"जैमिनीयं ब्राह्मणम्/काण्डम् २/३८१-३९०" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य सामवेदः/जैमिनीया/जैमिनीयं ब्राह्मणम्/काण्ड ३/१५१-१६० पृष्ठं [[...
No edit summary
पङ्क्तिः १:
<span style="font-size: 14pt; line-height: 170%">सकृत् परस्ताद् अभीवर्तं पर्यस्यन्ति। तस्माद् गर्भा जायमाना पर्यावर्तन्ते। पुरा ह खलु वै पञ्चमान् मासो बार्हताः प्रगाथा आप्यन्त। उष्णिहं च त्रिष्टुभं च द्वे छन्दसी संयुज्य पञ्च मासस् समापयेयुः। अनुष्टुभं च पंक्तिं च द्वे छन्दसी संयुज्य षण् मासस् समापयेयुर् एकच्छंदः परिशिष्य । जगतीं तद् विषुवत्य् उपेयुः। जागतो वै विषुवान्। स्व एव तद् आयतने विषुवन्तं समर्धयन्ति। छन्दांसि वै स्वर्गो लोकः। स्वर्गम् एव तल् लोकं रोहन्तो यन्ति। तद् आहुर् वीव वा एतच् छन्दांसि विशन्ति यद् एतानि द्वे द्वे संयुञ्जन्ति। क्व ह्य् अद्यतनं च श्वस्तनं चाहनी संपत्स्यतः। सर्वाण्य् एव सप्त चतुरुत्तराण्य् उपेत्यानीति। गायत्रीम् एव प्रथमे ऽहन्न् उपेत्योष्णिहं द्वितीये ऽनुष्टुभं तृतीये बृहत्या पञ्च मासस् समापयेयुः। पंक्तिम् एव प्रथमे ऽहन्न् उपेत्य त्रिष्टुभा षण् मासस् समापयेयुर् एकच्छन्दः परिशिष्य। जगतीं तद् विषुवत्य् उपेयुः। जागतो वै विषुवान्। स्व एव तद् आयतने विषुवन्तं समर्धयन्ति। छन्दांसि वै स्वर्गो लोकः। स्वर्गम् एव तल् लोकं रोहन्तो यन्ति॥2.381॥
<span style="font-size: 14pt; line-height: 170%">
अथ वाजजित्। अन्नं वै वाजः। यदा वै गौर् अश्वः पुरुषो ऽन्नस्य सुहितो भवति, अथ स वाजी भवति। देवासुरा अन्नाद्ये अस्पर्धन्त। ते देवा अकामयन्त वृञ्जीमह्य् अन्नाद्यम् असुराणाम् इति। त एतत् सामापश्यन्। तेनास्तुवत। ते वाजिजिगीवेत्य् एवान्नाद्यम् असुराणाम् अवृञ्जत। तद् एव वाजिजितो वाजजित्त्वम्। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे, वृंक्ते द्विषतो भ्रातृव्यस्यान्नाद्यं य एवं वेद। तत् पञ्चाक्षरणिधनं भवति। पांक्तो वै यज्ञः। अतीव वा एते यज्ञस्य मात्रां क्रामन्ति य एतद् अहर् आगच्छन्ति। तद् यत् पञ्चाक्षरणिधनं भवति - पांक्तो यज्ञो - यावती यज्ञस्य मात्रा तां नेद् अतिक्रामामेति॥3.151॥
 
अथ वरुणसाम। वरुणो वै राजा सधमादम् अवान्याभिर् देवताभिर् आसीत्। सो ऽकामयत सर्वेषां देवानां राज्याय सूयेयेति। स प्रजापतौ शतं वर्षाणि ब्रह्मचर्यम् अवसत्। तस्मा एतत् सामाब्रवीद् - एतद् वै मे राज्यं रूपम्। गच्छ। राजानं त्वा देवाः करिष्यन्त इति। स देवान् अब्यैत्। तम् आयन्तं दृष्ट्वा देवाः प्रत्यवारोहन्। तान् अब्रवीन् - मा मा प्रत्यवरुक्षत। भ्रातरो वै मम यूयं स्थ। यादृशा वै यूयं स्थ, तादृंङ् अहम् अस्मीति। नेत्य् अब्रुवन्। यद् वै नः पितुः प्रजापते रूपं तद् इदं त्वयि पश्याम इति। तं प्रत्य् एवावारोहन्। तस्मा एतां राजासन्दीं त्यदधुः(न्यदधुः?)। तस्याम् एनम् अभ्यषिञ्चन्त - वसवो राज्याय रुद्रा वैराज्यायादित्या स्वाराज्याय विश्वेदेवास् साम्राज्याय मरुतस् सार्ववश्याय साध्याश् चाप्त्याश् च पारमेष्ठ्याय। तद् एतच् छ्रीसवस्साम। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। यद् उ वरुणो राजापश्यत्, तस्माद् वरुणसामेत्य् आख्यायते॥3.152॥
 
तद् आहुर् अधामानीव वा एतच् छन्दांसि युञ्जति यद् एनानि यातयामानि सन्ति। तानि सर्वाणि पुनः पुनः प्रयुञ्जते। यान् एव वीर्यवत्तमान् प्रगाथान् मन्येरंस् तान् प्रणिश्चित्य षट्त्रिंशद् उपेयुर् इति। षट्त्रिंशदक्षरा वै बृहती। बृहती स्वर्गो लोकस् साम्राज्यम्। बृहत्याम् एव तत् स्वर्गे लोके साम्राज्ये प्रतितिष्ठन्तो यन्ति। षडुत्सर्गं त्रिंशता पुनरभ्यावर्तम् अय़ातयामतायै। अथो आहुस् त्रयस्त्रिंशद् एवोपेत्या इति। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वास्व् एवैतद् देवतासु प्रतितिष्ठन्तो यन्ति। त्रीन् उत्सर्गं त्रिंशता पुनरभ्यावर्तम् अयातयामतायै। अथो आहुस् - त्रिंशद् एवोपेत्या इति। त्रिंशदक्षरा विराड्, अन्नं विराट्। विराज्य् एव तद् अन्नाद्ये प्रतितिष्ठन्तो यन्ति। अथो आहुश् चतुर्विंशतिर् एवोपेत्या इति। चतुर्विंशत्यर्धमासो वै संवत्सरः। अर्धमासश एव तत् संवत्सरे प्रतितिष्ठन्तो यन्ति। अथो आहुर् द्वादशैवोपेत्या इति।द्वादश मासास् संवत्सरः। मासश एव तत् संवत्सरे प्रतितिष्ठन्तो यन्ति। अथो आहुष् षड् एवोपेत्या इति। षड् वा ऋतवः। ऋतुष्व् एव तत् प्रतितिष्ठन्तो यन्ति। अथो आहुश् चत्वार एवोपेत्या इति। चतस्रो दिशस्, चतुष्पदाः पशवः। दिक्षु चैतत् पशुषु च प्रतितिष्ठन्तो यन्ति। अथो आहुस् त्रय एवोपेत्या इति। त्रयो वा इमे लोकाः। एष्व् एव तल्लोकेषु प्रतितिष्ठन्तो यन्ति। अथो आहुर् द्वाव् एवोपेत्याव् इति, श्यैतनौधसयोर् एव प्रगाथाव् इति। श्यैतनौधसयोर् ह खलु वै प्रगाथौ वीर्यवत्तमौ। द्विपाद् यजमानः प्रतिष्ठित्यै॥2.382॥
अथ गोष्ठः शक्वरीणां च वा एष रेवतीनां च गोष्ठः। पशूनां धृत्यै गोष्ठः। ध्रियन्ते ऽस्मिन् पशवः। पशूमान् भवति य एवं वेद। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। तान् प्रथमेनाह्नाविवारयिषत। तान् नावारयत। तान् द्वितीयेन नावारयत। तांस् तृतीयेन नावारयत। तांश् चतुर्थेन नावारयत। तान् पञ्चमेन नैवावारयत। तान् षष्ठे ऽहन्न् एतेनैव साम्नावारयत। सो ऽब्रवीद् गोष्ठो वाव म इदं पशूनां सामाभूद् इति। तद् एव गोष्ठस्य गोष्ठत्वम्। तद् एतत् पशव्यं साम गोष्ठः। ध्रियन्ते ऽस्मिन् पशवः। पशुमान् भवति य एवं वेद। तद् उ निषिद्धम् इव भवतीहा इळा इहा इळा इति। एतद् ध वा एनांस् तद् एतेन पुरस्ताद् वारयांचक्रे। एतम् उ त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् इति यद् वै सिन्धुमत् समुद्रवत् तद् एतस्याह्नो रूपम्। आपोभाजनम् एतद् अहः। तदा आहुर् यन्ति एते त्रिष्टुभः पवनानान्ताद् ये गायत्रीष्व् अन्त्यं कुर्वन्तीति। तास् सूर्यवतीर् भवन्ति। अथो ऐन्द्रीः। तेन त्रिष्टुभः पवमानान्तान् न यन्ति। तास्व् इहवद् वामदेव्यम्। पशवो वै सिमाः। पशवो रैवतम्। पशव इहवद् वामदेव्यम्। पशुमन्त इव भवन्त्य् एनेन तुष्टुवानाः। तद् उ निषिद्धम् इवैव भवत्य् - एतम् उ त्यं दश क्षिप इहा मृजन्ति सिन्धुमातरम् इहेति एतद् ध वा एनांस् तद् अप्य् एतेनैव पुरस्ताद् वारयांचक्रे॥3.153॥
 
रेवतीर् नस् सधमाद इति रेवतयो भवन्ति। समाद् एवैतत् समम् उपयन्ति। गायत्र्यो मध्यन्दिनस्यान्त्या भवन्ति। गायत्र्य एताः। स यथा समात् समं संक्रामेत् तादृक् तत्। यातयामानि वा एतर्ह्य् अन्यानि छन्दांसि, गायत्र्य् एवायातयाम्नी। यातयामभि स्तोत्रैर् यातयामभिश् शस्त्रैर् वषट्कारो यातयाम। ऋतुमन्ति पञ्चाहान्य् अनृतु षष्ठम्। तद् यद् धोत्रा ऋतुयाजान् नाना वषट्कुर्वन्ति तेनैव षष्ठम् अहर् ऋतुमत् क्रियते। तासु वारवन्तीयम्। एतद् ध वै रेवद् रैवत्यं यद् रेवतीषु वारवन्तीयम्। रेवान् भवत्य् आस्य रेवान् रैवत्यो जायते य एवं विद्वान् रेवतीषु वारवन्तीयेन स्तुते। एतद् वै बृहद् रैवत्यम् यद् रेवतीषु वारयन्तीयम्। बार्हतं षष्ठम् अहः। तेनैव षष्ठम् अहर् बार्हतं क्रियते। अग्निर् वा एष वैश्वानरो यत् पृष्ठ्यष् षडहः। ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरो ऽग्निर् वैश्वानरः। सो ऽशान्त ईश्वरः प्रदग्धोः। तद् यद् वारवन्तीयं पृष्ठं भवत्य् अग्नेर् एव वैश्वानरस्य शान्त्या अप्रदाहाय॥3.154॥
 
यो वै पुनर्निवृत्तम् अध्वानम् एति नैनं स समश्नुते। अथ य एनम् अपुनर्निवृत्तम् एति स एवैनं समश्नुते। पुनर्निवृत्तम् इवैते यन्ति ये द्वा उपयन्ति। त्रैष्टुभबार्हता एवोपेत्या इति। त्रैष्टुभबार्हतो वै माध्यन्दिनः। तद् यद् राथन्तरम् अह स्यात् तस्मिन् बार्हतम् उपेयुर्, बार्हते ऽहंस् त्रैष्टुभम्। नैषां त्रैष्टुभाः प्रगाथा आप्यन्ते, न बार्हताः। यथायतनं छन्दांसि युज्यन्ते यातयामानम् उ संवत्सरम् आसते। तद् उ वा आहुर् द्वाव् एवोपेत्यौ श्यैतनौधसयोर् एव प्रगाथाव् इइति। अथा उ ह वै वीर्यवत्तमाव्, एता उ ह वै स्वर्गस्य लोकस्य मे पन्थाव् अञ्जसायनौ यद् बृहद्रथन्तरे। तयोर् एते ऽञ्जसायने यच् छ्यैतनौधसे। अहर् अहर् एवैतद् अञ्जसा स्वर्गं लोकम् उपयन्ति। तस्यैष श्लोको -
प्रजापतिर् वा एतं यज्ञम् असृजत यत् पृष्ठ्यं षडहम्। स सृष्टः प्राद्रवत्। तं रथन्तरेणाविवारयिषत। तं नावारयत। तं बृहता नावारयत। तं वैरूपेण नावारयत। तं वैराजेन नावारयत। तं महानाम्नीभिर् नावारयत। तं रेवतीभिर् नैववारयत। तं वारवन्तीयेनैवावारयत। यद् अवारयत तद् वारवन्तीयस्य वारवन्तीयत्वम्। तद् यद् वारवन्तीयं पृष्ठं भवति यज्ञस्यैव वारणायै। प्रजापतिर् वा एतं यज्ञम् असृजत यत् पृष्ठ्यं षडहम्। तस्मै प्रतिष्ठाम् ऐच्छत्। तस्मा अप एवाविन्दत्। तासु रथन्तरेण प्रतिष्ठाम् ऐच्छत्। स नाविन्दत्। तासु बृहता नाविन्दत्। तासु वैरूपेण नाविन्दत्। तासु वैराजेन नाविन्दत्। तासु महानाम्नीभिर् नाविन्दत्। तासु रेवतीभिर् नैवाविन्दत्। तासु वारवन्तीयेनैवाविन्दत्। यद् अविन्दत् तद् व् एव वारवन्तीयस्य वारवन्तीयत्वम्। तद् यद् वारवन्तीयं पृष्ठं भवति यज्ञस्यैव प्रतिष्ठायै। इयं वै वारवन्तीयम्, इयं प्रतिष्ठा। अस्याम् एवैतद् यज्ञं प्रतिष्ठापयन्ति। अग्निर् वा एष वैश्वानरो यद् वारवन्तीयम्। आप उ रेवतयः। तद् यद् रेवतीषु वारवन्तीयं भवति, तस्माद् आपो ऽग्नियोनयः। जीर्यन्तीव वा एतत् पृष्ठानि यदा षष्ठम् अहर् आगच्छन्ति। न वै जीर्णे रेतः परिशिष्यते। तद् यद् वारवन्तीयं पृष्ठं भवत्य् उत्तरेषाम् एव यज्ञक्रतूनां प्रजात्यै॥3.155॥
<poem>महापथाद् विश्ववयो यद् उद्रुध्यति पुरुषः।
तम् एव सृप्त्वाजिं श्रान्तः पुनर् अभ्याजिगांसति॥</poem>
इति। महापथे वा एते सत्यपथं प्रतिपद्यन्ते, ये ऽन्यान् प्रगाथान् उपयन्ति। अथैते अहरहर् एवाञ्जसा स्वर्गं लोकम् उपयन्ति ये श्यैतनौधसयोः प्रगाथाव् उपयन्ति। तस्माद् द्वाव एवोपेत्यौ श्यैतनौधसयोर् एव प्रगाथाव् इति॥2.383॥
 
तद् उ होवाचाभिप्रतारणो जीर्णश् शयानः। पुत्रा हास्य दायं विभेजिरे। स ह घोष आस। को घोष इति। तस्मै होचुः - पुत्रास् ते भगवो दायं विभजन्त इति। स होवाच - सुश्रवा वा अहं तत् पृष्ठानां ब्राह्मणे जीवतो ऽस्य पुत्रा दायम् उपयन्तीति। सुश्रवा वा अहं तद् इति। तद् एतद् यथा जीवतो दायम् उपेयाद् एवं तद् यद् रैवते ऽहनि सति वारवन्तीयं पृष्ठं भवति। अथेतरत् पवमाने कुर्वन्ति। अथ ह गैरेय आषाढिर् अषाढं भाल्लवेयं पप्रच्छ यद् इमानि यद् बहूनि सामानि कथं षष्ठायाह्ने न प्राभवन्न् इति। स होवाच - त्वत्वादृशाष् षड् राजानः पञ्चालेषु वेद्या इति। स होवाचैवं न्यूनं त्वं वेत्थान्यथा वयम् अतो विद्मेति। स यद् एवैतद् अपृष्ठं पृष्ठं वारवन्तीयं क्रियते तेनैवैतद् अहर् अप्रभूतम्। अथ ह नैतत्नव आरुणिं पप्रच्छारुण आरुणे कस्माद् अरेतोधास् सत्यो महानाम्नयः प्रजनयन्ति। कस्माद् उ रेतोधास् सत्यो रेवतयो न प्रजनयन्तीति। यद्र इति रेत एव प्रथमेनाभिव्याहरतीति। तद् ध न प्रत्युवाच। तेन हैनं जिगाय। स यत् प्रत्यवक्ष्यद् - रेतो वै रेवतयो रेत उ रैवतं साम। न वै रेतसो रेतो ऽस्ति। पुत्र एवैतर्हि रेतो ऽन्तम् एतत् पृष्ठानि गच्छन्ति। यदा षष्ठम् अहर् आगच्छन्ति नातः पराञ्चि प्रजायन्ते। तस्माद् अरेतोधास् सत्यो महानाम्नयः प्रजनयन्ति। तस्माद् उ रेतोधास् सत्यो रेवतयो न प्रजनयन्तीति। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। सुरूपकृत्नुम् ऊतय इत्य् अभ्यारम्भेण षट्पदाष् षष्ठे ऽहन् भवन्ति। तेनैव षडहानि कल्पन्ते॥3.156॥
 
अनुष्टुभो वा अन्यानि सामान्य् अन्नम्। अनुष्टुब् एवान्येषां साम्नाम् अन्नम्। यानि वाभिक्रान्त्यपक्रान्तानि सामानि तान्य् अनुष्टुबो ऽन्नम्। तैर् एनां ये व्यर्धयन्ति तान् एषाविभूषिताप्रीताज्ञाता स्वा वाग् अभिवदत्य्, अलूलुभन्न् ऋतून्, अश्रद्दधाना अयक्षत, नारात्सुर् इति। अथ य एनां तैस् समर्धयन्ति तान् एषा तृप्ता प्रीता ज्ञाता स्वा वाग् अभिवद्त्य् अचीक्लृपन्न् ऋतून्, श्रद्दधाना अयक्षत नारात्सुर् इति। अन्वहं सुज्ञानं भवति। सह वा उद्गाता, सत्रिणस् सत्राय दीक्षन्ते यद्, य एनान् देवानां देवक्षेत्रम् अभ्यारोहयेत्। न ह वै देवानां देवक्षेत्रम् अभ्यारुह्य बिभेति, नाशनायति, न पिपासति, नार्तिम् आर्च्छति। सुज्ञानं ह वाव देवानां देवक्षेत्रम्। तद् आहुः - प्रेव वा एते ऽस्माल्लोकाच् च्यवन्ते ये ऽन्वहं सुज्ञानम् उपयन्तीति। तद् यद् राथन्तरम् अह स्यात् तस्मिन् पौष्कलम् उपेयुर् बार्हते ऽहन् सुज्ञानम्। तद् उ वा आहुस् सुज्ञाने वावैतानि सर्वाणि रूपाणीति। सुवर्विद इत्य् एवास्य लोकस्य रूपम्, ए इत्य् अन्तरिक्षस्य, सुवर् इत्य् अमुष्य॥2.384॥
तास्व् ऋषभो रैवतः। पशवो वै सिमाः, पशवो रेवतयः, पशव ऋषभः। ऋषभम् एवैतत् पशुष्व् अपिसृजन्ति मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। तस्य पूर्वार्धं च जघनार्धं च भूयिष्ठं भाजयन्ति। तस्मात् पशवः पूर्वार्धेन च जघनार्धेन च भूयिष्ठं भुञ्जन्ति वहन्ति। पूर्वार्धेन दुह्रे च जघनार्धेन प्र च जनयन्ति। उभयं धेनुपयसं चानडुत्पयसं चावरुन्द्धे य एवं वेद। उभे यद् इन्द्र रोदसी इति षट्पदाष् षष्ठे ऽहन् भवन्ति। तेनैव षडहानि कल्पन्ते। देवासुराः पशुष्व अस्पर्धन्त। ते ऽसुराः पशुभिस् सह समुद्रम् अभ्यवायन्। ते देवा अकामयन्त वृञ्जीमह्य् असुराणां पशून् इति। त एतान् अंकान् अपश्यन्न् एता ऋचो - देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनद् इति। एतद् अङ्कं रूपम् । तैर् उदारुम्पंस् तान् पशून्। ता एता- पशव्या ऋचः। अव पशून् रुन्द्धे बहुपशुर् भवत्य् एताभिर् ऋग्भिस् तुष्टुवानः॥3.157॥
 
तासु श्येनस् संपारणो ऽनपहानाय क्रियते। श्येनो ह वा एतद् अहस् संपारयितुम् अर्हति। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनानाञ् छ्येन एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा - श्येनो वाव नो भूत्वेदं साम स्वर्गं लोकम् अवाक्षीद् इति। तद् एव श्येनस्य श्येनत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। इन्द्रो वा एतेन साम्ना श्येनो भूत्वा असुरान् अपावपत्। तद् व् एव श्येनस्य श्येनत्वम्। तद् उ भ्रातृव्यहा । हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥3.158॥
 
तत् सप्ताक्षरणिधनं भवति। सप्त वै प्राणाः। प्राणैर् एव तत् समृध्यमाना यन्ति, प्राणेषु प्रतितिष्ठन्तः। अन्वहं गौरिवीतं भवति। अअतिरिक्तं वा एतद् ब्रह्मणो यद् गौरिवीतम्। अतिरिक्तान्य् एतान्य् अहानि यान्य् अहीनस्य। अतिरिक्ता एव तद् अतिरिक्तं ब्रह्मणो रसं दधतो यन्ति। अन्वहं प्लवो भवति, स्वर्गस्यैव लोकस्य समष्ट्यै। ए इत्य् एवान्तरिक्षम् अतिप्लवन्ते। आति विश्वानि दुरिता तरेमेति यत् किं च यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तद् अतितरन्ति। तद् द्वादशाक्षरनिधनं भवति। द्वादश मासास् संवत्सरः। मासेष्व एव तत् संवत्सरे प्रतितिष्ठन्तो यन्ति। तद् आहुः प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते य एतान् पराचष् षडहान् उपयन्तीति। ओकोनिधनं षष्ठे ऽहनि कुर्युः। अयं वै लोकः पुरुषस्यौकः। अस्मिन्न् एवैतल्लोके प्रतितिष्ठन्ति। तद् व् एवाचक्षते प्रहितोस् संयोजनम् इति। अहोरात्रे वै प्रहितौ। प्रहिते इव ह्य् एते चरतः। अथ ह वा एतत् षडहा वीव छिद्यन्ते यदा षष्ठम् अहर् आगच्छन्ति। स यथाश्वं संयोजनेन संयु्ज्याद् एवम् एवैतेन साम्ना षडहान् संयुञ्जन्तो यन्ति। तद् आहुः - कार्यम् ओकोनिधनं पृष्ठ्ये षडहा3 इति ना3 इति। नेति ब्रूयात्। एतदग्रा वै षडहा यत् पृष्ठ्य एतदन्ता। एतं वावैतेन प्रेप्स्यन्त्य् एतम् अभीवर्तेनैतं प्लवेनैतं सुज्ञाने(न) । पुनः प्रयोग इव स्याद् यद् एतद् अत्र कुर्युः। तस्माद् एतद् अत्र न कार्यम् इति॥2.385॥
परि स्वानो गिरिष्ठा इत्य् आर्भवस्य पवमानस्य परिवतीर् गायत्र्यो भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः।
पवित्रे सोमो अक्षरत्।
मदेषु सर्वधा असि॥
इति मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य् ऐवैनद् एतेन प्याययन्ति। त्वं विप्रस् त्वं कविर् इति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः।
मधु प्र जातम् अन्धसा।
मदेषु सर्वधा असि॥
त्वे विश्वे सजोषसः
इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् अतद् अहः।
देवास- पीतिम् आशत।
मदेषु सर्वधा असि॥
इत्य् उपरिष्टाद् उदर्कं दधति। रसो वै षष्ठम् अहस्, तस्यानतिनेदाय। तासु गायत्रम् उक्तब्राह्मणम्। अथ त्रीणि वैदन्वतानि। शर्यातो वै मानवः प्राच्यां स्थल्याम् अयजत। तं हर्षयो याजयांचक्रुः। तद् उभये देवमनुष्यास् सोमं समपिबन्। तद् उभयैर् देवमनुष्यैर् उत्तमं सोमस् संपीतः। तस्मिंश् च्यवनो भार्गवो ऽश्विभ्यां ग्रहम् अगृह्णात्। तम् इन्द्रश् चमसम् अवागृह्णात् - को ऽयम् अज्ञातश् चमसः प्रचरतीति। तस्य विदन्वान् भार्गवः प्रत्यहन्, कस् तं चमसं मीमांसितुम् अर्हति यं वयं प्रयच्छेमेति॥3.159॥
 
 
ते देवा अक्रुध्यन्न्, अक्रुध्यन्न् ऋषयः। ते नवनवतयो मरुत ऋष्टिहस्ता अतिष्ठन्न् - इदानीम् इदं पर्याकरिष्यामो ऽथेदं सर्वं मर्दिष्यत इति। अथ ह ऋषयो मदम् आसुरम् उदाह्वयन्। स उत्तृन्दन्न् एवान्तरिक्षं शीर्ष्णाभ्यधात्। सा महती समद् आसीत्। सो ऽग्निर् इन्द्रम् अब्रवीद् व्येतु ते क्रोध श्रेयांसो वा एते ऽस्मत्। यदि वा एतान् क्रोधयिष्यति नेह किं चन परिशेक्ष्यते। एतेभ्यो वै वयं जातास्म इति। तस्याग्निर् एव क्रोधं व्यनयत्। स इन्द्रो वीतक्रोधस् सह देवैः प्राद्रवत्। तेषाम् अपेन्द्रो ऽपदेवो यज्ञो ऽभवत्। ते ऽकामयन्त - सेन्द्रो नस् सदेवो यज्ञ स्याद् इति। स एतानि विदन्वान् भार्गवस् सामान्य् अपश्यत्। तैर् अस्तुत। तैर् इन्द्रम् आह्वयत्। तैर् अस्य क्रोधं व्यनयत्। ततो वै तेषाम् इन्द्रो यज्ञम् उपावर्तत। तत एभ्यो ऽनपक्रम्याभवत्। तत एषां सेन्द्रस् सदेवो यज्ञो ऽभवत्। तानि वा एतानि सेन्द्राणि सदेवानि सामानि। सेन्द्रो हास्य सदेवो यज्ञो भवत्य्, अभ्य् अस्येन्द्रो यज्ञम् आवर्तते, नास्येन्द्रो यज्ञाद् अपक्रामति य एवं वेद। पशवो ह खलु वै विदन्वन्त, एता ऋचो विदन्वतीः। तास्व् एतम् ऋषभं वैदन्वतम् अपिसृजन्ति मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। यद् उ विदन्वान् भार्गवो ऽपश्यत् तस्माद् वैदन्वतानीत्य् आख्यायन्ते॥3.160॥
स्वर्भानुर् वा आसुर आदित्यं तमसाविध्यत्। तं देवाश्चर्षयश् चाभिषज्यन्। त एतानि स्वराण्य् अपश्यन्। तैर् एनम् अस्पृण्वन्। यद् अस्पृण्वंस् तत् स्वराणां स्वरत्वम्। तद् यद् एतानि स्वराणि भवन्त्य्, आदित्यम् एवैतै स्पृण्वन्ति। यादृग् अह वै मनुष्यो देवेभ्यः करोति तादृग् अस्मै देवाः कुर्वन्ति। तद् यद् एतानि स्वराणि भवन्त्य्, आत्मानम् एवैतै स्पृण्वते। सप्तदशा स्वरसामानो भवन्त्य्, एकविंशो विषुवान्। प्रजापतिर् वै सप्तदशो, ऽसाव् आदित्य एकविंशः। पित्रैव तत् पुत्रं पर्यूहन्ति। पिता हि पुत्राय कन्तमः, पुत्रो हि पित्रे कन्तमःः। यद् अत्रान्यं स्तोमम् अवदध्युः प्रासौ तं तेजसा दहेद्, अग्निर् वैश्वानरः प्रजा अददीत। षड् एते स्वरसामानो भवन्ति। षड् ऋतवः। ऋतुष्व् एवैनं तद् अध्यूहन्ति, तस्माद् एषस् त्रीन् ऋतून् दक्षिणैति त्रीन् उदङ्। स यथा पुत्रः पितॄन् अनुसंचरेत् तादृग् एवैतद्, अजामितायै। अजामि हि पुत्रः पितॄन् अनुसंचरति। अथैतौ विश्वजिदभिजिताव् अभित स्तोमानां वीर्यम्। वीर्येण ह वा एतौ विषुवन्तं दाधर्तुः। तद् आहु - स्तोमकृन्तत्रम् इव वा एतत् स्तोमा यन्ति यत् त्रयस्त्रिंशात् सप्तदशम् उपयन्तीति। पुरस्ताद् एव पृष्ठ्यस्य षडहस्याभिजितम् उपेत्य पृष्ठ्यस्यैव षडहस्य यन् मध्ये सप्तदशम् अहस् तद् उपरिष्टात् त्रयस्त्रिंशस्य पर्यूहेयुः। तत् तत् सप्तदशाद् एव सप्तदशम् उपयन्ति, समात् समं, न स्तोमकृन्तत्रं स्तोमा यन्ति, नार्तिम् आर्च्छन्ति॥2.386॥
 
 
तद् आहुर् आत्मा वै पृष्ठ्यष् षडहो ऽन्नं सप्तदशः। यत् पृष्ठ्यात् षडहात् सप्तदशं निर्हरेयुर् अन्नाद्यं बहिर्धा कुर्युर् अशनायुका स्युः। त्रयस्त्रिंशाद् एवोपेत्यम् इति। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वा उ ह वै देवतास् संपद्य प्रजापतिम् उद् वा आप्नुवन्ति न वा। तत् तत् समाद् एव समम् उपयन्ति। वर्ष्मणो वा वर्ष्म। वर्ष्म हि पिता। अथो उत्क्रान्तिर् एव। पिता हि पुत्राच् छ्रेयान्। त उक्थ्या भवन्ति - पशवो वा उक्थानि - पशूनाम् एवावरुद्ध्यै। तद् आहुर् विलोमेव वा एतद् यज्ञः क्रियते यदाग्निष्टोमौ विश्वजिदभिजितौ भवतो ऽग्निष्टोमो विषुवान् उक्थ्या स्वरसामानः। सर्व एवाग्निष्टोमाः कार्या इति। वर्ष्म वा अग्निष्टोमो, वर्ष्म विषुवान्। वर्ष्मणैव तद् वर्ष्म संदधति। वर्ष्मणा वर्ष्म रोहन्ति। तेजो वा अग्निष्टोमस्, तेजो विषुवांस्, तेजसैव तत् तेजस् संदधति, तेजसा तेजो रोहन्ति। अथ ह काम्यकीया इति सत्रिणो ऽयस्थूणगृहपतयस् सत्रं निषेदुः। तान् हेन्द्रद्युम्नो भाल्लवेयो ऽभिप्रधावयांचकार पुत्रं - विषुवता स्तावयिष्यामीति। तेषां ह पृष्ठ्यस्य षडहस्यैकेनाह्नास्तुतम् आजगाम। स होवाच - साधु हैवाकृत यद अस्तोढ्वम्। यद् व् अहम् इहाभविष्यम्, अन्यथातो विषुवन्तम् अकल्पयिष्यम् इति। कथं भगवो ऽकल्पयिष्य इति हैनं पुत्र उवाच। स होवाच - पुरस्ताद् एव पृष्ठ्यस्य षडहस्याभिजितम् उपेत्य पृष्ठ्याद् एव षडहात् स्वरसाम्न उपैष्यम् इति॥2.387॥
 
 
आत्मा वै पृष्ठ्यष् षडहः, प्रजा स्वरसामानः। प्रजो वा अस्मत् परेति। वाग् वै वयम् इमे स्मः। वाग् अस्मत् परेति। तद् यद् एषो ऽभिजिद् अन्तरेण भवति - प्रजननं वा एष एतद् अन्तर्धायैव तिष्ठति। तं यत् पुरस्तात् पृष्ठ्यस्य षडहस्य पर्यूहन्त्य् अनन्तर्हितात् प्रजननात् प्रजायामहा इति। त उ वै सप्तदशा भवन्ति। प्रजापतिर् वै सप्तदशः। प्रजापतिः प्रजानां प्रजनयिता। स यः प्रजानां प्रजनयिता तेन प्रजाताः प्रजायामहा इति। त उ वा आनुष्टुभा भवन्ति - वाग् वा अनुष्टुब्, वाक् प्रजननं - वाचः प्रजननात् प्रजायामहा इति। त उ वा उक्थ्या भवन्ति - पशवो वा उक्थान्य्, अन्नं पशवः - पशुभ्यो ऽन्नाद्यात् प्रजां नेद् अन्तरयामेति। तद् उ होवाच शाट्यायनिर् अनादृत्य भाल्लवेयस्य वदनम् - अभिजित एवाध्युपेत्यम्। यो वा एष पृष्ठ्यष् षडहस् स एवाभिजित्। आयतनेन ये वा एते पृष्ठ्यस्य षडहस्य स्तोमास् त एवैते। एको वै पृष्ठ्ये षडहे सप्तदशः। अथैतस्मिंस् त्रयस् सप्तदशाः। तं वावैतद् एतं स्तोमं कृत्वा प्रजनयन्ति। तत् तत् सप्तदशाद् एव सप्तदशं प्रजनयन्ति, सप्दशात् सप्तदशं, सप्दशात् सप्तदशम्। परस्ताद् उ वै विश्वजिति त्रयस् सप्तदशाः। ते वावैतद् उभये संपद्य प्रजनयन्ति। तेषां वा अत्र प्रतिष्ठा। अभिजित एवाध्युपेत्यम् इति॥2.388॥
 
 
एकविंशो विषुवान् भवति। एकविंशो वा अस्य भुवनस्य विषुवान्। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। सर्वस्मिन् वा एषो ऽस्मिन्न् अधिप्रतिष्ठितः। तद् यस्मिन्न् एव सर्वस्मिन्न् अधि प्रतिष्ठितस्, तस्मिन् सर्वस्मिन्न् अधि प्रतितिष्ठामेति। तस्माद् वायव्यानुष्टुप् प्रतिपद् भवति। वाक् च वै वायुश चैतं देवतानाम् आनशानौ। तौ याव् एतं देवतानाम् आनशानौ ताभ्याम् एनम् अश्नवामहा इति। यद् ध वै वायुर् न पवेत प्रासाव् इदं तेजसा दहेद, अग्निर् वैश्वानरः प्रजा अददीत। वायव्या प्रतिपद् भवत्य् अग्नेर् एव वैश्वानरस्य शान्त्या अप्रदाहाय। तद् आहुर् वीव वा एते प्राणैर् ऋध्यन्ते ये पावमानीभिः प्रतिपद्यन्त इति। तद् यद् एषा वायव्या प्रतिपद् भवति - प्राणो वै वायुः - प्राणैर् एव तत् समृध्यन्ते। वायो शुक्रो अयामि त इति शुक्रवती भवति। शुक्रियं ह्य् एतद् अहः। मध्वो अग्रं दिविष्टिष्व् इति, तद् उ मधव्या अग्रया ब्रह्मवर्चसिनो भवन्ति। आ याहि सोमपीतय इति सौमी, तेन पावमानी क्रियते। स्पार्हो देव नियुत्वतेत्य् - असौ वै स्पार्हो ऽन्नं नियुत्वद् - एतम् एव तद् अन्नाद्येनाभ्युपयन्ति। यो वै श्रेयांसम् आहरन्न् उपैति प्रति वै स तं नन्दति। अथ य एनम् अनाहरन्न् उपैति न वै स तं प्रतिनन्दति। तद् यद् एवा वायव्यानुष्टुप् प्रतिपद् भवत्य् एष नः प्रतिनन्दाद् एतम् ऋध्नवामेति। तद् उ वा आहुः - पवस्व वाचो अग्रिय इत्य् एव प्रतिपद् कार्येति। वाग् वा इयं वितता यद् इमे लोकाः। तस्या अदो ऽग्रं तपति यद् असाव् आदित्यः। तद् यद् एषा पवस्व वाचो अग्रिय इति प्रतिपद् भवत्य् एतम् एवैतद् एतया अभिप्रतिपद्यन्ते। स यथात्मनात्मानम् आरभेतैवम् एवैनम् एतत् स्वेन रूपेणारभन्ते। यद् व् एवैतत् पदं पवस्वेत्य् अवस्तात् पर्यूढं भवति, तेनायं वायुर् अवस्तात् पर्यूढः पवते ऽनिर्दाहाय॥2.389॥
 
 
स्वर्भानुर् वा आसुर आदित्यं तमसाविध्यत्। तं देवाश् चर्षयश् चाभिषज्यन्। त एतानि दिवाकीर्त्यानि सामान्य् अपश्यन्। तैर् अस्य तमो ऽपाघ्नन्। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य्, आदित्यस्यैवैतैस् तमो ऽपघ्नन्ति। यादृग् अह वै मनुष्यो देवेभ्यः करोति, तादृग् अस्मै देवाः कुर्वन्ति। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य् आत्मन एवैतैस् तमो ऽपघ्नते। भ्राजाभ्राजे पवमानयोर् मुखे भवतः। अङ्गेभ्य एवास्य तत् तमो ऽपघ्नन्ति। महादिवाकीर्त्यं पृष्ठं, विकर्णं ब्रह्मसाम। मध्यत एवास्य तत् तमो ऽपघ्नन्ति। दशस्तोभं भासम् अग्निष्टोमसाम। शीर्षत एवास्य तत् तमो ऽपघ्नन्ति। असाव् आदित्य एकविंशो विषुवांस्, तस्य दिवाकीर्त्यान्य् एव रश्मयः। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य् एतम् एवैतैः पर्यूहन्त्य्, एतं समर्धयन्ति। तद् आहुः केन संवत्सरसद स्वर्गलोक इति। मूर्धानं दिवो अरतिं पृथिव्या इत्य् अग्निष्टोमसाम भवतीति ब्रूयात्। तेनेति। असौ वै दिवो मूर्धा यो ऽसौ तपत्य्, एतम् एवैतेनाभ्यारोहन्ति। तद् आहुः - प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते, य एतम् अभ्यारोहन्तीति। अरतिं पृथिव्या इति भवति। अयं वै लोको ऽरतिः पृथिव्या, अस्मिन्न् एवैतल् लोके प्रतितिष्ठन्ति। दशस्तोभं भासम् अग्निष्टोसाम भवति - दशाक्षरा विराड्, अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्ध्यै। ईश्वरा ह त्व् अन्यस्मै मूर्धन्न् अन्नाद्यं हर्तोर् य एतासु मूर्धन्वतीष्व् अग्निष्टोमसाम कुर्वन्तीति। तद् अनुष्टुभ्य् एव कार्यम्। वाग् वा अनुष्टुब् अन्नं दशस्तोभम्। मुखतो वै वाग् इयं, मुखत एवैतद् आत्मनो ऽन्नाद्यं दधते, तस्माद् अनुष्टुभ्य् एव कार्यम् इति॥2.390॥
 
</span>