम्बन्धेनान्वयोदुर्घटण्व ।
- द्रव्यं घट इत्यादिप्रतीतेः समवायेन प्रमात्वानुरोधाद्घट-
- त्वजातेर्नानात्वोपगमादिति । प्रभाकारास्तु गोत्वशक्तत्वेन
|
पृष्ठ ०६०६
- ज्ञात’ पदं ताद्रूप्येण गोशाब्दत्वावच्छिन्नं प्रत्येव हेतुरतोगो-
- त्वशक्तिग्रहान्न गोत्वेन गवयादे! न वा द्रव्यत्वादिना
- गोरन्वयधियोऽतिप्रसङ्गः । नचैवं जातेरिव व्यक्तेरपि शक्य-
- त्वमावश्यकं न हि गवदिपदस्य शक्यत्वं जन्यत्वमपि तु
- जन्यशाब्दधीविषयत्वं तच्च गोत्वस्येव गोरप्यविशिष्टनिति
- वाच्यं गवादिपदधर्म्मिकस्वशक्तताज्ञानत्वावच्छिन्नशाब्दधी-
- जनकतावच्छेदकत्वेन गोत्वादेरेव गवादिपदशक्यत्वात्
- गोत्वशक्ततापेक्षया गोशक्तत्वस्य गुरुतया तज्ज्ञानत्वस्य
- शाब्दं प्रति जगकतानवच्छेदकत्वात् । अतएवान्वय-
- बुद्धेरात्मस्वात्मत्वाद्यवगाहित्वेऽपि न तेषां पदशक्य-
- त्वम् । अस्तु वा गोत्वादिशक्तत्वेन ज्ञातं पदं गोत्वा-
- दिशाब्दत्वावच्छिन्नं प्रत्येव हेदुर्व्विशेष्यतया तादृशशाब्दं
- प्रति समवायेन गोत्वस्य नियामकत्वकल्पनाच्च नातिप्रसङ्गः
- गोत्वादिना गवादेरिव गवयादेर्गोत्वादिनान्वयबोधत्वाव-
- च्छिन्नं प्रत्यपि विनिगमकाभावेन गोत्वादिशक्तिज्ञानत्वेन
- हेतुत्वमपेक्ष्य गोत्वशाब्दत्वावच्छिन्नं प्रत्येव गोत्वस्य तच्छक्त-
- त्वज्ञानस्य च द्वयोः कारणतायामेव लाघवात् वस्तुतो-
- गोत्वशाब्दऽ प्रति गोत्वशऐज्ञानमेव हेतुर्नतु गोत्वमपि
- जातिव्यक्त्योस्तुल्यवित्तिवेद्यत्वनियमादेव गीव्यक्तीनान्त-
- दुविषयत्वसिद्धेः प्रमाणविरहादेव गोत्वादिना गवयादि-
- विषयत्वस्य तत्रासिद्धेश्च । यद्यपि जातेर्व्विषयत्वं
- तत्समवायिव्यक्तिविषतया निरूपितमिति न व्याप्तिर्गो-
- त्वाद्यालोचने कालोगोत्ववानित्यादिबोधे च व्यभिचारात्
- नापि जातेर्निरवच्छिन्नप्रकारतायास्तथात्वनियमः गौरयमि-
- त्यादिज्ञानस्य प्रत्यक्षे गोत्वेनेमं जानामीत्याकारे तथात्वा
- त्तथाप्यन्वंयबोधस्य निरवच्छिन्नगोत्वादिप्रकारत्वं गवादि-
- विशेष्यतानिरूपितमेवेति व्याप्तिस्तादृशविशेष्यताकत्वं
- विना शुद्धस्य गोत्वादेरन्वयबीधेनास्पर्शनात् गुरूणां गोत्वेन
- गवयादिबोधस्यालीकत्वात् । अतएव गवाद्यंशे गोत्वादि-
- प्रकारकबोधः समवायेनेव सम्बन्धान्तरेणापि तत्प्रकारकः
- स्याद्गोत्वप्रकारतायां गोविशेष्यताकत्वस्येव समवायावच्छिन्न-
- त्वस्यापि व्याप्तिबलेन सिद्धावपि सम्बन्धान्तरावच्छिन्नत्वस्य
- प्रमाणविरहेणासिद्धेः । एवञ्च गोत्वादिशक्तिज्ञानत्वेन
- जनकतायां विषयतावच्छेदकत्वाद्गोत्वादिरेव गवादिपद-
- स्यार्थः गवादो तद्व्यवहारस्तु तादृशावच्छेदकधर्म्म वत्त्व-
- प्रयुक्तोगौणः । नचैवं गम्यादिधातोरपि गत्यादौ
- शक्तिर्नस्याद्गतित्वादिशक्तिज्ञानादेव ताद्रूप्येण गत्यादेर्गम्या-
- दिधातुतोबोधसम्भवादिति वाच्यं गुरूणां गतित्वादेः
|
- संस्थानाव्यङ्ग्यत्वेन जातित्वासम्भवात् उत्तरसंयोगाद्यवच्छि-
- न्नक्रियात्वाद्युपाधिरूपे च तत्र स्वऌपतः शक्तिग्रहा-
- योगात् सखण्डस्य निरवच्छिन्नप्रकारत्वाभावात् निरुक्त-
- क्रियात्वत्वावच्छिन्नशक्तताज्ञानत्वेन हेतुतामपेक्ष्य लघुतया
- तादृशक्रियात्वावच्छिन्नशक्तिमत्त्वज्ञानत्वेनैव तथात्वौचित्यात्
- गुरुत्वादिप्रयोज्यस्य पतनत्वादेरखण्डत्वे पत्यादिधातूना-
- न्तत्र शक्तत्वेऽपि क्षत्यभावाच्च पश्वादिपदानामपि लोमव-
- ल्लाङ्गूलादिपर्य्यवसिते पशुत्वादिमात्रे न शक्तिस्तत्र वृत्ति-
- ग्रहोत्तरं तन्मात्रस्यैवानुभवेन तदाश्रयस्यालाभात्
- लोमादीनां स्वाश्रयतुल्यवित्तिवेद्यत्वस्य लोमवल्लाङ्गूल-
- वान् देश इत्यद्यनुभवे व्यमिचारादिति प्राहुः”
- तत्र परिभाषिकी ओपाधिकी च तत्रैव लक्षिता यथा
- “उभयावृत्तिधर्म्मेण संज्ञा स्यात् परिभाषिकी ।
- औपाधिकी त्वनुगतोपाधिना या प्रवर्त्तते । उभयावृत्तिधर्मा-
- वच्छिन्नसङ्केतवती संज्ञा पारिभाषिकी यथाकाशडित्थादिः
- सा हि द्वितीयावृत्तिनैव शब्दादिना रूपेण् तदाश्रय-
- मभिधत्ते नचाकाशादिपदस्य गगनादौ निरवच्छिन्नैव
- शक्तिः पटादिपदस्यापि पटादौ तादृशशक्त्यापत्तेः पटे
- शक्तमप्रि पटपदं न पटत्वावच्छिन्ने शक्तिमदित्यादिग्रहोत्तरं
- ततः पटत्वविशिष्टस्याननुभवादवश्यं तच्छक्तिरवच्छिन्नेति
- चेत् शब्दवति शक्तमप्याकाशपदं न शब्दवत्त्वावच्छिन्न-
- शक्तिमदित्येवं ग्रहदशायामाकाशादिपदान्न शब्दवत्त्वेन
- गगनस्य प्रतीतिरतस्तस्यापि शब्दवत्त्वावच्छिन्नैव तत्र
- शक्तिरिति विभाव्यताम् । एतेन पटत्वाद्युपलक्षिते
- धर्म्मिण्येव शक्तिग्रहस्य ताद्रूप्येण पटाद्यनुभवं प्रति
- हेतुत्वान्मास्तु पटादिपदस्यापि पटत्वाद्यवच्छिन्ने शक्तिः ।
- परन्तु पटत्वाद्युपलक्षितव्यक्तिष्वेवेति शिरोमण्युक्त्रमपि
- प्रत्युक्तं शब्दोप्रलक्षिते धर्मिणि शक्तिग्रहादेवाकाशादि-
- पदात्तदंशे निर्व्विकल्पकात्मकस्मरणमन्वयानुभवश्चोत्पद्यत
- इति तु नानुभविकं न वा यौक्तिकम् । या चानुगतो-
- पाध्यवच्छिन्नसङ्केतवती संज्ञा सा त्वौपाधिकी यथा
- भूतदूतादिः सा हि सचेतनावृत्तिविशेषगुणवत्त्ववार्त्ता-
- हारकत्वाद्यनुगतोपाधिपुरस्कारेणैव प्रवर्त्तते शब्दादिस्तु
- सखण्डत्वेनोपाघिरपि नानुगतोद्वितीयावृत्तित्वादतः पारि-
- भाषिके गगनादिपदे नातिप्रसङ्गः । घटत्वादेः संस्था-
- नवृत्तित्वमते यदि घटादिपदं विलक्षणसंस्थानवत्त्वेन शक्त
- तदौपाधिकमेव यदि च परम्परया वैलक्षण्यवत्त्वेन । तदा
- नैमित्तिकमेव । वस्तुतः सामान्यस्य शाब्दबुद्धौ स्वरूपतः
|
पृष्ठ ०६०७
- प्रकारत्वं समवायेनैवेत्यगिहितं प्रागिति” । लक्षकलक्षण
- मुक्तं तत्रैवं “यादृशार्थस्य सम्बन्धवति शक्तन्तु यद्भवेत् ।
- तत्र तल्लक्षकं नाम तच्छक्तिविधुरं यदि । यादृशार्थसम्बन्धवति
- यन्नाम सङ्केतितं तदेव तादृशार्थेलक्षकं यदि तादृशार्थेशक्ति-
- शून्यं भवेत् । सैन्धापादयश्च शब्दास्तुरगादिसम्बन्धिनि लक्षका
- अपि लवणादाविव तुरगादावपि शक्ताएवागङ्गादयस्तु तीरा-
- दावसङ्केतिताः तत्सम्बन्धिनीरादिशक्तत्वेन गृहीताएव तीराद्य-
- न्वयं बोधयन्तीति तत्र लक्षका एव । शक्तत्वेपूर्ब्बपूर्ब्बप्रयुक्तत्वा-
- पत्तेः तस्य तद्व्याप्यत्वात् कयञ्चित्तीरादिसम्बन्धित्वेन गृही-
- तादपि गङ्गादिपदात्तीरादेरन्वयाबोघेन तीराद्यशक्तत्वे सति
- तत्सम्बन्धितामात्रन्तु न लक्षणा गङ्गागङ्गायां घोष
- इत्यादावपि गङ्गागङ्गेतिभागस्य निरुक्तलक्षणायाः
- सत्त्वेन वैयर्थ्याषावप्रसङ्गाच्च । एतेन तीराद्यशक्तत्वे सति
- तीरादिपरत्वं तीरादिसम्बन्ध्यनुभावकत्वं वा तल्लक्षकत्व-
- मित्यपि प्रत्युक्तम् अपभ्रंशस्यापि लक्षकत्वापाताच्च नचेष्ठा-
- पत्तिः शक्तिलक्षणान्यतरवृत्तिमत्त्वे तस्य साधुतापत्तेः
- पदसाधुतायां वृत्तिमत्त्वस्यैव तन्त्रत्वात् । किञ्चानुभावकत्वं
- यद्यनुभवस्योपधायकत्वं तदा घोषादिपदसाकाङ्क्षस्य
- गङ्गादिपदस्य तीरलक्षकता न स्यात् तेन तीरसम्ब-
- न्धिनो नीरस्यानुभवानर्ज्जनात् स्वरूपयोग्यत्वन्तु गङ्गा-
- यामिति वाक्यस्य दुर्व्वारं तस्याप्याघेयताधर्मिकनीरानु-
- भवं प्रति नीरार्थकनामोत्तरसप्तमीत्वेन तथात्वात्
- नीराधेयत्वस्य च नीरसम्बन्धित्वानपायात् । ननु वाक्य-
- मपि लक्षकं भवत्येव कथमन्यथा चित्रगुसमुदायस्य
- लक्षणया चित्रगोस्वामिनां बोधः कथं वा गभीरायां
- नद्यां घोष इत्यादौ गभीरनदीतीरस्य न हि तत्र
- नदीपदं तीरलक्षकं गभीरायामित्यस्यानन्वयापत्तेः न हि
- तीरं गभीरं नापि गभीरपदम् । तथा नद्यामित्यस्यायोग्यता-
- पत्तेः नापि तीरं नदी तस्माद्वाक्यमेव तत्र गभीरनदीतीरल-
- क्षकमिति मीमांसकाः तन्न गभीरायां नद्यामिति विभक्त्य-
- न्तभागस्य तादृक्तीरलक्षकत्वे घोषाद्याधेयन्वेन तदन्वया-
- नुप्रपत्तेः समासादन्यत्र नामार्थयोर्भेदान्वयस्याव्युत्पन्न-
- त्वात् । एतेन तादृशतीरवृत्तितायामेव तद्भागस्य लक्षण-
- यापि न निस्तारः तादृशतीरवृत्तेश्च लक्ष्यत्वे घोषादाव-
- भेदेन तदन्वयायोगः समासभिन्नस्थले नामार्थयोरभे-
- दान्वये ताम्नोः समानविभकिकत्वस्य तन्त्रत्वात् । न च
- गभीरायां नदीति भागस्यैव तादृकतीरलक्षकत्वम् । तदर्थे
- विभक्त्यर्थ स्यानन्वयापत्तेर्नहि स भागः प्रकृतिर्येन तदर्थे
|
- विभ त्यर्थस्यान्वयः स्यात् गभीरायां नदीं व्रजेत्यादितो-
- ऽपि गभीरनदीतीरकर्म्मकत्वादिबोधापत्तेस्तद्भागस्य वाक्या-
- दन्यत्वाच्च तस्माद्गभीरापदं नदीपदं वा तत्र गभीरनदीतीर
- लक्षकं पदान्तरन्तु तत्र तात्पर्य्यग्राहकमिति सिद्धान्त-
- विदः । चट्पटाद्यनुकरणस्य हुंफड़ादिस्तोभस्य च
- स्वानुभावकत्वमपभ्रंशानामिव शक्तिभ्रमादेव । गौर्व्वाहीक
- इत्यादौ तु शक्यार्थसदृशत्वावच्छ्रिन्नबोधकतया गौणं
- गवादिपदं गोसदृशादौ लक्षकमेव न ततोभिद्यते” । तस्य
- विभागोऽपि दर्शितस्तत्रैव । “जहत्स्वार्थाजहत्स्वार्थनिरूढा-
- धुनिक्यादिकाः । लक्षणा विविधास्ताभिर्लक्षकं स्यादने-
- कधा । काचिल्लक्षणा शक्यावृत्तिरूपेण बोधकतया-
- जगत्स्वार्थेत्युच्यते यथा तीरत्वादिना गङ्गादिपदस्य ।
- काचिच्छक्यलक्ष्योभयवृत्तिना शक्यवृत्तिनैव वा रूपेणा-
- नुभावकत्वादजहत्स्वार्था यथा द्रव्यत्वादिना नीलघट-
- त्वादिना च घटपदस्य । काचित्लक्ष्यतावच्छेदकीभूततत्तद्रू-
- पेण पूर्ब्बपूर्ब्बं प्रत्यायकत्वात् निरूढा यथा आरुण्या-
- दिप्रकारेण तदाश्रयद्रव्यानुभावकत्वादरुणादिपदस्य ।
- काचिच्च पूर्ब्बपूर्ब्बं ताद्रूप्येणाप्रत्यायकत्वादाधुनिकी यथा
- घटत्वादिना पटादिपदस्य । आदिना शक्यसदृशत्वप्रकारेण
- बोधकतया गौण्युपगृह्यने यथा अग्निर्माणवक इत्या-
- दावग्निसदृशत्वादिना अग्न्यादिपदस्य । तदेवं विविध-
- लक्षणावत्त्वाल्लक्षकं नामापि जलत्स्वार्थादिभेदादनेकविध-
- मित्यर्धः । स्यादेतत् यदि तीरादिलक्षकतया गङ्गादि-
- पदस्य ज्ञानं तीराद्यनुभवे भवेद्धेतुर्भवेदप्युक्तक्रमेण लक्ष-
- काणां विभागः नत्वेतदस्ति तीराद्यन्वयबोधं प्रति तीरादि-
- शक्तेत्वेनैव पदज्ञानस्य लाघवेन हेतुतया लक्षकाणा
- मननुभावकत्वात् गुरूणाम् अग्नौ शैत्यं स्पृशेदित्यादौ शक्येन
- दहनादिनेव गङ्गायां घोव इत्यादौ लक्षितेन तीरा-
- दिना सार्द्धंमगृहीतासंसर्गकस्यैव सप्तम्यर्थाधेयत्वादेरन्वय-
- बोधप्रविष्टत्वादिति चेन्न प्रकृत्यर्थावच्छिन्नस्यैव प्रत्ययार्थस्य
- धर्म्यन्तरेऽन्वयबुद्धेर्व्युत्पन्नतया तीराद्यविशेषितस्य सुबर्थाधे-
- यत्वादेर्घोषादावान्वयबोधायोगात् । न च शक्तस्यैव पदस्य
- स्वसाकाङ्क्षपदान्तरोपस्थाप्यार्थान्वितस्वार्थधर्मिकान्वयबीधं
- प्रति हेतुत्वात्नान्वयबुद्धौ लक्ष्यार्थस्य प्रवेशः कुन्ताः
- प्रविशन्तोत्यादौ लक्ष्यस्य कुन्तधरादेरन्वयविशेष्यतानुपपत्तेः
- कुमतिः पशुरित्यादौ लक्ष्यार्थयोर्मिथोऽन्वयबोधस्याप्या-
- नुभविकत्वाच्च तस्माच्छक्तेरिव भक्तेरपि ज्ञानमनुभावकं
- भवत्येव कार्य्यतावच्छेदकस्य सङ्कोचाच्च न व्यभिचारः” ।
|
पृष्ठ ०६०८
- लक्षणाभेदेन लक्षकशब्दभेदा बहवः लक्षणाभेदाश्च
- सा० द० दर्शिताः लक्षणशब्दे विवृतिः । तत्र योगरूढ़लक्ष-
- णमुक्तं शब्दश० । “स्वान्तर्निविशिष्टशब्दार्थस्वार्थयोर्बोधकृ-
- न्मिथः । योगरूढं न यत्रैकं विनान्यस्यास्ति शाब्दधीः ।
- यन्नाम स्वावयववृत्तिलभ्यार्थेन समं स्वार्थस्यान्वयबोध-
- कृत् तन्नाम योगरूढं यथा पङ्कजकृष्णसर्पाध-
- र्म्मादि तद्धि स्वान्तर्निविष्टानां पङ्कादिशब्दानां वृत्तिल-
- भ्येन पङ्कजनिकर्त्रादिना समं स्वशक्यस्य पद्मादेरन्वयानु-
- भावकम् । पङ्कजमित्यादितः पङ्कजनिकर्तृ पद्ममित्यनुभवस्य
- सर्वसिद्धत्वात् । इयांस्तु विशेषोयद्रूढमप्रि मण्डपरथका-
- रादिपदं योगार्थविनाकृतस्य रूढ्यर्थस्येव रूढ्यर्थविना-
- कृतस्यापि योगार्थस्य बोधकं, मण्डपे शेते इत्यादौ
- योगार्थस्य मण्डपानकर्त्रादेरिव मण्डपं भोजयेदित्यादौ
- समुदितार्थस्य गृहादेरयोग्यत्वेनान्वयाबोधात् । योग
- रूढ़न्तु पङ्कजादिपदमवयववृत्त्या रूढ्यर्थमेव ससुदायशक्त्या
- चावयवलभ्यार्थमेवानुभावयति नत्वन्यं व्वुत्प्रत्तिवैचि-
- त्त्यात्तथैव साकाङ्क्षत्वात् । अतएव पङ्कजं कुमुदमि-
- त्यत्र पङ्कजनिकर्तृत्वेन, भूमौ पङ्कजमुत्पन्नमित्यादौ च
- पद्मत्वेन पङ्कजपदस्य लक्षणयैव कुमुदस्थलपद्मयोर्बोध
- इति वार्त्तिकम् । ननु पुष्पं पङ्कजेत्यादौ पङ्कजादेरन्वय-
- स्याबोधात् बोधाच्च पङ्गजपुष्पमित्यादौ निर्विभक्तिकेन
- पङ्कजादिपदेनोपस्याप्यार्थस्यान्वयधीसामान्यं प्रत्येव तादृ-
- शपङ्कजादिपदोत्तरशब्दोपस्थाप्यत्वं तन्त्रम् एवं पुष्पं पङ्क-
- जमित्यादौ अन्वयबोधदर्शनात्तदनुरोधेन सविभक्तिकपङ्क-
- जादिपदोपस्थाप्यार्थान्वयबोधं प्रति स्वसमानविभक्तिक-
- पदोपस्थाप्यत्वञ्च अतस्तदुपस्थापितस्य पङ्कजातादेः कथं
- पदान्तरानुपस्थापिते पद्मादावन्वय इति चेदपङ्कजवृत्तिः
- मत्तेत्यादौ स्खलदक्षरसंशोभि तरुण्या मुखपङ्कजमित्यादौ
- च व्यभिचारादुक्तव्युत्पत्तेः सङ्कोचेनेति गृहाण । न च
- धेनुपदस्य धानकर्म्मत्वविशिष्टायां गवीव पङ्कजादिपदस्यापि
- पङ्कजातत्वादिविशिष्टपद्मादौ रूढिरेवास्तु न तु
- योगरूढिरिति साम्प्रतम् अन्यत्र कॢप्तशक्तिकेम्यः पङ्कजन्यादि-
- पदेभ्य एवाकाङ्क्षादिसाचिव्येन पङ्कजनिकर्तृत्वादेर्लाभ-
- सम्भवे तद्विशिष्टस्य पद्मस्य गुरोः समुदायाशक्यत्वादनन्या-
- लभ्यस्यैव शब्दार्थत्वात् । यद्यपि कर्तृवाचकडप्रत्यय एव
- पद्मत्वविशिष्टस्य लक्षणया लाभसम्भवान्न पङ्कजभागस्य तत्र
- शक्तिरुचिता प्रकारान्तरालभ्यस्यैव शब्दशक्यत्वमित्युक्तत्वात्
- कृतिवर्त्तमानत्वयोरिवैकपदार्थयोरपि कर्तृपद्मयोर्मिथोऽ-
|
- न्वयस्य सम्भवित्वात् तथाप्यवयवार्ना शक्तेरग्रहे ग्रहेऽपि
- वा पद्मादौ तदर्थस्यान्वयधीविरोधिधीदशायां पङ्कजमस्ती-
- त्यादितः पद्ममस्तीत्याद्यनुभावार्थमवश्यम्पद्मत्वादिविशिष्टे
- पङ्कजादिभागस्य रूढिरुपेया इतरथा प्रकृत्यर्थावच्छिन्न-
- स्यैव प्रत्ययार्थस्य पदार्थान्तरेणान्वयस्य व्युत्पन्नतया डप्रत्य-
- योपस्थापितस्यापि पद्मस्यास्तित्वादिना सहान्वयानुपपत्तेः
- अतएव पङ्कजादिपदाद्गृहीतशक्तिकस्य पुंसः पङ्कजमस्ती-
- त्यादितो जात्वपि कर्त्तास्तीत्याकारकोनान्वयबोधः प्रत्यय-
- मात्रोपस्थाप्यस्य कर्त्तुरन्यत्रान्वये निराकाड़्क्षत्वादिति
- वक्ष्यते । किञ्चैवमेकाक्षरकोषावधृतशक्तिकानां कखादि-
- प्रत्येकवर्णानामेव निरूढलक्षणया तत्तदर्थानुभावकत्वस-
- म्भवादकनखादिसमुदायस्यापि तत्तदर्थे शक्तिर्व्विलीयेत
- कादिप्रत्येकवर्ण्णस्य शक्तिग्रहं विनापि अकादिशब्दादका-
- देरनुभवार्थं तत्र समुदाये शऐरिति तु प्रकृतेऽपि
- समानं डादिप्रत्ययमात्रस्य पद्मादौ वृत्तिमत्त्वाग्रहेपि
- पङ्कजादिसमुदायात् पद्मादेरनुभवस्य सर्व्वसिद्धात् । नचैवं
- चित्रगुरित्यादावपि चित्रगोखाम्यादौ समुदायस्य शक्ति-
- प्रसङ्गः समासत्वस्याविशिष्टत्वादिति वाच्यम् अगृहीता-
- वयववृत्तिकस्य पुंसस्ततोऽर्थानधिगमेनावयवानां वृत्तेरव-
- श्यापेक्षायां तेषामेव तथाविधार्थबोधकत्वौचित्यस्य वक्ष्यमा-
- णत्वादिति” योगरूढभेदस्तत्रैवोक्तः । “सामासिकं
- तद्धिताक्तमिति तत् द्विविधं भवेत् । योगरूदं कृदन्तस्य
- समासत्वव्यवस्थितेः । तत् योगरूढं सामासिकं समासा-
- त्मकं कृष्णसर्पादि तद्धिताक्तं वासुदेवादि । कृदन्तस्य
- पङ्कजादियोगरूढस्य सामासिक एवान्तर्भाव इति नाधि-
- क्यम् । यौगिकलक्षणविभागौ तत्रैव । “योगलभ्यार्थ-
- मात्रस्य बोधकं नाम यौगिकम् । समासस्तद्धिंताक्तञ्च
- कृदन्तञ्चेति तत्त्रिधा । यन्नाम स्वान्तर्निविष्टशब्दानां
- योगलभ्यस्यैव यादृशार्थस्यान्वयबोधं प्रति हेतुस्तन्नाम
- तादृशार्थे यौगिकम् । योगरूढन्तु कृष्णसर्पादिपदं
- योगेनावच्छिन्नस्य रूढ्यर्थस्य बोधकं न तु तन्मात्रस्य
- तच्च यौगिकं त्रिविधं समासस्तद्धिताक्तं कृदन्तञ्चेति । द्वन्द्वो-
- ऽपि समासः स्वघटकशब्दानामाकाङ्क्षया लभ्यस्य धवखदि-
- राद्यर्थस्यान्वयबोटकतया यौगिकएव । सर्व्वञ्चेदं रूढान्य-
- त्वेन विशेषणीयं नातः कृष्णसर्पादौ वासुदेवादौ पङ्गजादौ
- च योगरूटेऽतिप्रसङ्गः । ब्राह्मणी श्वश्रूः शूद्रे त्यादौ ङीवादेः
- स्त्रीत्ववाचित्वे तादृशं नाम यौगिकमेव अन्यथा तु स्त्री-
- त्वादिमति तत्तदर्थे रूढमेव नातोविभागस्य व्याघातः” ।
|
पृष्ठ ०६०९
- वैयाकरणमते समासानां योगरूढ़त्वमेव यथोक्तं” वै० भू० ।
- “समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् । बहूनां वृत्ति-
- धर्म्माणां वचनैरेव साधने । स्यान्महद्गौरवं तस्मादेकार्थी
- भाव आश्रितः । चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्ज-
- नम् । कर्त्तव्यं ते न्यायसिद्धं त्वन्माकं तदिति स्थितिः ।
- अषष्ठ्यर्थबहुब्रीहौ व्युत्पत्त्यन्तरकल्पना । कॢप्तत्यागश्चास्ति
- तव तत् किं शक्तिं न कल्पयेः । समास इति वृत्ति-
- मात्रोपलक्षणम् । “समर्थः पदविधिः” इत्यत्र पदमुद्दिश्य
- योविघोयते समासादिः स समर्थः विग्रहवाक्याभिधान-
- शक्तः सन् साधुरिति सूत्रार्थस्य भाष्याल्लाभात् ।
- पदोद्देश्यकविधित्वञ्च कृत्तद्धितसमासैकशेषसनाद्यन्तघातुरूपासु
- पञ्चस्वपि वृत्तिष्वस्त्येव । विशिष्टशक्त्यस्वीकर्त्तृणां मते दूषणं
- शक्तिसाधकमेवेत्याशयेनाह पङ्कजशब्दवदिति । पङ्कज-
- निकर्त्तुरपि योगादेवोपस्थितौ तत्रापि समुदायशक्तिर्न
- सिध्येत् । न च पद्मत्वरूपेणोपस्थितये सा कल्प्यत इति
- वाच्यम् । चित्रग्वादिपदेऽपि स्वामित्वेनोपस्थितये
- तत्कल्पनावश्यकत्वात् । लक्षणयैव तथोपस्थितिरिति चेत्
- पङ्कजपदेऽपि सा सुवचा । एवं रथकारपदेऽपि तथा च
- “वर्षासु रथकारोऽग्निमादधीत” इत्यत्रापि विना लक्षणां
- कॢप्तयोगेन ब्राह्मणादिविषयतयैंवोपपतौ तत्कल्पनां कृत्वा
- जातिविशेवस्याघिकारित्वं प्रकल्प्यापूर्ब्बकल्पनमयुक्तं स्या-
- दिति भावः । साधकान्तरमाह बहूनामिति वृत्तेर्धर्म्मा
- विशेषणलिङ्गसंख्याद्ययोगादयस्तेषां वचनैरेव साधने
- गौरवमित्यर्थः । अयं भावः विशिष्टशक्त्यस्वोकारे राज्ञः
- पुरुष इत्यत्रेव राजपुरुष इत्यत्रापि स्याद्विशेषणाद्यन्वयः
- राजपदेन स्वतन्त्रोपस्थितिसत्त्वात् । विभाषावचनञ्च
- ससासनियमवारणाय कार्य्यमिति । ननु “सविशेषणा-
- नामिति” वचनान्न विशेषणाद्यन्वयः विभाषावचनञ्च
- कृतमेवेत्याशङ्क्य समाधत्ते वचनैरेवेति । न्यायसिद्धमेव
- सूत्रम् । व्यपेक्षाविवक्षायां वाक्यस्य एकार्थीभावे समास-
- स्येति स्वभावत एव प्रयोगनियमसम्भवात् । सविशेषणेत्यपि
- विशिष्टशक्तौ राज्ञः पदार्थैकदेशतयान्वयासम्भवात् न्याय-
- सिद्धमिति भावः । अतएव व्यपेक्षापक्षमुद्भाव्य अर्थतस्मिन्
- व्यपेक्षायां सामर्थ्ये योऽसावेकार्थीभावकृतो विशेषः स
- व्यक्तव्य इति भाष्यकारेण दूषणमप्युक्तम् । तथा
- धवखदिरौ, निष्कौशाम्बिर्गोरथो घृतघटो गुड़धानाः
- केशचूड़ः सुवर्णालङ्कारो द्विदशाः सप्तपर्ण इत्यादावितरेतरयो-
- गादिक्रान्तयुक्तपूर्णमिश्रसङ्घातविकारसुच्प्रत्ययलोपो, वी-
|
- प्साद्यर्थोवाचनिको वाच्य इत्यतिगौरवं स्यादिति ।
- दूषणान्तरमाह । चकारादीति आदिना घनश्यामः
- हंसगमनैत्यादाविवादीनां पूर्ब्बोक्तानाञ्च संग्रहः । दूषणा-
- न्तरमाह । बहुव्युत्पत्तिभञ्जनमिति । अयमाशयः चित्र-
- गुरित्यत्र स्वाम्यादिप्रतीतिरनुभवसिद्धा । न च तत्र
- लक्षणा प्राप्तोदकोग्राम इत्यादौ तदसम्भवात् । प्राप्ति-
- कर्त्रभिन्नमुदकमित्यादिबोधोत्तरं तत्सन्धन्धिग्रामलक्षणाया-
- मप्युदककर्तृकप्राप्तिकर्म्मग्रामैत्यर्थालाभात् । प्राप्तेति
- क्तप्रत्ययस्यैव कर्त्रर्थकस्य कर्म्मणि लक्षणेति चेत्तर्हि
- समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरुदकाभिन्न-
- प्राप्तिकर्म्मेति स्यात् । अन्यथा समानाधिकरणप्रातिपदि-
- र्थयोरभेदान्वयव्युत्पत्तिभङ्गापत्तेः प्राप्तेर्धात्वर्थतया कर्तृता-
- सम्बन्धेन भेदेनोदकस्य तत्रान्वयासम्भवाच्च । अन्यथा
- देवदत्तः पच्यतैत्यत्र कर्तृतासम्बन्धेन देवदत्तस्यान्वयसम्भ-
- वेनानन्वयानापत्तेः । अथोदकाभिन्नकर्तृका प्राप्तिरिति
- बोधोत्तरं तत्सम्बन्धीग्रामो लक्ष्यत इति चेन्न प्राप्तेर्धात्वर्थ-
- तया क्तार्थकर्तारं प्रति विशेष्यताया असम्भावात् ।
- प्रकृतिप्रत्यययोः प्रत्ययार्थप्राधान्यमिति व्युत्पत्तेः । प्राप्त-
- पदे प्राप्तेर्विशेष्यत्वे तस्याएव नामार्थत्वेनोदकेन
- सममभेदान्वयापत्तेश्च । एवमूढ़रथः उपहृतपशुः उद्धृतौदना
- बहुपाचिकेत्यादावपि द्रष्टव्यम् । अत्र हि रथकर्म्मक-
- वहनकर्त्ता, पशुकर्म्मकोपहरणोद्देश्यः, ओदनकर्म्मको-
- द्धरणावधिः बहुपाककत्त्रधिकरणमिति बोधाभ्युपगमात्
- अतिरिक्तशक्तिपक्षे च घटत्वविशिष्टे घटपदस्येवोदककर्तृक-
- प्राप्तिकर्म्मत्वविशिष्टे प्राप्तोदकैत्यादिसमुदायशक्त्यैव निर्वा-
- हैति भावः । साधकान्तरमाह । अषष्ठ्यर्थेति । अयं भावः
- चित्रगुरित्यादिषु चित्रगवखाम्यादिप्रतीतिर्न विना शक्तिमु-
- पपद्यते । नच तत्र लक्षणा सा हि न चित्रपदे चित्रस्वामी
- गौरितिबोधापत्तेः । गवादिमात्रस्य लक्ष्यैकदेशत्वेन तत्र
- चित्रादेरन्वयायोगात् । नच चित्राभिन्ना गौरिति शक्त्युप-
- स्थाप्ययोरन्वयबोधोत्तरं तादृशगवस्वामी गोपदेन लक्ष्यतेइति
- वाच्यम् । गोपदस्य चित्रपदस्य वा विनिगमनाविरहेण
- लक्षकत्वासम्भवात् । नच गोपदे साक्षात् सम्बन्धएव विनि-
- गमक इति वाच्यम् । एवमपि प्राप्रोदकः कृतविश्व इत्या-
- द्यषष्ठ्यर्थबहुव्रीहौ विनिगमकाप्राप्तेः । यौगिकानां कर्त्रा-
- द्यर्थकतया साक्षात्सम्बन्धाविशेषात् । नच पदद्वये लक्ष-
- णेति नैयायिकोक्तं युक्तम् बोधावृत्तिप्रसङ्गात् । न च
- परस्परं तात्पर्य्यग्राहकत्वादेकस्यैवैकदा लक्षणा न द्वयो-
|
पृष्ठ ०६१०
- रिति न बोधावृत्तिरिति वाच्यम् एवमपि विनिगमना-
- विरहतादवस्थ्येन लक्षणाया असम्भवात् । नच चरमपदे
- एव सा प्रत्ययार्थान्वयानुरोधात् प्रत्ययानां सन्निहितप-
- दार्थगतस्वार्थबोधकत्वव्युत्पत्तेरिति वाच्यम् एवं हि
- बहुव्रीह्यसम्भवापत्तेः “अनेकमन्यपदार्थे” इत्यनेकसुव-
- न्तानामन्यपदार्थप्रतिपादकत्वे तद्विधानात् । किञ्च एवं
- सति घटादिपदेष्यपि चरमवर्ण एव वाचकताकल्पना स्यात्
- पूर्ब्बबर्णानां तात्पर्य्यग्राहकत्वेनोपयोगसम्भवात् एवं सति
- चरमवर्णमात्रश्रवणेऽर्थबोधापत्तिरिति चेदत्राप्युदकपट्-
- मात्रश्रवणादर्थ प्रत्ययापत्तिस्तुल्येत्यन्यत्र विस्तरः । एवञ्च
- अषष्ठ्यर्थबहुब्रीहौ व्युत्पत्यन्तरकल्पना उक्तशक्तेः
- अगत्या शक्त्यन्तरकल्पनेत्यर्थः कॢप्तत्यागः इत्यस्य कॢप्तशक्त्योप-
- पत्तिरिति व्युत्पत्तित्यागश्च तवास्ति तत्किम् सर्ब्बत्र
- समासे शक्तिं न कल्पयेरिति वाक्यार्थः । यत्तु व्यपेक्षा-
- वादिनो नैयायिकमीमांसकादायः न समासे शक्तिः
- राजपुरुष इत्यादौ राजपदादेः सम्बन्धिलक्षणयैव राजसम्ब-
- न्ध्यभिन्नः पुरुषैति बोधोपपत्तेः । अतएव राज्ञः
- पदार्थैकदेशतया न तत्र शोभनस्येत्यादिविशेषणान्वयः । न
- वा घनश्यामनिष्कोशाम्बिर्गोरथैत्यादौ इवादिप्रयोगा-
- पत्तिः उक्तार्थतया इवक्रान्तादिपदप्रयोगासम्भवात् । न
- वा “विभाषेति” सूत्रानावश्यकत्वम् लक्षणया राजसम्बन्ध्य-
- भिन्नैति बुबोधयिषायां समासस्य, राजसम्बन्धवानिति
- बुबोधयिषायां विग्रहस्येत्यादिप्रयोगनियमसम्भवात् ।
- नापि पङ्कजपदप्रतिबन्द्री शक्तिसाधिका तत्रावयवशक्ति-
- मजानतोऽपि बोधात् । नच शक्त्यग्रहे लक्षणया तेभ्यो-
- विशिष्टार्थ प्रत्ययः सम्भवति । अतएव राजादिपदशक्त्य-
- ग्रहे राजपुरुषश्चित्रगुरित्यादौ न बोधः । नच चित्र-
- गुरित्यादौ लक्षणासम्भवेऽप्यषष्ठ्यर्थबहुब्रीहौ लक्षणाया
- असम्भवः बहुव्युत्पत्तिभञ्जनापत्तेरिति वाच्यम् प्राप्तोदक-
- इत्यादावुदकपदे एव लक्षणास्वीकारात् । पूर्व्वपदस्ययौगि-
- कत्वेन तल्लक्षणाया धातुप्रत्ययतदर्शज्ञानसाध्यतया
- विलम्बितत्वात् । प्रत्ययानां सन्निहितपदर्थ गतखार्थबोधकत्वव्यु-
- त्पत्त्यनुरोधाच्च । घटादिपदे चातिरिक्ता शक्तिः कल्प्य-
- माना विशिष्टे कल्पाते विशिष्टस्यैव सङ्केतितत्वात् । बोधक-
- त्वस्यापि प्रत्येकं वर्ण्णेष्वसत्त्वात् । प्रकृते चात्यन्तसन्निधानेन
- प्रत्ययार्थान्वयसोलभ्यायोत्तरपदे एव सा कल्प्यतैति विशेषः
- स्वीकृतञ्च घटादिपदेष्वपि चरमवर्णस्यैव वाचकत्वं मीमांसक-
- म्मन्यैरित्याहुः । अत्रोच्यते । समासे शक्त्यस्वीकारे तस्य
|
- प्रातिपदिकसंज्ञादिकं न स्यात् अर्थवत्त्वाभावात् “अर्थव-
- दधातुरप्रत्ययः प्रातिपदिकम्” इत्यस्याप्रवृत्तेः । न च “कृत्त-
- द्धितसमासा” श्चेत्यत्र समासग्रहणात् सा । तस्य नियमार्थ-
- तया भाष्यसिद्धताया वैयाकरणभूषणे स्पष्टं प्रतिपादित-
- त्वात् । समासवाक्ये शक्त्यभावेन शक्यसग्वन्धरूपलक्षणाया
- अप्यसम्भवेन लाक्षणिकार्थवत्त्वस्वाप्यसम्भवात् । अथ
- तिप्तस्झि इत्यारभ्य ङ्योस्सुविति तिपप्रत्याहारोभाष्य-
- सिद्धः तमादायातिप्प्रतिपदिकमित्येव सूत्र्यताम्
- कृतमर्थवदादिसूत्रद्वयेन । समासग्रहणञ्च नियमार्थमस्तु
- तथा च सुप्तिङन्तभिन्नं प्रातिपदिकमित्यर्थात्समासस्यापि
- सा स्यादिति चेत्तथापि प्रत्येकं वर्णेषु संज्ञावारणायार्थ-
- वत्त्वावश्यकत्वेन समासाव्याप्तितादवस्थ्यमेव । तथा च
- प्रातिपदिकसंज्ञारूपं कार्य्यमेवार्थवत्त्वमनुमापयति धूमैव
- वह्निम् । किञ्चैवं चित्रगुमानयेत्यादौ कर्म्मत्वाद्यन-
- न्वयापत्तिः प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः
- विशिष्टोत्तरमेव प्रत्ययोत्पत्तेर्विशिष्टस्यैव प्रकृतित्वात् ।
- यत्तु सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्तिरेव कल्प्यत
- इति तन्न उपकुम्भं अर्द्धपिप्लीत्यादौ पूर्ब्बपदार्थे
- विभक्त्यर्थान्वयेन व्यभिचारात् । न च तत्रापि सन्निधानमेव
- आनुशासनिकसन्निधेर्विवक्षितत्वात् तथा च यत्पदोत्तरं
- यानुशिष्टा सा तदर्थगतं स्वार्थं बोधयति । समासे च
- समस्यमानपदोत्तरमेवानुशासनमिति वाच्यम् अर्थवत्-
- सूत्रेण विशिष्टस्यैव विक्तक्त्यनुशासनात् । अथ प्रकृति-
- त्वाश्रये विभक्त्यर्थान्वय इत्येव कल्प्यत इति चेत्तर्हि
- पङ्कजमानय दण्डिनं पश्य शूलिनं पूजयेत्यादौ पङ्क-
- दण्डशूलेष्वानयनदर्शनपूजनादेरन्वयप्रसङ्गात् अघटमानये-
- त्यत्र घटेप्यानयनान्वयापत्तेश्च । न च दण्डादीनां विशे-
- षणतया न तत्रानयनाद्यन्वयः । पाकान्नीलः घर्म्मा-
- त्सुखी इत्यादौ पाकधर्म्मादिहेतुताया रूपसुखादावनन्वय-
- प्रसङ्गात् । यच्च प्रकृत्यर्थत्वं तज्जन्यज्ञानविषयत्वमात्रं
- तच्चात्राविरुद्धमिति तन्न घटं पश्येत्यत्र घटपदात्समवाये-
- नोपस्थिताकाशवारणाय वृत्त्या प्रकृत्यर्थत्वस्यावश्यकत्वात् ।
- अथ प्रत्ययप्राग्वर्त्तिपदजन्योपस्थितिविशेष्यत्वं प्रकृत्यर्थत्व-
- मितिचेन्न गामानयति कृष्णोदण्डेनेत्यत्र कृष्णे तृतीयार्था-
- न्वयप्रसङ्गात् । अथ समस्यमानपदार्थबोधकत्वं
- समासोत्तरविभक्तेः कल्प्यत इति चेन्न अकॢप्तकल्पनां कॢप्त-
- व्युत्पत्तित्यागञ्चापेक्ष्य समुदायशक्तिकल्पनस्यैव युक्तत्वादिति
- दिक् । अपि च समासे विशिष्टशक्त्यस्वीकारे राजपुरुषः
|
पृष्ठ ०६११
- चित्रगुः नीलोत्पलमित्यादौ सर्व्वत्रान्व यप्रसङ्गः ।
- राजपदादेः सम्बन्धिनि लक्षणायामपि तण्डुलः पचतीत्यादौ
- कर्मत्वादिसंसर्गेण तण्डुलादेः पाकादावन्वयवारणाय
- प्रातिपदिकार्थप्रकारकबोधऽ प्रति विभक्तिजन्योपस्थितेर्हेतु
- ताया आवश्यकत्वात् पुरुषादेस्तथात्वाभावात् । तण्डुलः
- शुक्ल इत्यादौ च प्रातिपदिकार्थकप्रथमार्थे तण्डुलादेस्तस्य
- च शुक्ले अभेदेनैवान्वयः । शुभ्रेण तण्डुलेनेत्यादौ च
- विशेषणविभक्तिरभेदार्था पार्ष्णिकोवान्वय इति नाति-
- प्रसङ्गः । तथा च समासे परस्परमन्वयासम्भवादावश्यि-
- कैव समुदायस्य तादृशे विशिष्टार्थे शक्तिः । किञ्च
- राजपुरुषैत्यादेः सम्बन्धिनि सम्बन्धे वा लक्षणा । नाद्यः
- राज्ञः पुरुष इति विवरणविरोधात् समानार्थकवाक्य-
- स्यै विग्रहत्वात् । अन्यथा तस्माच्छक्तिनिर्ण्णयोन स्यात्
- नान्त्यः राजसम्बन्धरूपः पुरुष इति बोधप्रसङ्गात् विरुद्ध-
- विभक्तिरहितप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरित्यादि
- प्रपञ्चितं वैयाकरणभूषणे । अतएव “वषट्कर्त्तुः प्रथम-
- भक्षः” इत्यत्र न भक्षमुद्दिश्य प्राथम्यविधानं युक्तम्
- एकप्रसरत्वभङ्गापत्तेरिति तृतीये, “अङ्गैः स्विष्टकृतं यजति”
- इत्यत्राङ्गानुवादेन न त्रित्वविधानं युक्तम् एकप्रसरत्वभङ्गा-
- पत्तेरिति दशमे च निरूपितं सङ्गच्छते । सङ्गच्छते
- चारुणाधिकरणारम्भः । अन्यथा “अरुणया एकहायन्या
- पिङ्गाक्ष्या सोमं क्रीणातीत्यत्रारुण्यपदवदितरयोरपि
- एकत्वादिगुणमात्रवाचकतया अमूर्त्तत्वात् क्रीणातौ
- करणत्वासम्भवस्य तुल्यत्वादारुण्यस्यैव वाक्याद्भेदशङ्काया
- असम्भवादिति प्रपञ्चितं भूषणे । तस्मात्समासशक्तिपक्षो
- जैमिनीयैरवश्याभ्युपेयैत्यःस्तां विस्तरः” ।
आख्यात त्रि० आ + ख्या--कर्मणि क्त । १ कथिते । आख्यायते-
- ऽनेन बा० करणे क्त । तिङ्रूपे प्रत्यये तल्लक्षणमाह शब्दश०
- “धात्वर्थेन विशिष्टस्यविधेयत्वेन बोधने । समर्थः स्वार्थयत्नस्य
- शब्दोवाख्यातमुच्यते” इति । व्याख्यातं चैतत् स्वेनैव
- “धात्वर्थावच्छिन्नस्वार्थयत्नविधेयताकान्वयबोधसमर्थः शब्दो
- वाख्यातं तदेव च तिङ् इत्यर्थाल्लभ्यते तिङाख्यातयोः
- पर्य्यायत्वात् । पाकश्चैत्रस्येत्यादौ नामार्थेनैव विशिष्ट
- स्वार्थकर्तृत्वस्याभिधायकः षष्ठ्यादिकोन तु धात्वर्थेन विशि-
- ष्टस्य । चैत्रः पचतीत्यादौ धात्वर्थावच्छिन्नस्य यत्नस्य विधे-
- यतया बोधकावपि नामधातू न स्वार्थस्य । चैत्रः पाचक
- इत्यादौ तु धात्वर्थविशेषितस्य यत्नस्य न विधेयता किन्तु
- कर्त्तुरेव कृतां धर्म्मिशक्तत्वातन्यथा पाचकश्चैत्र इत्यादिकम
|
- योग्यमेव प्रातिपादकार्थयोः पाचकचैत्रयोर्भेदेनान्वयस्या-
- व्युत्पन्नतया कृदर्थ कृतेश्चैत्रादावन्वयायोगाच्च । अयं पक्तुं
- कालैत्यादौ तुमादिना धात्वर्थावच्छिन्नोऽनुकूलत्वादिः,
- इयं चिकीर्षेत्यादौ च सनादिनेच्छादिरेव विधेयत्वेनानु-
- भाव्यते इति न तेष्वतिप्रसङ्गः । अत्रेदं तत्त्वम् ।
- जीवनयोन्यादिनिखिलयत्नगतं यत्नत्वमेव तिङः शक्यताव-
- च्छेदकं न तु चेष्टाया जनकत्वस्य चिकीर्षाया वा जन्यत्वस्या-
- वच्छेदकतया सिद्धं प्रवृत्तित्वम् । चैत्रोनिश्वसितीत्यादितोऽपि
- श्वासाद्यनुकूलप्रयत्नस्य प्रतीतेः । तिङर्थकृतौ च धात्वर्थस्य
- तं करोमीतिप्रतीतिनियामकः साध्यत्वाख्यविषयता
- प्रभेदस्तद्विशिष्टफलोपधायकत्वलक्षणममुकूलत्वं वा संसर्ग-
- मर्य्यादया भासते तथैव साकाङ्क्षादतोगत्यादिगोचरनिवृ-
- त्तिदशायां गच्छतीत्यादिको न प्रयोगः । “तत्र निश्वासव-
- त्त्वमात्रप्रतीतावपि प्रयत्नत्वमेव तिङः शक्यतावच्छेदकं न तु
- प्रवृत्तित्वं पचतीत्यतः पाककृतिमानिति प्रतीतेः नहि
- प्रवृत्तित्वमेव कृतित्वं पाके प्रवृत्तोऽस्मीत्यस्याप्यनुभवस्य पाकं
- करोमीत्यतोविषयवैलक्षण्यस्य सर्वसिद्धत्वात्नित्यकृतौ
- रागप्रयोज्यस्य प्रवृत्तित्वस्य बाधादीश्वरः करोतीत्यादिवाक्यस्या
- योग्यतापाताच्च । निविड़निखातस्तु पुरुषः समुत्थानगो-
- चरप्रयत्नवानपि न तदुपधायकप्रयत्नवान् अतस्तत्रायमुत्तिष्ठ-
- तीत्यादिकोन प्रयोगः नचैवमीश्वरः पचतीत्यपि स्यात् तस्यापि
- पाकानुकूलप्रयत्नवत्त्वादिति वाच्यं तिङर्थकृतेरवच्छेदकत्वेनैव
- संसर्गेण नामार्थान्वयस्य व्युत्पन्नत्वादङ्गुली पचतीत्यादि
- प्रयोगस्येष्टत्वात् अन्त्यावयविनिष्ठावच्छेदकत्वस्यैव तादृशतिङ-
- र्थ कृतेः संसर्गत्वे क्षत्यभावाच्च । नित्यप्रयत्नव्यावृत्तस्यैवानु-
- कूलत्वविशेषस्यतिङर्थकृतौ धात्वर्थस्य संसर्गत्वमित्यप्याहुः” ।
- ईश्वरो जानातीच्छति रथोगच्छ्रतीत्यादौ च ज्ञानादिमत्त्व-
- मात्रप्रतीतेः समवायित्वे, चैत्रोजानातीत्यादाववच्छेदकत्वे,
- वुद्धिरवगाहते घटोभासत इत्यादौ दैशिकाश्रयत्वे, नश्य-
- तीत्यादौ च प्रतियोगित्वे, तिङोनिरूढ़लक्षणा । कृतित्वव-
- दाश्रयत्वादेरखण्डत्वे तदवच्छिन्नेऽपि ज्ञानेच्छादेरपि
- तिङः शक्तिरेव । हस्तादिकस्त्ववयवः प्रयत्नस्यैवावच्छेदको
- न तु ज्ञानेच्छादेरपि प्रमाणाभावादतः करोजानातीत्या-
- दिको न प्रयोगः । प्रागुक्तैव वा रीतिरत्रापि । पयः
- पतति स्यन्दते इत्यादावपि पतनादेः समवायित्वमेव तिङा-
- नुभाव्यते न तु तदनुकूलं गुरुत्वद्रवत्वादि येन कृतितुल्य-
- शरीरेषु तेष्वपि तिङः शक्तिरापाद्यते । पटानां शतं
- पततीत्यादौ च शतपदार्थस्यैकदेशएव शतत्वसंख्यायां
|
पृष्ठ ०६१२
- षष्ठ्यर्थपर्य्याप्तेरन्वयात् संख्यायाः पतनादिसमवायित्व-
- विरहेऽपि न क्षतिः पटानां शतं संख्या इत्याद्यनुरोधेनैव
- शतादेर्गुणवाचित्वसम्भवात् ।
- तत्र कृत्यादिकं नाख्यातस्यार्थः किन्तु कालः संख्या
- व तयोः प्रकारान्तरालभ्यत्वात् चैत्रः पचति रथोग-
- च्छतीत्यादौ धात्वर्थस्यैव पाकगत्यादेः कृतिमत्त्वाश्रयत्वादि-
- सम्बन्धेन चैत्रादौ प्रकारत्वात् मैत्रः पच्यत इत्यादितोमै-
- त्रादेः कर्तृत्वादिना तण्डुलः पचतीत्यादौ तण्डुलादेः
- कर्मत्वादिना संसर्गेण पाकादावनन्वयेन धात्वर्थ एव
- धर्मिणि नामार्थस्य भेदेनान्वयोऽव्युत्पन्नोन तु नामार्थेऽपि
- धात्वर्थस्य । नचैवं ज्ञानं चैत्र इत्यादितोऽपि बोधरूपस्य
- धात्वर्थस्याश्रयत्वसम्बन्धेन चैत्रे धर्मिण्यन्वयप्रसङ्गः, तत्र
- ज्ञानादिपदस्य बुद्ध्यर्थकनामतया तदर्थस्य नामान्तरार्थे
- भेदेनान्वयस्याव्युत्पन्नत्वादेव तदसम्भवात् इति प्राभाकराः ।
- तदसत् धात्वर्थान्वयिस्वार्थकर्तृतायामेव लड़ादेः स्वोपस्था-
- प्यवर्त्तमानत्वाद्यनुभावकत्वव्युत्पत्तेः कृत्यादेस्तिङर्थत्वं
- विना तदनुपपत्तेः अन्यथातिप्रसङ्गात् । न च प्रकृत्यर्थएव
- तिङः स्वार्थवर्त्तमानत्वाद्यनुभावकत्वनियमः पाकमनिष्पाद्य
- क्रियान्तरव्यासक्तेऽपि पुरुषे पचतीतिप्रयोगापत्तेः
- तदानीमपि पाकस्यानुवर्त्तमानत्वात् तिङाद्यन्तधात्वर्थस्य
- पाकादेर्व्वर्त्त मानकृत्यादिसम्बन्धेनैव प्रथमान्तस्य नाम्नोऽर्थे
- साकाङ्क्षत्वान्नैवमिति चेत् किं कालस्यापि तिङर्थत्वप्र-
- त्याशया संसर्गविधयैव तस्य ल ब्धत्वात् । पचतीत्यादितो-
- वर्त्तमानत्वादिवत्कृतिप्रकारकप्रतीतेरानुभविकत्वाच्च । किञ्च
- धात्वर्थस्यैव कृत्यादिसम्बन्धेन चैत्रादावन्वये पचत्यपि चैत्रे
- तायं पचतीतिप्रयोगप्रसङ्गः संयोगादिसम्बन्धेन पाकाद्य-
- भावस्य तत्र सत्त्वात् कर्तृत्वादेर्वृत्त्यनियामकतया तत्सम्ब-
- न्धावच्छिन्नपाकाद्यभावस्यालीकत्वेन प्रत्येतुमशक्यत्वात् ।
- एतेन मण्डनमते फलस्य धात्वर्थत्वात् तदनुकूलक्रियैवा
- ख्यातेन चैत्रादावनुभाव्यते इति कृतेस्तिङर्थत्वाभावादुक्त-
- लक्षणमसम्भवीत्यपि प्रत्युक्तं फलस्य धात्वर्थत्वे संयोगो-
- गुणैतिवद्गतिर्गुणोऽनेकाश्रिता इत्यादिप्रयोगापत्तेश्च न
- हि भावकृतामपि क्रियार्थः प्रमाणाभावात् । ननु
- वदि स्वार्थ कर्तृत्वएव लड़ादिना वर्त्तमानत्वमनुभाव्यते
- इति नियमः कथं तर्हि केवलात् पच्यत इत्यादितः
- चाकादो वर्त्तमानत्वधीरिति चेत् कवमाह् तत्राप्येकपदो-
- पात्तत्वेन कर्म्माख्यातोपस्थापिते कर्तृत्वएव वर्त्त मानत्वस्या
- न्वयात् । इयान् परं विशेषोयत् कर्तविहितेन लटा
|
- धात्वर्थस्य विशेष्यत्वेन, कर्म्मविहितेन तु तस्य विशेषणत्वेन
- स्वार्थकर्तृत्वमनुभाव्यते तथैव साकाङ्क्षत्वात् । एतेन
- चैत्रेण पक्वमित्यादाविव चैत्रेण पच्यते इत्यत्रापि तृतीय-
- यैव कर्तृत्वमनुभाव्यते नत्वाख्यातेन, तिङर्थकृतेर्धात्वर्थवि-
- शेष्यत्वनियमादिति दीधितिकृन्मतमप्यनादेयम् एकपदोपात्त-
- त्वेन स्वार्थएव कर्तृत्वे शतृशानजादेरिव लड़ादेर्व्वर्त्त-
- मानत्वबोधकतया सुबर्थकृतौ तदन्वयासम्भवात् सुबर्थे
- तिङर्थान्वयस्यादृष्टचरत्वाच्चेति । शाब्दिकास्तु चैत्रः पचती-
- त्यादितः पाकादिकृतिमत्तयेव तत्कर्त्रभेदेनापि चैत्रादेर-
- न्वयस्यानुभविकत्वात् कृतिरिव कर्त्तापि तिङर्थः कृतित्वम-
- पेक्ष्य कर्तृत्वस्य गुरुत्वान्न तदाख्यातस्य शक्यतावच्छेदक-
- मिति तु रिक्तं वचः लक्ष्यतावच्छेदके लक्षणाया इव
- शक्यतावच्छेदकेऽपि शक्तेरसत्त्वमते तद्गुरुत्वस्याकिञ्चित्कर-
- त्वात् एकैकात्मनिष्ठानामनन्तकृतीनां शक्यत्वमपेक्ष्य
- निखिलात्मनामेव कर्तृत्वे शक्यतायां विपरीतलाधवाच्च ।
- न च कर्त्रनुभवजनकतया सङ्केतितत्वरूपं कर्तृशक्तत्वमेव
- तिङामसिद्धं, कत्रेन्वयानुभवजनकतासत्त्वे तत्प्रकारकेश्वर
- सङ्केतस्य तत्रावश्यम्भावादीश्वरेच्छायाः सदर्थावगाहित्व-
- नियमादन्यथा । कर्त्रनुभवस्वरूपायोग्यत्वादेव तिङा
- कर्त्तर्य्य शक्तत्वसम्भवे कृत्यपेक्षया कर्त्तरि गुरुत्वोपन्यासस्यो-
- न्मत्तप्रलपितत्वापत्तेः । अथैवं पटपदस्यापि लक्षणादिना
- घटाद्यन्वयानुभावकत्वात् तत्प्रकारकनित्यसङ्केतवत्त्वेन
- तदपि घटशक्तं स्यात्, न स्यात् पटपदं घटे न शक्त
- मित्यादिव्यवहारस्य प्रामाणिकत्वेन घटादिपदनिष्ठस्यैव
- घटानुभावकतया नित्यसङ्केतितत्वस्य घटशक्तित्वात् इत्या-
- ख्यातं न कर्तृशक्तमित्येवं व्यवहारस्यासत्त्वात् प्रत्युत
- पाणिन्यादिप्रामाणिकैस्तिङः कर्तृशक्तत्वेन व्यवहृतत्वात् ।
- एतेन गुणवचनस्य नीलादेर्गुणिशक्तत्वमपि व्याख्यातम्
- इति प्राहुः” ।
- आख्यातार्थस्य धात्वर्थादौ विशेषण तयैवान्वय इति तु
- वैयाकरणाः यथाह वै० भू० सा० । “फलव्यापारयोर्धातुराश्रये
- तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विथेष-
- णम्” इति । अस्य व्याख्यायाम् ‘कर्त्तरि कृत्’ “लः कर्मणि
- च” पा० सूत्रान्यां चकारेण कर्त्तरि कर्मणि च निङः
- शक्तिरिति लाभे तत्र व्यापाराश्रयः कर्त्ता
- फलाश्रयः कर्मेति फलव्यापाररूपयोः विशेषणयोर्धातु-
- नैवोपस्थाप्यत्वात् अनन्यलभ्यस्याश्रयस्यैव तिङर्थत्वम् इत्येवं
- व्यवस्थाप्येत्थमाह । “पदार्थं निरूप्य वाक्यार्थं निरूपयति
|
पृष्ठ ०६१३
- फले इत्यादि । विक्लित्त्यादि फलं प्रति । तिङर्थः
- कतृकर्मसंख्याकालाः । तत्र कर्तृकर्म्मणी फलव्यापारयो-
- र्विशेषणे, संख्या कर्तृप्रत्यये कर्त्तरि, कर्मप्रत्यये कर्म्मणि,
- समानप्रत्ययोपात्तत्वात् । तथाचाख्यातार्थसंख्याप्रकारक-
- बोधं प्रत्याख्यातजन्यकर्त्तृकर्म्मोपस्थितिर्हेतुरिति कार्य्य-
- कारणभावः फलितः । नैयायिकादीनामाख्यातार्थ-
- संख्यायाः प्रथमान्तार्थे एवान्वयादाख्यातार्थ संख्याप्रकारक
- बोधे प्रथमान्तपदजन्योपस्थितिर्हेतुरिति कार्य्यकारणभावो
- वाच्यः सोऽपि चन्द्रैव मुखं दृश्यते, देवदत्तोभुक्त्वा
- व्रजतीत्यादौ चन्दक्त्वार्थयोः आख्यातार्थानन्वयादितरा-
- विशेषणत्वघटित इत्यतिगौरवम् । इदमपि कर्त्तृकमणो-
- राख्यातार्थत्वे मानमिति स्पष्टं भूषणे । कालस्तु व्या-
- पारे विशेषणम् । तथा हि “वर्त्तमाने लट्” इत्यत्राधि-
- काराद्धातोरिति लब्धम् तच्च धात्वर्थं वदत्प्राधान्याद्व्या-
- पारमेव ग्राहयतीति तत्रैव तदन्वयः । न च संख्यावत्
- कर्तृकर्मणोरेवान्वयः शङ्ख्यः अतीतभावनाके कर्त्तरि
- पचतीत्यापत्तेः अपाक्षीदित्यनापत्तेश्च पाकानारम्भदशायां
- कर्तृसत्त्वे पक्ष्यतीत्यनापत्तेश्च । नापि फले तदन्वयः
- फलानुत्पत्तिदशायां व्यापारसत्त्वे पचतीत्यनापत्तेः पक्ष्य-
- तोत्यापात्तेश्चेत्यवधेयम् । न चामवातजड़ीकृतकलेवरस्यो-
- त्थानानुकूलयत्रसत्त्वादुत्तिष्ठतीति प्रयोगापत्तिः । परयत्न-
- स्याज्ञानादप्रयोगात् । किञ्चिच्चेष्टादिनावगतौ चायमुत्ति-
- ष्ठति शक्त्यभावात् फलन्तु न जायत इति लोकप्रतीतेरिष्ट-
- त्वात् । एवञ्च तिङर्थो विशेषणमेव भावनैव प्रधानम् ।
- यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यमन्यत्र
- दृष्टं, तथापि “भावप्रधानमाख्यातं सत्वप्रधानानि नामा-
- नीति” निरुक्तोक्तेः भूवादिसूत्रादिस्थक्रियाप्राधान्यबोधक-
- भाष्याच्च धात्वर्थभावनाप्राधान्यमध्यवसीयते । अपि च
- आख्यातार्थप्राधान्ये तस्य देवदत्तादिभिः सममभेदान्वया-
- त्प्रथमान्तस्य प्राधान्यापत्तिः । तथा च पश्य मृगो-
- धावतीत्यत्र भाष्यसिद्धैकवाक्यता न स्यात् प्रथमान्तमृगस्य
- धावनक्रियाविशिष्टस्य दृशिक्रियायां कर्मत्वापत्तौ द्वितीया-
- पत्तेः । न चैवम् अप्रथमासामानाधिकरण्यात् शतृप्रस-
- ङ्गः । एवमपि द्वितीयायादुर्व्वारत्वेन पश्य मृगैत्यादिवा-
- क्यस्यैवासम्भवापत्तेः । न च पश्येत्यत्र तमिति कर्म्माध्या-
- हार्य्यम् । वाक्यभेदप्रसङ्गात् उत्कटघावनक्रियाविशेषस्यैव
- दर्शनकर्मतयान्वयस्य प्रतिपिपादयिषितत्वात् अध्याहारे
- अनत्वयापत्तेश्च । एवञ्च भावनाप्रकारकबोधे प्रथमान्त-
|
- पदजन्योपस्थितिः कारणमिति नैयायिकोक्तं नादर-
- णीयम् किन्तु आख्यातार्थकर्तृप्रकारकबोधे धातुजन्योप-
- स्थितिर्भावनात्वावच्छिन्नविषयतया कारणमिति कार्य्य-
- कारणभावोद्रष्टव्यः । भावनाप्रकारकबोधं प्रति तु कृज्ज-
- न्योपस्थितिवत् धात्वर्थभावनोपस्थितिरपि हेतुः पश्य
- मृगोधावति, पचति भवतीत्याद्यनुरोधादिति दिक् ।
- इत्थञ्च पचतीत्यत्रैकाश्रयिका पाकानुकूला भावना, पच्यते
- इत्यत्रैकाश्रयिका या विक्लित्तिस्तदनुकूला भावनेति बोधः ।
- देवदत्तादिपदप्रयोगे त्वाख्यातार्थकर्त्रादिभिस्तदर्थस्याभेदा-
- न्वयः । घटोनश्यतीत्यत्रापि घटाभिन्नैकाश्रयकोनाशानु-
- कूलोव्यापार इति बोधः । स च व्यापारः प्रतियोगित्व-
- विशिष्टनाशसामग्रीसमवधानम् । अतएव तस्यां सत्यां
- नश्यति, तदत्यये नष्टः, तद्भावित्वे नङ्क्ष्यतीति प्रयोगः ।
- देवदत्तोजानातीच्छतीत्यादौ च देवदत्ताभिन्नैकाश्रयकोज्ञा-
- नेच्छाद्यनुकूलोवर्त्तमानो व्यापार इति बोधः स चान्तत
- आश्रयतैवेति रीत्योह्यम्” । एवञ्च वैयाकरणमते सुब्भि-
- न्नत्वे सति संख्याबोधकप्रत्ययत्वमाख्यातत्वमिति लक्षणम्
- “सुपां कर्म्मादयोऽप्यर्था संख्या चैव तथा तिङामित्युक्तेः
- यद्यपि आख्यातसामान्यस्य संख्यासामान्यशक्तत्वज्ञापकं
- सूत्रं नास्ति तथापि लड़ादेशैकवचनादीनां तत्तत् संख्या-
- शक्तताज्ञापकसूत्रेण आदेश गतं तथात्वं स्थानिनि लकारे
- कल्पितमिति संख्याबोधनयोग्यत्वमादाय लक्षणसमन्वय
- इति बोध्यम् “आख्यातमाख्यातेन क्रियासातत्ये” मयूर०
- गणसूत्रम् तत्र आख्यातपदं च तदन्तपरम् “प्रत्ययग्र-
- हणे तदन्तग्रहणम् । इति नियमात् ३ आख्यातान्ते च ।
आख्याति स्त्री आ + ख्या--क्तिन् । कथने ।
आख्यातृ त्रि० आ + ख्या--तृच् । उपदेशके । “आख्यातो
- पयोगे” पा० ।
आख्यान न० आ + ख्या--भावे ल्युट् । १ कथने । २ पूर्व्ववृ-
- त्तकथने “आख्यानं पूर्ब्बवृत्तोक्तिः” सा० द० । “यथा देशः
- सोऽयमरातिशीणितजलैर्यस्मिन् द्रदाः पूरिताः” वेणी०
- ३ प्रतिवचने च । प्रश्नाख्यानयोः” पा० “विभाषाख्यानप-
- रिप्रश्नयोरिञ्” पा० । करणे ल्युट् । ४ भेदके धर्मे । “लक्ष-
- णेत्थम्भूताख्यानेत्यादि” पा० इत्थंभतः कञ्चित् प्रकारं प्राप्त
- आख्यायते अनेन इति व्युत्पत्तेः कञ्चित्प्रकारं प्राप्तस्य
- भेदकोधर्म्म इति सूत्रार्थः यथा भक्तोविभुमभि । ५ आर्ष
- महाकाव्यान्तर्गतसर्गभेदे तेन हि कथाविशेषेण
- वर्ण्णनीयचरिताख्यानात्तथात्वम् महाकाव्यं लक्षयित्वा
|
पृष्ठ ०६१४
- तदीयसर्गनामकरणे विशेषमाह” सा० द० “नामास्य
- सर्गोपादेयकथया सर्गनाम तु” इत्यभिधाय
- “अस्मिन्नार्षे पुनः सर्गा भवन्त्याख्यानसंज्ञकाः”
- यथा भारते रामोपाख्यानम् । नलोपाख्यानं शकुन्त-
- लोपाख्यानमित्यादि आख्यान + अस्त्यर्थे अर्श० अच् ।
- ६ प्रसिद्धाख्यानसंज्ञकसर्गयुक्ते आर्षमहाकाव्य भारतादौ ।
- “स्वाध्यायं श्रावयेत् पित्र्ये धर्म्मशास्त्राणि चैव हि ।
- आख्यानानीतिहासांश्च पुरणानि खिलानि च” मनुः
- साङ्गोपनिषदान् वेदान् चतुराख्यानपञ्चमान्” भा० व० ।
- स्वार्थे कन् तत्रैव “नाटकाख्यानकादेशव्याख्यानादिक्रि-
- यानिपुणैः” काद० ।
आख्यानकी स्त्री “आख्यानकी तौ जगुरू गओजे जतावनोजे
- जगुरू गुरुश्चेदिति” लक्षिते विषमवृत्तभेदे ।
आख्यायक पु० आ + ख्या--ण्वुल् । परोक्तस्यान्यत्र कथके १ दूते
- “आख्यायकेभ्यः श्रुतसूनुवृत्तिः भट्टिः” २ कथकमात्रे त्रि० ।
आख्यायिका स्त्री आ + ख्या--ण्वुल् “आख्यायिका कथावत्
- स्यात् कवेर्वंशादिकोर्त्तनम् । अस्यामन्यकवीनाञ्च वृत्तम्
- गद्यं क्वचित् क्वचित् । कथांशानां व्यवच्छेद आश्वास इति
- बध्यते । आर्य्याबक्त्रापवक्त्राणां छन्दसा येन
- केनचित् । अन्योपदेशेनाश्वासः मुखे भाघ्यर्थसूचनम्” सा० द०
- उक्ते कथाभेदे कथा च “कथायां सरसं वस्तु गद्यैरेव
- विनिर्म्मितम् । क्वचित्तत्र भवेदार्य्या क्वचिद्वक्त्रापवक्त्रके । आदौ
- पद्यैर्नमस्कारः खलादेर्वृत्तकोर्त्तन” मित्युक्तलक्षणयुक्ता तत्र
- आख्यायिका यथा हर्षचरितादि” कथा कादम्बर्य्यादिः ।
- २ उपलब्धार्थबोधककथायाञ्च” अमरः ।
आख्यायिन् त्रि० आ + ख्या--णिनि । १ कथके । २ आवेदके
- दूतादौच “रहस्याख्यायीव स्वनसि मृदु कर्ण्णान्तिकचरः”
- शकु० । “रहस्याख्यायिनाञ्चैव प्रणिधीनाञ्चचेष्टितम्” याज्ञ०
आगत त्रि० आ + गम--क्त । १ आयाते, २ उपस्थिते, ३ प्राप्ते
- च । “हेयं दुःखमनागेतम्” पात० “क्रमादभ्यागतं द्रव्यं
- हृतमभ्युद्धरेत्तुयत्” स्मृतिः । “पितृतआगतम् पित्र्यमिति”
- दायभा० । “तत आगतः” पा० । आगता वत जरेव
- हिमानी सेव्यतां सुरतरङ्गिणी” उद्भटः भावे क्त । ४
- आगमने न० “गतागतं कामकामा लभन्ते” गीता ।
आगति स्त्री आ + गम--क्तिन् । १ आगभने “लोकस्यास्य
- गतागतिम्” रामा० । २ प्राप्तौ च तासामध्वर्य्युरागतौ यवो
- वृषीव मोदते” ऋ० २, ५, ६, । वेदैः शास्त्रैः सविज्ञानैर्जन्मना
- मरणेन च । आर्त्त्या गत्या तथाऽऽगत्या” याज्ञवल्क्यः ।
|
आगत्य(म्य) अव्य० आ + गम--ल्यप् वा मोलोपे तुक् ।
- आगमनं कृत्वेत्यर्थे तत्त्वमागत्य सत्येन” याज्ञ० । “आगत्य
- विल्वशाखायां चण्डिके! कुरु सन्निधिम्” पुरा० ।
आगन्तव्य त्रि० आ + गम--तव्य । १ आगम्ये प्राप्ये “आगन्तव्यं
- तु नोद्रष्ट्रुं पुनराश्रममण्डलम्” भावे तव्य । २ अवश्योग-
- मने न० आगन्तव्य झटितिमथुरामण्डलात् गोपकान्ते!
- पदाङ्कदूतम् ।
आगन्तु पु० आ + गम--तुन् । १ अनियतस्थायिनि अतिथौ
- “वैदर्भमागन्तुमजं गृहेशम्” रघुः । २ हठादुपस्थिते च
- आगन्तुना सह मैत्री न कर्त्तव्या” हितो० । ३
- आगमनशीले त्रि० । स्वार्थे कन् । आगन्तुकोऽप्यत्र ।
आगन्तुज त्रि० आगन्तोः हठादुपस्थितात् जायते जन--ड ।
- हठोपस्थितजाते रोगादौ । “आगन्तुजे भिषग्रोगे
- शस्त्रेणोत्कृत्य यत्नतः” । “दोषागन्तुजमृत्युभ्योरस-
- मन्त्रविशारदौ” सुश्रुतः ।
आगम पु० आ + गम--घञ् । १ आगतौ २ प्राप्तौ
- ३ उत्पत्तौ च “आगमापायिनोऽनित्यास्तांस्तितिक्षस्व
- भारत!” गीता, आगम्यते प्राप्यतेऽनेन करणे
- घञ् । ४ सामाद्युपाये “आगमैः सदृशारम्भ आरम्भसदृ-
- शोदयः” रघुः आगम्यते स्वत्वभनेन । स्वत्वप्रापके
- ५ क्रयप्रतिग्रहादौ “आगमोनिष्फलस्तत्र भुक्तिःस्तोकापि
- यत्र नो” या० स्मृतिः “अनागमन्तु यो भुङ्क्ते बहून्य-
- ब्दशतान्यपि” स्मृतिः” यादशागमस्व प्रामाण्यं तन्नि-
- रूपितम् मिता० । “भोगमात्रस्य स्वत्वव्यभिचारात्
- कीदृशोभोगः प्रमाणमित्यत आह । “आगमोऽभ्यधिकोभो-
- गाद्विना पूर्व्वेक्रमागतात्” या० स्वत्वहेतुः प्रतिग्रहक्रेयादि-
- रागमः । स भोगादभ्यधिकोबलीयान् स्वत्वबोधने०
- भोगस्यागमसापेक्षत्वात् । यथाह नारदः । “आगमेन विशुद्धेन
- भोगोयाति प्रमाणताम् । अविशुद्धागमो भोगः प्रामाण्यं
- नैव गच्छतीति” । न च भोगमात्रात्स्वत्वावगमः परकीय-
- स्याप्यपहारादिनोपभोगसम्भवात् । अतएव “भोग तु केवलं-
- यस्तु कीर्त्तयेन्नागमं क्वचित् । भोगच्छलापदेशेन विज्ञेयः
- स तु तस्कर” इति स्मर्य्यते । अतश्च सागमोदीर्घकालो
- निरन्तरो निराक्रोशः प्रत्यर्थिप्रत्यक्षश्चेति पञ्चविशेषणयुक्तो
- भोगः प्रमाणमित्युक्तम्भवति । तथा च स्मर्य्यते । “सागमो
- दीर्घकालश्चाविच्छेदोऽन्यरवोज्झितः । प्रत्यर्थिसन्निधानश्च
- परिभोगोऽपि पञ्चधेति” । क्वचिच्चागमनिरपेक्षस्यापि
- भोगस्य प्रामाण्यमित्याह । विना पूर्व्वक्रमागतादिति ।
|
पृष्ठ ०६१५
- पूर्ब्बेषां पित्रादीनां त्रयाणां क्रमः पूर्बक्रमस्तेनागतो यो
- भोगस्तस्माद्विना आगमोऽभ्यधिक इति सम्बन्धः । स पुनरागमाद-
- भ्यधिकः आगमनिरपेक्षः प्रमाणमित्यर्थः तत्राप्यागमज्ञान-
- निरपेक्षो न सत्त्वनिरपेक्षः सत्ता तु तेनैवावगम्यत इति बोद्ध-
- व्यम् । विना पूर्ब्बक्रमागतादित्येतच्च स्मार्त्तकालप्रदर्शनार्थम् ।
- “आगमोऽभ्यधिकोभोगादिति” च स्मार्त्तकालविषयम् । अतश्च
- स्मरणयोग्येकाले योग्यानुपलब्ध्यागमाभावनिश्चयसम्भवादा-
- गम ज्ञानसापेक्षस्यैव भोगस्य प्रामाण्यम् । स्मार्त्ते तु काले
- योग्यानुपलब्ध्यभावेनागमाभावनिश्चयासम्भवादागमज्ञान
- निरपेक्ष एव सन्ततो भोगः प्रमाणम् । एतदेव स्यष्टीकृत-
- ङ्कात्यायनेन । “स्मार्त्तेकाले क्रिया भूमेः सागमा भुक्तिरिष्यते
- स्मार्त्तेत्वनुगमाभावात् क्रमात् त्रिषुरुषागता” । स्मार्त्तश्च
- कालो वर्षंशतपर्य्यन्तः “शतायुर्वै पुरुष इति” श्रुतेः ।
- अनुगमाभावादिति योग्यानुपलब्ध्यभावेनागमाभावनिश्चया-
- भावादिति । अतश्च वर्षशताधिको भोगः सन्ततोऽप्रतिरवः
- प्रत्यर्थिप्रत्यक्षश्चागमाभावे चानिश्चिते अव्यभिचारादाक्षि-
- प्तागमः स्वत्वं गमयति । स्मार्त्तेऽपि कालेऽनागमस्मृति-
- परम्परायां सत्यां न भोगः प्रमाणम् । अतएव “अनागमन्तु
- यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेनतम्पापन्दण्डयेत्-
- पृथिवीपति” रित्युक्तम् । न चानागमन्तु यो भुङ्क्तैत्येकवचन-
- निर्द्देशाद्बहून्यब्दशतान्यपीत्यपिशब्दप्रयोगात् प्रथमस्य पुरुषस्य
- निरागमे चिरकालोपभोगेऽपि दण्डविधानमिति मन्तव्यं
- द्वितीये तृतीये वा पुरुषे निरागमस्य भोगस्य प्रामाण्यप्रस-
- ङ्गात् नचैतदिष्यते “आदौ तु कारणन्दानं मध्ये भुक्तिस्तु
- सागमेति” नारदस्मरणात् । तस्मात् सर्वत्र निरागमोपभोगे
- “अनागमन्तु योभुङ्क्त इत्येतद्द्रष्टव्यम् यदपि “अन्यायेनापि
- यद्भुक्तं पित्रा पूर्बतरैस्त्रिभिः । न तच्छक्यमपाहर्त्तुं क्रमात्त्रि-
- पुरुषागतमिति” । पित्रा सह पूर्बतरैस्त्रिभिरिति योज्यम् ।
- तत्रापि क्रमात् त्रिपुरुषागतमित्यस्मार्त्तकालोपलक्षणम् ।
- त्रिपुरुषविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुषत्रयातिक्रमसम्भ-
- वाद्द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गः
- तथा सति “स्मार्त्ते काले क्रिया भूमेः सागमा भुक्तिरिष्यत”
- इति स्मृतिविरोधः । “अन्यायेनापि यद्भुक्तमित्येतच्चा-
- न्यायेनापि भुक्तमपहर्त्तुन्न शक्यं किम्पुनरन्यायानिश्चय-
- इति व्याख्येयमपिशब्द श्रवणात् । यच्चोक्तम् । “यद्विनाग-
- ममत्यन्तम्भुक्तं पूर्ब्बैस्त्रिभिर्भवेत् । न तच्छक्यमपाकर्त्तुं
- क्रमात् त्रिपुरुषागतमिति” तत्राप्यत्यन्तमागमं विनेत्यत्यन्त
- मुपलभ्यमानमागमं विनेति व्याख्येयम् । न पुनरागम
|
- स्वरूपं विनेति आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं
- भवतीत्युक्तं क्रमात्त्रिपुरुषागतमित्येतदुक्तार्थम् । ननु स्मरणयोग्ये
- काले भोगस्यागमसापेक्षस्य प्रामाण्यमनुपपन्नम् । तथाहि ।
- यद्यागमः प्रमाणान्तरेणावगतस्तदा तेनैव स्वत्वावगमान्न भोगस्य
- स्वत्वे आगमे वा प्रामाण्यम् अथ प्रामाणान्तरेण नागमोऽवगतः
- कथन्तद्विशिष्टोभोगः प्रमाणम् । उच्यते । प्रामाणान्तरेणावग-
- तागमसहित एव निरन्तरोभोगः कालान्तरे स्वत्वङ्गमयति ।
- अवगतोऽप्यागमोभोगरहितो न कालान्तरे स्वत्वङ्गमयितुमलं
- मध्ये दानविक्रयादिना स्वत्वापगमसम्भवादिति सर्वमनवद्यम् ।
- आगमसापेक्षो भोगः प्रमाणमित्युक्तम् । आगमस्तर्हि-
- भोगनिरपेक्ष एव प्रमाणमित्यत आह । “आगमेऽपि बलं
- नैव भुक्तिस्तोकापि यत्र नो” या० यस्मिन्नागमे स्वल्पापिभु-
- क्तिर्नोनास्ति तस्मिन्नागमे बलं सम्पूर्णं नैवास्ति । अयमभि
- सन्धिः स्वत्वनिवृत्तिपरस्वत्वापादनञ्च दानम् । परस्वत्वापा-
- दानं च परो यदि स्वीकरोति तदा सम्पद्यते नान्यथा । स्वीका-
- रस्त्रिविधोमानसो वाचिकः कायिकश्चेति । तत्र मानसो-
- ममेदमिति संकल्परूपः । वाचिकस्तु ममेदमित्याद्यभि-
- व्यवहारोल्लेखी स विकल्पकः प्रत्ययः । कायिकः पुनरुपा-
- दानाभिमर्शनादिरूपोऽनेकविधः तत्र च नियमः स्मर्य्यते
- “दद्यात्कृष्णाजिनम्पुच्छे गां पुच्छे करिणङ्करे । केशरेषु
- तथैवाश्वन्दासींशिरसि दापयेदिति” । आश्वलायनोऽप्याह ।
- “अनुमन्त्रयेत् पाणिनाभिमृशेत् प्राणिनं कन्यां चेति” । तत्र
- हिंरण्यवस्त्रादावुदकदानान्तमेवोपादानादिसम्भवात् त्रि-
- विधोऽपि स्वीकारः सम्पद्यते । क्षेत्रादौ पुनः फलोपभोग
- व्यतिरेकेण कायिकस्वीकारासम्भवात् स्वल्पेनाप्यपभोगे-
- न भवितव्यम् । अन्यथा दानक्रयादेः सम्पूर्णतान
- भकतीति फलोपभोगलक्षणकायिकस्वीकारविकलश्चागमो दुर्ब-
- लो भवति तत्सहितादागमात् । एतच्च द्वयोः पूर्ब्बा-
- परकालापरिज्ञाने । पूर्वापरकालज्ञाने तु विगुणोऽपि पूर्व्व-
- कालागम एव बलीयानिति । अथ वा “लिखितं साक्षिणो-
- भुक्तिः प्रमाणं त्रिविधं स्मृत” मित्युक्तम् । एतेषां समवाये-
- कुत्र कस्य प्राबल्यमित्यत्रेदमुपतिष्ठते । “आगमोऽभ्यधिको
- भोगाद्विनापूर्व्वक्रमागतात् । आगमेऽपि बलं नैव भुक्तिः स्तो-
- कापि यत्र नो” इति अयमर्थः । आद्ये पुरुषे साक्षिभि-
- र्भावितश्चागमो भोगादभ्यधिकोबलवान्पूर्वक्रमागताद् भोगा
- द्विना । स पुन पूर्व्वक्रमागतो भोगश्चतुर्थे पुरुषे लिखिते-
- न भावितादागमात्बलवान् मध्यमे तु भोगरहितादाग-
- मात् स्तोकभोगसहितोऽप्यागमो बलवानिति । एतदेव
|
पृष्ठ ०६१६
- नारदेन स्पष्टीकृतं “आदौ तु कारणन्दानं मध्ये भुक्तिस्तु
- सागमा । कारणं भुक्तिरेवैका सन्तता या चिरन्तनीति”
- “पश्यतो ब्रुवत इत्यत्र विंशतिवर्षभोगादूर्द्ध्वं भूमेर्द्धनस्यापि
- दशवर्षभोगादूर्द्धं फलानुसरणं न भवतीत्युक्तम् । तत्र
- फलानुसरणवद्दण्डानुसरणमपि न भविष्यतीत्याशङ्क्य
- पुरुषव्यवस्थया प्रमाणव्यवस्थया च दण्डव्यवस्थां दर्शयि-
- तुमाह । “आगमस्तु कृतोयेन सोऽभियुक्तस्तमुद्धरेत् । न
- तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसो” या० । येन पुरुषेण
- भूम्यादेरागमःस्वीकारः कृतः । स पुरुषः कुतस्ते क्षेत्रादि-
- कमित्यभियुक्तस्तमागमं प्रतिग्रहादिकं लिखितादिभिरुद्ध-
- रेत् भावयेत् । अनेनचाद्यपुरुषस्यागममनुद्धरतोदण्ड इत्युक्तं
- भवति तत्सुतो द्वितीयोऽभियुक्तोनागममुद्धरेत्, किन्तु
- अविच्छिन्नाप्रतिरवसमक्षभोगम् । अनेनचागममनुद्धरतो द्विती
- यस्य न दण्डोऽपि तु विशिष्टम्भोगमनुद्धरतो दण्ड इति
- प्रतिपादितम् । तत्सुतस्तृतीयोनागमं नापि विशिष्टम्भो-
- गमुद्धरेदपि तु क्रमागतम्भोगमात्रम् । अनेनापि तृतीयस्य
- क्रमायातभोगानुद्धरणे दण्डोनागमानुद्धरणे न विशिष्ट-
- भोगानुद्धरणे वेत्यभिहितम् । तत्र तयोर्द्वितीययोर्भु-
- क्तिरेव गरीयसी । तत्रापि द्वितीये गुरुः तृतीये
- गरोयसीति विवेक्तव्यम् । त्रिष्वप्यागमानुद्धंरणेऽर्थहानिः
- समानैव दण्डे तु विशेष इति तात्पय्यार्थः । उक्तञ्च ।
- “आगमस्तु कृतोयेन स दण्ड्यस्तमनुद्धरन् । न तत्सुत-
- स्ततसुतो वा भोगहानिस्तयोरपि” । अस्मार्त्तकालोपभो-
- गस्यागमज्ञाननिरपेक्षस्य प्रामाण्यमुक्तं विना पूर्ब्बक्रमागता
- दित्यत्र तस्यापवाद माह । “योऽभियुक्तः परेतः स्यात्तस्य
- रिक्थी तमुद्धरेत् । न तत्र कारणम्भुक्तिरागमेन विनाकृता”
- या० यदा पुनराहर्त्त्रादिरभियुक्तोऽकृतव्यवहारनिर्णय एव
- परेतःस्यात्परलोकगतोभवेत्तदा तस्य रिक्थी पुत्रादि
- स्तमागममुद्धरेत् । यस्मात्तत्र तस्मिन् व्यवहारे भुक्तिरा-
- गमरहिता साश्यादिभिः साधितापि न प्रमाणम् ।”
- व्यव० त० रघुनन्दनेन तु षष्ट्यब्दएव स्मार्त्तकालतया उक्तः ।
- यथा तद्धृतं व्यासवाक्यम् “वर्षाणि विंशतिं भुक्ता
- स्वामिनाऽव्याहता मही । भुक्तिः सा पौरुषी भूमेर्द्विगुणा
- तु द्विपौरुषो । त्रिपौरुषी तु त्रिगुणा न तत्रान्वेष्य आगम”
- इति । त्रिपुरुषभोगे विशेषमाह तत्रैव व्यासः ।
- प्रपितामहभुक्त यत् तत्पुत्रेण विना च तम् । तौ
- विना यस्य पित्रा च तस्य भोगस्त्रिपौरुषः । पिता पिताम-
- होयस्य जोवेच्च प्रपितामहः । त्रयाणां जीवतां भोगो
|
- विज्ञेयस्त्वेकपुरुषः” इति एवञ्च शतषष्टिवर्षयोः स्मार्त्त-
- कालत्वं देशभेदात् व्यवस्थापनीयम् । अत्राप-
- वादः । “भुक्तिस्त्रैपौरुषी सिध्येदपरेषां न संशयः ।
- अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति । अस्वामिना
- च यद्भुक्तं गृहक्षेत्रापणादिकम् । सुहृद्बन्धुसकुल्यस्य
- न तद्भोगेन होयते । विवाह्यश्रोत्रिवैर्भुक्तं राज्ञाऽमात्यै-
- स्तथैव च । सुदीर्घेणापि कालेन तेषां स्वत्वं न सिध्यति”
- वृह० । अत्रापि विशेषमाह तत्रैव “स्त्रीधनञ्च नृपेन्द्राणां
- कदाचन न जीर्य्यति । अनागमं भुज्यमामपि वर्षशतै-
- रपि” आगम्यते तत्त्वमनेन । ६ तत्त्वावेदकशास्त्रे “तस्मा-
- दपि चासिद्धं परोक्षमाप्तागमात् सिद्धम्” सा० का० ।
- “सिद्धं सिद्धैः प्रमाणैस्तु हितं वात्र परत्र वा
- आगमः शास्त्रमाप्तानामाप्तास्तत्त्वार्थवेदिनः” इत्युक्ते
- ७ शास्त्रमात्रे “शृण्वतां जायते भक्तिस्ततो गुरु-
- मुपासते । स च विद्यागमान् वक्ति विद्यायुक्स्वाश्रितो
- नृप!” देवीषु० । स च गुरुः विद्यासाधनमागमं वक्ति
- उपदिशतीत्यर्थः । ८ वेदे च “रक्षोहागमलघ्वसन्देहाः
- प्रयोजनम्” “आगमः खल्वपि ब्राह्मणेन निष्फारणो-
- धर्मः षड़ङ्गोवेदोऽध्येयः ज्ञेयश्चेति” फ० भा० । “आगमः
- प्रयोजकः प्रवर्त्तकः नित्यकर्मतां व्याकरणाध्ययनस्य
- दर्शयति प्रयोजनशब्देन फलं प्रयोजकश्चेति कैयठः ।
- “आगमपदेन श्रुतिरिति” उद्द्योतः । “बहवोप्यागमैर्भिन्नाः
- पन्थानः सिद्धिहेतवः” रघुः । ९ मन्त्रे च “सर्ववेदः
- क्रियामूलं ऋषिभिर्बहुधोदितः । कालोदेशः क्रिया कर्त्ता
- कारणं कार्य्यमागमः । द्रव्यं फलमिदं ब्रह्मन्नवरोक्तोऽजया-
- हरिः” । भा० १२, ११ अध्या० “तत्र कालः प्रातरादिः
- देशः समादिः क्रियाऽनुष्टानं कर्त्ता ब्राह्मणादि, कारणं
- स्त्रुवादि कार्य्यं यागादि आगमोमन्त्रादिः द्रव्यं व्रीह्यादि
- फलं स्वर्गादि” इति श्रीधरः ।
- आ + गम--गत्यर्थत्वात् ज्ञाने भावे घञ् । १० शब्दजन्यबोधे
- “प्रत्यक्षमनुनानञ्च शास्त्रञ्च विविघागमम् । त्रयं सुविदितं
- कार्य्यं धर्म्मशुद्धिमभीप्सुना” मनुः । विविधानां धर्म्माणा-
- मागमोयस्मात्विविधागमम् । करणे घञ् । ११ शाब्दबोध-
- साधने शब्दरूपप्रमाणे च “ऐन्द्रिह्यमनुमानञ्च प्रत्यक्षमपि
- चागमम् । येतु सम्यक्परीक्षन्ते कुतस्तेषामबुद्धिता” रामा०
- “आगतः शिववक्त्रेभ्यो गतश्च गिरिजानने । मग्नश्च
- हृदयाम्भोजे तस्मादागम उच्यते” यामलोक्ते ११ तन्त्र-
- शास्त्रे पुं न० तथा च आगतादीतामाद्यक्षरयुक्तत्वात् तथात्वम्
|
पृष्ठ ०६१७
- रुद्रयामले तु मतं श्रीवासुदेवस्येति पाठः क्लीवत्वेन
- “आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः न हि देवाः
- प्रसीदन्ति कलौ चान्यविधानतः । पञ्चवर्ण्णैर्भवेद्दीक्षा-
- ह्यागमोक्तैः शृणुप्रिये! । यां कृत्वा कलिकाले च सर्वाभीष्टं
- लभेन्नरः” तन्त्रसारे यामलम्” प्रसङ्गात्तन्त्ररूपागमस्य
- प्रामाण्यं तदुपासनादिषु कलौ अधिकारिविशेषस्य कर्त्तव्यता
- च प्रदर्श्यते । निजनिजकर्मवासनारूपपाशबद्धान् अनात्मज्ञान्
- जन्ममरणादिक्लेशभाजः संसारपारं गन्तुमसमर्थान् प्राणिनो
- बिलोक्य परमेश्वरः वेदेन कर्मकाण्डोपासनाकाण्डब्रह्म-
- काण्डात्मकार्थान् समुपदिदेश । तत्र वेदानाम् उच्छिन्न-
- प्रायतया क्रमशो रागबाहुल्येन तदुक्तधर्मेषु उच्छिन्नप्रायेषु
- सत्सु अनुच्छिन्नानामप्यर्थस्य दुर्मेधसामिदानीन्तनादोनां
- दुरधिगमतया आयासबाहुल्येन च तत्राप्रवर्त्त मानानां
- क्रमशोविलप्तेषु श्रौतधर्म्मेषु कथङ्कारमुद्धारः स्यादित्या-
- कलय्य कारुण्योदयेन वेदार्थप्रकाशनार्थं सुगमोपायेन
- जैमिनिव्यासनारदादिरूपोपधिभिरुपहितः सन् तत्त-
- द्ग्रन्थान् प्रणीतवान् । तत्र कर्म्मकाण्डार्थो जैमिना
- सन्वादिभिश्च सम्यक्तया व्याकृतः उपासनाकाण्डार्थः स्वयं
- शिवमूर्त्त्या तन्त्रशास्त्रं, नारदादिमूर्त्त्या च पञ्चरात्रादिकं
- विधाय विवृतः ब्रह्मकाण्डार्थश्च वेदव्यासमूर्त्त्येति विवेकः ।
- ततश्च धर्मे वेदस्यैव स्वतःप्रमाणत्वेन वेदमूलकत्वादन्येषां
- प्रामाण्यंतत्र स्मृतीनामिव आगमस्यापि वेदमूलकत्वमनुमी-
- यते । वेदएव रामतापनीयनृसिंहतापनीयाद्यात्मके
- आगमोक्तोपसनादिसंवादात् तन्मूलकत्वाधिगमात् येषां च मूलानि
- नाधिगम्यन्ते तेषामपि प्रामाण्यं स्मृति वाक्यवत् अनुमा-
- तव्यम् भ्रमप्रमादादिशून्यत्वहेतोः स्मृतिकर्त्तॄणामिव
- आगमकर्त्तुः शिवस्य सत्त्वात् तन्त्रवाक्यस्य स्मृतिबाक्यवत्
- प्रामाण्यम् न च बौद्धागमादिवत् विप्रलम्भकवाक्यत्वं
- रागद्वेषादेस्तस्मिन्नसत्त्वात् । तत्रृ कृर्मकाण्डार्थे सर्वेषाम-
- पर्य्युदस्तानामधिकारः मुमुक्षोरपि तत्त्वज्ञानपर्य्यन्तं
- चित्तशोधनार्थं प्रत्यवायपरिहारार्थं च कर्म्मणां कर्त्तव्य-
- तोपदेशात् “तमेतं ब्राह्मणा विविदिषन्ति वेदानुवचनेन
- यज्ञेन तपसेत्यादि” श्रुतेः “आरुरुक्षोर्मुनेर्योगम्
- कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारण-
- मुच्यते” गीतावाक्याच्च । ततोऽन्येषामपि ईश्वरार्पणेन
- फलानभिसन्धानेन च कृतानां कर्म्मणां बन्धाहेतुत्वात् क्रम-
- शोमुक्तिः फलम् । एवमुपासनाकाण्डार्थेऽपि सर्वेषामधिकारः
- श्रुतौ तपसेति निर्द्देशात् “सर्वं खल्विदं ब्रह्म तज्जला-
|
- निति शान्त उपासीत स क्रतुं कुर्व्वीतेति” श्रुत्या सोपाधिकस्ये
- श्वस्योपासनाविधानाच्च । उपासना च मानसी क्रिया ध्या-
- नपरपर्य्याया तत्र निराकारस्य ब्रह्मणोऽसम्भवात् सोभाधि-
- केश्वरविषयैवोपासना कर्त्तव्या । सा च गुणोपाधिविशिष्ट-
- स्येव तत्तदाकारोपहितस्यापि सम्भवति “चिन्मयस्याद्विती-
- यस्य निष्कलस्याशरीरिणः । उपासकानां सिड्यथे
- ब्रह्मणोरूपकल्पना” इत्युक्तेः । कल्पना च न स्वेच्चया
- किन्तु शास्त्रादिसिद्धैव । तथा चागमपुराणादिषु यानि
- यानि रूपाणि वर्णितानि तद्रूपेणैव । उपासना
- कर्त्तव्या । ब्रह्मकाण्डार्थे तु कर्मभिश्चित्तशुद्धौ साकारो-
- पासनेन तदैकाग्र्यवतः वेदान्तोक्तसाधनचतुष्ठयवत एवाधि-
- कार इति भेदः । तत्र तान्त्रिकोपासने कर्त्तव्येऽपि देवोभूत्वा
- देवं यजेत्” इत्युक्तेः भूतशुद्ध्यादिना आत्मानं शोधयित्वा
- उपास्यदेवेनैकोभूतमात्मानं ध्यात्वैवोपासनं कार्य्यम् “अथयो-
- ऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मि न स वद यथा
- पशुरेव स देवानामिति” श्रुत्या भेदेनोपासानाया निन्दनात्
- तान्त्रिकोपासनेऽपि कर्त्तव्ये वैदिककर्म्मसु सावित्रजत्मरूपो
- पनयनसंस्कारस्येव तन्त्रोक्तदीक्षायाएवाधिकारप्रयोज-
- कत्वम् तत्र दीक्षायाञ्च सर्वेऽपि वर्ण्णा अनुलोम्
- प्रतिलोमजाश्चाधिकारिणः “मां हि पार्थ! व्यपाश्रित्य
- येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा
- शूद्रास्तेऽपि यान्ति परां गतिमिति” गीतायां
- भगवदुपासने सर्वेषामधिकारस्य पतिपादनात् । अत्र “पुरा
- णादौ कश्चित् विशेषो दर्शितः यथा “यानि शास्त्राणि
- दृश्यन्ते लोकेऽस्मिन् विविधानि च । श्रुतिस्मृतिविरुद्धानि
- तेषां निष्ठा तुतामसी । करालभैरवञ्चापि यामल वाममाश्रि-
- तम् । एवंविघानि चान्यानि मोहनार्थानि तानि तु । मया
- सृष्टानि चान्यानि मोहायैव भवार्ण्णवे” इति देवी-
- पुराणवचने वाममाश्रितमिति विशेषणात् श्रुतिस्मृति
- विरुद्धानीति निर्द्देशाच्च श्रुतिस्मृतिविरुद्धवाममार्ग
- स्यैव निन्दनात् तत्रैवाधिकारिविशेषस्यानधिकारो न तु
- तन्त्रोक्तेष्वपि इतरांशेषु वेदाविरुद्धेषु इति निर्णयः ।
- वस्तुतः “सौत्रामण्यां सुरां पिबेत्” इति श्रुत्या
- विहितस्य सौत्रमण्यां सुरासेवनस्येव वामदेवसामोपासकस्य
- “न काञ्चन परिहरेदिति” सर्व्वस्त्रीगमनस्येव
- अधिकारिविशेषविषये तस्यापि ग्राह्यता । अतएव
- मनुना “न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
- प्रवृत्तिरेषा भूतानां निवृत्तिश्च महाफलेति” सामा-
|
पृष्ठ ०६१८
- न्यतो विहितमद्यादौ न दोष इत्युक्तम् । कुलाचारशब्दे
- वक्ष्यमाणस्य कुलाचारधर्म्मस्य प्रायेणेदानीन्तनानां दुष्कर
- त्वेन सुतरां तन्मार्गस्य तन्त्रनिर्द्दिष्टाधिकारिणामिदानी-
- मसत्त्वात् नैव कर्त्तव्यता । अथ कश्चित् प्राग्भववासनाव
- शादधिकारी सम्पद्यते तथापि कूलचूड़ामणौ “यत्रासवं
- तु देयं स्यात् ब्राह्मणस्तु विशेषतः । तत्रार्द्रकरसं दद्यात्
- ताम्रे वा विसृजेन्मधु । देव्यास्तु दक्षिणे भागे चक्रपार्श्वे
- निवेदयेत् । मद्यद्रव्यं तु शूद्रस्य नान्येषान्तु कदाचन” ।
- “वैश्यस्य माक्षिकं शुद्धं क्षत्रियस्य तु साज्यकम् । ब्राह्म-
- णस्य गवां क्षीरं ताम्रे वा विसृजेन्मधु । नारिकेलोदकं
- कांस्ये सर्वेषां चैव शोधनम् इति” च द्विजातीनामासवदान-
- निषेधेन गौणकल्प एवाधिक्रियते न मुख्यकल्पे । “पीत्वा-
- पीत्वा पुनः पीत्वा पतितोधरणीतले! उत्थाय च पुनः
- पीत्वा पुनर्जन्म न विद्यते” इति वचनन्तु चतुर्थाश्रमविषय-
- मिति तन्त्रसारः । “निस्त्रैगुण्येपथि विचरतां को विधिः को
- निषेध” इत्युक्तेश्चतुर्थाश्रमस्य विधिनिषेधातिक्तान्तत्वेऽपि
- परमहंसाश्रमस्येव दोषाभाव इति युक्तमुत्पश्याभः ।
- “वरं प्राणाः प्रगच्छन्तु ब्राह्मणोनार्पयेत् सुराम्” ब्राह्मणो
- मद्यदानेन ब्राह्मण्यादेव हीयते” वृहत्सङ्गमतन्त्रम् ।
- अतएव कालिका पु० “अवश्यं विहितं यत्र मद्यं तत्र
- द्विजः पुनः । नारिकेलोदकं कांस्ये ताम्रे वा
- विसृजेन्मधु” इत्यनुकल्पो गृहस्थद्विजातिमात्रे विहितः
- एवं मत्स्यमांसयोर्निषिद्धयोरपि वाममार्गिणां दाना
- दिकं न स्मृतिविरुद्धं “देवान् पितॄन् समभ्यर्च्य खादन् सांसं
- न दोषभाक्” इति मनुनां देवार्चनावशिष्टमांसभोजनस्य
- विधानात् । एतदपि दिव्यभावविषयमिति तन्त्रसारः “मादकं
- सर्वदा वर्ज्यं मद्यं मांसं सुलोचने! । ज्ञानेन संस्कृतं तत्तु
- महापातककनाशनमिति” कुलार्ण्णवोक्तेः । ज्ञानेन
- सर्वनरेषु आत्मत्वज्ञानेनेत्यर्थः । तदपि न श्रुतिविरुद्धं
- विश्वनरेषु आत्मदृष्टिमतो वैश्वानरसामोपासकस्य सर्वान्नभक्षण
- विधानवत् तस्यापि तादृशज्ञानमाहात्म्येन तत्र पापानुत्
- पत्तिसम्भवात् यथा वैश्वानरसामोपासकं प्रकृत्य “न किञ्च-
- नानन्नं भवति आश्वभ्य आशकुनिभ्य इति” छा० उ० सर्व्वा-
- न्नभोजनं विहितमेवमस्यापि ज्ञानेन पूतत्वान्न तद्भक्षणं
- दोषावहमिति । “कृते श्रुत्युदितोमार्गस्त्रेतायां श्रुति-
- नोदितः । द्वापरे तु पुराणोक्तः कलावागमसम्मतः”
- इत्यागमवचनं तु प्रशंसापरम् रागादिबाहुल्येन
- श्रौतादिघर्मस्य कलावसम्भवैति तादृशानां तन्त्राधिका-
|
- रित्वसूचनार्थञ्च “चकार मोहशास्त्राणि केशवः
- सशिवस्तथा । कापिलं नाकुलं वामं भैरवं पूर्ब्बपश्चि-
- मम् । पाञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः,
- कर्म्म पु० “शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् ।
- येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि । प्रथमं
- हि मयैवोक्तं शैवं पाशुपतादिकम्” पद्मपु० इत्या-
- दिवचनैरागमस्य तामसत्वेन मोहशास्त्रत्वेन निषिद्धत्वेऽपि
- वेदाविरुद्धांशस्यग्राह्यतैव । “तथापि योऽंशोमार्गाणां वेदेन
- न विरुध्यते । सोऽंशः प्रमाणमित्युक्तः केषाञ्चिदधिकारि-
- णाम्” सूतसंहितावचनात् अत्र केषाञ्चिदित्युक्तेः न
- सर्वेषायधिकारितेति सूचितम् तत्राधिकारिणः शाम्बपु०
- दर्शिताः । “श्रुतिभ्रष्टः स्मृतिप्रोक्तप्रायश्चित्तपराङ्मुखः ।
- क्रमेण श्रौतसिद्ध्यर्थं ब्राह्मणस्तन्त्रमाश्रयेत्” “पाञ्चरात्रं
- भागवतं तन्त्रं वैखानसाभिधम् । वेदभ्रष्टान् समुद्दिश्य
- कमलापतिरुक्तवान्” इति च । ततश्च इदानीन्तनानां विशे-
- षतो गौड़देशवासिनां श्रौतधर्म्माग्निहोत्रादिधर्म्मो-
- च्छेददर्शनेन तत्पापनाशाय प्रायश्चित्तपराङ्मुखताद-
- र्शनेन च श्रौतमार्गभ्रष्टतया क्रमेण श्रौताधिकारस्य
- प्राप्त्यर्थं तन्त्रोक्तोपासनादिषु वेदाविरुद्धेषु अधिकारः ।
- वेदविरुद्धेषु वाममार्गेषु तु चतुर्थाश्रमस्य तन्त्रोक्ताद्भुता-
- श्रमस्यैवाधिकारः न गृहस्थद्विजानाम् प्रागुक्तैः वचनजातै
- र्ब्राह्मणादिषु मुख्यमद्यदानसेवनयोर्निषेधात् गृहस्थशूद्रस्य
- तु मुख्येऽप्यधिकारः द्विजानामनुकल्पाचरणेन तन्मार्गा-
- श्रयणेऽप्यधिकार इतिविवेकः । तल्लक्षणन्तु “सृष्टिश्च प्रलय-
- श्चैव देवानां च तथार्च्चनम् । साधनञ्चैव सर्व्वेषां
- पुरश्चरणमेव च । षट्कर्म्मसाधनञ्चैव ध्यानयोगश्चतुर्विधः
- सप्तभिर्लक्षणैर्युक्तं त्वागमं तद्विदोविदुः” इति आगमभेदाश्च
- तन्त्रशब्दे वक्ष्यन्ते । अतएव कलिधर्म्म प्रकरणे” एवं क्रिया-
- योगपरैः पुमान् वैदिकतान्त्रिकैः । अर्च्चन्नुभयतः सिद्धिम्
- मत्तोविन्दत्यभीप्सितम्” भाग० १२ स्कन्धे२७ अध्याये तान्त्रिक-
- पथेनाप्यर्चनं विहितम् । “अथ सूतकिनः पूजां वक्ष्याम्यागमनो-
- दिताम्” शा० रा० । आगच्छति प्रकृतिप्रत्ययावनुपहत्य
- उत्पद्यते कर्त्तरि संज्ञायां घ । १३ व्याकरणोक्ते प्रकृतिप्रत्ययानु-
- पघातके अट् इट् इत्यादौ शब्दभेदे “आगमादेशयोर्मध्ये
- बलीयानागमोविधिः” व्याकरणान्तरपरि० “यदागमा-
- स्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते” । “आगमशास्त्रमनि-
- त्यम्” इति च परिभा० । “आगमा आद्युदात्ताः”
- “आगमा अविद्यमानवद्भवन्तीति” च का० वा०
|
पृष्ठ ०६१९
आगमन न० आ + गम--भावे ल्युट् । १ किञ्चिद्देशावधिक-
- विभानजनकक्रियायामागतौ । “संवत्सरे व्यतीते तु
- पुनरागमनाय च” दुर्गाविसर्ज्जनमन्त्रः । २ प्राप्तौ
- “एतत्ते सर्व्वमाख्यातं वैरस्यागमनं महत्” रामा० ।
- ३ उत्पतो च “आगमापायिनोऽनित्याः” गीता ।
आगमवत् त्रि० आगमं अस्त्यर्थे मतुप् मस्यवः स्त्रियां ङीप् । आगमयुक्ते
आगमवृद्ध त्रि० आगमेन तज्ज्ञानेन वृद्धः । शास्त्रालो-
- चनाजनितपरिणतज्ञाने “प्रतीप इत्यागमवृद्धसेवी” रघुः ।
आगमवेत्तृ त्रि० आगमं वेत्ति विद--तृच् ६ त० स्त्रियां
- ङीप् । आगमाभिज्ञे ।
आगमवेदिन् त्रि० आगमं वेत्ति विद--णिनि ६ त० ।
- आगमवेत्तरि २ शङ्कराचार्य्यपरमगुरौ गौड़पादा-
- चार्य्ये पु० ।
आगमापायिन् त्रि० आगमश्च अपायश्च तौ विद्येते अस्य
- इनि स्त्रियां ङीप् । उत्पत्तिविनाशशीले “आगमा-
- पायिनोऽनित्यास्तांस्तितिक्षस्व भारत!” गोता ।
आगमावर्त्ता स्त्री आगममात्रेण प्राप्तिमात्रेण आवर्त्तते
- कण्डूयनमस्याः आ + वृत--अपादाने घञ् । वृश्चिकाल्यां
- (विछाति) क्षुपभेदे ।
आगमिक त्रि० आगमादागतः ठञ् । आगमप्राप्ते ।
आगमित त्रि० आ + गम--स्वार्थे--णिच्--क्त । अधीते ज्ञाते
- २ पठिते । प्रेरणे णिच् क्त । यापिते ३ प्रापिते च ।
आग(गा)मिन् त्रि० आ + गम--भविष्यति णिनि गम्यादीना-
- मुपसंख्यानमित्युक्तेः वा ह्रस्वः । भयिष्यदागमने ग्रामगर्मा”
- सि० कौ० । “यद्वागामिक्रिमामुख्यकालस्याप्यन्तरालवत्”
- कात्या० स्मृ० “आगामिवर्त्तमानाहर्युक्तायां निशि पक्षिणी”
- अमरः स्त्रियां ङीप् । “आगामिनीं जगृहिरे जनता-
- स्तरूणाम्” माघः ।
आगर पु० आगोर्य्यते उद्वमितुमारभ्यते चन्द्रमा अत्र आ +
- गॄ--आधारे अप् । अमावास्यायां तत्र शेषयामे भक्षिता
- हि चन्द्रकलाः देवैः उद्वमितुमारभ्यन्ते इति तस्यास्तथा-
- त्वम् । “चर्द्दश्यष्टमांशे च क्षीणो भवति चन्द्रमाः । अमावा-
- स्याष्टमांशे च ततः किल भवेदणु” इत्युक्तेस्तस्यास्तथात्वम् ।
आगवीन त्रि० गोः प्रत्यर्पणपर्य्यन्तं कर्म्म करोति गर्य्यादाया-
- मव्ययीभा० आगु + कर्म्मकारकार्थे ख । गोःप्रत्यर्पणपर्य्य-
- न्तकर्मकरे गोपालकभेदे । गोपालकश्च द्विविधः दिषामात्रं
- गोःप्रचारणे नियुक्तः । दिवारात्रं योगक्षेमे नियुक्तश्च ।
- “दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे । वोगक्षे-
|
- मेऽन्यथा चेत्तु पालोवक्तव्यतामियात्” मनुना दिवारात्र
- भेदेन पालकद्वयविषये दोषभेदविधानात् तथा विभागः । तत्र
- दिवापालकविषये याज्ञ० “यथार्पितान् पशून् गोपः सायं
- प्रत्यर्पयेत्तथा । प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतन” इति ।
आगस् न० “इण आग अपराधे” उणा० इण्--असुन्
- आगादेशः । १ अपराधे “मदीये हृदये नूनं सखि! नागो
- न विद्यते । वदन्ती सर्पसर्पेति किं नालिङ्गसि मामिति”
- उज्ज्वलदत्तीये । “सहिष्ये शतमागांसि सूनीस्त इति
- यत्त्वया” माघः । “अभ्यर्ण्णमागस्कृतमस्पृशद्भिः” रघुः ।
- “दासे कृतागसि भवत्युचितः प्रहारः” सा० द० अपराधश्च
- स्वकर्त्तव्यकर्म्मणः स्खलनम् । अपराधशब्दो २३२ पृ०
- विवृतिः आगस्कर्त्ता आगस्कारी । २ पापे ३ दण्डे च ।
आगस्ती स्त्री अगस्त्येयम् अण् स्त्रियां ङीप् यलोपः ।
- दक्षिणस्यां दिशि ।
आगस्तीय त्रि० अगस्तये हितम् छण् यलोपः । अगस्त्यहितकारके ।
आगस्त्य त्रि० अगस्त्यस्येदम् यञ् यलोपः । अगस्त्यसम्बन्धिनि
- दक्षिणदिग्मागे “कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरि-
- रावतीर्ण्णः” माघः “अगस्त्यस्य स्थितिस्थानमुक्तम्” सू० सि०
- “अशीतिभागैर्याम्यायामगस्त्योमिथुनान्तगः” । स्वकीयक्रान्ति
- विभागस्थानात् दक्षिणस्यामशीत्यंशैस्तारात्मकः अगस्त्यः
- मिधुनान्तगः कर्कादिभागे स्थितः” रङ्गनाथः । एवञ्च
- तस्य दक्षिणदिग्भागगतत्वेन तद्भागस्यागस्त्यसम्बन्धित्वम्
- अगस्तेरपत्यं गर्गा० यञ् । २ अगस्तेरपत्ये पुंस्त्री०
- अगस्त्य + कण्वादि० अण् । ३ तद्गोत्रापत्ये पुंस्त्री
- उभयत्र स्त्रियां ङीप् यलोपः ।
आगाध त्रि० अगाध एव स्वार्थे अण् । १ अतलस्पर्शे २ दुरधिगमे च।
आगान्तु पु० आ + गम--तुन् नि० वृद्धिः । १ अतिथौ २ आगन्तुकशब्दार्थे च ।
आगामक त्रि० आगमयति भविष्यद्वस्तु बोधयति आ +
- गमणिच्--ण्वुल् । भविष्यदावेदके । “मतिरागामिका ज्ञेया
- बुद्धिस्तत्कालदर्शिनी” ।
आगामिन् त्रि० आगमिवत् । -- १ आगन्तुके २ भविष्यत्कालवृत्तौ च ।
आगामुक त्रि० आ + गम--उकञ् । आगमनशीले । “सुग्रीव-
- ञ्चार्जितं मित्रं सर्व्वाश्चागामुकान् द्रुतम्” भट्टिः ।
आगार न० अग--कुटिलायां गतौ घञ आगमृच्छति
- ऋ--अण् उप० स० । गृहे भवने ।
आगारगोघिका स्त्री ७ त० । गृहगोघिकायाम्(टिक्टिकि) ।
आगारधूम पु० आगारं गृहं धूसयति दसान्वितं करीति
- धूम + णिच्--अण् । (झुल) १ गृहधूमे । ७ त० गृहवृत्तिधूमे च
|
पृष्ठ ०६२०
आगुर् स्त्री आ + गुर्--क्विप् । प्रतिज्ञायाम् “अस्य यज्ञस्यागुर
- उदृचमशीय” श्रुतिः ।
आगुरण न० आ + गुर--ल्युट् । उद्यमे पृ० दीर्घः आगूरणमप्यत्र ।
आगू स्त्री आ + गम--क्विप् “ऊ च गमादीनाम् मलोपे
- ऊकारदेशः प्रतिज्ञायाम् । वधूवद्रूपम् ।
आगूर्ण्ण त्रि० आ + गुर--क्त । १ उद्यते । भावे क्त २ उद्यमे न० ।
आगूर्त्त त्रि० आ + गुर--क्त “नसत्तेत्यादिना” पा० नि० वेदे
- नत्वाभावः १ उद्यते । भावे क्त । २ उद्यमे न० ।
आगूर्त्तिन् त्रि० आगूर्त्तमनेन इष्टा० इनि । कृतोद्यमे “आगूर्त्ती
- वा एष भवति यो दर्शपौर्ण्णमासाभ्यां यजते” श्रुतिः ।
आग्नापौष्ण त्रि० अग्निश्च पूषा च द्व० आनङ् अग्नापूषाणौ
- तौ देवते अस्य अण् द्विपदवृद्धिः बा० नेत् । अग्नापूषदेवताके
- हविरादौ । “आग्नापौष्ण, इन्द्रापौष्णः” कात्या० १५, २ ।
आग्नावैष्णव त्रि० अग्निश्च विष्णुश्च द्व० आनङ् अग्नाविष्णूतौ
- देवते अस्य अण् द्विपदवृद्धिः “इद्वृद्धौ” पा० इत्त्वेप्राप्ते “विष्णौ
- न” वार्त्ति० नेत्त्वम् । अग्नाविष्णुदेवताके हविरादौ ।
- “अथश्वोभूते आग्नावैष्णवमेकादशकपालं पुरोडाशं निर्वपति”
- “तत्मादाग्नावैष्णव एकादशकपालः पुरोडाशो भवति”
- इति च शत० ब्रा० । “आग्नावैष्णव ऐन्द्रावैष्णवः” कात्या०
- १५, २ अग्नाविष्णुशब्दौ विद्येते यत्र विमुक्ता० अण् ।
- अग्नावैष्णवशब्दयुक्ते २ अध्याये ३ अनुवाके च ।
आग्निक त्रि० अग्नेरिदं बा० ठक् । अग्निसम्बन्धिनि । “प्रकृ-
- तान्यौद्ग्रभणानि हुत्वा सप्ताग्निकान्याकूतिमिति” कात्या०
- १६, ५ । “द्विश्च स्थाल्याः स्रुवेणेत्येतदप्याग्निके भवति” कर्क-
- धृता श्रुतिः ।
आग्निदात्तेय त्रि० अग्निदत्त + चतुरर्थ्यां सख्या० ढ़क् । अग्निदत्तसन्निकृष्टदेशादौ ।
आग्निपद त्रि० अग्निपदे दीयते कार्य्यं वा व्युष्टा० अण् ।
- अग्निस्थाने १ दीयमाने २ कार्य्येवा पदार्थे ।
आग्निमारुत त्रि० अग्निश्च मरुतश्च द्व० आनङ् अग्नामरुतौ
- तौ देवते अस्य अण् द्विपदवृद्धिः इद्वृद्धौ” पा० इत् । अग्ना
- मरुतदेवताके १ शस्त्रेस्तोत्रभेदे २ हविरादौ च ।
आग्निवारुण त्रि० अग्निश्च वरुणश्च द्व० ईत् अग्नीवरुणौ तौ
- देवते अस्य अण् द्विपदवृद्धिः “इह्द्धौ” पा० इत् । अग्नी-
- वरुणदेवताके हविरादौ ।
आग्निवेश्य पुंस्त्री अग्निवेशस्य ऋषेरपत्यम् गर्गा० यञ् ।
- तदृषेरपत्ये “पुरोहितञ्च कौरव्य! वेदबेदाङ्गपारगम् ।
- आग्निवायञ्च राजानम्” भा० आश्व० प० ६४ अ० स्त्रियां
- ङीप् यलोपः । आग्निवेशी तद्गोत्रजस्त्रियाम् ।
|
आग्निशर्म्मि पुंस्त्री० अग्निशर्म्मणोऽपत्यं बाह्वा० इञ् ।
- तदपत्ये ततः गोत्रे फक् । आग्निशर्म्मायणः तद्गोत्रजे पुं
- स्त्री० आग्निशर्म्मौभवः गहा० छ । अग्निशर्म्मीयः तद्भवे त्रि०
आग्निष्टोमिक पु० अग्निष्टोमं क्रतुं वेत्ति तत्प्रतिपाद-
- कग्रन्थमधीते वा ठक् । १ अग्निष्टोमयज्ञाभिज्ञे २ तत्प्रति-
- पादकग्रन्थपाठके च । अग्निष्टोमग्रन्थस्य व्याख्यानः
- ग्रन्थः ठञ् । अग्निष्टोमयज्ञव्याख्याने ३ ग्रन्थे ४ विवृतौ
- स्त्री ङीप् ।
आग्निष्टोमिकी स्त्री० अग्निष्टोसस्य दक्षिणा ठञ् ङीप् । अग्निष्टोमदक्षिणायाम् ।
आग्नीध्र न० अग्निमिन्धे अग्नीत् तस्य शरणम् “अग्नीधः
- शरणे रण् भञ्च” वार्त्ति० रण्भत्वान्न जश् । अग्नीधो-
- यजमानस्य स्थाने उपचारात् २ साग्निके द्विजे
- सि० कौ० । अग्निं धारयति धृ--मूल० क पूर्ब्बपददीर्घश्च
- स्वार्थे अण् इति वा । साग्निके यजमाने द्विजे । “प्रति वीहि
- प्रस्थितं सौम्यं मधु पिवाग्नीध्रात्” ऋ० २, ३६, १ ।
- अग्नीध्र + स्वार्थे अण् । ३ अग्नीध्रस्थाने स्त्रियां ङीप्
- अग्निध्री तदाधारभूमौ स्त्री । स्वार्थे गहा० छ आग्नी-
- ध्रीयः । अग्निस्थाने “गार्हपत्याद्वा अग्नीघ्रीयमागच्छति”
- श्रुतिः आग्नीध्रस्येदम् वृद्धात् छः । आग्नीघ्रसम्बन्धिनि
- त्रि० । “आग्नीध्रीयं प्रथमं चिनोति” श्रुतिः ।
आग्नीध्र्या स्त्री अग्नीध्रस्थानमर्हति यत् । अग्निस्थानार्ह-
- शालायाम् ।
आग्नेन्द्र त्रि० अग्निश्च इन्द्रण द्व० आनङ् तौ देवते अस्य अण्
- “नेन्द्रस्य परस्य” इति पा० नोत्तरपदवृद्धिः वृद्ध्यभावात्
- नेत् । अग्नेन्द्रदेवताके हविरादौ स्त्रियां ङीप् । “या
- वा आग्नेन्द्र्यैन्द्राग्नी सा” श्रुतिः ।
आग्नेय त्रि० अग्नेरिदम् अग्निर्देवता वास्य ढक् । अग्निदेव-
- ताके १ हविरादौ “आग्नेयः षुरोडाशो भवति” शत० ब्रा०
- २ अग्निसम्बन्धिनि च ३ कृत्तिकानक्षत्रे न० तस्य अग्नि-
- देवताकत्वात्तथात्वम् “आग्नेयाप्पतिदैवतेति” ज्योति० ।
- अग्निना प्रोक्तं पुराणं ढक् । “आग्नेयं वेदसस्मितम्”
- इत्युक्ते अग्निप्रोक्ते महापुराणभेदे अग्निपुराणशब्दे
- विवृतिः ४ प्रतिपदि तिथौ स्त्री तस्याः तद्देवताकत्वमुक्तं
- यथा “अग्निः प्रजापतिः गौरी गणेशोऽहिर्गुहोरविः ।
- शिवोदुर्गायमोविश्वोहरिः कामोहरः शशी । पितरः
- प्रतिपदादीनां तिथीनामघिपाः क्रमात्” । “५ स्वर्ण्णे तस्य
- तद्वीर्य्यजातखात् तथात्वम् । अग्निरेतः शब्दे विवृतिः ।
|
पृष्ठ ०६२१
- ६ कार्त्तिकेये पु० तस्य तद्वीजजातत्वात् तथात्वम्
- अग्निकुमारशब्दे विवृतिः । ७ रुधिरे न० जठरानल-
- जायमानत्वात् देहस्थपित्तरूपाग्नेर्विकारत्वात् वाऽस्य
- तथात्वम् । अग्नये हितम् ढक् । जठरानलादिवृद्धिकरे
- वैद्यकोक्ते ८ द्रव्यभेदे त्रि० ९ बाह्याग्निबर्द्धके
- जतुप्रभृतौ च १० अग्निपर्व्वते ११ देशभेदे च पु० तस्य
- देशस्याग्न्यधिष्ठितत्वात् तथात्वम् स च देशः । दक्षिणा-
- पथसन्निकृष्टकिष्किन्ध्यादेशसमीपस्थः माहेष्मतीपुरीयुक्तः तत्र
- हि वह्निः नीलराजकन्यासौन्दर्य्येण मोहितःताञ्चकमेऽथ
- वाञ्चोढ्वा तत्साहाय्यार्थं तत्रैव पुर्य्यां स्वयं स्थितः यथोक्तम्” भा०
- स० प० “तत्र माहिष्मतीवासी भगवान् हव्यवाहनः । श्रूयते
- हि गृहीतो वै पुरस्तात् पारदारिक । नीलस्य राज्ञो
- दुहिता बभूवातीव शोभना । साग्निहोत्रमुपातिष्ठद्बोध-
- नाय पितुः सदा । व्यजनैर्धूयमानोऽपि तावत् प्रज्व-
- लते न सः । यावच्चारुपुटौष्ठेन वायुना न विधूयते ।
- ततः स भगवानग्निश्चकमे तां सुदर्शनाम् । नीलस्य राज्ञः
- सर्व्वेषामुपनीतश्च सोऽभवत् । ततो ब्राह्मणरूपेण रममाणो
- यदृच्छया । चकमे तां वरारोहां कन्यामुत्पललोचनाम्
- तन्तु राजा यथाशास्त्रमशिषद्धार्म्मिकस्तदा । प्रजज्वाल
- ततः कोपाद्भगवान् हव्यवाहनः । तं दृष्ट्वा विस्मितो राजा
- जगाम शिरसावनिम् । ततः कालेन तां कन्यां तथैव हि
- तदा नृपः । प्रददौ विप्ररूपाय वह्नये शिरसा नतः ।
- प्रतिमृह्य च तां सुभ्रूं नीलराज्ञः सुतां तदा । चक्रे
- प्रसादं भगवांस्तस्य राज्ञो विभावसुः । वरेण च्छन्दयामास
- तं नृपं स्विष्टिकृत्तमः । अभयञ्च स जग्राह स्वसैन्ये वै
- महीपतिः । ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः ।
- जिगीषन्ति बलाद्राजंस्ते दह्यन्ते स्म वह्निना । तस्यां पुर्य्यां
- तदा चैव माहिष्मत्यां कुरुद्वह! । वभूवुरनतिग्राह्या योषि-
- तश्छन्दतः किल । एवमग्निर्व्वरं प्रादात् स्त्रीणामप्रतिवा-
- रणे । स्वैरिण्यस्तत्र नार्य्यो हि यथेष्टं विचरन्त्युत ।
- बर्ज्जयन्ति च राजानस्तत्पुरं भरतर्षभ । भयादग्नेर्म्म-
- हाराज! ततः प्रभृति सर्व्वदा । सहदेवस्तु धर्म्मात्मा
- सैन्यं दृष्ट्वा भयार्द्दितम् । परीतमग्निना राजन्नाकम्पत
- यथाऽचलः । उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत् पावकं
- ततः । सहदेय उवाच । त्वदर्थोऽयं समारम्भः कृष्ण-
- वर्त्मन्नमोऽस्तु ते । मुखं त्वमसि देवानां यज्ञस्त्वमसि
- यावक! । पावनात् पावकश्चासि वहनाद्धव्यवाहनः । वेदा-
- स्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि । चित्रभानुः सुरे-
|
- शश्च अनलस्त्वं विभावसो! । स्वर्गद्वारस्पृशश्चासि हुताशो
- ज्वलनः शिखी । वैश्वानरस्त्वं पिङ्गेशः प्लवङ्गो भूरिते-
- जसः । कुमारसूस्त्वं भगवान् रुद्रगर्भो हिरण्यकृत् ।
- अग्निर्द्ददातु मे तेजो वायुः प्राणं ददातु मे । पृथिवी
- बलमादध्याच्छिवञ्चापो दिशन्तु मे । अपां गर्भ! महासत्त्व!
- जातवेदः! सुरेश्वर! । देवानां मुखमग्ने! त्वं सत्येन विपु-
- नीहि माम् । ऋषिभिर्ब्राह्मणैश्चैव दैवतैरसुरैरपि ।
- नित्यं सुहुतयज्ञेषु सत्येन विपुनीहि माम् । धूमकेतुः
- शिखी च त्वं पापहानिलसम्भवः । सर्वप्राणिषु नित्यस्थः
- सत्येन विपुनीहि माम् । एवं स्तुतोऽसि भगवन् प्रीतेन
- शुचिना मया । तुष्टिं पुष्टिं श्रुतिञ्चैव प्रीतिञ्चाग्ने । प्रयच्छ
- मे । वैशम्पायन उवाच । इत्येवं मन्त्रमाग्नेयं पठन्
- यो जहुयाद्विभुम् । ऋद्धिमान् सततं दान्तः सर्वपापैः
- प्रमुच्यते । सहदेव उवाच । यज्ञविघ्नमिमं कर्त्तुं नार्हस्त्वं
- हव्यवाहन! । एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य्य मेदि-
- नीम् । विघिवत् पुरुषव्याघ्रः पावकं प्रत्युपाविशत् ।
- प्रमुखे तस्य सैन्यस्य भियोद्विग्नस्य भारत । न चैनमत्य-
- गाद्बह्निर्वेलामिव महोदधिः । तमुपैत्य शनैर्वह्निरुवाच कुरु-
- नन्दनम् । सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः । उत्ति-
- ष्ठोत्तिष्ठ कौरव्य! जिज्ञासेयं मया कृता । वेद्मि सर्व-
- भभिप्रायं तव धर्म्मीसुतस्य च । मया तु रक्षितव्येयं
- पुरी भरतसत्तम । यावद्राज्ञो हि नीलस्य कुले वंशधराः
- नृपः” १२ अग्न्युपासने मन्त्रे १३ अग्निसम्बन्धिधारणाभेदे
- स्त्री “आग्नेय्या धारणया देहं दग्ध्वेति भूतशुद्धिः । “देहं
- धारणयाग्नेय्या दग्ध्वा धामाविशत् स्वकम्” भाग० १४ दक्षिण-
- पूर्ब्बायां दिशि स्त्री । अग्नेर्भक्तः ढक् । १५ अग्निभक्ते आग्नेयो
- वै ब्राह्मणो देवतया” श्रुतिः अग्नेरपत्यम् अग्नेरागतम्
- अग्नौ भवः अग्निनादृष्टं सामेति वा ढक् । १६ अग्ने
- रपत्ये १७ अग्नितआगते १८ त्रि० अग्निना दृष्टे सामनि
- न० “मन्त्रं भौमं तथा तथाग्नेयं वायव्यं दिव्यमेव च ।
- वारुणं मानसञ्चैव सप्त स्नानानि चक्षते” इति विभज्य
- “आग्नेयं भस्मना स्नानमिति” पराशरोक्ते भस्ममर्द्दनपूर्वके
- १९ स्नाने न० । “प्रतापयुक्तस्तेजस्वी नित्यं स्यात् पापकर्मसु
- दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतमिति” मनूक्ते २०
- नृपतिचरितभेदे न० अग्नौ अग्न्युद्दीपने साधु ढक् । २१
- अग्न्युद्दीपनसाधने जतुघृतादौ त्रि० “जिघ्राणोऽस्य वसागन्धं
- सर्पिर्जतुविमिश्रितम् । कृतं हि व्यक्तमाग्नेयमिदं वेश्य
- परन्तप!” “अदीदं गृहमाग्नेयं विहितं मन्थते भवान्”
|
पृष्ठ ०६२२
- इति च भा० आ० प० १४४ अध्या० । २२ अग्न्युद्दीपन
- साधने घृते २३ अस्त्रविशेषे च न० । तत आगतः ढक् ।
- अग्निप्रकृतिके २४ कीटभेदे ते च चतुर्विंशतिविधाः
- यथाहसुश्रुतः । “कौण्डिल्यकः करभको वरटी पत्र-
- वृश्चिकः । विनाशिका ब्रह्मणिका विन्दलोभ्रमरस्तथा ।
- बाह्यकी पिच्चिटः कुम्भो वर्च कीटोऽरिसेदकः ।
- पद्मकीटो दुन्दुभिश्च मकरः शतपादकः । पञ्चालकः
- पाकमत्स्यः कृष्णतुण्डोऽथ गर्द्दभी । क्लीतः कृमिसरारीच
- यश्चाप्युत्क्लेशकः स्मृतः । एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव
- च । तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः ।
- “अग्नायी देवताऽस्य ढक् पुंवद्भावः । २५ स्वाहादेवताकेस्थालीपाके।
आग्न्याधानिकी स्त्री अग्न्याधानस्य यज्ञस्य दक्षिणा ठञ् । अग्न्याधानदक्षिणायाम् ।
आग्रभोजनिक पु० अग्रभोजनं नियतं दीयतेऽस्मै ठञ् ।
- नियतम् अग्रभोजनदानसम्प्रदाने विप्रभेदे । (अग्रदानी) ।
आग्रयण त्रि० अग्रे अयणं भोजनं शस्यादेर्येन कर्म्मणा
- पृ० ह्रस्वदीर्घः व्यत्ययः । नवान्नागमनिमित्ते साग्निककर्त्तव्ये
- यज्ञभेदे तत्प्रकारः आश्वलीयश्रौतसूत्रे दर्शितो यथा
- “आग्रयणं व्रीहिश्यामाकयवानाम् १ । शस्यं नाश्नीयादग्नि-
- होत्रमहुत्वा २ । यदा वर्षस्य तृप्तः स्यादथाग्रयणेन
- यजेत ३ । अपि हि देवा आहुस्तृप्तो नूनं षर्षस्याग्रयणेन हि
- यजत इति अग्निहोत्रीं वै नानादयित्वा तस्याः पयसा
- जुहुयात् ४ । अपि वा क्रिया यवेषु ५ । इष्टिस्तु राज्ञ ६ ।
- सर्वेषां चैके ७ । श्यामाकेष्ट्यां सौम्यश्चरुः ८ । सोम! यास्ते
- मयोभुवो या ते धामानि दिवि या पृथिव्यामित्यवान्तरे-
- डाया नित्यं जपमुक्त्वा सव्ये पाणौ कृत्वेतरेणाभिमृशेत्
- प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रिये मह्यं
- यशमे मह्यमन्नाद्याय ९ । भद्रान्नः श्रेयः समनैष्ट देवास्त्वया-
- वसेन समशीमहि त्वा । स नो मयोभूः पितवाविशे ह
- शन्नो भव द्विपदे शं चतुष्पद इति प्राश्याचम्य नाभिमाल-
- भेतामोऽसि प्राण! तदृतं ब्रवीम्यमासि सर्व्वानसि प्रविष्टः ।
- स मे जरां रोगमपनुद्य शरीरादमा म एधि मामृधाम
- इन्द्रेति १० । एतेन मक्षिणो भक्षान् सर्वत्र नवभोजने ११ ।
- अथ व्रीहियवानां धाय्ये विराजौ १२ । अग्नीन्द्राविन्द्राग्नी
- वा विश्वे देवाः सोमो यदि तत्र श्यामाकोद्यावापृथिवी १३ ।
- आद्या ये अग्निमिन्धते सुकर्माणः सुरुचो देवयन्तो
- विश्वे देवास आगत ये के च ज्मामहि नो अहिमाया
- मही द्यौः पृथिवी च नःप्रपूर्वजे पितरानव्यसीभिरिति १४ ।
|
- “अग्रे अयनं भक्षणं येन कर्म्मणा तदाग्रयणम् । प्रथम-
- द्वितीययोर्ह्रस्वदीर्घत्वव्यत्ययः । एषान्त्रयाणां द्रव्याणां
- संवत्सरे प्रथमनिष्पन्नानाम् आग्रयणं नाम कर्म कर्त्तव्यमि-
- त्यर्थः । व्रीहिशब्दस्य प्रथमनिपातो व्रीहीणां प्राधान्य-
- ख्यापनार्थम् । तेन कालचोदना व्रीह्याग्रयणस्यैव भवति ।
- श्यामाकशब्दस्य मध्यनिपातो व्रीहिकालाद्--यवकालो भिन्न
- इति ज्ञापयति? । सस्यं नवनिष्पन्नं, तन्नाश्नीयात् आग्र-
- यणेनानिष्ट्वा । यद्याग्रयणेनानिष्टवतो नवनिष्पन्नेनाशनेन
- विना निर्व्वाहो न स्यात् तदा तेषां द्रव्याणां तत्काल-
- निष्पन्नेन सायम्प्रातरग्निहोत्रं हुत्वाऽश्नीयात् । ततः
- काल आगते त्वाग्रयणं कुर्य्यात् । अग्निहोत्रमहुत्वा
- नाश्नीयादितिवचनादाग्रयणेनानिष्ट्वाप्यग्निहोत्रं हुत्वाऽ-
- श्नतो न दोष इति गम्यते । सस्यग्रहणं व्रीह्याद्यन्यदपि
- यन्निष्पन्नं तस्य सर्वस्य प्रतिषेधार्थम् २ । यदा वर्षतृप्तिर्लोकस्य
- भवति तदाग्रयणेन यजेत । अनेन प्रकारेण व्रीह्या-
- ग्रयणस्य शरत्काल उक्तो भवति । एतमेव कालं श्रुत्या
- समर्थयति३ । अथाग्रयणेन यजेतेति इष्टिरेवाग्रयणशब्दे-
- नोक्ता, इदानीमिदमप्युच्यते । अग्निहोत्रहोमार्था धेनुर-
- ग्निहोत्रीत्युच्यते । तां व्रीहिश्यामाकयवानामन्यतमम्
- आशयित्वा तस्याः पयसा सायंप्रातरग्निहोत्रं जुहुयात् ।
- इष्टिः प्रथमकल्पः, तदसम्भवेऽयमनुकल्पः इति द्वावेवाग्र-
- यणकल्पावत्रोच्येते ४ । यवैराग्रयणस्य क्रिया भवेत् अक्रिया
- वेति बिकल्प ५ ।! त्रयाणां वर्ण्णानामविशेषेणकल्पद्वये प्राप्ते
- राज्ञो विशेष उच्यते इष्टिरेव नान्य इति ६ । सर्वेषामपि
- वर्ण्णानामिष्टिरेवेत्येके मन्यन्ते७ । श्यामाकाग्रयणे इष्ट्यां
- सोमदैवत्यश्चरुर्भवति । कालो वर्षा ऋतुः, शास्त्रान्तरे
- दर्शनात्८ । इतिकाराध्याहारेण सूत्रच्छेदः । नित्यजप-
- शब्देनेडे भागमिति मन्त्र उच्यते । तस्य नित्यत्वे सत्यपि
- नित्यवचनम् एतेन भक्षिण इति विध्यतिदेशे तद्वर्ज्जितस्य
- प्रापणार्थम्९ । स्मृतिप्राप्तस्याचमनस्य विधानं यस्मिन् देशे
- आचमनं कृतं तस्मिन्नेव देशे स्थितस्य च नाभ्यालम्भन-
- सिद्ध्यर्थम् १० । एतेन विधानेन सर्वभक्षेषु, सर्वे भक्षिणः
- सर्वान् भक्षान् भक्षयेयुः । सर्वत्रवचनं प्रकरणोत्कर्षार्थम् ।
- नवभोजनवचनं लौकिकेऽपि नवभोजने प्रापणार्थम् ।
- सर्वत्रवचनात् प्रकरणादुत्कृष्टमपि नवभोजनवचनाल्लौकिक
- एव व्यवतिष्ठते । वैदिकेऽग्निहोत्रहोमे “नावानां सवनी-
- यान्, इत्यत्र न प्राप्नुयात्, तत्रापि प्रापणार्थं भक्षण-
- वचनम् ११ । अथानन्तरं व्रीहीणां यवानां चाग्रयणेष्टिरु-
|
पृष्ठ ०६२३
- च्यते । तत्र व्रीह्याग्रयणस्य काल उक्तः, वसन्तो यवाग्र-
- यणस्य । तत्र हि तेषां प्रथमः पाक इति तन्त्रे
- विशेषाभावात् उभयोः सहवचनं तयोर्धाय्ये विराजौ
- च भवतः । “इतरत् पौणमासं तन्त्रं वैराजम्” इत्येता
- वतैवोक्तेऽपि तावन्मात्रविकारसिद्धौ सत्यां धाय्याविराज-
- ग्रहण विकल्पेन वृधन्वतोरपि प्रापणार्थम् १२ । आद्ययो-
- र्विकल्पेनैता देवता गृह्यन्ते । यदि श्यामाकाग्रयणमस्या-
- मेवेष्टौ समानतन्त्रेण क्रियते तदा सोमस्तृतीयो भवति १३ ।
- इन्द्राग्न्योः सोमस्य चोक्ता याज्यानुवाक्यावृत्तिः” १४ ।
- “य आहिताग्निराग्रयणेनानिष्ट्वा प्राश्नायात्” श्रुतिः
- अतोऽकरणे दोषश्रवणान्नित्यत्वम् । अतएव कर्कपद्धतौ नित्यानि
- तु अग्निहोत्रदर्शपौर्ण्णमासदाक्षायणाग्रयणपशुचातुर्मास्या-
- दीनि अवश्य कर्त्तव्यानीत्युक्तम् । २ तन्निमित्तकेष्टौ नवशस्येष्टौ
- स्त्री गौरा० ङीप् । “इन्द्रेण सहितं यस्य हविराग्रयणं
- स्मृतम् । अग्निराग्रयणोनाम भानोरेवान्वयस्तु स इत्युक्ते
- ३ सूर्य्यान्वयजे वह्निभेदे पु० । उपचारात् ४ आग्र-
- यणकाले “व्रीह्याग्रयणानन्तरं यवाग्रयणादर्वाग्व्रीहि-
- भिरेव दर्शपौर्ण्णमासौ कार्य्यौ यवाग्रयणानन्तरं प्राग्-
- व्रीह्याग्रयणाद्यवैरेव । अथवा व्रीहिभिरेव इति” कर्कः ।
- “शस्यान्ते नवशस्येष्ट्या तथर्त्वन्ते द्विजीऽध्वरैः”
- मनुव्याख्यायां पूर्ब्बार्ज्जितधान्यादिशस्ये समाप्ते शरदि
- यवानामिति सूत्रकारवचनात् असमाप्ते पूर्ब्ब शस्ये
- नवशस्योत्पत्तौ आग्रयणेन यजेतेति शस्यक्षयस्यानियतत्वात्
- धनिनां बहुहायनजीवनोचितशस्यसम्भवाच्च” कुल्लू०
- आग्रयणञ्च कर्म्माशुद्धकाले न कर्त्तव्यम् यथोक्तम्
- “वाप्यारामतड़ागकूपेत्यादिनोपक्रम्य” “गोदानाग्रहयण
- प्रपाप्रथमकोपाकर्म्मवेदव्रत” मित्यादीन्युद्दिश्य “श्रवण-
- योर्वेधं परीक्षां त्यज वृद्धत्वास्तशिशुत्व इज्यसितयोर्न्यूना-
- मासे तथा” मुहू० चि० उक्तेः । “सोमयोगादिकर्माणि
- त्याज्यानि स्यु र्मलिम्लुचे । तथैवाग्रयणाधानचातुर्य्यास्या-
- दिकान्यह्यपि” गृ० परि० उक्तेः । “बाले वा यदि वृद्धे शुक्रे
- वास्तं गते गुरौ । मलमासैवेतानि वर्ज्जयेत्” वृद्धगर्गोक्ते ।
आग्रह पु० आ + ग्रह--अप् । १ आवेशे आसक्तौ अभिनिवेशे
- “चलेऽपि काकस्य पदार्पणाग्रहः” नैष० । २ आक्रमे
- ३ अनुग्रहे ४ ग्रहणे च ।
आग्रहायण पु० अग्रहायण्या मृगशीर्षनक्षत्रेण युक्ता पौर्ण्ण-
- मासी आग्रहायणी अस्त्यत्र मासे ज्योत्स्ना० अण् ।
- १ चान्द्रमार्गशीर्षे मासि अग्रहायण्या युक्ता पौर्णमासी अण् ।
|
- २ चान्द्रमार्गशीर्षमासपोर्ण्णमास्यां स्त्री । “आग्रहायण्या
- ऊर्द्ध्वं तिसृष्वेवाष्टकासु” स्मृतिः । “कार्त्तिक्या आग्रहायणी
- मासे” सि० कौ० । यथा च मृगशीर्षनक्षत्रसम्बन्धात्
- मासस्य मार्गशीर्षत्वं तथोक्तम् सू० सि० “नक्षत्रनाम्ना
- मासास्तु ज्ञेयाः पर्व्वान्तयोगतः” इति “पूर्णमास्यां
- मृगशीर्षनक्षत्रयोगात् मार्गशीर्षश्चान्द्रमासः मृगशीर्ष एव अग्र-
- हायणीनामा पौर्णमास्यां तत्सम्बन्धयोग्यत्वमेव तदर्थः अत
- एव “कार्त्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम् ।
- अन्त्योपान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम्” सू० सि०
- तेन कृत्तिकारोहिणीभ्यां कार्त्तिकी मृगार्द्राभ्यां
- मार्गशीर्ष इत्यादि क्रमेण नक्षत्रद्वयसम्बन्धस्तत्रोक्तः ।
आग्रहाय(ण)णिक न० आग्रहायण्यां देयमृणं वुञ् ठञ्
- वा । आग्रहायण्यां देये ऋणे ।
आग्रहायणिक पु० आग्रहायणी पूर्ण्णिमाऽस्मिन्मासे ठक् ।
- चान्द्रमार्गशीर्षे मासि ।
आग्रहारिक त्रि० अग्रहारोऽग्रभागोनियतं दीयतेऽस्मै ठञ् । (अग्रदानो) विप्रे ।
आग्रायण पुंस्त्री अग्रनामकस्य ऋषेः गोत्रापत्यम् नडा०
- फक् । अग्रनामर्षे गोत्रापत्ये १ अग्रेऽयनं । शस्यस्यास्त्यस्य
- ज्योस्ना० अण् । २ नवशस्येष्टौ ।
आघट्टक पु० आघट्टयति रोगान् ण्वुल् । रक्तापामार्गे
- राजनि० चालके त्रि० ।
आघट्टना स्त्री आ + घट्ट--युच् । चालनायां “रणद्धिराघट्टनया नभस्वतः” माघः ।
आघट्टित त्रि० आ + घट्ट--क्त । चालिते ।
आघमर्षण न० अघमर्षणे विहितम् अण् । अघानां
- नाशनाय विहिते सूक्तभेदे अघमर्षणशब्दे तच्च दर्शितम् ।
आघर्ष पु० आ + घृष--घञ् । मर्द्दने “गण्डस्थलाघर्षगलन्म-
- दोदक” भाघः । भावे ल्युट् । आघर्षणमप्यत्र न० ।
आघाट पु० आ + हन--कर्त्तरि संज्ञायां घञ् पृ०
- नि० तस्य टः । १ अपामार्गे २ आघातके त्रि० ।
- “यत्राघाटाः कर्कर्य्यः संवदन्ति” श्रुतिः ।
आघाटिन् त्रि० आ + हन--णिनि पृ० नि० । आघातके
- “आघाटिमिरिव धावयन्” ऋ० १, ०, १४६, २ ।
आघात पु० आ + हन--घञ् । १ बधे २ आहनने ३ ताड़ने च
- तीव्राघातप्रतिहततरु स्वन्धलग्नैकदन्तः” मेघ० । “अभ्य-
- स्यन्ति तटाघातं निर्जितैरावतागजाः” कुमा० । “सूत्रा-
- घातःस उच्यते” सुश्रुतः । आधारे धञ् । ४ बधस्थाने ।
- “आघातं नीयमानस्य बध्यस्येव” ।
आघातन न० आहन्यतेऽत्र आ + हन--स्वार्थे णिच्--आधारे
- ल्युट् । १ बधस्थाने हारा० भावे ल्युट् । २ हनने ।
|