"पञ्चतन्त्रम् ०४ग" इत्यस्य संस्करणे भेदः

पङ्क्तिः १२४:
==कथा १० द्रॊणाख्य-ब्राह्मण-कथा==
<br>
<span style="font-size: 14pt; line-height: 170%">
अस्ति कस्मिंश्चिद् अधिष्ठानॆ दरिद्रॊ द्रॊण-नामा ब्राह्मणः, प्रतिग्रह-धनः सततं विशिष्ट-वस्त्रानुलॆपन-गंध-माल्यालंकार-तांबूलादि-भॊग-परिवर्जितः, प्ररूढ-कॆश-श्मश्रु-नख-रॊमॊपचितः, शीतॊष्ण-वात-वर्षादिभिः परिशॊषित-शरीरः, तस्य च कॆनापि यजमानॆनानुकंपया शिशु-गॊ-युगं दत्तम्। ब्राह्मणॆन च बाल-भावाद् आरभ्य याचित-घृत-तैल-यवसादिभिः संवर्ध्य सुपुष्टं कृतम्। तच् च दृष्ट्वा सहसैव कश्चिच् चौरश् चिंतितवान्-अहम् अस्य ब्राह्मणस्य गॊ-युगम् इदम् अपहरिष्यामि। इति निश्चित्य निशायां बंधन-पाशं गृहीत्वा, यावत् प्रस्थितस् तावद् अर्ध-मार्गॆ प्रविरल-तीक्ष्ण-दंत-पंक्तिर् उन्नत-नासा-वंशः, प्रकट-रक्तांत-नयनः उपचित-स्नायु-संततनत-गात्रः शुष्क-कपॊलः सुहुत-हुतवह-पिंगल-श्मश्रु-कॆश-शरीरः कश्चिद् दृष्टः। दृष्ट्वा च त तीव्र-भय-त्रस्तॊ चौरॊऽब्रवीत्-कॊ भवान्? इति।<br>
<br>
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०४ग" इत्यस्माद् प्रतिप्राप्तम्