रौद्रं गवि वायव्यम् उपसृष्टम् आश्विनं दुह्यमानम् अग्नीषोमीयं दुग्धं पौष्णाः प्रेन्दवो मैत्रश् शरो वारुणम् ओधश्रितं वैष्णवं प्रतिष्ठाप्यमानं वैश्वदेवम् उन्नीतं सवितुः प्रक्रान्तं द्यावापृथिव्योर् उपसन्नम् इन्द्राग्न्योः पूर्वाहुतिः प्रजापतेर् उत्तरा। तद् एतत् सप्तदशम् अग्निहोत्रम्। सप्तदश उ एवा वाजपेयः। स य एवं विद्वान् अग्निहोत्रं जुहोत्य् उभाव् एव लोकाव् अभिजयति यश् चाग्निहोत्रहुतो यश् च वाजपेययाजिनः॥
त्रयो ऽग्निहोत्रे स्थाणव इति ह स्माह शाण्डिल्यः। यद् अप्रदीप्तायां समिधि जुहोति स स्थाणुः। यद् एनाम् अपराध्नोति स स्थाणुः। यद् एने संसृजति स स्थाणुः। आदीप्तायै समिधस् समुन्मुखे जुहोति। एतिहायोत्तराम् आहुतिं जुहोति। प्र ह सप्तदश -- सप्तदश सहस्रपोषान् पुष्यति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.21॥
जैमिनीयं ब्राह्मणम् (1.101 - 1.150)

तद् आहुर् हिंकारेण
वै प्रजापतिः प्रजाभ्यो ऽन्नाद्यम् असृजत। यन् न हिंकुर्याद् अशनायुकाः प्रजास्
स्युः। हिंकुर्याद् एव... भूः इति। यन् हिंकारं विसृजति तेन रेतो विच्छिनत्ति न
हिंकारम् अन्तरेतीति। तद् उ वा आहुः ममृदीय इव वा अतो रेतो दारुणतर इव। हिंकारो ऽपि
वैनद् वालेन विच्छिन्द्यात्। हिंकारस्यैव काले हिंकारं मनसा ध्यायेत्। तन् न रेतो
विच्छिनत्ति न हिंकारम् अन्तरेतीति। भूः इति निधनं करोति। प्रजापतिर् यद् अग्रे
व्याहरत् स भूः इत्य् एव व्याहरत्। स इमाम् असृजत। स यत् भूः इति निधनं करोत्य्
अस्याम् एवैतद् रेतः प्रतिष्ठापयत्य् अथो एनत् तद् भूतिम् एव गमयति॥1.101॥

गायत्रीं गायति।
प्राणो वै गायत्री। तस्यै द्वे अक्षरे व्यतिषजति। प्राणापानाव् एव तद् व्यतिषजति।
तस्मात् प्राणापानौ व्यतिषक्तौ प्रजा अनुसंचरत आ च परा चायातयामानौ। सत् इति निधनं
करोति। प्राणो वै सन्। प्राण एव तत् प्रतितिष्ठति॥

त्रिष्टुभं गायति।
चक्षुर् वै त्रिष्टुप्। तस्यै द्वे अक्षरे द्योतयति। चक्षुषी एव तद् दधाति। तस्माद्
युक्ते इव चक्षुषी। ज्योतिः इति निधनं करोति। चक्षुर् वै ज्योतिः। चक्षुष्य् एव तत्
प्रतितिष्ठति॥

जगतीं गायति।
श्रोत्रं वै जगती। तस्यै चत्वार्य् अक्षराणि द्योतयति। श्रोत्रम् एव तद् दधाति।
श्रोत्रे द्वे परिश्रवणे द्वे। तस्मात् समानत्र सन् सर्वा अनुदिशश् शृणोत्य् अपि
पराङ् यन् पश्चाद् वदश् शृणोति। इळा इति निधनं करोति। पशवो वा इडा। पशुष्व् एतत्
प्रतितिष्ठति॥

अनुष्टुभं गायति।
वाग् वा अनुष्टुप्। ताम् अर्वाचीम् अभिनुदन् गायति वाचो ऽनपक्रमाय। यत् पराचीम्
अपनुदन् गायेद् वाचं प्रधमेद् वाग् अस्माद् अपक्रामुका स्यात्। तां यद् अर्वाचीम्
अभिनुदन् गायत्य् आत्मन्न् एव तद् वाचं प्रतिष्ठापयति। तस्यै निरुक्तं चानिरुक्तं च
पदे गायति। निरुक्तेन वै वाचो भुञ्जते। निरुक्तम् अस्या उपजीवनीयम्। भुंक्ते वाचोप
चैनां जीवति य एवं वेद। स यन् निरुक्तम् एव गायेद् वदेयुर् एव प्रजा न तूष्णीम्
आसीरन्। अथ यद् अनिरुक्तं गायेत् तूष्णीम् एव प्रजा आसीरन् न वदेयुः। यस्मान्
निरुक्तं चानिरुक्तं च पदे गायति तस्मात् प्रजा वदन्ति च तूष्णीं चासते। वाक् इति
निधनं करोति। वाग् वै ब्रह्म। वाच्य् एव तद् ब्रह्मन् प्रतितिष्ठति॥

पंक्तिं
गायति। ऋतवो वै पंक्तिः। तस्यै षड् अक्षराणि द्योतयति। षड् वा ऋतवः। ऋतुष्व् एव तत्
प्रतितिष्ठति॥1.102॥

तद् आहुस् समदम् इव
वा एतच् छन्दोभ्यः कुर्वन्ति यद् गायत्रे सति प्रातस्सवने
सर्वाणि छन्दांस्य् अभिगीयन्ते योधुकाः प्रजा भवन्तीति। स यः कामयेत शान्ताः प्रजा
एधेरन्न् इति न धुरो विगायेत्। अपशीर्षाणं तु यज्ञं यजमानस्य कुर्याद् अनृतेन
दक्षिणाः प्रतिगृह्णीयात्। ब्रह्म वै करद् इति वै यजमानो दक्षिणा ददाति। स तथैव
चिकीर्षेद् यथा नापशीर्षाणं यज्ञं यजमानस्य कुर्यान् नानृतेन दक्षिणाः
प्रतिगृह्णीयान्। वि एव गायेत्। यस् त्वा एना विजिगासन् न शक्नोति विगातुम् आर्तिम्
आर्छति। यदि रेतस्यां न शक्नोति विगातुम् अरेतस्क आत्मना भवत्य् अरेतस्का गर्भा
जायन्ते। यदि गायत्रीं न शक्नोति विगातुं प्रमायुक आत्मना भवति मृता गर्भा जायन्ते।
यदि त्रिष्टुभ न शक्नोति विगातुं वधिर आत्मना भवति वधिरा गर्भा जायन्ते। यदि
पंक्तिं न शक्नोति विगातुम् ऋतवो लुभ्यन्ति। स य एना नाशंसेत विगातुं
परोक्षेणैवैनास् स रूपेण गायेत्। उभयेन त्वाव रेतस्या गीयते॥1.103॥

गायत्र्यां
प्रस्तुतायां गायत्रम् एव गायन् पृथिवीं मनसा गच्छेत्। प्राण्यापान्यान्यात्। सत्
इति निधनं करोति। परोक्षेणैवैनान् तद् रूपेण गायति॥

त्रिष्टुभि
स्तुतायां गायत्रम् एव गायन्न् अन्तरिक्षं मनसा गच्छेत्। दिदृक्षेतैवाक्षिभ्याम्।
ज्योतिः इति निधनं करोति। परोक्षेणैवैनान् तद् रूपेण गायति।

जगत्यां
प्रस्तुतायां गायत्रम् एव गायन् दिशः पशून् मनसा गच्छेत्। शुश्रूषेतैव
कर्णाभ्याम्। इळा इति निधनं करोति। परोक्षेणैवैनान् तद् रूपेण गायति॥

अनुष्टुभि
प्रस्तुतायां गायत्रम् एव गायन् दिवं मनसा गच्छेत् परोक्षेणैवैनान् तद् रूपेण
गायति।

ओषम् एवैतद् उत्तमं
तृचं गायति। प्रजननो वा एष तृचः। ओषम् एव प्रजया पशुभिः प्रजायते य एवं वेद।
प्रजापतिर् यत् प्रजा असृजत ता एतेनैव तृचेनासृजत। पवमानस्य ते कवे वाजिन् सर्गा
असृक्षत इति सर्गश एवासृजत। असृग्रं वारे अव्यये इति चासृजत। तासां सृष्टानां
परावापाद् अविभेत्। स एताम् उत्तमां समुद्रवतीम् अपश्यत्। तयैनाः अच्छा समुद्रम्
इन्दवः इत्य् एव समुद्रेण समन्तं परिण्यदधात्। ता अस्य न परोप्यन्त। नास्य वित्तं
परोप्यते य एवं वेद। अग्मन्न् ऋतस्य योनिम् आ इति। ग्रहा ह वा ऋतस्य योनिः। एतस्य ह
वा इदम् अक्षरस्य कृतो जाताः प्रजा गच्छन्ति चा च गच्छन्ति॥1.104॥

देवासुरा वा एषु
लोकेष्व् अस्पर्धन्तास्मिन् भुवने। ते देवा अकामयन्तेमान् लोकान् जयेमासुरान्
स्पर्धां भ्रातृव्यान् इति। त एतान्य आज्यानि स्तोत्राण्य् अपश्यन्। तैर् अस्तुवत।
तैर् इमान् लोकान् आजयन्। इमम् एव लोकम् आग्नेयेजनाजयन्न् अन्तरिक्षं
मैत्रावरुणेनामुम् ऐन्द्रेण दिश एवैन्द्राग्नेन। तद् यद् इमान् लोकान् आजयंस् तद्
आज्यानाम् आज्यत्वम् । एमान् लोकान् जयति स्पर्धां द्विषन्तं भ्रातृव्यं य एवं वेद॥

ते देवा अब्रुवन्
वीमानि भजामहा इति। तेषां ह विभागे न समपादयन्। ते ऽब्रुवन्न् आजिम् एषाम् अयाम
गिरिं काष्ठां कृत्वेति। यद् अब्रुवन्न् आजिम् एषाम् अयामेति तद् एषां द्वितीयम्
आज्यत्वम्। यद् उ गिरिं काष्ठाम् अकुर्वन् तस्माद् असौ गिरिः काष्ठो नाम॥1.105॥

तेषां पच्छो
ऽसृज्यन्त। तेषाम् अग्निः प्रथम उदजयत्। अथ मित्रावरुणाव् अथेन्द्रः। अथैकम्
अनुज्जितम् आसीत्। तद् इन्द्रो ऽवेद् अग्निर् वावेदम् उज्जेष्यतीति। सो ऽब्रवीद्
अग्ने यतर आवयोर् इदम् उज्जयात् तन् नौ सहासद् इति। तथेति। तद् अग्निर् उदजयत्। तद्
एनयोस् सहाभवद् अध्यर्धम् अन्यस्य स्तोत्रम् अध्यर्धम् अन्यस्य। ऐन्द्राग्नो यज्ञः।
स य एवम् एता देवानाम् उज्जितीर् वेद यत्र कामयत उद् इह जयेयम् इत्य् उत् तत्र
जयति॥

तद् आहुर् यद्
आज्यानि सर्वाणि समाननिधनानि केनाजामि क्रियन्त इति। नानादेवत्यानीति ब्रूयात्
तेनाजामीति। अथो यन् नानारूपाणीति ब्रूयात् तेनो एवेति॥

ते वा एते पशव एव।
यद् आज्यान्य् अन्तस्सदसं स्तुवन्ति तस्माद् ग्राम्याः पशवो ऽन्तर् ग्रामे न्योकसः।
पराचीषु पुनर् अभ्यावर्तन्। तस्माद् ग्राम्याः पशवः पराञ्चः प्रातः प्रेरते ते सायं
समावर्तन्ते। नानारूपासु स्तुवन्ति। तस्माद् ग्राम्याः पशवो नानारूपाः।
नानादेवत्यासु स्तुवन्ति। तस्माद् ग्राम्याः पशवो नाना। ते यथायथं सायं गृहान्
अभ्युपायन्ति॥1.106॥

देवासुरास् संयत्ता
ज्योङ् न व्यजयन्त। तेष्व् असुरेष्व् इदं सर्वम् आसीत्। अथैकम् एवाक्षरं देवेष्व्
आसीत्। वाग् एव। सो ऽग्निर् अब्रवीद् अहं वा इदम् अदर्शं यथेदं जेष्यामीति। तद् वै
ब्रूहीत्य् अब्रुवन्। सो ऽब्रवीद् अक्षरेणैवेदं सर्वं संनिधाय धुराधुरम् आसजामेति।
यद् अब्रवीद् अक्षरेणैवेदं सर्वं संनिधाय धुराधुरम् आसजामेति तद् आज्यधुराम्
आज्यधूस्त्वम्। ते ऽक्षरेणैवेदं सर्वं संनिधाय धुराधुरम् आसजन्। तान् अजयन्। जयति
स्पर्धां द्विषन्तं भ्रातृव्यं य एवं वेद॥

स यदीतरा धुरो
विगायेद् व्य् एवाज्यधुरो गायेत्। स यो हैवं विद्वान् संग्रामयोस् संनिहितयोर्
ब्रूयाद् अक्षरेण त्वा संनिदधामीति परं ग्रामं स हैव तं ग्रामं जयति। अथो यस्मिन्न्
एवं विद् ग्रामे भवति स उ हैव तं ग्रामं जयति॥

ते देवा अब्रुवन्
वीमानि भजामहा इति। तस्माद् उ गिरिः काष्ठो नाम॥1.107॥

स तेषां सकृद् एवं
सर्वेषाम् असृज्यन्त। तेषाम् अग्निर् एवोदजयत्। तस्यापगमनम् अगतस्याक्षो ऽछिद्यत।
तस्य रथचक्रं पतित्वा कृष्णाधिकां कोशान्तेन पर्यवर्तत। तम् अब्रुवन्न्
ईक्षित्वान्नादो वा अयं श्रेष्ठो भविष्यति पाप्मा वा अस्य पर्यवर्तीति। स यो हैवं
विद्वान् परिवर्तयते ऽन्नाद एव श्रेष्ठस् स्वानां भवत्य् अथो हास्य तं पाप्मानम् एव
परिवर्तयन्ति॥

सो ऽग्निर्
उज्जित्य प्राद्रवत्। तम् इन्द्रो ऽब्रवीत् सह नाव् अस्त्व् इति। नेत्य् अब्रवीत्।
यद् वा एको गृह्याणां विन्दते सर्वेषां वै तत् सह भवति। सहैव नाव् अस्त्व् इति।
नेत्य् एवाब्रवीत्। स वै माभि चिद् अवेक्षस्वेति। तम् अभ्यवैक्षत। सो ऽब्रवीत्
सान्त्वाय माभ्यवैक्षिष्ठास् सह नाव् अभूद् इति। यं यं न्व् एवाहम् अभ्यवेक्षिष्य
इत्य् अब्रवीत् तेनतेनैव मे सह भविष्यतीति। नेत्य् एवाब्रवीत्। सान्त्वाय वै मा
त्वम् एनद् अभ्यवैक्षिष्ठास् सहैव नाव् अभूद् इति॥1.108॥

तौ वै पृच्छावहा
इति। तौ प्रजापताव् अपृच्छेताम्। स प्रजापतिर् अब्रवीत् सान्त्वाय वै वां त्वम्
एतम् अभ्यवैक्षिष्ठास् सहैव वाम अभूद् इति। तथेति। तद् एनयोस् सहाभवद् अध्यर्धम्
अन्यस्य स्तोत्रम् अध्यर्धम् अन्यस्य। ऐन्द्राग्नो यज्ञः॥

तौ मित्रावरुणौ
प्राणापानौ पशुभ्यो ऽपाक्रामताम् अनुवी मन्यमानौ नावाभ्याम् अनुवीभ्यां पशवः
प्राणिष्यन्तीति। ते पशवो ऽप्राणन्त आध्मायमाना अशेरत। तद् आभ्याम् आचक्षताप
मित्रावरुणौ प्राणापानौ पशुभ्यो ऽतामिष्ठां त इमे ऽप्राणन्त आध्मायमानाश् शेरत इति।
ताव् आद्रुत्याब्रूतां प्राणन्तु नौ युवाभ्यां पशव इति। नावाभ्याम् अनुवीभ्याम्
इत्य् अब्रूताम्। ताभ्याम् एतं मैत्रावरुणम् आज्यम् अवाकल्पयन्। ततो वै ताभ्यां
पशवः प्राणन्। स य एवम् एताम् अग्नेर् उज्जितिं वेद यत्र कामयत उद् इह जयेयम् इत्य्
उत् तत्र जयति। य उ एवैताम् इन्द्रस्यार्धितां वेद यत्र कामयते ऽर्धी ह स्याम्
इत्य् अर्धी तत्र भवति। य उ एवैतां मित्रावरुणयोर् अवक्लृप्तिं वेद यत्र कामयते ऽव
म इह कल्पेतेत्य् अवास्मै तत्र कल्पते॥1.109॥

तानि वा एतान्य्
ऐन्द्राग्नान्य् एव सर्वाणि यद् आज्यानि। आग्नेयीषु स्तुवन्ति। तेनाग्नेयं गायत्री
छन्दस् तेनाग्नेयं पञ्चदशस्तोमस् तेनैन्द्रम्॥

तद् एतद्
ऐन्द्राग्नम् एव मैत्रावरुणीषु स्तुवन्ति। तेन मैत्रावरुणं गायत्री छन्दस्
तेनाग्नेयं पञ्चदशस्तोमस् तेनैन्द्रम्॥

तद् एतद्
ऐन्द्राग्नम् एवैन्द्रीषु स्तुवन्ति। तेनैन्द्रं गायत्री छन्दः। ऐन्द्राग्नम्
एवैन्द्राग्नीषु स्तुवन्ति। तेनैन्द्राग्नं गायत्री छन्दस् तेनाग्नेयं
पञ्चदशस्तोमस् तेनैन्द्रम्॥

तद् एतद्
ऐन्द्राग्नम् एवैन्द्राग्नीषु स्तुवन्ति। तेनैन्द्राग्नं गायत्री छन्दस् तेनाग्नेयं
पञ्चदशस्तोमस् तेनैन्द्रम्॥

तद् एतद्
ऐन्द्राग्नम् एव। इन्द्राग्नी यज्ञस्य देवता। स्वायाम् एवैतद् देवतायां प्रातस्सवने
यज्ञं प्रतिष्ठापयन्ति॥1.110॥

प्रजापतिः प्रजा
असृजत। ता अप्राणा असृजत। ताभ्य एतेनैव साम्ना प्राणम् अदधात्। प्राणो वै गायत्रम्।
सर्वम् आयुर् एति य एवं वेद। ताः प्राणं विविदाना रक्षांस्य् अन्वसचन्त। ता एतद् एव
साम गायन्न् अत्रायत। यद् गायन्न् अत्रायत तद् गायत्रस्य गायत्रत्वम्। त्रायत एनं
सर्वस्मात् पाप्मनो य एवं वेद

तद् ऊर्ध्वम् इव
गेयम्। ऊर्ध्वो वै स्वर्गो लोकः। स्वर्गस्यैव लोकस्य समष्ट्यै। त्र्यावृद् गेयम्।
त्रयो वा इमे लोकाः। एषां लोकानाम् आप्त्यै। त्रयुदासं गेयम्। त्रयो वै
प्राणापानव्यानाः। तेषां संतत्यै। सम् अस्मै प्राणापानव्यानास्तायन्ते य एवं वेद।
त्र्यावृद् गेयम्। त्रयो वा इमे लोकाः। एषां लोकानां संतत्यै। सम् अस्मा इमे लोकास्
तायन्ते य एवं वेद॥1.111॥

पितृदेवत्यं त्व्
अस्य नोपशवस्तवा इत्य् आहुः। एतद् ध वा अस्य पितृदेवत्यं यत् तान्ताकरोति। यदि
सामिताम्ये मध्य ऋचो वान्यान्। प्राणो वा ऋक् प्राणो गायत्रम्। प्राणस्यैतन् मध्ये
प्राणं समानयति॥

यद्य् उ च इयात्
प्राणापानव्यानान् गायेत्। प्राण इति द्वे अक्षरे अपान इति त्रीणि व्यान इति
त्रीणि। तद् अष्टौ संपद्यन्ते। अष्टाक्षरा गायत्री। तेन गायत्र्यै नैति॥

साम्नो ऽन्तर्
अरण्यनापत्यं। यो ह वै साम्नो ऽन्तर् अरण्यम् अवैति सर्वज्यानिं वा जीयते प्र वा
मीयते। एतद् ध वै साम्नो ऽन्तर् अरण्यं यत् प्रस्तुतम् अनभिस्वरितम् आदीयते॥

स्वरेण
संपाद्योद्गायेत्। एतद् वै साम्नस् स्वं यत् स्वरः। स्वेनैवैनत् तत् समृद्धयति।
एतद् वै साम्नो ऽन्नाद्यं यत् स्वराः। अन्नाद्येनैवैनत् तत् समृद्धयति। एतद् वै
साम्न आयतनं यत् स्वरः। आयतनेनैवैनत् तत् समृद्धयति। एतद् वै साम्नः प्रियं धाम यत्
स्वरः। प्रियेणैवैनत् तद् धाम्ना समृद्धयति॥1.112॥

देवान् वै
यज्ञस्याहुतिर् नागच्छत्। स प्रजापतिर् ऐक्षत कथं नु देवान् यज्ञास्याहुतिर्
गच्छेद् इति। स एते द्वे अक्षरे गायत्र्या उदखिदत्। स एव द्वयक्षरो वषट्कारो ऽभवत्
ततो वै देवान् यज्ञस्याहुतिर् अगच्छत्। अन्नं वै वषट्कारः। अत्त्य् अन्नं य एवं
वेद॥

इन्द्रो वृत्राय
वज्रम् उदयच्छत्। तस्यैते अक्षरे चक्राव् आस्ताम्। वज्रो वा एषः। य एते निस्पृशेद्
वज्रं निस्पृशेत्॥

यो वै दुग्धाद्
दुग्धम् उपैति न स आप्यायते। अथ यो ऽदुग्धाद् दुग्धम् उपैति स आप्यायते। अदुग्धाद्
वा एष दुग्धम् उपैति य एते अक्षरे उपैति। तस्माद् एते अक्षरे नोपोत्ये। यस्य वै
सर्वा गायत्री गीयते सर्वम् अस्य गृहे अधिगम्यते। यस्यो नागीयत ईश्वरो रूक्षो
भवितोः। अन्यतरद् अक्षरम् अवगृह्य वाचं चतुर्विंशीम् उपायान्। नास्योना गायत्री
गीयते नि च स्पृशति न च॥1.113॥

यो वा अंशुम्
एकाक्षरं वेदान्नाद एव श्रेष्ठस् स्वानां भवति। अथो सह एव तस्यै जनताया उद्गायति।
वाग् वा अंशुर् एकाक्षरः। तद् एव गायत्रम्। गायत्र्यै प्रस्तुतायै यद् आदिर्
उत्तरम् अक्षरं स स्थाणुः। यस् तद् उद्गायन्न् आरभते स्थाणुम् आरभते। य एनं
निर्हरति गायत्रीं छिद्रां करोति। गायत्रीं छिद्राम् अनु यज्ञस् स्रवति। यज्ञम् अनु
यजमानो यजमानम् अनु प्रजाः॥

सध्र्यश्वो ह स्माह
तैग्मायुधिः क उ स्विद् अद्य रसदिहाव् उरसि निमृदिष्यत इति। एते ह वै रसदिहौ ये एते
गायत्र्या उत्तमे अक्षरे। यस् ते उद्गायन्न् आरभते रसदिहाव् उरसि निमृदते। य उ एने
निर्हरति गायत्रीं छिद्रां करोति। गायत्रीं छिद्राम् अनु यज्ञस् स्रवति यज्ञम् अनु
यजमानो यजमानम् अनु प्रजाः॥1.114॥

तानि सर्वाण्य्
अक्षराण्य् उद्धृत्य वाचं दध्यात्। वाग् वै ब्रह्म। तद् यथा चर्मणा कृतिकण्टकान्
प्रावृतयातीयाद् एवम् एवैतद् वाचा ब्रह्मणा यज्ञस्थाणुं प्रमृद्य स्वस्त्य्
अतिक्रामति नार्तिम् आर्छति॥

अव वा एतत्
प्रतिहर्ता साम्नश् छिद्यते यद् गायत्रस्य न प्रतिहरति। प्रस्तूयमानं मनसा
प्रतिहिंकुर्यात्। अपान्य वाक् इति ब्रूयात्। तथा साम्नो नावच्छिद्यते नार्तिम्
आर्छति। यो वा अक्षरम् अंशुमद् वेद वहन्त्य् एनम् अंशुमतीस् संयुक्ताः। वाग् वा
अक्षरम्। तस्यै प्राण एवांशुः। वहन्त्य् एनम् अंशुमतीस् संयुक्ता य एवं वेद॥1.115॥

मरुत्वतीः प्रतिपदो
भवन्ति। मरुत्वन्तं ग्रहं गृह्णन्ति। मरुत्वान्वा इन्द्रो वृत्रम् अहन्
वार्त्रहत्याय। उच्चा ते जातम् अन्धसा इत्य् अन्धस्वतीर् भवन्ति। अहर् वा अन्धः।
अह्ना एव रम्भः। यज्ञो वा अन्धः। यज्ञस्यैवारम्भः। त्रीणि यज्ञे ऽन्धांसीति ह स्म
पूर्वे ब्राह्मणा मीमांसन्ते उच्चा ते जातम् अन्धसा॥ वसोर् मन्दानम् अन्धसः॥
पुरोजिती वो अन्धसः इति। त्रयः पशुषु भोगाः प्रातर् मध्यंदिने सायम्। तान्
एवैतेनावरुन्द्धे॥

इमे वै लोका सह
सन्तौ व्यैताम्। तयोर् न किं चन समपतत्। ते देवमनुष्या अशनायन्। इतः प्रदानाद् धि त
देवा जीवन्त्य् अमुतः प्रदानान् मनुष्याः। स एताः प्रजापतिर् इति चोपश्याद् उच्चा
ते जातम् अन्धसा इति। स उदित्येवेतो देवेभ्यो हव्यम् अवहत् दिवि सद् भूम्य् आददे
इत्य् अमुतो वृष्टिम् अच्यावयत्। ताव् इमौ लोकौ सवासिनाव् अकरोत्। ताव् अस्मै कामम्
अपिन्वाताम्। कामम् अस्मा इमौ लोकौ पिन्वाते य एवं वेद॥ तासु गायत्रम्
उक्तब्राह्मणम्॥1.116॥

अथामहीयवम्।
प्रजापतिः प्रजा असृजत। ता अनशना असृजत। ता अशनायन्तीर् अन्यान्याम् आदन्। स
प्रजापतिर् ऐक्षत कथं नु म इमाः प्रजा नाशनायेयुर् इति। स एतत् सामापश्यत्।
तेनाभ्यो ऽन्नाद्यं प्रायच्छद् वर्षम् एवापनिधनेन। ताभ्यो ऽवर्षद् एव नोदगृह्णात्।
स एतन् निधनम् अपश्यत्। तद् उपैत्। तत आभ्य उद्गृह्णात्। एतस्य ह वा इदं साम्नः
कृतो वर्षति च पर्जन्य उच् च गृह्णाति॥

यो वृष्टिकामस्
स्याद् एतेनैवापनिधनेन स्तुवीत। वर्षुको हास्मै पर्जन्यो भवति। स यद्य् अतीव
वर्षेद् एतद् एव निधनम् उपेयाद् उद् अहास्मै गृह्णाति। वर्षति च हास्मै पर्जन्य उच्
च गृह्णाति य एवं वेद॥

ता यद् एनं प्रजास्
सुहिता अशिता आमहीयन्त तद् आमहीयवस्यामहीयवत्वम्। ऐनं भार्यास् सुहितास् सुहितं
महीयन्ते य एवं वेद॥

ता एनम् अन्नं
विविदाना नापाचायन्। सधमादम् इवैवासन्। अन्नं हि श्रीः। सो ऽशोचत्। स नामहीयत। स
ऐक्षत कथं न्व् इमा अहं प्रजास् सृजेय ता मा सृष्टा नापचायेयुर् इति। स एतत्
सामापश्यत्। तेनास्तुत॥1.117॥

स स्तौषे इत्य् एव
निधनम् उपैत् ता अतोषयत्। ता अस्य वशम् आयन्। तोषयति द्विषतो भ्रातृव्यान् वशम्
अस्य स्वा आयन्ति य एवं वेद। स यद् आमहीयमाना अपश्यत् तद् आमहीयवस्यामहीयवत्वम्।
यद् व् एवैना वशे कृत्वामहीयत तद् व् एवामहीयवस्यामहीयवत्वम्। आ स्वान् वशे कृत्वा
महीयते य एवं वेद। तद् ये ऽस्य स्वा अवशीकृता इव स्युर् एतद् एवैषां मध्य आसीनो
ऽधीयीत। वश एवैनान्कुरुते॥

उत्तरकुरवो हाहुर्
अवषट्कृतस्यैव सोमस्य कुरुपञ्चाला भक्षयन्तीति। एकैकस्यै देवतायै होता वषट्करोति
सर्वाब्य उद्गाता। सर्वदेवत्यो ह्य् उद्गाता। आमहीयवस्य निधनेन वषट् कुर्याद् इति।
वषट्कृतस्यैव सोमस्य भक्षयन्ति। तद् उ ह स्माह मार्जश् शैलनो भ्रातृव्यान् वाव
निधनेन तोषयतीति। पुरस्ताद् एव निधनस्य वषट्कुर्यात् वौषड् भूमी ओ ददा इति।
वषट्कृतस्यैव सोमस्य भक्षयति॥1.118॥

यो वै यज्ञस्योधर्
वेद दुहे यज्ञम्। पवमानो वाव यज्ञः। तस्य गायत्र्य् एवोधः। गायत्रीं चतुर्ऋचां
कुर्यात्। यज्ञस्यैव तद् ऊधर् दधाति दुहे यज्ञम्। यो वै यज्ञस्य प्रतिष्ठां वेद
प्रति यज्ञं स्थापयति प्रत्य् आत्मना तिष्ठति॥

पवमानो वाव यज्ञः।
तस्य गायत्र्य् एव प्रतिष्ठा। गायत्रीं चतुर्ऋचां कुर्याद्। यज्ञस्यैव
तत्प्रतिष्ठां दधाति। प्रति यज्ञं स्थापयति प्रत्य् आत्मना तिष्ठति॥

उच्चा ते जातम्
अन्धसा॥ अस्य प्रत्नाम् अनु द्युतम्॥ एना विश्वान्य् अर्य आ इत्य् एतासु गायत्रं
कुर्यात्। तास्व् आमहीयवम्। स यद् धाय्यां चतुर्थीं दधाति तेन चतुर्ऋचं भवति।
प्रतितिष्ठतीभः। प्रति यज्ञं स्थापयति प्रत्य् आत्मना तिष्ठति॥1.119॥

त्रीणि ह वै
छन्दांसि यज्ञं वहन्ति गायत्री त्रिष्टुब् जगती। तद् एवानुष्टुब् आन्ताद्
अन्वायत्ता। तया देवास् स्वर्गं लोकम् अजिगांसन्। तया न व्याप्नुवन्। तस्यां
चतुष्पदः पशून् उपादधुर् गां चाश्वं चाजां चाविं च। तया व्याप्नुवन्। ते ऽब्रुवन्
स्वर्गं लोकं गत्वा बृहती वा इयम् अभूद् ययेदं व्यापामेति। तद् एव बृहत्यै
बृहतीत्वम्। न ततः पुरा बृहती नाम छन्द आस। सा वा एषा पशव एव यद् बृहती॥

येन निधनम्
उपयन्ति। तेन प्रस्तौति। तेनो एव पुनर् आदिम् आदत्ते। तस्मात् पशवो यत एव
प्रजायन्ते ततस्संभवन्ति। ते तत एव पुनः प्रजायन्ते॥

न बृहत्या
वषट्कुर्यात् पशूनाम् अप्रवर्गाय। यद् बृहत्या वषट्कुर्याद् वज्रेण वषट्कारेण पशून्
प्रवृञ्ज्यात्॥1.120॥

देवा वा असुरान्
हत्वापूता इवामेध्या अमन्यन्त। ते ऽकामयन्त पूता मेध्याश् श्रितास् स्याम गच्छेम
स्वर्गं लोकम् इति। त एता ऋचो ऽपश्यन्। ताभिर् अपुनत। पुनानस् सोम धारयापो वसानो
अर्षसि इति। आपो वै पवित्रम्। अद्भिर् एवापुनत। आ रत्नधा योनिम् ऋतस्यसीदसि इति।
अन्तरिक्षं वा ऋतम्। अन्तरिक्षम् एवैतेनात्यायन्। उत्सो देवो हिरण्ययः इति। असौ वै
लोक उत्सो देवः। अमुम् एवैतेन लोकम् उपासीदन्। ततो वै ते पूता मेध्याश् श्रिता
अभवन्न् अगच्छन् स्वर्गं लोकम्। पूतो मेध्यश् श्रितो भवति गच्छति स्वर्गं लोकम्
एताभिर् ऋग्भिस् तुष्टुवानः॥1.121॥

तासु रौरवम्।
अग्निर् वै रूरुर् एतत् सामापश्यत्। यद् अग्नी रूरुर् एतत् सामापश्यत् तद् रौरवस्य
रौरवत्वम्॥

रूर इतिवृधः
पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा
इळा। ततो वै पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर्
भवति य एवं वेद। यद् उ रूर इतिवृध्रो ऽपश्यत् तस्माद् व् एव रौरवम् इत्य् आख्यायते॥

अथ यौधाजयम्।
इन्द्रो वै युधाजीवन्न् एतत् सामापश्यत्। यद् इन्द्रो युधाजीवन्न् एतत् सामापश्यत्
तद् यौधाजयस्य यौधाजयत्वम्। अयुध इव द्विषन्तं भ्रातृव्यं जयति य एवं वेद॥

युधाजीवो
वैश्वामित्रः प्रतिष्ठाकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स
प्रत्यतिष्ठत्। तद् एतत् प्रतिष्ठा साम। प्रतितिष्ठति य एवं वेद। यद् उ युधाजीवो
वैश्वामित्रो ऽपश्यत् तस्माद् व् एव यौधाजयम् इत्य् आख्यायते॥1.122॥

यौधाजयेन वै देवा
असुरान् संविच्य रौरवेणैषां रवमाणानां स्वम् आददत। यौधाजयेनैव द्विषन्तं भ्रातृव्यं
संविच्य रौरवेणास्य रवमाणस्य स्वम् आदत्ते य एवं वेद॥

रौरवेण वै देवा
ऊर्ध्वास् स्वर्गं लोकम् आरोहन्। तान् असुरा ओ वा इत्य् एवान्वारोहन्। तद् देवाः
प्रत्यबुध्यन्त। त एतं स्तोभम् अपश्यन्। तेनैनान् ओ हा उ वा इत्य् अवाचो ऽवाघ्नन्।
उत्सो देवो हिरा हा उ वा इति भूमिस्पृश एवाकुर्वन्। अन्तगतम् इव सामासीत्। रौरवस्
स्वर्गो लोक एव यच्छेत्। ऊर्ध्वं प्रतिहाराद् उद्गाता। स्वर्गस्य लोकस्य समष्ट्यै।
ण्याया औ हो वा हो इळा इति। स्वरेणैव संतत्य स्वर्गं लोकं समश्नुते॥

एतावन्ति ह खलु वै
सामान्य् एतावती सामक्लृप्तिर् एतावान् उ सामबन्धुः। स्वारं भवति। प्राणो वै स्वरः।
अथ निधनवत्। आत्मा वै निधनम्। अथैळम्। पशवो वा इळा। प्राणम् आत्मानं पशूंस् तान्
एवैतत् संदधाति। सर्वयास्य सामक्लृप्त्या सर्वेण सामबन्धुना स्तुतं भवति य एवं
वेद॥1.123॥

द्वे उ ह वाव सामनी
स्तोभवच् चैवास्तोभवच् च। तयोर् यत् स्तोभवत् तत् क्षत्रम् अथ यद् अस्तोभवत् तद्
ब्रह्म। उभयं ब्रह्म च क्षत्रं चावरुन्द्धे य एवं वेद॥

अथ यौधाजयं
त्रिणिधं सवनानां क्लृप्त्यै। पवमानेन वै देवेभ्यो ऽन्नाद्यं प्रदीयते। तन्
मध्यनिधनं भवत्य् अन्नाद्यस्य विशेषाय। यद् धि देवेभ्यस् सर्वम् अन्नाद्यं प्रदीयेत
न तद् इहान्नाद्यं परिशिष्येत यन् मनुष्याश् च पशवश् चोपजीवेयुः। तद् यन्
मध्येनिधनं भवत्य् अन्नाद्यस्यैव विशेषाय॥

देवानां वा असुरा
यज्ञवशसम् अचिकीर्षन्। यावत्य् एतद् दक्षिणानां काले न स्तुवन्ति न शंसन्ति। तद्
देवाः प्रत्यबुध्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। ते प्रातस्सवनम् एव प्रथमेन
निधनेन पर्यगृह्णन् माध्यंदिनं द्वितीयेन तृतीयसवनं तृतीयेन। तान् एव वज्रान्
उदयच्छन्। तान् एव वज्रान् उद्यतान् असुरा नोपाधृष्णुवन्। ततो वै देवा अभवन्
परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥

अथ ह स क्लृप्त एव
पवमानो यस्मिन्नावि त्रिणिधनं भवति सवनानाम् एव क्लृप्त्यै॥1.124॥

देवासुरास् संयत्ता
ज्योङ् न व्यजयन्त। बृहस्पतिर् देवानां पुरोहित आसीद् उशना काव्यो ऽसुराणाम्। तद्
यद् एवावस्ताद् ब्रह्माक्रियत तत् परस्ताद् अक्रियत। तत् समानं ब्रह्म न व्यजयत्।
तेषां ह त्रिशीर्षगन्धर्वो विजयस्यावेत्। स हैषास। तस्य हाप्स्व् अन्तर् नौनगरं
परिप्लवम् आस। तद् इन्द्रो ऽन्वबुध्यत त्रिशीर्षा वै नौ विजयस्य वेदेति। तस्या
जायाम् आर्छद् एतस्यैव विजयस्य कामाय। ताम् अब्रवीत् पृच्छतात् पतिं य इमे
देवासुरास् संयत्ता ज्योग् अभूवन् कतर एषां जेष्यन्तीति। तद् धैव संवदमानावाजगाम। स
ह तद् एव नौमण्ड उपशिश्लेष जलायुका वा तृणकं वा भूत्वा। सेयं पतिं पप्रच्छ य इमे
देवासुरास् संयत्ता ज्योग् अभूवन् कतर एषां जेष्यन्तीति॥1.125॥

मोच्चैर् इति होवाच
कर्णिनी वै भूमिर् इति। तद् इदम् अप्य् एतद् आहुर् मोच्चैः कर्णिनी वै भूमिर् इति।
नेति होवाच ब्रूह्य् एवेति। स होवाच ब्राह्मणाव् इमौ समं विदतुर् बृहस्पतिर् अयं
देवेषूशना काव्यो ऽसुरेषु। तौ यत् कुरुतस्तत् समम् एव यच्छति। या इतर आहुतीर्
जुहोति ता इतरः। तास् समेत्य यथायथम् एव पुनर् विपरायन्ति। तयोर् यतरो यतरान्
उपसमेष्यति ते जेष्यन्तीति। तद् धैवेन्द्रो ऽनुबुध्य शुको भूत्वोत्पपात। तं
हान्वीक्ष्य पतन्तम् उवाच येषाम् असौ हरितवर्णकः पतति ते जेष्यन्तीति। स होशनसं
काव्यम् आजगामासुरेषु। तं होवाचर्षे कम् इमं जनं वर्धयस्य् अस्माकं वै त्वम् असि
वयं वा तवास्मान् अभ्युपावर्तस्वेति। कथेति होवाच केन मोपमन्त्रयस इति। या इमा
विरोचनस्य प्राह्लादेः कामदुघस् ताभिर् अतितभिर्ह प्रत्वित्वेव प्रदुदुवतुः। तौ
हासुरा अन्ववजह्रिरे। तौ हान्वाजग्मुः। स होवाचर्षे ऽनु वै नाव् इमे ऽसुरा अग्मन्न्
इति। स वै तथा कुर्व् इति होवाच यथा नाव् एतेनान्वागच्छान् इति। तौ हैतत्
प्रतिपेदाते --॥1.126॥

स्वायुधः पवते देव
इन्दुर् अशस्तिहा वृजना रक्षमाणः।

पिता देवानां जनिता
सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः॥

इति। आ दिवो
विष्टम्भम् उच्छिश्रियतुः। तं हैवासुरान् नातीयुः। तौ हाभिः कामदुघाभिर् देवानां
जग्मतुः। तौ हागतौ महयांचक्रे

ऋषिर् विप्रः
पुरएता जनानाम् ऋभुर् धीर उशना काव्येन।

स चिद् विवेद
निहितं यद् आसाम् अपीच्यं गुह्यं नाम गोनाम्॥

इति। ता एताः
पशव्या ऋचः। अव पशून् रुन्द्धे बहुपशुर् भवत्य् एताभिर् ऋग्भिस् तुष्टुवानः। तास्व्
औशनम्। उशना वै काव्यो देवेष्व् अमर्त्यं गन्धर्वलोकम् ऐच्छत्। स एतत् सामापश्यत्।
तेनास्तुत। ततो वै स देवेष्व् अमर्त्यं गन्धर्वलोकम् आश्नुत। तद् एतल् लोकवित् साम।
अश्नुते देवेष्व् अमर्त्यं गन्धर्वलोकम् एते तुष्टुवानः। यद् उशना काव्यो ऽपश्यत्
तस्माद् औशनम् इत्य् आख्यायते॥

तत् स्वारं
भवति। स्वरेण वै देवेभ्यो ऽन्नाद्यं प्रदीयते। ऋक्समं पवमानान्ते भवति। नर्चा
सामातिरेचयन्ति नर्चं साम्ना। तद् यद् इहेव चेहेव च पवमानेन स्तुवत एतस्यैव समतायै
समं क्लृप्त्यै। पदानुस्वारं पुरस्ताद् गायत्रं भवति पदानुस्वारम् उपरिष्टात्
पवमानान्ते। तस्माद् उभयतःप्राणाः प्रजा ऊर्ध्वाश् चावाचीश् च॥

द्विषाम्णी
गायत्री। यो ऽयं अवाङ् प्राण एष एव सः। तस्माद् एतेन द्वयं प्राणेन करोति भस्म च
करोति वातं च॥

द्विषाम्णी
बृहती। यो ऽयं प्राङ् प्राण एष एव सः। तस्माद् एतेन द्वयं प्राणेन करोति रेतश् च
सिञ्चति मेहति च॥

एकसाम्नी
त्रिष्टुप्। नाभिर् एव सा। तस्याम् एकं साम। तस्माद् एतेनैकम् एव प्राणेन करोति यद्
एव प्राणान् उदन्तो ऽनूदनिति॥1.127॥

प्रजापतिर्
यद् बृहद्रथन्तरे असृजत स मन एवाग्रे बृहद् अपश्यत्। वाचं रथन्तरम् अभिव्याहरत्।
तद् यद् वाचं रथन्तरम् अभिव्याहरत् तस्माद् उ रथन्तरं पूर्वं योगम् आनशे। अथ यन्
मनो ऽग्रे बृहद् अपश्यत् तस्माद् उ बृहद्रथन्तरे इत्य् आख्यायेते॥

मनो व पूर्वम्
अथ वाक्। मनो वै बृहद् वाग् रथन्तरम्। ऋग् वै रथन्तरं साम बृहत्। ब्रह्म वै रथन्तरं
क्षत्रं बृहत्। इदं वै रथन्तरम् अदो बृहत्॥

यद् वा एजत इव
तद् राथन्तरं यद् उपस्थितं तद् बार्हतम्। ये वा अन्यतोदन्ताः पशवस् ते राथन्तरा य
उभयतोदन्तास् ते बार्हताः। या वै तिरश्ची विद्युत् सा राथन्तरी योर्ध्वा सा
बार्हती॥

रथन्तरस्य
महिम्नस् संभृत्य रथन्तरेणोद्गायेत् यस् ते अग्नौ महिमा यस् ते अप्सु रथे यस् ते
महिमा स्तनयित्नौ य उ ते वाते यस् ते महिमा तेन संभव रथन्तरं द्रविणस्वन् न एधि
इति। द्रविणस्वद् एवोद्गात्रे भवति। द्रविणस्वद् यजमानाय द्रविणस्वद् एवोद्गात्रे
भवति द्रविणस्वद् यजमानाय द्रविणस्वद् प्रजाभ्यः॥1.128॥

देवासुरा
अस्पर्धन्त। ते देवा वज्रं क्षुरपविम् असृजन्त पुरुषम् एव। तम् असुरान्
अभ्यवृञ्जन्। सो ऽसुरान् अपोप्य देवान् अभ्यावर्तत। तस्माद् देवा अबिभयुः। तम्
अभिपद्य बृहद्रथन्तरयोः प्रौहन्। स एष वज्रः क्षुरपविर् बृहद्रथन्तरयोः पुरुष एव। स
यं द्विष्याद् बृहद्रथन्तरयोर् एनम् मुखे ऽपिदध्यात्। यदि राथन्तरस् सोमस् स्याद्
रथन्तरे प्रस्तुते ब्रूयात् दिवं पितरम् उपश्रये बृहन् मा मा हिंसीः इति।
अथानुमन्त्रयेत प्राणैर् अमुष्य प्राणान् वृङ्क्ष्व॥ तक्षणेन तेक्षणीयसायुर् अस्य
प्राणान् वृङ्क्ष्व॥ क्रुद्ध एनं मनुन्या दण्डेन जहि॥ धनुर् एनम् आतत्येष्वा विध्य
इति। बृहद्रथन्तरयोर् एवैनं मुखेऽपिदधाति। यं द्वेष्टि तं पुरा संवत्सरात् प्राणो
जहाति।

यो वै देवरथं
वेद रथी भवति। यज्ञो वाव देवरथः। तस्य बहिष्पवमानम् एव रथमुखं बृहद्रथन्तरे अश्वाव्
आज्यानि योक्त्राण्य् अभीशू पवमानौ पक्षसी -- ॥1.129॥

-- औशनकावे
आणी नौधसकालेये बन्धुराधिष्ठानं वामदेव्यम् उपस्थो यज्ञायज्ञीयम् अध्यास्थाता स एष
पुरुषः। एष वै देवरथः। रथी भवति य एवं वेद। यदि राथन्तरस् सोमस् स्याद् बृहन्
नान्तर्यात्। यदि बार्हतस् सोमस् स्याद् रथन्तरं नान्तर्यात्। हो वै
बृहद्राथन्तरम्। रथन्तरे प्रस्तुते हो इत्य् उक्त्वादिम् आददीत। बृहद् एव तद्
रथन्तरस्य मुखतो युनक्ति। (आ वै रथन्तरं बार्हतम्।) बृहति प्रस्तुते आ इत्य्
उक्त्वादिम् आददीत। रथन्तरम् एव तद् बृहतो मुखतो युनक्ति। अस्थूरिं देवरथं करोति
प्रति यज्ञं स्थापयति प्रत्य् आत्मना तिष्ठति॥

एष वै देवरथो
यद् रथन्तरम्। रथन्तरे प्रस्तुते पृथिवीं हस्ताभ्यां गच्छेद्
देवरथस्यानपव्याथाय॥1.130॥

एकम् अक्षरं
स्तोभति। तस्माद् अरेणारेण रथः प्रतितिष्ठन्न् एति॥

द्वे अक्षरे
स्तोभति। द्वे रथस्य पक्षसी। पक्षाभ्याम् एव तद् देवरथं प्रतिष्ठापयति॥

त्रीण्य्
अक्षराणि स्तोभति। द्विपाद् वै यजमान आत्मा तृतीयः। यजमान एव तत् प्रतितिष्ठति। अथो
त्रय इमे लोकाः। तान् एव तद् आप्नोति॥

चत्वार्य्
अक्षराणि स्तोभति। चतस्रो दिशश् चतुष्पादाः पशवः। दिक्षु चैतत् पशुषु च
प्रतितिष्ठति॥

पञ्चाक्षराणि
स्तोभति। पांक्तो यज्ञः पांक्ताः पशवः। यज्ञे चैतत् पशुषु च प्रतितिष्ठति॥

षड् अक्षराणि
स्तोभति। षड् वा ऋतवः। ऋतुष्व् एव तत् प्रतितिष्ठति। अथो षड् वै छन्दांसि। तान्य्
एव तद् आप्नोति॥

सप्ताक्षराणि
स्तोभति। सप्तपदा वै शक्वर्यः।शाक्वराः पशवः। पशुष्व् एव तच् छक्वर्यां
प्रतितिष्ठति। अथो सप्त चतुरुत्तराणि छन्दांसि सप्त मुख्याः प्राणाः। तान्य् एव तद्
आप्नोति॥

अष्टाक्षराणि
स्तोभति। अष्टाक्षरा वै गायत्री। तेजो ब्रह्मवर्चसं गायत्री। तेजस्व् एव तद्
ब्रह्मवर्चसे प्रतितिष्ठति। अथो अष्टाशफेष्व् एव पशुषु॥1.131॥

नवाक्षराणि
स्तोभति। नव वै पुरुषे प्राणाः। प्राणान् एवैतद् द्विषतो भ्रातृव्यस्य वृञ्ज्यात्।
प्राणान् आत्मन् धत्ते ऽथो भ्रातृव्यस्य। त्रिवृत एव स्तोमस्य स्तोत्रम् आप्नोति॥

दशाक्षराणि
स्तोभति। दशाक्षरा विराड् अन्नं विराट्। विराज्य एव तद् अन्नाद्ये प्रतितिष्ठति।
अथो दश प्राणाः। तान् एव तद् आप्नोति॥

एकादशाक्षराणि
स्तोभति। एकादशाक्षरा त्रिष्टुप्। इन्द्रियं वीर्यं त्रिष्टुप्। इन्द्रियम् एव तद्
वीर्ये प्रतितिष्ठति॥

द्वादशाक्षराणि स्तोभति। द्वादशाक्षरा वै जगती। पशवो जगती। पशुष्व् एव तज् जगत्यां
प्रतितिष्ठति। अथो द्वादश मासाः। तान् एव तद् आप्नोति॥

त्रयोदशाक्षराणि स्तोभति। य एवासाव् अधिचरस् त्रयोदशो मासस् तम् एव तद् आप्नोति॥

चतुर्दशाक्षराणि
स्तोभति। संवत्सरो वै चतुर्दशः। संवत्सर एव तत् प्रतितिष्ठति॥

पञ्चदशाक्षराणि स्तोभति। पञ्चदश वा अर्धमासस्य रात्रयः। अर्धमासश एव संवत्सरम्
आप्नोति॥

षोडशाक्षराणि
स्तोभति। षोडशकलो वै पुरुषः। कला एव तद् द्विषन्तं पाप्मानं भ्रातव्यम् अवाञ्चम्
अपवहन्ति श्रियम् आत्मनाश्नुते। अथो षोडशिन एव स्तोमस्य स्तोत्रम् आप्नोति॥

सप्तदशाक्षराणि स्तोभति। प्रजापतिर् वै सप्तदशः। प्रजापताव् एव तत्
प्रतितिष्ठति॥1.132॥

एतद् अन्यत्
स्तोभेत्। ऋचम् एवान्य गायेत्। स यद् ऋचम् एव गायति तेन रथन्तरस्य रूपं नैति। ऋग्
घि रथन्तरं साम बृहत्। यद्य् उ स्तोभेद् अष्टाव् एवाक्षराणि स्तोभेत्। तद् व् एव
संप्रति। स्वर् दृशं प्रतिविपश्येच् चक्षुषो ऽप्रवर्हाय॥

यद् ईशानम्
इन्द्र इति प्रतिहरेद् ईशानो यजमानस्य पशून् अभिमानुकस् स्यात्। अथ यत् शानम्
इन्द्र इति प्रतिहरति नेशानो यजमानस्य पशून् अभिमन्यते शान्ताः प्रजा एधन्ते॥

प्रतिहारेप्रतिहार उद्गाता इळा इति ब्रूयात्। पशवो वा इळायतनं रथन्तरम्। आयतन एव
तद् एतान् पशून् प्रतिष्ठापयति। नस्थुषः इति ब्रूयात्। यत् तस्थुषः इति ब्रूयात्
स्थायुकास्य श्रीस् स्यात्। अथ यत् नस्थुषः इत्य् आह नास्य श्रीस् तिष्ठति बहवो
ऽस्य स्वायातेन यान्ति॥

बृहद्रथन्तरे
व्यावर्तयेत्। यद् ध वै बृहद्रथन्तरे न व्यावर्तयेद् यथा महावृक्षौ समृत्य शाखा
विपरिशृणीत एवं प्रजाः पशून् विपरिशृणीयाताम्। हो वा हा वै वृहद् ओ वा हा रथन्तरम्।
बृहद्रथन्तरे एवैतद् व्यावर्तयति वि पाप्मना वर्तते य एवं वेद॥1.133॥

यथा स्याद्
एवं बुभूषन्न् उपेयात्। यथास्येद् एवं भ्रातृव्यवान्। जयत्य् आत्मना परास्य द्विषन्
भ्रातृव्यो भवति य एवं वेद॥

बृहद्रथन्तरे
यद् असृज्येतां ताभ्यां भीषा प्रजाः पशव उदवेपन्त। ते आत्मानम् एव पर्यैक्षेतां किं
नु नाव् इदं क्रूरम् इवात्मनो यस्माद् भीषा प्रजाः पशव उदवेपिषतेति। ते निधने
एवापश्यताम्। ते अरण्ये निधाय ग्रामम् अभ्यवैताम्। तद् एव स्वकृतम् इरिणम् अभवत्।
तस्माद् आहुर् न स्वकृतम् इरिणम् अध्यवसेयम्। ईश्वरः पापीयान् भवितोर् यत्स्वकृतम्
इरिणम् अध्यवस्यतीति। बृहद्रथन्तरयोर् ह वा एतन् निधनाभ्यां निर्दग्धम्। ते ह वा
एते ग्रामेगेये एवापनिधने यद् बृहद्रथन्तरे। कामं ह वा एताभ्याम् अपनिधनाभ्यां
ग्रामे स्तुवीत॥1.134॥

अष्टाक्षरेण
प्रस्तौति। द्व्यक्षरेणोत्तरे प्रस्तौत्य अभिक्रान्त्या अनपभ्रंशाय॥

अष्टाक्षरेण
प्रस्तौति। द्व्यक्षरेणोत्तरे प्रस्तौति। द्विपादम् एव तद् अष्टाशफेषु पशुष्व्
अध्यूहति। तस्माद् द्विपाद् अष्टाशफान् पशून् अधितिष्ठति॥

अष्टाक्षरेण
प्रस्तौति। द्व्यक्षरेणोत्तरे प्रस्तौति। द्विपादम् एव तद् अष्टाशफेषु पशुष्व्
अध्यूहति। तस्माद् द्विपाद् अष्टाशफान् पशून् अधितिष्ठति॥

अष्टाक्षरेण
प्रस्तौति। द्व्यक्षरेणोत्तरे द्वे प्रस्तौति। तद् द्वादश संपद्यन्ते। द्वादश
मासास् संवत्सरः। संवत्सरः प्रजापतिर् यज्ञः। संवत्सरम् एवैतेन प्रजापतिं यज्ञम्
आप्नोति॥

अक्षरेषु
रथन्तरं करोति। तस्माद् अरेणारेण रथः प्रतितिष्ठन्न् एति॥

रथन्तरेण वै
देवा असुरान् संविच्य बृहता जालेनेवाभिन्यौब्जन्। रथन्तरेणैव द्विषन्तं भ्रातृव्यं
बृहता जालेनेवाभिन्युब्जति य एवं वेद॥

रथन्तरेण वै
देवा ऊर्ध्वास् स्वर्गं लोकम् आयन्। तान्य् असुररक्षसानि नव नवतय इमान् लोकान्
अवृण्वन्। रथा हि नामासुः। ते देवा रथन्तरेणैव स्तुत्वा रथन्तरं समारुह्य स्वर्गं
लोकम् अगच्छन्। ते ऽब्रुवन्न् अतारिष्म वा इमान् रथान् इति तद् एव रथन्तरस्य
रथन्थरत्वम्। तरति द्विषन्तं भ्रातृव्यं य एवं वेद॥1.135॥

अशनया ह वै
रथा अन्नम् उ वै रथन्तरम्। अन्नेनाशनयां घ्नन्ति। तांताम् अशनयाम् अन्ने हत्वा
स्वर्गं लोकम् आरोहन्। बृहता वै देवास् स्वर्गं लोकम् अजिगांसन्। तेन न
व्याप्नुवन्। तस्मिन्न् उष्णिक्ककुभा उपादधुः। तेन व्याप्नुवन्। ते ऽब्रुवन्स्वर्गं
लोकं गत्वा बृहद् वावेदम् अभूद् येन स्वर्गं लोकं व्यापामेति। तद् एव बृहतो
बृहत्त्वम्॥

द्वादश बृहतो
रोहान् रोहेत् स्वर्गकाम उदधिम् अर्दयेद् वृष्टिकामः। यावन्त्य् उ ह वै बृहत्या
अक्षराण्य् उष्णिक्ककुभोश् च तावद् इतस् स्वर्गो लोकः। प्र स्वर्गं लोकम् आप्नोति य
एवं वेद॥1.136॥

अथो बृहत्।
मनो बृहत्। द्वादशाक्षरः प्रस्तावः। तावद् धि साम। द्वादश मासास् संवत्सरः।
संवत्सरस् साम। त्रयो बृहतो रोहा इम एव लोकाः। ते पुनर् नव भवन्ति प्राणा एव। मनो
दशमम्। द्वादश बृहतस् तन्वो मासा एव। मासा रश्मयः। रश्मयो मरुतः। तैर् असाव्
आदित्यो धृतः। स य एतद् एवं वेद यत्र कामयत इह ध्रिययेति ध्रियते तत्र। यो वै बृहतो
बार्हतं पदं वेदोरु प्रजया पशुभिः प्रथते॥

द्वादशाक्षरं
वा बृहतो बार्हतं पदम्। तद् आयच्छते ऽवगेयम्। यो वै बृहति त्रिवृतं सदेवं प्रोढं
वेद गच्छति क्षत्रमात्राम्। रोहा ह वाव बृहतस् त्रिवृत्सदेवाः। ब्रह्मणो ऽस्य सतः
क्षत्रस्येव प्रकाशो भवति य एवं वेद॥

इन्द्रो
वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानः परां परावतम् अगच्छत्। तं प्रजापतिर्
अकामयत तत् स्याद् इति। तम् ओ हो इत्य् अन्वाह्वयत्। सो ऽभवत्। ओ हो इत्य्
एवावरुद्धो राजन्यः कुर्वीत। अव हैव गच्छति॥1.137॥

देवा वा
असुरान् युधम् अपप्रयन्तो ऽब्रुवन् यन्अ नो वामं वसु तद् अपनिधाय युध्यामहै यद्
अद्य कस्मिंश् चिद् भूते ऽभ्यवधावामेति। पशवो वाव तेषां वामं वस्व् आसीत्। तद्
अपनिधाय युधम् अपपरायन्। ते देवा असुरान् अजयन्। ते विजिग्यानाः पुनर् आयन्त एकं
भूतम् अभ्यवायन्। तन् न व्यजानतेदं मम वामम् इदं ममेति। ते ऽब्रुवन् वीदं भजामहा
इति। तस्य विभागे न समपादयन्। ते ऽब्रुवन् प्रजापताव् एव पृच्छामहा इति। ते
प्रजापताव् अपृच्छन्त। स प्रजापतिर् अब्रवीत् सर्वेषाम् एव व एतद् वामं सह सर्वान्
व एतेन स्तोष्यन्ति सर्वान् व एतद् अवष्यति मा विभग्ध्वम् इति॥

तद् यद्
गायत्रीषु स्तुवन्ति तेनाग्नेयम्। गायत्र्यो ह्य् अग्निर् इति। यत् पृष्ठं
माध्यंदिनं तेनैन्द्रम्। त् कवतीषु स्तुवन्ति तेन प्राजापत्यम्। यद् अनिरुक्तं तेन
वैश्वदेवम्। यन्मैत्रावरुणाय स्तुवन्ति तेन मैत्रावरुणम्। तद् वा एतत् पशव्यं यद्
वामदेव्यम्॥

अनेजन्न्
उद्गायेत् पशूनाम् अपरावापाय। यद् एजन्न् उद्गायेत् पशून् परावपेत्। तद् आहुः
प्रावृतो ऽनेजन्न् उद्गायेन् नेन् मोपद्रष्टानुव्याहराद् इइति। तद् उपकार्यरूपम्।
प्रावृत एवानेजन्न् उद्गायेत्॥1.138॥

अक्षं ह स्म
वा एतत् पुरा विशश् शीर्षन् निदधति य एव तम् उद्गायन् नावपातयिष्यति स न
उद्गास्यतीति। तद् उ तद् उपकार्यरूपम् एव। कामम् एवोद्गेयम्॥

तस्य त्रीण्य
अक्षराणि छन्नानि गायति। त्रयो वा इमे लोकाः। प्रजापतिर् वामदेव्यं प्रजापतिर्
लोकानाम् अभिनेता। स नो लोकानाम् अभिनेता स नो लोकान् अभिनयाद् इति। वामदेव्यस्य
स्तोत्र ऋषभम् अप्यर्जेत्। सौ हौ खा इत्य् एवर्षभः। योनिर् वामदेव्यं प्रजननम्
ऋषभः। योन्याम् एवैतत् प्रजननेन प्रजननम् अपिसृजति प्रजात्यै॥

तत् परोक्षम्
इव गेयम्। नर्चम् उपस्पृशेत्। वयो वै वामदेव्यम्। यद् ऋचम् उपस्पृशेद् यथा वयो
ऽन्तरिक्षेण पतद् वृक्षम् ऋच्छेत् तादृक् तत्॥

पदे अन्तरा
नावान्यात्। यद् पदे अन्तरावान्याद् यथा कर्तं पतेत् तादृक् तत्। उत्तरस्य
पदस्यारभ्यावान्यात्। स यथाक्रमणाद् आक्रमणम् आक्रम्योदन्यात् तादृक् तत्॥1.139॥

विच्छिन्नम्
इव वा एतत् साम। प्रतिहारं प्रति कयाशयिवा र्तोहायीति संक्रामेद् अनादृत्य
प्रतिहारम्। तद् उ तद् दुष्कररूपम्। सामिताम्य् एतत्। प्रतिहार एव प्रतिह्रियमाणः
वाक् इत्य् उद्गाता ब्रूयात्। वाग् वै ब्रह्म। वाचैवैनत् तद् ब्रह्मणा संदधाति॥

आपो वै
देवानां पत्नय आसन्। ता मिथुनम् ऐच्छन्त। ता मित्रावरुणाव् उपैताम्। ता गर्भम्
अदधत। ततो रेवतयः पशवो ऽसृज्यन्त। रेवतीषु पशुकामस्य कुर्यात्। पशुमान् एव भवति।
ईश्वरो ह त्व् अप्रजापतिर् भवितोः। कवतीभ्यो ह्य् एति प्राजापत्याभ्यः। अथ ह वा
एतद् भरद्वाजः पृश्निस्तोत्रं ददर्श पशुकामः कया नश् चित्र आ भुवत्॥ रेवतीर् न
सधमादे॥ अभी षु णस् सखीनाम् इति। स यद् एकां रेवतीं मध्यतो ऽपिसृजति तेन पशुभ्यो
नैति। यद् उ कवत्यौ प्राजापत्ये अभितो भवतस् तेनो प्रजायै नैति॥

तत् स्वारं
भवति। प्राणो वै स्वरः। प्राणान् एवैतत् पशुषु दधाति। ईश्वरो ह तु स्वरेण यजमानस्य
पशून् निस्वरितोः। यद्य् अनिधनं कुर्यात् प्राणम् अपिहन्यात्॥1.140॥

अविता
जरायितॄणाम् आ औ हो हा यि शतां भवस्य् औ हो हुं मा ता या हुं मा इत्य् उत्तमाया
उत्तरार्धे कुर्यात्। स यथा व्रजे गा अनपाद्य् अर्गलेनापिहन्यात् तादृक् तत्। तद्
आहुस् स्वयोनाव् एव तत् स्वारं कार्यम्। य एनम् एवं चकृवांसम् उपमीमांसेत स्वरेण
यजमानस्य पशून् निरस्वारीर् इति तं ब्रूयान् निधनवत् पुरस्ताद् रथन्तरं निधनवद्
उपरिष्टान् नौधसम्। ताभ्यां म एतद् उभयतः प्रजाः पशवः परिगृहीताः। प्राणम् एवैतद्
अधा मध्यतः पशूनाम् इति। य एवैनम् एवं चकृवांसम् उपमीमांसते स आर्तिम् आर्छति॥

अष्टाक्षरा
गायत्र्य् अष्टौ वसवः। गायत्रं प्रातस्सवनम्। अक्षरेऽक्षरे देवतान्वायत्ता॥

एकादशाक्षरा
त्रिष्टुब् एकादश रुद्राः। त्रैष्टुभं माध्यंदिनं सवनम्। अक्षरेऽक्षरे
देवतान्वायत्ता॥

द्वादशाक्षरा
जगती। द्वादशादित्याः। जागतं तृतीयसवनम्। अक्षरेऽक्षरे देवतान्वायत्ता॥

अथ किं
प्रतियज्ञं यजमानम् अपिनयन्तीति। स ब्रूयात् प्रजापतिर् यद् वामदेव्यम् असृजत तस्य
त्रीण्य अक्षराण्य् उदखिदत्। स एव त्र्यक्षराः पुरुषो ऽभवत्। वामदेव्यस्य स्तोत्रे
पुरुषः इति ब्रूयात्॥

तत्
प्रतियज्ञं यजमानम् अपिनयन्तीति तद् आहुर् न पुरुषः इति ब्रूयात् परोक्षम् एव
ध्यायेन् मनसैव नियच्छेद् इति। तद् उ वा आहुर् नैव परोक्षं ध्यायेन् न मनसा
नियच्छेद् यद् वाव वेद तेनैवाप्तम् इति॥1.141॥

देवा वा
असुरान् युधम् अपप्रयन्तो ऽब्रुवन् यन् नो वामं वसु तद् अपनिधाय युध्यामहै यद् अद्य
कस्मिंश् चिद् भूते ऽभ्यवधावामेति। प्राणा वाव तेषां वामं वस्व् आसीत्। तद् अपनिधाय
युधम् अपपरायन्। तद् एकधा भूत्वासृजमानम् अतिष्ठद् ऋचस् सामानि यजूंषि गाम् अश्वम्
अजाम् अविं व्रीहिं यवं ब्राह्मणं राजन्यं वैश्यं शूद्रं यद् इदं किं चित् तत्
सर्वम्। तद् एभ्य आचक्षतेदं वै वस् तद् वामं वस्व् एकधा भूत्वासृजमानं तिष्ठतीति।
ते देवा असुरान् अजयन्। ते विजिग्यानाः पुनर् आयन्त एकं भूतम् अभ्यवायन्। तन् न
व्यजानतेदं मम वामम् इदं ममेति। ते ऽब्रुवन् वीदं भजामहा इति। तस्य विभागे न
समपादयन्। तद् एवैनान् अब्रवीत् सर्वान् एव वो मया स्तोष्यन्ति सर्वान् वो ऽहम्
अवैष्यामि मा मा विभग्ध्वम् इति॥

तद् यद्
गायत्रीषु स्तुवन्ति तेनाग्नेयम्। गायत्रो ह्य् अग्निःः। यत् पृष्ठं माध्यन्दिनं
तेनैन्द्रम्। यत् कवतीषु स्तुवन्ति तेन प्राजापत्यम्। यद् अनिरुक्तं तेन
वैश्वदेवम्। यन् मैत्रावरुणाय स्तुवन्ति तेन मैत्रावरुणम्॥

तद् एनान्
अब्रवीत् सृजध्वं मद् इति। तथेति। तद् अभ्यस्वरन्। ते ऽब्रुवन् सृजस्वेति॥1.142॥

तद् रथन्तरम्
असृजत। तद् रथघोषो ऽन्वसृज्यत। ते ऽब्रुवन्न् अरात्स्मानेन स्तोत्रेणेति। तस्माद्
रथन्तरस्य स्तोत्रे रथघोषं कुर्वन्ति। अरात्स्मानेन स्तोत्रेणेत्य एव तद् विद्यात्॥

तद् अब्रुवन्
सृजस्वैवेति। तद् बृहद् असृजत। तत् पर्जन्यस्य घोषो ऽन्वसृज्यत। ते ऽब्रुवन्न्
अरात्स्मानेन स्तोत्रेणेति। तस्माद् बृहतस् स्तोत्र दुन्दुभीन् उद्वादयन्ति।
वर्षुकः पर्जन्यो भवति। अरात्स्मानेन स्तोत्रेणेत्य् एव तद् विद्यात्॥

तद् अब्रुवन्
सृजस्वैवेति। तद् वैरूपम् असृजत। तद् ग्रामघोषो ऽन्वसृज्यत। ते ऽब्रुवन्न्
अरात्स्मानेन स्तोत्रेणेति। तस्माद् वैरूपस्य स्तोत्रे ग्रामघोषं कुर्वन्ति।
अरात्स्मानेन स्तोत्रेणेत्य् एव तद् विद्यात्॥

तद् अब्रुवन्
सृजस्वैवेति। वैराजम् असृजत। तद् अग्नेर् घोषो ऽन्वसृज्यत। ते ऽब्रुवन्न्
अरात्स्मानेन स्तोत्रेणेति। तस्माद् वैराजस्य स्तोत्रे ऽग्निं मन्थन्ति।
अरात्स्मानेन स्तोत्रेणेत्य् एव तद् विद्यात्॥

तद् अब्रुवन्
सृजस्वैवेति। तच् छाक्वरम् असृजत। तद् अपां घोषो ऽन्वसृज्यत। ते ऽब्रुवन्न्
अरात्स्मानेन स्तोत्रेणेति। तस्माच् छाक्वरस्य स्तोत्र ऽप उपनिधाय स्तुवन्ति।
अरात्स्मानेन स्तोत्रेणेत्य् एव तद् विद्यात्॥

तद् अब्रुवन्
सृजस्वैवेति। तद् रैवतम् असृजत। तद् पशुघोषो ऽन्वसृज्यत। ते ऽब्रुवन्न्
अरात्स्मानेन स्तोत्रेणेति। तस्माद् रैवतस्य स्तोत्रे पशुघोषं कुर्वन्ति वत्सान्
मातृभिस् संवाशयन्ति। अरात्स्मानेन स्तोत्रेणेत्य् एव तद् विद्यात्॥

तद् अब्रुवन्
सृजस्वैवेति॥1.143॥

तन् नासृजत।
तद् ऊर्ध्वम् उदैषद् यथा पृष्ठं यथा ककुद् एवम्। तद् देवास् संगृह्योर्ध्वा उदायन्।
ते ऽब्रुवन्न् इयद् वावेदम् आसेदं वाव नो देवानां वामम् इति। यद् अब्रुवन्न् इयद्
वावेदम् आसेदं वाव नो देवानां वामम् इति वामदेव्यस्य तद् वामदेव्यत्वम्॥

तद् वा एतत्
पिता माता साम्नां यद्व वामदेव्यम्। यद् वै पुत्रो ऽतिपादयति पिता वै तस्य शमयिता
पिता निषेद्धा॥

तद् यन्
मध्यतः क्रियते शान्त्या एव निषिद्ध्यै। तद् यानि ह वै स्तुतानि सामानि पश्चात्त्वं
तेषां वामदेव्यम्। अथ यान्य् अस्तुतानि पुरस्त्वं तेषाम्। तेषाम् उभयेषां शान्त्यै
निषिद्ध्यै॥

तत् स्वधूर्
गेयं नोच्चैर् इव न नीचैर् इव। यद् उच्चैर् गायेच् छ्रेयसो भ्रातृव्यस्य निधनेन
गायेत्। यन् नीचैर् गायेत् पापीयसो भ्रातृव्यस्य नियानेन यायात्। इयं वावैतस्य धूर्
इदम् अन्तरिक्षम्। एतद् एवैनं धूर्वति य एवं विद्वांसं धूर्वतीति॥

तद् आहुः
प्रादेशमात्राद् वा एतद् इदं लोकं न स्पृशति प्रादेशमात्राद् अमुं नैति॥

अथो आहुर्
यावद् एव गोस् सूताया उल्बं तावतैवेमं लोकं न स्पृशति तावतामुं नैति। अथो आहुर्
यावद् एव शकृत्य् उल्बं तावतैवेमं लोकं न स्पृशति तावतामुं नैति। तद् एवम् इवैव
मन्यमानेन गेयम्। तद् उ वा आहुर् यथा वा अक्षेण चक्रौ विष्टब्धाव् एवम् एतेनेमौ
लोकौ विष्टब्धौ। नीवेमं लोकं स्पृशति नीवामुम् इति॥

नो
हान्यस्यानुवर्त्म गेयम्। ईश्वरो होपजीवी भवितोर् यो ऽन्यस्यानुवर्त्मा गायति।
स्वधूर् एव गेयम्॥

यो वै देवानां
मधु वेद मधव्यो भवति। वामदेव्यं वामदेवानां मधु। मधव्यो भवति य एवं वेद॥1.144॥

इमौ वै लोकौ
सह सन्तौ व्यैताम्। तयोर् न किं चन समपतत्। ते देवमनुष्या अशनायन्। इतः प्रदानाद्
धि देवा जीवन्त्य् अमुतः प्रदानान् मनुष्याः। ते बृहद्रथन्तरे अब्रूतां ये नाव् इमे
प्रिये तन्वौ ताभ्यां विवहावहा इति। श्यैतं ह वा अग्ने रथन्तरस्य प्रिया तनूर् आस
नौधसं बृहतः। ताभ्यां व्यवहेताम्। ऊषान् एवासाव् अमुतो ऽस्यै शुल्कम् अकरोद् धूमम्
इत इयम् अमुष्यै। वर्षम् एवासाव् अमुतो ऽस्यै शुल्कम् अकरोद् देवयजनम् इत इयम्
अमुष्यै। स वहतोरुहैनै वेद य एवं वेद॥

मेनानेनं वाव
ते तद् व्यवहेताम्। तस्माद् आहुर् न मेनामेनं व्यूह्यम् इति। बहद्रथन्तरयोर् ह वा
एष विवाहम् अभ्यारोहति। स ईश्वर पराभवितोः। ते तन्वाव् अब्रूताम् आवं नु निधनाभ्यां
विवहावहा इति॥1.145॥

पदनिधनं ह वा
अग्रे श्यैतम् आस वसुनिधनं नौधसम्। ताभ्यां व्यवहेताम्। ततो ह वा इदम् अर्वाचीनम्
अन्योन्यस्य गृहे वसन्ति। यथागृहं ह वाव ततः पुरोषुर् यथाज्ञाति वा॥

रथन्तरेण
स्तुवन्ति। इदं वै रथन्तरम्। अथ वामदेव्येन। इदं वा अन्तरिक्षं वामदेव्यम्। अथ
नौधसेन। अदो वै नौधसम्। अनन्तर्हितान् एवेत ऊर्ध्वान् लोकान् जयति॥

बृहता
स्तुवन्ति। अदो वै बृहत्। अथ वामदेव्येन। इदं वा अन्तरिक्षं वामदेव्यम्। अथ
श्यैतेन। इदं वै श्यैतम्। अनन्तर्हितान् एवामुतो ऽवाचो लोकान् जयति। उभयान् लोकान्
जयति ये चोर्ध्वा ये चार्वाचो य एवं वेद॥1.146॥

अथ नौधसम्।
नोधा वै काक्षीवतो ज्योग् अप्रतिष्ठितश् चरन् सो ऽकामयत प्रतितिष्ठेयम् इति। स ह
देवान् ब्रह्म विभजमानान् उपावपपात। स होवाचर्षिर् अस्मि मन्त्रकृत् स ज्योग्
अप्रतिष्ठितो ऽचार्षं तस्मै म एतद् दत्त येन प्रतितिष्ठेयम् इति। तस्मै ह ब्रह्मणो
रसस्य ददुः। तद् एव नौधसम् अभवत्। तेनास्तुत। ततो वै स् प्रत्यतिष्ठत्। तद् एतत्
प्रतिष्ठा साम। प्रतितिष्ठति य एवं वेद। ब्रह्मणो ह वा एष रसो यन् नौधसम्। ब्रह्मणो
हास्य रसेन स्तुतं भवति य एवं विद्वान् नौधसेन स्तुते॥

तद्
द्व्यक्षरणिधनं भवति प्रतिष्ठायै। द्विपाद् वै यजमानः प्रतिष्ठित्यै। यद् उ नोधाः
काक्षीवतो ऽपश्यत् तस्मान् नौधसम् इत्य् आख्यायते॥1.147॥

श्यैतं
पशुकामः कुर्वीत। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। सो ऽकामयत
न मत् पशवो ऽपक्रामेयुर् अभि मा वर्तेरन्न् इति। स एतत् सामापश्यत्। तेनास्तुत।
तस्य वसु इत्य् एव निधनम् उपैत्। तत् पशवो वै वसु। ततो वै तं पशवो ऽभ्यावर्तन्त।
ततो ऽस्माद् अनपक्रामिणो ऽभवन्॥

सोऽब्रवीच्
छ्येती वा इमान् पशून् अकृषीति। तद् एव श्यैतस्य श्यैतत्वम्। तद् एतत् पशव्यं साम।
श्येतीकृता एनं पशव उपतिष्ठन्ते ऽभ्य् एनं पशव आवर्तन्ते नास्मात् पशवो ऽपक्रामन्ति
य एवं वेद। तद् द्वयक्षरणिधनं भवति प्रतिष्ठायै। द्विपाद् वै यजमानः
प्रतिष्ठित्यै॥1.148॥

गोतमस्य
मनार्ये मनोऽपक्रान्तः कुर्वीत। गोतमाद् वै मनो ऽपाक्रामत्। सो ऽकामयत न मन् मनो
ऽपक्रामेत् पुनर् मा मन आविशेद् इति। स एते सामनी अपश्यत्। ताभ्याम् अस्तुत। ततो वै
तं पुनर् मन आविशन् नास्मान् मनो ऽपाक्रामत्। ऐनं पुनर् मनो विशति नास्मान् मनो
ऽपक्रामति य एवं वेद। तत् पिबा इति रथन्तरसाम्नः पिबाई इति बृहत्साम्नः। यद् उ
गोतमो ऽपश्यत् तस्माद् गोतमस्य मनार्ये इत्य् आख्यायेते॥1.149॥

वसिष्ठस्य
जनित्रे प्रजननकामः कुर्वीत। वसिष्ठो वै जितो हतपुत्रो ऽकामयत बहु प्रजया पशुभिः
प्रजायेयेति। स एते सामनी अपश्यत्। ताभ्याम् अस्तुत। ततो वै स बहु प्रजया पशुभिः
प्राजायत। ते एते प्रजननी सामनी। बहु प्रजया पशुभिः प्रजायते य एवं वेद। तत्
जनित्रम् इति रथन्तरसाम्नः जानित्राम् इति बृहत्साम्नः। यद् उ वसिष्ठो ऽपश्यत्
तस्माद् वसिष्ठस्य जनित्रे इत्य् आख्यायेते॥1.150॥

आरुणिर् वाजसनेयो बर्कुर् वार्ष्णः प्रियो जानश्रुतेयो बुडिल आश्वतराश्विर् वैयाघ्रपद्य इत्य एते ह पञ्च महाब्रह्मा आसुः। ते होचुर् जनको वा अयं वैदेहो ऽग्निहोत्रे ऽनुशिष्टस् स नो ऽतिवदन्न् इव मन्यते। एत। तम् अग्निहोत्रं कथां वादयिष्याम इति॥
[https://sa.wikisource.org/s/9yr आगामी पृष्ठः (1.150 - 1.200)]
ते हाजग्मुः। ते ह ब्रह्मवादिनम् ऊचुः प्र णो ब्रूहीति। तान् ह प्रोवाच॥
तेभ्यो ह प्रोक्तेभ्यः पृथग् आसनानि पृथग् उदकानि पृथङ् मधुपर्कान् पृथग् आवसथान् पृथक् पञ्चभ्यः पञ्चापचितीश् चकार॥
अथ हैषां सभाग आवव्राजोप्त्वा केशश्मश्रूणि नखान् निकृत्याज्याभ्यज्य दण्डोपानहं बिभ्रत्। तान होवाच ब्राह्मणाः कथा भगवन्तो नो ऽनुसंवादयथेति। अति नो ऽवादीर् इति होचुः॥
अथ हैनान् पूर्वः पप्रच्छ ब्राह्मणाः कथा भगवन्तो यूयम् अग्निहोत्रं जुहुथेति। अति वै नो ऽवादीर् इति होचुर् यो नो भूयसस् सतः पूर्वो ऽप्राक्षीः। गौतम प्रतिब्रूहीति॥1.22॥
स होवाच यश इत्य एव सम्राड् अहम् अग्निहोत्रं जुहोमि। तस्माद् अहं यशो ऽस्मि। यशो वाव मे प्रजायाम् अन्ततो भवितेति। तं होवाच गौतम किं यश इति। अग्निम् उपदिशन् वाचेदं यश इत्य् अदो यश इत्य् आदित्यम्। सो ऽहम् अदो यशो ऽस्मिन् यशसि सायं जुहोमीदं यशो ऽमुष्मिन् यशसि प्रातर् जुहोमि। एताव् एव मा तद् गमयिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतं देवान् राधयानि इति ह प्रशशंस॥
अथ हापरं पप्रच्छ कथा भगवस् त्वम् अग्निहोत्रं जुहोषीति। स होवाच वाजसनेयस् सत्यम् इत्य् एव सम्राड् अहम् अग्निहोत्रं जुहोमि। तस्माद् अहं सत्यम् अस्मि। तस्मान् मम सत्यम् इव वदतः प्रकाश इति। तं होवाच याज्ञवल्क्य किं सत्यम् इति। अग्निम् उपदिशन् वाचेदं सत्यम् इत्य् अदस् सत्यम् इत्य् आदित्यम्। सो ऽहम् अदस् सत्यम् अस्मिन् सत्ये सायं जुहोमीदं सत्यम् अमुष्मिन् सत्ये प्रातर् जुहोमि। एताव् एव मा तद् गमयिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतं देवान् राधयानि इति हैव प्रशशंस॥
अथ हापरं पप्रच्छ कथा भगवस् त्वम् अग्निहोत्रं जुहोषीति॥1.23॥
स होवाच बर्कुर् वार्ष्णो भूयिष्ठं श्रेष्ठं वित्तानाम् इत्य् एव सम्राड् अहम् अग्निहोत्रं जुहोमि। तस्माद् अहं भूयिष्ठं श्रेष्ठं वित्तानाम् अस्मि। भूयिष्ठ वाव मे श्रेष्ठं वित्तानां प्रजायाम अन्ततो भवितेति। तं होवाचाग्निवेश्य किं भूयिष्ठं श्रेष्ठं वित्तानाम् इति। अग्निम् उपदिशन् वाचेदं भूयिष्ठं श्रेष्ठं वित्तानाम् इत्य् अदो भूयिष्ठं श्रेष्ठं वित्तानाम् इत्य् आदित्यम्। सो ऽहम् अदो भूयिष्ठं श्रेष्ठं वित्तानाम् अस्मिन् भूयिष्ठे श्रेष्ठे वित्तानां सायं जुहोमीदं भूयिष्ठं श्रेष्ठं वित्तानाम् अमुष्मिन् भूयिष्ठे श्रेष्ठे वित्तानां प्रातर् जुहोमि। एताव् एव मा तद् गमयिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतं देवान् राधयानि इति हैव प्रशशंस॥
अथ हापरं पप्रच्छ कथा भगवस् त्वम् अग्निहोत्रं जुहोषीति। स होवाच प्रियो जानश्रुतेयस् तेज इत्य् एव सम्राड् अहम् अग्निहोत्रं जुहोमि तस्माद् अहं तेजो ऽस्मि। तेजो वाव मे प्रजायाम् अन्ततो भवितेति। तं होवाच काण्ड्वीय किं तेज इति। अग्निम् उपदिशन् वाचेदं तेज इत्य् अदस् तेज इत्य् आदित्यम्। सो ऽहम् अदस् तेजो ऽस्मिंस् तेजसि सायं जुहोमीदं तेजो ऽमुष्मिंस् तेजसि प्रातर् जुहोमि। एताव एव मा तद् गमयिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतं देवान् राधयानि इति हैव प्रशशंस॥
अथ हापरं पप्रच्छ कथा भगवस् त्वम् अग्निहोत्रं जुहोषीति॥1.24॥
स होवाच बुडिल आश्वतराश्विर् वैयाघ्रपद्यो ऽर्काश्वमेधाव् इत्य् एव सम्राड् अहम् अग्निहोत्रं जुहोमि। अन्नं ह्य् एतद् देवानां यद् अर्को ऽश्वो मेधो मेध्य इति। तं होवाच वैयाघ्रपद् को ऽर्कः को ऽश्वो मेधो मेध्य इति। अग्निम् उपदिशन् वाचायम् अर्क इत्य् असाव् अश्वो मेधो मेध्य इत्य् आदित्यम्। सो ऽहम् अमुम् अश्वं मेधं मेध्यं अस्मिन्न् अर्के सायं जुहोमीमम् अर्कम् अमुष्मिन्न् अश्वे मेधे मेध्ये प्रातर् जुहोमि। एताव् एव मा तद् गमिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतम् इति ह प्रशस्योवाच यो ह किल मह्यम् अग्निहोत्र इतिं च गतिं च ब्रूयात् तस्मा अहं वरं दद्याम् इति। ते होचुर् न न्वै वयम् अग्निहोत्र इतिं च गतिं चानूचिमह त्वम् अस्मभ्यम् अग्निहोत्र इतिं च गतिं च ब्रूहि वयं तुभ्यं पृथक् पञ्च वरान् दद्म इति। अग्निम् उपदिशन् वाचेयम् इतिर् इत्य् असौ गतिर् इत्य् आदित्यम्। सो ऽहम् अमूं गतिम् अस्याम् इतौ सायं जुहोमीमाम् इतिम् अमुष्यां गतौ प्रातर् जुहोमि। एताव् एव मा तद् गमयिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतम् इति ह प्रशस्योचुर् वरान् वृणीष्व यान् अदामेति। स होवाचैष एव मे वरो ऽहम् एव युष्मभ्यं पृथक् पञ्च सहस्राणि शताश्वानि ददानीति॥
एतानि वा अग्निहोत्र उपासनान्य् एते कामाः। एतान् एव कामान् अवरुन्द्धे य एवं वेदाथो यस्यैवं विद्वान् अग्निहोत्र जुहोति॥1.25॥
अग्नीन् आदधानः प्रातर् एवोद्धरेत। द्विस् सायं द्विः प्रातर् जुहोति। चतस्र आहुतयस् संपद्यन्ते। चतुष्पदा वै पशवो ये च ग्राम्या ये चारण्याः। तेषाम् एवैतत् प्रत्याशं प्रत्यपचयति। एष वै मृत्युर् यद् अग्नी रिहन्न् एव नाम। तम् एव ताभिर् आहुतिभिश् शमयित्वा पृथिवीं लोकानां जयत्य् अग्निं देव देवानाम्। अग्नेर् देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥
स ततो धूमम् एव रथं समास्थाय वायोस् सलोकताम् अभिप्रयाति। द्वयहं जुहोति। अष्टाव् आहुतयस् संपद्यन्ते। अष्टाशफा ह वै पशवो ये च ग्राम्या ये चारण्याः। तेषाम् एवैतत् प्रत्याशं प्रत्य चयति। एष वै मृत्युर् यद् वायुर् अजिर एव नाम। तम् एव ताभिर् आहुतिभिश् शमयित्वान्तरिक्षं लोकानां जयति वायुं देवं देवानाम्। वायोर् देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.26॥
स ततो रेष्माणम् एव रथं समास्थायादित्यस्य सलोकताम् अभिप्रयाति। त्र्यहं जुहोति। द्वादशाहुतयस् संपद्यन्ते। द्वादश मासास् संवत्सरः। संवत्सरो वा इदं सर्वं यद् इ?श्नाति यत् पिबति यस्मै कस्मै चन प्रतिव्याददाति। सर्वं तद् अस्यानशित भवति यावज् जीवानाशकप्रती भवति। एष वै मृत्युर् यद् आदित्यो म्रोचन्न् एव नाम। तम् एव ताभिर् आहुतिभिश् शमयित्वा दिवं लोकानां जयत्य् आदित्यं देवं देवानाम्। आदित्यस्य देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.27॥
स ततो रश्मीन् एव रथं समास्थाय चन्द्रमसस् सलोकताम् अभिप्रयाति। चतुरहं जुहोति। षोडशाहुतयस् संपद्यन्त। षोडशकलं वै ब्रह्म। षोडशकला देवाः। षोडशकलम् इदं सकृत् सर्वम्। स यद् इह रिप्रं पापं कर्म करोत्य् एकयवः ततः कलया। यथा सुवर्णः प्रवृत्तस् तप्यमानस् सुवर्णताम् अभिनिष्पद्यत एवम् एव द्विषत्सु भ्रातृव्येषु मलं पाप्मानं प्रत्यूह्य स्वर्गं लोकम् अभिप्रैति॥
एष वै शशो य एषो ऽन्तश् चन्द्रमसि। एष हीदं सर्वं शास्ति। एष वै यमो य एषो ऽन्तश् चन्द्रमसि। एष हीदं सर्वं यमिति। एष मृत्युर् यद् यमो ऽत्स्यन्न् एव नाम। तम् एव ताभिर् आहुतिभिश् शमयित्वोर्जं लोकानां जयति यमं देव देवानाम्। यमस्य देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.28॥
स ततस् स्वधाम् एव हिरण्मयीं नावं समारुह्य प्रजापतेस् सलोकताम् अभिप्रयाति। पञ्चाहं जुहोति। विंशतिर् आहुतयस् संपद्यन्ते। सविंशो वै प्रजापतिः। एष वै मृत्युर् यत् प्रजापतिः प्रभूमान् एव नाम। तम् एव ताभिर् आहुतिभिश् शमयित्वा नभो लोकानां जयति प्रजापतिं देवं देवानाम्। प्रजापतेर् देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.29॥
तद् यद् वै तन्नभो नामाभीर् वै सा। न हि तत् प्राप्य कस्माच् चन बिभेति। तस्मात् तन्नभः। षडहं जुहोति। चतुर्विंशतिर् आहुतयस् संपद्यन्ते। चतुर्विंशत्यक्षरा वै गायत्री। चतुर्विंशतिर् वसवो देवाः। ते गायत्रीम् अन्वायत्ताः। तेभ्यो गायत्रीव वसुभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। गायत्रीं स छन्दसां जयति वसून् देवान् देवानाम्। वसूनां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.30॥