"पञ्चतन्त्रम् ०२ग" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
करोति सः कृतैर् लोके लघुत्वं याति सर्वतः॥पञ्च_१.१५१॥
स्त्रियं च यः प्रार्थयते संनिकर्षं च गच्छति।
ईषच् च कुरुते सेवां तम् ऎवेच्छंतिएवेच्छंति योषितः॥पञ्च_१.१५२॥
अनर्थित्वान् मनुष्याणां भयात् परिजनस्य च।
मर्यादायाम् अमर्यादाः स्त्रियस् तिष्ठंति सर्वदा॥पञ्च_१.१५३॥
नासां कश्चिद् अगम्योऽस्ति नासां च वयसि स्थितिः।
विरूपं रूपवंतं वा पुमान् इत्य् ऎवएव भुज्यते॥पञ्च_१.१५४॥
रक्तो हि जायते भोग्यो नारीणां शाटिका यथा।
घृष्यते यो दशालंबी नितंबे विनिवेशितः॥पञ्च_१.१५५॥
पङ्क्तिः १४:
अबलाभिर् बलाद् रक्तः पाद-मूले निपात्यते॥पञ्च_१.१५६॥
 
ऎवंएवं स राजा बहुविधं विलप्य तत्-प्रभृति दंतिलस्य प्रसाद-पराङ्मुखः संजातः। किं बहुना। राज-द्वार-प्रवेशोऽपि तस्य निवारितः। दंतिलोऽप्य् अकस्माद् ऎवएव प्रसाद-पराङ्मुखम् अवनिपतिम् अवलोक्य चिंतयामास-अहो साधु चेदम् उच्यते-
 
कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
पङ्क्तिः २५:
क्लीबे धैर्यं मद्यपे तत्त्व-चिंता राजा मित्र केन दृष्टं श्रुतं वा॥पञ्च_१.१५८॥
 
अपरं मयास्य भूपतेर् अथवान्यस्यापि कस्यचिद् राज-संबंधिनः स्वप्नेपि नानिष्टं कृतम्। तत् किम् ऎतत्एतत्-पराङ्मुखो मां प्रति भूपतिः इति।
 
ऎवंएवं तं दंतिलं कदाचिद् राज-द्वारे विष्कंभितं विलोक्य संमार्जन-कर्ता गोरंभो विहस्य द्वारपालान् इदम् ऊचे-भो भो द्वारपालाः! राज-प्रसादाधिष्ठितोऽयं दंतिलः स्वयं निग्रहानुग्रह-कर्ता च। तद् अनेन निवारितेन यथाहं तथा यूयम् अप्य् अर्ध-चंद्र-भाजिनो भविष्यथ। तच् छ्रुत्वा दंतिलश् चिंतयामास-नूनम् इदम् अस्य गोरंभस्य चेष्टितम्। अथवा साध्व् इदम् उच्यते-
अकुलीनोऽपि मूर्खोऽपि भूपालं योऽत्र सेवते।
अपि सम्मानहीनोऽपि स सर्वत्र प्रपूज्यते॥पञ्च_१.१५९॥
पङ्क्तिः ३३:
तथापि न पराभूतिं जनाद् आप्नोति मानवः॥पञ्च_१.१६०॥
 
ऎवंएवं स बहु-विध विलप्य विलक्ष-मनाः सोद्वेगो गत-प्रभावः स्व-गृहं निशामुखे गोरंभम् आहूय वस्त्र-युगलेन सम्मान्येदम् उवाच-भद्र! मया न तदा त्वं राग-वशान् निःसारितः। यतस् त्वं ब्राह्मणानाम् अग्रतोऽनुचित-स्थाने समुपविष्टो दृष्ट इत्य् अपमानितः। तत् क्षम्यताम्।
 
सोऽपि स्वर्ग-राज्योपमं तद्-वस्त्र-युगलम् आसाद्य परं परितोषं गत्वा तम् उवाच-भोः श्रेष्ठिन्! क्षान्तं मया ते तत्। तद् अस्य सम्मानस्य कृते पश्य मे बुद्धि-प्रभावं राज-प्रसादं च। ऎवम्एवम् उक्त्वा सपरितोषं निष्क्रान्तः। साधु चेदम् उच्यते-
 
स्तोकेनोन्नतिमायाति स्तोकेनायात्य् अधोगतिम्।
पङ्क्तिः ४२:
ततश् चान्ये-द्युः स गोरंभो राज-कुले गत्वा योग-निद्रा गतस्य भूपतेः सम्मार्जन-क्रिया कुर्वन्न् इदम् आह-अहो अविवेकोऽस्मद्-भूपतेः। यत् पुरीषोत्सर्गम् आचरंश् चिर्भटी-भक्षणं करोति।
 
तच् छ्रुत्वा राजा स-विस्मयं तम् उवाच-रे रे गोरंभ! किम् अप्रस्तुतं लपसि। गृह-कर्मकरं मत्वा त्वां न व्यापादयामि। किं त्वया कदाचिद् अहम् ऎवंविधंएवंविधं कर्म समाचरन् दृष्टः?
 
सो ब्रवीत्-द्यूतासक्तस्य रात्रि-जागरणेन सम्मार्जन कुर्वाणस्य मम बलान् निद्रा समायाता। तयाधिष्ठितेन मया किंचिज् जल्पितम्। तन् न वेद्मि। तत् प्रसादं करोतु स्वामी निद्रा-परवशस्य इति।
 
ऎवंएवं श्रुत्वा राजा चिंतितवान्-यन् मया जन्मांतरे पुरीषोत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता। तद् यथायं व्यतिकरो संभाव्यो ममानेन मूढेन व्याहृतः। तथा दंतिलस्यापीति निश्चयः। तन् मया न युक्तं कृतं यत् स वराकः सम्मानेन वियोजितः। न तादृक्-पुरुषाणाम् ऎवंविधंएवंविधं चेष्टितं संभाव्यते। तद्-अभावेन राज-कृत्यानि पौर-कृत्यानि च सर्वाणि शिथिलतां व्रजन्ति।
 
ऎवम्एवम् अनेकधा विमृश्य दंतिलं समाहूय निजांग-वस्त्राभरणादिभिः संयोज्य स्वाधिकारे नियोजयामास। अतोऽहं ब्रवीमि यो न पूजयते गर्वात् इति।
 
'''[http://puranastudy.tripod.com/pur_index13/dantila.htm दन्तिल भाण्डपति - गोरम्भ सम्मार्जकोपरि टिप्पणी]'''
 
संजीवक आह-भद्र ऎवम्एवम् ऎवैतत्।एवैतत्। यद् भवताभिहितं तद् ऎवएव मया कर्तव्यम् इति। ऎवम्एवम् अभिहिते दमनकस् तम् आदाय पिंगलक-सकाशम् अगमत्। आह च-देव ऎषएष मयानीतः स संजीवकः। अधुना देवः प्रमाणम्। संजीवकोऽपि तं सादरं प्रणम्याग्रतः स-विनयं स्थितः। पिंगलकोऽपि तस्य पीनायत-ककुद्मतो नख-कुलिशालंकृतं दक्षिण-पाणिम् उपरि दत्त्वा मान-पुरःसरम् उवाच-अपि शिवं भवतः। कुतस् त्वम् अस्मिन् वने विजने समायातोऽसि?
 
तेनाप्य् आत्मक-वृत्तांतः कथितः। यथा वर्धमानेन सह वियोगः सजातस् तथा सर्वं निवेदितम्। तच् छ्रुत्वा पिंगलकः सादरतरं तम् उवाच-वयस्य, न भेतव्यम्। मद्-भुज-पञ्जर-परिरक्षितेन यथेच्छं त्वयाधुना वर्तितव्यम्। अन्यच् च नित्यं मत्-समीप-वर्तिना भाव्यम्। यतः कारणाद् बह्व्-अपायं रौद्र-सत्त्व-निषेवित वन गुरूणाम् अपि सत्त्वानाम् असेव्यम्। कुतः शष्प-भोजिनाम्।
 
ऎवम्एवम् उक्त्वा सकल-मृग-परिवृतो यमुना-कच्छम् अवतीर्योदक-ग्रहणं कृत्वा स्वेच्छया तद् ऎवएव वनं प्रविष्टः। ततश् च करकट-दमनक-निक्षिप्त-राज्य-भारः संजीवकेन सह सुभाषित-गोष्ठीम् अनुभवन्न् आस्ते। अथवा साध्व् इदम् उच्यते-
 
यद्ड़्च्छयाप्य् उपनत सक्ड़्त् सज्जन-संगतम्।
भवत्य् अजरम् अत्यंत नाभ्यास-क्रमम् ईक्षते॥पञ्च_१.१६२॥
 
संजीवकेनाप्य् अनेक-शास्त्रावगाहनाद् उत्पन्न-बुद्धि-प्रागल्भ्येन स्तोकैर् ऎवाहोभिर्एवाहोभिर् मूढ-मतिः पिंगलको धीमांस् तथा कृतो यथारण्य-धर्माद् वियोज्य ग्राम्य-धर्मेषु नियोजितः। कि बहुना प्रत्यहं पिंगलक-संजीवकाव् ऎवएव केवलं रहसि मन्त्रयतः। शेषः सर्वोऽपि मृग-जनो दूरीभूतस् तिष्ठति। करटक-दमनकाव् अपि प्रवेशं न लभेते। अन्यच् च सिंह-पराक्रमाभावात् सर्वोऽपि मृग-जनस् तौ च शृगालौ क्षुधा-व्याधि-बाधिता ऎकांएकां दिशम् आश्रित्य स्थिताः।
 
उक्तं च-
पङ्क्तिः ६८:
तथा च-
अपि सम्मान-संयुक्ताः कुलीना भक्ति-तत्-पराः।
वृत्ति-भंगान् महीपालं त्यजंत्य् ऎवएव हि सेवकाः॥पञ्च_१.१६४॥
अन्यच् च-
कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः।
कदाचित् तं न मुञ्चंति भर्त्सिता अपि सेवकाः॥पञ्च_१.१६५॥
 
तथा च केवलं सेवका इत्थंभूता यावत् समस्तम् अप्य् ऎतज्एतज् जगत् परस्परं भक्षणार्थं सामादिभिर् उपायैस् तिष्ठति। तद् यथा-
 
देशानाम् उपरि क्ष्माभृद् आतुराणां चिकित्सकाः।
पङ्क्तिः ९०:
तत्राप्य् अस्य कथं न भावि जगतो यस्मात् स्वरूपं हि तत्॥पञ्च_१.१७०॥
 
ततः स्वामि-प्रसाद-रहितौ क्षुत्-क्षाम-कंठौ परस्परं करटक-दमनकौ मंत्रयेते। तत्र दमनको ब्रूते-आर्य करटक। आवां तावद् अप्रधानतां गतौ। ऎषएष पिंगलकः संजीवकानुरक्तः स्व-व्यापार-पराङ्मुखः संजातः। सर्वोऽपि परिजनो गतः। तत् कि क्रियते।
 
करटक आह-यद्यपि त्वदीय-वचनं न करोति तथापि स्वामी स्व-दोष-नाशाय वाच्यः। उक्तं च-
पङ्क्तिः १०३:
तत् त्वयैष शष्प-भोजी स्वामिनः सकाशम् आनीतः। तत् स्वहस्तेनांगाराः कर्षिताः।
 
दमनक आह-सत्यम् ऎतत्।एतत्। ममायं दोषः। न स्वामिनः। उक्तं च-
 
जंबूको हुडु-युद्धेन वयं चाषाढ-भूतिना।
दूतिका पर-कार्येण त्रयो दोषाः स्वयं कृताः॥पञ्च_१.१७३॥
 
करटक आह-कथम् ऎतत्एतत्?
 
सो ब्रवीत्-
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२ग" इत्यस्माद् प्रतिप्राप्तम्