"पञ्चतन्त्रम् ०२" इत्यस्य संस्करणे भेदः

पङ्क्तिः ९६:
==कथा - १ - कीलोत्पाटिवानरकथा==
 
कस्मिंश्चिन् नगराभ्याशे केनापि वणिक्पुत्रेण तरुखंडमध्ये देवतायतनं कर्तुम् आरब्धम्। तत्र च ये कर्मकराः स्थापनादयः। ते मध्याह्नवेलायाम् आहारार्थं नगरमध्ये गच्छंति। अथ कदाचित् तत्रानुषंगिकं वानरयूथम् इतश् चेतश् च परिभ्रमद् आगतम्। तत्रैकस्य कस्यचिच् छिल्पिनोऽर्धस्फाटितोऽञ्जनवृक्षदारुमयः स्तंभः खदिरकीलकेन मध्यनिहितेन तिष्ठति। एतस्मिंन् अन्तरे ते वानरास् तरुशिखरप्रसादशृंगदारुपर्यंतेषु यथेच्छया क्रीडितुम् आरब्धाः। एकश् च तेषां प्रत्यासन्नमृत्युश् चापल्यात् तस्मिन्न् अर्धस्फोटितस्तंभे उपविश्य पाणिभ्यां कीलकं संगृह्य्यसंगृह्य यावद् उत्पादयितुम् आरेभे तावत् तस्य स्तंभमध्यगतवृषणस्य स्वस्थानाच् चलितकीलकेन यद् वृत्तं तत् प्राग् एव निवेदितम्। अतोऽहं ब्रवीमि अव्यापारेषु इति। आवयोर् भक्षितशेष आहारोऽस्त्य् एव। तत् किम् अनेन व्यापारेण। दमनक आह तत् किं भवान् आहारार्थी केवलम् एव। तन् न युक्तम्। उक्तं च
 
<poem>
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२" इत्यस्माद् प्रतिप्राप्तम्