सप्ताहं जुहोति। अष्टाविंशतिर् आहुतयस् संपद्यन्ते। अष्टाविंशत्यक्षरा वा उष्णिक्। अष्टाविंशतिर् भृग्वङ्गिरसो देवाः। त उष्णिहम् अन्वायत्ताः। तेभ्य उष्णिग् भृग्वाङ्गिरोभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। उष्णिहं वै स छन्दसां जयति भृग्वङ्गिरसो देवान् देवानाम्। भृग्वङ्गिरसां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.31॥
जैमिनीयं ब्राह्मणम् (1.151 - 1.200)

पौरुमीढं
दक्षोणिधनम् आयुष्कामः कुर्वीत। तरन्तपुरुमीढौ वै वैतदश्वी माहेयौ मह्या
आर्चनानस्यै पुत्रौ। तौ ह यन्तौ स्त्री पर्येत्योवाच पुत्रस्य वै त्यस्या उपतपति तं
स्म मे चिकित्सतम् इति। तौ ह क्रुध्यन्ताव् इवोचतुः कथं नाव् इत्थं ब्रूयाद् इति तं
वा अर्वीष उपवपेति। सा हेयं स्त्री श्रद्धाय देवर्षी मा मन्त्रकृताव् अवोचताम्
इत्य् अर्वीष उपोवाप। तौ ह पुनर् आयन्तौ पर्येत्योवाच यं वै कुमारम् अवोचतम् अर्वीष
उपवपेत्य् अयं वै सो ऽर्वीष उपोप्तश् शेत इति। तौ हासाध्व् इव कृत्वा मेनाते। ताव्
अकामयेताम् उद् इत इयाव गातुं नाथं विन्देवहि सम् अयं कुमारो जीवद् इति। स एतत्
पुरुमीढस् सामापश्यत्। तेनास्तुत

अग्निम्
ईळिष्वावसे गाथाभिश् शीरशोचिषम्।

अग्निं राये
पुरुमीढ श्रुतं नरः॥

को नाम कुमार इति।
सुदीतिर् नामेति। तम् अग्निस् सुदीतये छर्दिः इत्य् एवाभ्यमृशत्। स तान्तो
निरवर्तत। तम् एतेन निधनेन समैरयत् दक्षायै इति। प्राणा वै दक्षाः। प्राणान्
एवास्मिंस् तद् अदधात्। तद् एतद् गातुविन् नाथवित् साम। गातुं व स तन् नाथम्
अविन्दत। विन्दते गातुं नाथं य एवं वेद। यद् उ पुरुमीढो ऽपश्यत् तस्मात् पौरुमीढं
दक्षो णिधनम् इत्य् आख्यायते॥1.151॥

जमदग्नेस्
सप्ताहम् अभिचरन् वा भ्रातृव्यवान् वा कुर्वीत। जमदग्निर् ह वै माहेनानां पुरोहित
आस। तान् ह वित्तेनात्यादधौ। त उ हैनम् उपजिहिंसुः। स हेक्षांचक्रे कथं न्व् अहम्
एषां सप्तसप्तैकाहनि ग्राम्याणां पशूनां हन्याम् इति। स एतत् सामापश्यत्।
तेनास्तुत। ततो वै स तेषां सप्तसप्तैकाहनि ग्राम्याणां पशूनाम् अहन्। तथो एवैषाम्
एतद् घ्नन्ति। तद् उ भ्रातृव्यहा। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। यद् उ
जमदग्निर् अपश्यत् तस्माज् जमदग्नेस् सप्ताहम् इत्य् आख्यायते। तद् एषोपगीता

अतिमात्रम्
अवर्धन्त नोद् इव दिवम् अस्पृशन्।

भुगुं हिंसित्वा
माहेना असंहेयं पराभवन्॥

इति। असंहेयं ह वै
स पराभवति य एवं विद्वांसं हिनस्ति॥1.152॥

देवासुरा
यज्ञे ऽस्पर्धन्त। ते देवा असुरान् बहिष्पवमानान् निरवाघ्नन्। ते ऽसुरा आग्नेयम्
आज्यं पर्यवायन्। ते देवा मैत्रावरुणम्। ते ऽसुरा ऐन्द्रम्। ते देवा ऐन्द्राग्नम्।
ते ऽसुरा माध्यंदिनं पवमानम्। ते देवा रथन्तरम्। ते ऽसुरा वामदेव्यम्। ते देवा
नौधसम्। ते ऽसुराः कालेयम्। तान् कालेय एवान्वभ्यवायन्। तान् कालेयेनैव कालेयाद्
अकालयन्त। यद् अकालयन्त तत् कालेयस्य कालेयत्वम्। कालयते वै द्विषन्तं भ्रातृव्यं य
एवं वेद॥

ते दिशो
व्युदसीदन्। तान् कालेयेनैवानुपर्यायम् अकालयन्त। यद् अनुपर्यायम् अकालयन्त तच् चैव
कालेयस्य कालेयत्वम्। अनुपर्यायम् एव द्विषन्तं भ्रातृव्यं कालयते य एवं वेद॥

तरो वै यज्ञस्
स्तोमो विदद्वसुः।यज्ञेन च वाव ते तान् स्तोमेन चाकालयन्त। यज्ञेन चैव स्तोमेन च
द्विषन्तं भ्रातृव्यं कालयते य एवं वेद॥1.153॥

ऋचा वा असुरा
आयन् साम्ना देवाः। ते देवा असुरान् ऋच्य एव परिगृह्य साम्नापीडयन्तेव पीडयत् पीडतो
भ्रातृव्यस्य व्यधाय। इन्द्रा सबाध उतो याः इति बृहद् गायन्तः। सुतसोमे धीरो इति
रथन्तरसाम्नः धोरो इति बृहत्साम्नः। उभे ह वा एते एतद् अनु। तस्माद् उभे रूपे
गायेद् यच् च राथन्तरं यच् च बार्हतम्। नाना वा एतयोर् ब्रह्मसामनी भवतः। अथैतद्
उभे अनु। तस्माद् उभे एव रूपे गायेत्॥

तद् एळं भवति।
पशवो वा इळा। पशुभिर् वाव ते तान् अकालयन्त। तस्माद् यत् पशुमांश् चापशुश् च
भ्रातृव्यौ स्पर्धेते य एव पशुमान् भवति स एव तयोर् अभिभवति॥

एतद् ध वै साम
प्रजा इमा अनुव्य् आस। ते तस्यैतां नितताम् इळाम् अन्तत उपयन्ति प्रजानां यथायतनाद्
अनुद्धाताय। तस्मात् प्रजा यथायतनाद् अनुद्धताः॥

देवाः पितरो
मनुष्यास् ते ऽन्यत आसन्न् असुरा रक्षांसि पिशाचा अन्यतः। त एषु लोकेष्व्
अस्पर्धन्त। अथ ह कलयो गन्धर्वा अन्तस्थां चेरुर् नेतरान् नेतरान् आद्रियमाणाः। ते
देवाः पितरो मनुष्या असुरान् रक्षांसि पिशाचान् अभ्यभवन्। त इमान् लोकान् व्यभजन्त
देवलोकम् एव देवा अभजन्त पितृलोकं पितरो मनुष्यलोकं मनुष्याः। तत् कलयो गन्धर्वा
एत्याब्रुवन्न् अनु न एषु लोकेष्व् आभजतेति। नेत्य् अब्रुवन्। अनाद्रियमाणा वै
यूयम् अचारिष्ट नेतरान् नेतरान् आद्रियमाणा इति। अथ वै वो मनसान्वासिष्मह इत्य्
अब्रुवन्न् अन्व् एव न आभजतेति॥1.154॥

नेत्य्
अब्रुवन्। साधुविभक्ता नो लोकास् तान् न शक्ष्यामस् संलोभयितुम् इति। ते ऽब्रुवन्
यद् वयम् इह स्वयं पश्यामस् तद् अस्माकम् अस्त्व् इति। तेभ्य एता कलिन्दाः
प्रायच्छन्न् एतासु श्राम्यतेति। तद् यत् कलिभ्यः कलिन्दाः प्रायच्छंस् तत्
कलिन्दानां कलिन्दत्वम्। स एतत् कलिर् वैतदन्यस् सामापश्यत्। तेनास्तुत। तेनेमम्
अवान्तरदेशं दुर्यन्तं लोकम् अपश्यत्। तम् अजयत्। तद् एतल् लोकवित् साम। विन्दते
लोकम् एतेन तुष्टुवानः। गन्धर्वलोकतां ह त्वाव नातिजयति गन्धर्वलोकताम् इवैव जयति।
यद् उ कलिर वैतदन्यो ऽपश्यत् तस्मात् कालेयम् इत्य् आख्यायते॥

देवा वै
पूर्वाभ्यां सवनाभ्यां तृतीयसवनं प्रवृह्य स्वर्गं लोकम् आयन्। त इमे लोका
व्यवृह्यन्त वि यज्ञो ऽवृह्यत। ते देवा अकामयन्त सम् इमान् लोकान् दध्याम सं यज्ञं
दध्यामेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनेमान् लोकान् समदधुस् सं यज्ञम्
अदधुः। तद् यद् इमान् लोकान् समदधुस् तद् वा अस्य स्वर्ग्यम्। तेन गन्धर्वलोकताम्
अतिजयति। तरो वै यज्ञस् स्तोमो विदद्वसुः। यज्ञेन च वाव ते तत् स्तोमेन चेमान्
लोकान् समदधुस् सं यज्ञम् अदधुः। यज्ञेन चैवास्य स्तोमेन च यज्ञस् संहितो भवतीमे च
लोका य एवं वेद॥

सोमो ह खलु वै
राजा कालेयम्। सदेवो हास्य यज्ञो भवति। यथा ह वा इदं बद्धवत्सा हिंकरी तुरीयत्य्
एवं ह वाव तम् इन्द्रस् सोमम् आगच्छति यस्मिन् कालेयेन स्तुवन्ति। तस्माद् उ
हैतस्मात् साम्नो नैव कदा चनेयात् सेन्द्रो मे सदेवो यज्ञो ऽसद् इति। सेन्द्रम्
एवैतेन सदेवं यज्ञं कुरुते॥

तद् ऐळम्
अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व एव तत् प्रतितिष्ठति॥1.155॥

द्वे वावेदम्
अग्रे सवने आस्ताम्। द्वाभ्यां वावेदं सवनाभ्यां देवा अग्रे व्यजयन्त। तान् विजित्य
यथालोकम् आसीनान् इन्द्र एत्याब्रवीत् त्रीणि छन्दांसि त्रयः प्राणापानव्यानास्
त्रय इमे लोकास् त्रिर् देवेष्व् इत्य् आहुः। एतेमानि त्रीणि सवनानि करवामेति। ते
ऽब्रुवन् न शक्ष्यामो ऽनेन न्वाव वयं पूर्वेण कर्मणा परिश्रान्तास् स्म इति। स
इन्द्रो ऽब्रवीत् स वा अहं मद् एवाधि तृतीयसवनं निर्मिमा इति। स आत्मन एवाधि
तृतीयसवनं निरमिमीत। तद् इन्द्रो ह वा एतद् देवतानां यत् तृतीयसवनम्। इन्द्रेण
हास्य देवतानां स्तुतं भवति य एवं विद्वांस् तृतीयसवनेन स्तुते॥

धीतम् इव वै
तृतीयसवनम्। जागतं सुपर्ण आहरन्न् अधयत्। तद् एतद् पीडितम् इव। स्वादिष्ठया इति।
स्वदयन्त्य् एवैनत् तेन। मदिष्ठया इति। रसम् एवास्मिंस् तन्मदं दधति। आशिरम्
अवनयन्ति पशुना चरन्त्य् ऐवैतेन प्याययन्ति॥

रक्षोहा
विश्वचर्षणीर् अभि योनिम् अयोहते इति पूर्वयोर् एवैष सवनयोर् अभिसंक्रमः। तासु
गायत्रम् उक्तब्राह्मणम्॥1.156॥

अथ संहितं
द्व्यक्षरणिधनं प्रतिष्ठायै। द्विपाद् वै यजमानः प्रतिष्ठित्यै॥

देवासुरा
अस्पर्धन्त। तेऽब्रुवन् यन् न इदम् उभयं धनं तत् संनिदधामहै। तेषां नो यतरे जयन्ति
तेषां न एतद् उभयं धनं संहितम् अस्त्व् इति। तद् यद् एषाम् उभयं धनम् आसीत् तत्
संन्यदधत। ते देवा अकामयन्तोभयम् इदं धनं संहितं जयेमेति। त एतत् सामापश्यन्।
तेनास्तुवत। तेनोभयं धनं संहितम् अजयन्। तद्यद् उभयं धनं संहितम् अजयंस् तत्
संहितस्य संहितत्वम्। उभयम् एव संहितं द्विषन्तं भ्रातृव्यं जयति य एवं वेद॥

तद् उ
होवाचारुणिर् अश्वो वाव स संहित आसीत्। तस्मिन्न् एवैषां तद् धनं संहितम् आसीत् तम्
एव तद् असुराणाम् अवृञ्जत प्रजापतिं वावैषां तद् अवृञ्जतेति। ततो वै देवा अभवन्
परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥1.157॥

अथो हैतद्
अविच्छिन्नम् इव वै माध्यंदिनात् सवनात् तृतीयसवनम्। ते देवा एतद्
व्यवेक्ष्याविदुर् अविच्छिन्नम् इव वा इदं माध्यंदिनात् तृतीयसवनम् इति। त एतत्
सामापश्यन्। तेनैतत् समदधुः। यत् समदधुस् तद् व् एव संहितस्य संहितत्वम्। संहितं
हास्यैतत् तृतीयसवनम् अनवच्छिन्नं भवति य एवं वेद॥

उष्णिक्ककुब्भ्यां वा इन्द्रो वृत्राय वज्रम् उदयच्छद् गायत्र्योस् तिष्ठन्। ते एनं
नोदयच्छताम्। तयोश् चतुष्पादः पशून् उपादधाद् गां चाश्वं चाजां चाविं च। ते एनम्
उदयच्छताम्। स उष्णिक्ककुभोस् तिष्ठन् सभपौष्कले बाहू कृत्वा प्राहरत्। तम् अहन्।
हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद॥1.158॥

स प्राचान्येन
पदा प्राभंशत प्रतीचान्येन। येन प्राचा प्राभ्रंशत् सा ककुब् अभवत्। तस्मात् ककुभः
पूर्वार्धे ऽक्षराणि भूयिष्ठानि। अथ येन प्रतीचा प्राभ्रंशत सोष्णिग् अभवत्।
तस्माद् उष्णिहो जघनार्धे ऽक्षराणि भूयिष्ठानि। ते वा एते छन्दसी धनुश्
चैवानड्वांश् च। तस्मात् पशवः पूर्वार्धेन च जघनार्धेन च भूयिष्ठं भाजयन्ति वहन्ति
पूर्वार्धेन दुह्रे च जघनार्धेन प्र च जनयन्ति। उभयं धेनुपयसं चानडुत्पयसं
चावरुन्द्धे य एवंवेद॥1.159॥

तासु सभं
यज्ञस्यैव सभतायै। यद् ध वै किं च यज्ञस्य दुष्टुतं दुश्शस्त विधुरं तस्य ह वा एतत्
सभतायै। सभम् अविभम् असद् इति ह वा एतेन स्तुवन्ति। साभं ह वा एतन् नाम॥

सभेन वै देवा
असुराणां तेजो बलम् इन्द्रियं वीर्यं पशून् अन्नाद्यं सभेन सभम् आत्मानम्
अध्यकुर्वत। तत् सभस्य सभत्वम्। सभेनैव द्विषतो भ्रातृव्यस्य तेजो बलम् इन्द्रियं
वीर्यं पशून् अन्नाद्यं सभेन सभम् आत्मानम् अधिकुरुते य एवं वेद॥

प्रजापतिः
पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। सो ऽकामयत न मत् पशवो ऽपक्रामेयुर् अभि
मा वर्तेरन्न् इति। स एतत् सामापश्यन्। तेनास्तुत। ततो वै तं पशवो ऽभ्यावर्तन्त ततो
ऽस्माद् अनपक्रामिणो ऽभवन्। सो ऽब्रवीत् सभो वै पशुभिर् अभूवम् इति। तद् व् एव
सभस्य सभत्वम्। सभो हाविभः पशुभिर् भवति य एवं वेद॥

तद् उ काकुभं
स्वारं भवति। प्राणो वै स्वारं पुरुषच्छन्दसं ककुभि। ज्यैष्ठ्यं वै प्राणो
ज्यैष्ठयं पुरुषः। ज्यैष्ठ्येनैव तज् ज्यैष्ठ्यं संदधाति ज्यैष्ठ्येन ज्यैष्ठ्ये
प्रतितिष्ठति। अथो यजमानम् एव तत् प्राणेन समृद्धयन्ति। सम् अस्मा ऋध्यते य एवं
वेद॥

तान्
एकरूपान्न व्यजानात्। स एतत् पौष्कलं सामापश्यत्। तेनैषां रूपाणि व्यकरोत्। ते
नानारूपा अभवन् श्वेतो रोहितः कृष्णः। एकरूपा ह वाव ते ततः पुरासू रोहिता एव।
बहुरूपान् नानारूपान् पशून् अवरुन्द्धे बहुपशुर् भवति य एवं वेद॥

अथ पौष्कलम्।
पुष्कल आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै पशून्
अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद्
उ पुष्कल आङ्गिरसो ऽपश्यत् तस्मात् पौष्कलम् इत्य् आख्यायते। तच् चतुरक्षरणिधनं
भवति। चतुष्पदा वै पशवः। पशव इव उष्णिक्। अभि पूर्वाणाम् एव पशूनाम्
अवरुद्ध्यै॥1.160॥

यद् यथापूर्वं
छन्दांस्य उपेयुर् अनुष्टुभ उत्तमाः कुर्युः। वाग् वा अनुष्टुप्। तां वै यज्ञाद्
बहिर्धा कुर्युः। ताम् एवैतद्यज्ञस्य मध्यत आभजन्ति। ता एता भवन्ति पुरोजिती वो
अन्धसः इति। पुरस्ताद् ध वा एताः पाप्मानं जयन्ति पुरस्तात् पाप्मानम् अपघ्नन्त्यो
यन्ति। जितं ह वा एताभिः। विजितम् अन्ववस्यति

सुतायमादयित्नवे।

अप श्वानं
श्नथिष्टन सखायो दीर्घजिह्वियम्॥

इति। दीर्घजिह्वी ह
वा असुर्य् आस। सा ह स्म सोमंसोमम् अवलेढि। उत्तरे ह समुद्र आस। स यो ह स्म दक्षिणे
समुद्रे सूयते यः पूर्वे यो ऽपरे तं ह स्म तत एवावलेढि। तां हेन्द्रो जिघृक्षन् न
शशाक गृहीतमुम्। स होवाच मा कश् चन यष्टेयं वै दीरघजिह्वी सोमंसोमम्
एवावलढीति॥1.161॥

अथ ह सुमित्रः
कौत्सो दर्शनीय आस। स तं होवाच सुमित्र दर्शनीयो वा असि। सुलापा वै दर्शनीयेन
स्त्रियः। इमां दीर्घजिह्वीं लिलापयिषस्वेति। तां हेत्योवाच दीर्घजिह्वि कामयस्व
मेति। सा होवाचैकं तव शेपो ऽङ्गेऽङ्गे मम मुष्का न वै तत् संपद्यत इति। स ह पुनर्
एत्योवाचैकं तव शेपो ऽङ्गेऽङ्गे मम मुष्का न वै तत् संपद्यत इति वै माम् इयम्
आहेति। अङ्गेऽङ्गे वा अहं तव शेपांसि करोमीति होवाच। तानि हाभिप्रावृत्येयाय। तां
होवाच दीर्घजिह्वि कामयस्व मेति। सा होवाचैकं तव शेपो ऽङ्गेऽङ्गे मम मुष्का न वै
तत् संपद्यत इति। अङ्गेऽङ्गे वाव मम शेपांसीति होवाच। अङ्ग ते पश्यानीति॥1.162॥

तानि हास्यै
दर्शयांचकार। तानि हास्यै छन्दयांचक्रुः। स वा एहीति होवाच। को नामासीति। सुमित्रो
नामेति। कल्याणं वै ते नामेति होवाच। तौ ह संनिपाते। तस्यां ह यदार्थं चक्रे ऽथ
हैनां तद् एवाभिसंजग्राह। सा होवाच नन्व् अरे त्वं सुमित्रो ऽवोचथा इति। स होवाच
सुमित्र एवाह सुमित्रायास्मि दुर्मित्रो दुर्मित्रायेति॥

स एतानि
सौमित्राणि सामान्य् अपश्यत्। तैर अस्तुत। तैर् इन्द्रम् आह्वयत्। स इन्द्र एताम्
अनुष्टुभं वज्रम् उद्यत्याद्रवत्

पुरोजिती वो
अन्धसस् सुताय मादयित्नवे।

अप श्वानं
श्नथिष्टन सखायो दीर्घजिह्वियम्॥

इत्य् एवास्यै
प्राहन्। ता एता भ्रातृव्यघ्न्यो रक्षोघ्न्य ऋचः। हन्ति द्विषन्तं भ्रातृव्यम् अप
रक्षः पाप्मानं हत एताभिर् ऋग्भिस् तुष्टुवानः॥

यो धारया
पावकया परिप्रस्यन्दते सुतः।

इन्दुर् अश्वो
न कृत्वियः॥

तं दुरोषम् अभी
नरस् सोमं विश्वाच्या धिया।

यज्ञाय
सन्त्व् अद्रयः॥

इति। पूर्वयोर्
एवैष सवनयोर् अभिसंक्रमः॥

तासु
श्यावाश्वम्। श्यावाश्वं वा आर्चनानसं समिद्धारं परेतं प्रतिसत्त्रिणो हित्वा
स्वर्गं लोकम् आयन्। सो ऽकामयतानूत्पतेयं स्वर्गं लोकं प्रतिसत्त्रिभिस्
संगच्छेयेति। स एतत् सामापश्यत्। तेनास्तुत॥1.163॥

पुरोजिती वो
अन्धस एह्या।सूताय मादयित्नवा एह्या। आपश्वानं श्नाथीष्टाना। तम् ऐहो वा एह्या
इत्य् एव मरुतस् स्वर्गे लोक उपाह्वयन्त। ततो वै स प्रतिसत्त्रिभिस् समगच्छत। स हैष
मरुद्भिर् एव सह श्यावाश्वः। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं
वेद। यद् उ श्यावाश्व आर्चनानसो ऽपश्यत् तस्माच् छ्यावाश्वम् इत्य् आख्यायते॥

इन्द्रो वै
तृतीयसवनाद् बीभत्समान उदक्रामत्। धीतम् इव ह्य् आसीत्। तम् एतेन विश्वेदेवास्
साम्नाह्वयन्त ओहोइया इति। ततो वा इन्द्रस् तृतीयसवनम् उपावर्तत। ततो ऽस्माद्
अनपक्रम्य् अभवत्। तद् एतत् सेन्द्रं साम। सेन्द्रो हास्य सदेवो यज्ञो भवति। अभ्य्
अस्येन्द्रो यज्ञम् आवर्तते नास्येन्द्रो यज्ञाद् अपक्रामति य एवं वेद।

तत् स्वारं
भवति। प्राणो वै स्वरः। वीव वा एते प्राणैर् ऋध्यन्ते य यज्ञीयस्य कर्मणो
ऽतिपादयन्ति यद् वा नातिपादयन्ति। को हि तद् वेद यदि ते ऽति वा पादयन्ति न वा। तद्
यत् स्वारं भवति प्राणैर् एव तत् समृध्यन्ते॥1.164॥

अथान्धीगवम्।
मध्येनिधनं भवति। प्रतिष्ठायै। समुद्रं वा एते ऽनारम्भणं प्रप्लवन्ते य आर्भवं
पवमानम् उपयन्ति। तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। तद् यथा वा अदस्
समुद्रं प्रस्नाय द्वीपं वित्त्वोपोत्स्नाय विश्राम्यन्न् आस्त एवं ह वा एतन्
निधनम् उपेत्य कामं विश्राम्यन्त आसीरन्न् अस्तुवानाः॥

तद् ऐळं भवति।
पशवो वा इळा पशवः कृत्स्नम् अन्नाद्यम्। यो वा अनवसो ऽध्वानं प्रैति नैनं स
समश्नुते। अथ यस् सावसः प्रैति स एवैनं समश्नुते॥

अयं वाव
समुद्रो ऽनारम्भणो यद् इदम् अन्तरिक्षम्। तस्य नानवसेनेत्थं गतिर् अस्ति नेत्थम्।
तद् एतत् पशून् एव कृत्स्नम् अन्नाद्यम् अवसं कृत्वा यन्ति॥

शाक्त्या
अन्नाद्यकामा अदीक्षन्त। स एतद् अन्धीगुश् शाक्त्यस् सामापश्यत्। तेनास्तुत।
तस्यैतां दशाक्षरां विराजं मध्यत् उपैत्। दशाक्षरा विराड् अन्नं विराट्। ततो वै ते
विराजम् अन्नाद्यम् अवारुन्धत। तद् एतद् विराजो ऽन्नाद्यस्यावरुद्धिस् साम। अव
विराजम् अन्नाद्यं रुन्द्धे ऽन्नादश् श्रेष्ठस् स्वानां भवति य एवं वेद। यद् व्
अन्धीगुश् शाक्त्यो ऽपश्यत् तस्माद् आन्धीगवम् इत्य् आख्यायते॥1.165॥

अथैता भवन्ति
अभि प्रियाणि पवते चनोहितः इति। प्रजापतिः प्रजा असृजत। ता अप्राणा असृजत। ताभ्य
एताभिर् एवर्ग्भिः प्राणान् अदधात्। अभि प्रियाणि पवते चनोहितः इति। प्रजायै वै
प्रियंश्ना अभि इत्य् एव प्राणेनाभ्यपवत। नामानि यह्वो अधि येषु वर्धते इति। महा वै
प्रजानामानि। आ सूर्यस्य बृहतो बृहन्न् अधि रथं विष्वञ्चम् अरुहद् विचक्षणः इति।
प्राणो वै विष्वङ्। सो ऽयं विष्व् अञ्चति। ता एता आयुष्या ऋचः। सर्वम् आयुर् एत्य्
एताभिर् ऋग्भिस् तुष्टुवानःः॥

तासु कावम्।
कविर् वै भार्गवो देवेष्व् अमर्त्यं गन्धर्वलोकम् ऐच्छत। स एतत् सामापश्यत्।
तेनास्तुत। ततो वै स देवेष्व् अमर्त्यं गन्धर्वलोकम् आश्नुत। तद् एतत् लोकवित् साम।
अश्नुते देवेष्व् अमर्त्यं गन्धर्वलोकम् एतेन तुष्टुवानः। यद् उ कविर् भार्गवो
ऽपश्यत् तस्मात् कावम् इत्य् आख्यायते॥

तत् स्वारं
भवति। स्वरेण वै देवेभ्यो ऽन्ततो ऽन्नाद्यं प्रदीयत ऋक्साम पवमानान्ते भवति। नर्चा
सामानि रेचयन्ति नर्चं साम्ना। तद् यद् इहेव चेहेव च पवमानेन स्तुवन्ति तद् एतस्यैव
समतायै समं क्लृप्त्यै। पदानुस्वारं पुरस्ताद् गायत्रं भवति पदानुस्वारम्
उपरिष्टात् पवमानान्ते। तस्माद् उभयतः प्राणाः प्रजा ऊर्ध्वाश् चावाचीश् च॥

यां ह खलु वै
पितापुत्रौ नावम् अजतो न सा रिष्यति। दैव्य् एषा नौर् यद् यज्ञः। ताव् एतत्
पितापुत्राव् एवाजतः। औशनं पुरस्ताद् भवति कावम् उपरिष्टाद् यज्ञस्यैवारिष्ट्यै।
तस्माद् यद् अदाशा नावम् अधिरोहन्ति पितापुत्रौ हैवाग्रे ऽधिरोहतः॥

पञ्चैतानि
छन्दांस्य् आर्भवे पवमाने भवन्ति सप्त सामानि। तद् द्वादश संपद्यन्ते। द्वादश
मासास् संवत्सरः। पञ्चो वा एवामूनि सामानि माध्यंदिने पवमाने भवन्ति। ऋतव एव सामा
एवार्भवे पवमाने कल्पन्त ऋतवो माध्यंदिने। स हैष संवत्सर एव व्यूढो यद्
यज्ञः॥1.166॥

प्रजापतिर् ह
खलु वा एष यस् संवत्सरः। स ह षण् मासो ऽन्यतरमन्यतरं पादम् उद्ग्राहं तिष्ठति। स
यदोष्णम् उद्गृह्णात्य् अथ हेदम् उपर्य् उष्णो भवत्य् अध उ ह तदा शीतो भवति।
तस्माद् ग्रीष्म उपर्य् उष्णो ऽधश् शीतम् अधिगम्यते। तस्माद् उ ग्रीष्म शीताः
कूप्या अप उदाहरन्ति। अथ यदा शीतम् उद्गृह्णात्य् अथ हेदम् उपरि शीतो भवत्य् अध उ ह
तदोष्णो भवति। तस्माद् धेमन्न् उपरि शीतो ऽध उष्णम् अधिगम्यते। तस्माद् उ हेमन्न्
उष्णाः कूप्या अप उदाहरन्ति। एवं ह वा एष प्रजापतिस् संवत्सरः प्रजा बिभर्ति॥

अथ ह वा एतं
सौम्यं चरुम् आहरन्ति। यद् ध वा उद्गातुर् यज्ञ ऊनं वातिरिक्तं वा कुर्वतो मीयते
यमलोकं ह वा अस्य तद् गच्छति। तद् धापि मृतोदीरिण आहुर् यमस्यैतत् सभायाम् अपश्याम
इति। तद् एतेन पुनर् आह्रियते यद् एतं सौम्यं चरुम् आहरन्ति॥

तं हावेक्षेत

यन् मे मनो
यमं गतं यद् वा मे अपरागतम्।

राज्ञा सोमेन
तद् वयं पुनर् अस्मासु दध्मसि॥

मनसि मे
चक्षुर् अधाश् चक्षुषि मे मनः॥

आयुष्मत्या
ऋचो माच्छैत्सि मा साम्नो भागधेयाद् वियोषम्॥

इति। तद् धापि
छायां पर्यवेक्षेतात्मनो ऽप्रणाशाय॥

अथो सर्पिषोर्
अक्ष्योर् आदधीत चक्षुष आप्यायनाय। तद् अपि विज्ञानम् आसाद्। य आत्मानं न
परिपश्येद् अपेतासुस् स स्यात्। तस्मात् सत्याद् अप्य् आज्यं भूय आनीय पर्य्
एवात्मानं दिदृक्षेत सर्वस्यायुषो ऽवरुद्ध्यै॥1.167॥

अङ्गिरसां वै
सत्त्रम् आसीनानां शर्करा अक्षिष्व् अजायन्त। ते ऽकामयन्तान्धास् स्याम
प्रपश्येमेति। स एतं सौम्यं श्यामं चरुम् अक्षिष्व् आदधत। तम् एतेन मन्त्रेणादधत

येन ह्य्
आजिम् अजयन् नृचक्षा येन श्येनं शकुनं सुपर्णम्।

यद् आहुश्
चक्षुर् अदिताव् अनन्तं सोमो नृचक्षा मयि तद् दधातु॥

इति। ततो वै ते
ऽनन्धा अभवन् प्रापश्यन्। अनन्धो हैव भवति प्रपश्यति य एवं वेद॥

तद् आहुः
प्राश्या3 न प्राश्या3 इति। स यो ऽनूचानस् सन्न् अयश ऋतस् स्यात् स हि तं
प्राश्नीयात्। अनूचाना इह वा अलं यशसे। स यो ऽनूचानस् सन्न् अयश ऋतो भवति - अमुं ह
वै तस्य लोकं यशो गतं भवति -- तद् एतेन पुनर् आह्रियते। यद् एतं सौम्यं श्यामं चरुं
प्राश्नाति तद् उ होवाच शाट्यायनिर् नैवैष प्राश्यः कस् ततो यश आहरेद् यत्र भूयसी
रात्री वत्स्यन् स्याद् इति। तस्माद् उ हैतन्नैव प्राश्नीयात्॥1.168॥

तुरीयं वा
एतत् साम्नः। सामन्न् एवैतद् यज्ञं प्रतिष्ठापयन्ति। तनूर् वा एषा साम्नाम्।
सतनून्य् एवैतद् सामानि कुर्वन्ति। यो ह वा एतस्मात् साम्न इयाद् दुश्चर्मा वा
स्यात् पापी वैनं कीर्त्तिर् अभिवदेत्॥

गायत्री वा
एषा वयो भूत्वोदेति। दिवम् अपतत्। अनुष्टुभि वा एतस्यै सते दिशश् शुक्लम् अहरन्।
शुक्लहृता अस्मै प्रजा भवन्ति। दिग्भ्यो ऽस्मै शुक्लो ह्रियते य एवं वेद॥

वयो यज्ञा वो
अग्नये इति प्रस्तौति। ओ यिरा यिरा च दक्षसे पोप्रिं वयम् अमृतं जातोवाहोयिविदोसम्
इति प्रतिहरति। यज्ञा इति द्वे अक्षरे गिरा इति द्वे पोप्रिम् इति द्वे। तत् षट्
संपद्यन्ते। षडक्षरस् तूष्णींशंसः। तूष्णींशंस एवैतद् आग्निमारुते विमुच्यन्ते। स
ह्य् अन्तः॥

अग्निर्
वैश्वानरः प्रजा अभ्युदतिष्ठत्। स इदं सर्वं प्रातपत्। तस्य देवा प्रदाहाद्
अबिभयुः। ते ऽब्रुवन् सर्वं वा अयम् इदं प्रधक्ष्यति -- ॥1.169॥

-- एतस्य हरो
ऽपैरयामेति। तस्य हरो ऽपैरयम्। तद् यत् प्रथमम् अपैरयंस् तस्मिन् व्यवदन्त क्वेदं
भविष्यतीति। यज्ञेयज्ञे नो भविष्यतीत्य् अब्रुवन्। तद् यज्ञायज्ञीयम् अभवत्। तद्
यज्ञायज्ञीयस्य यज्ञायज्ञीयत्वम्॥

यद् द्वितीयम्
अपैरयंस् तन्नार्मेधम् अभवत्। यत् तृतीयम् अपैरयंस् तद् दाशस्पत्यम् अभवत्। यच्
चतुर्थम् अपैरयंस् तद् विशोविशीयम् अभवत्। यत्पञ्चमम् अपैरयंस् तद् वारवन्तीयम्
अभवत्॥

अग्निर् वा एष
वैश्वानरो यद् यज्ञः। तद्वद् एतान्य अग्निष्टोमसामानि भवन्ति। हरस्यैवैतद् अग्निं
वैश्वानरं प्रतिष्ठापयन्ति॥1.170॥

नार्मेधं
नाथकामः कुर्वीत। नृमेधश् च वै सुव्रतश् च भ्रातरौ। तौ ह निकात्वियादधाते। स ह
नृमेधस् सुव्रतस्योज्जगौ। तद् ध यज्ञायज्ञीयेनैवास्तुतम् आस। अथ हैनम् आसस्रुः।
यजमानस्य वै त उद्गातुः पुत्रौ पुत्रम् अमीमरताम् अन्तकधृतिं सौव्रतिं नकिरश् च
शकपूतश् चेति। तं ह बाहू परामृशन्न् उवाच ब्राह्मणा एष वो यज्ञस् तेन यं कामयन्ते
तं याजयतानेन न्वा अहं तद् याजयिष्य इति। तं हौदुम्बर्याम् अनुवेष्ट्य शणशलाकाभिर्
उपादीपयांचकार। सो ऽकामयतोद् इत इयां गातुं नाथं विन्देय न मायम् अग्निर् दहेद्
इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स गातुं नाथम् अविन्दत नैनम् अग्निर्
अदहत्। अपि ह तच् छुल्बकं प्रददाह येनानुवेष्टित आस। तद् एतद् गातुविन् नाथवित्
साम। गातुं वै स नाथम् अविन्दत। विन्दते गातुं नाथं य एवं वेद। यद् उ नृमेधो
ऽपश्यत् तस्मान् नार्मेधम् इत्य् आख्यायते॥1.171॥

दाशस्पत्यं
श्रैष्ठ्यकामः कुर्वीत। देवासुरा अस्पर्धन्त। ते देवा इन्द्रम् उपाधावंस्
त्वयाधिपत्येदं जयामेति। स इन्द्रो ऽकामयत जयेमासुरान् इति। स एतत् सामापश्यत्।
तेनास्तुत। ततो वै देवा असुरान् अजयन्। तस्मै विजित्यासीनाय दशपतये - दशपतय आ इत्य्
अवोद्धारान् उदहरन्। तद् एव दाशस्पत्यस्य दाशस्पत्यत्वम्। उद्धारं हरत उद्धार्यो
भवति य एवं वेद॥

विशोविशीयम्
अन्नाद्यकाम कुर्वीत। अग्निर् वा अकामयत विशोविश एवान्नादश् श्रेष्ठो ऽधिपतिस्
स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स विशोविश एवान्नादश् श्रेष्ठो
ऽधिपतिर् अभवत्। तत एनम् विशोविशो व्यवाहरन्त। तद् यद् एनं विशोविशो व्यवहरन्ति तद्
विशोविशीयस्य विशोविशीयत्वम्। स हैष विशोविश एवान्नादश् श्रेष्ठो ऽधिपतिः। विशोविश
एवान्नादश् श्रेष्ठो ऽधिपतिर् भवति य एवं वेद॥

वारवन्तीयं
पशुकामः कुर्वीत। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। तान्
वारवन्तीयेनैवावारयत। यद् अवारयत तद् वारवन्तीयस्य वारवन्तीयत्वम्। तद् यद्
वारवन्तीयम् अग्निष्टोमसाम भवति पशूनाम एवोपस्थित्यै पशूनाम् अनपक्रमाय॥1.172॥

यो वै
यज्ञस्योधर् वेद प्रत्तं यज्ञं दुहे। यज्ञायज्ञीयं वा यज्ञस्योधः। तस्यैते स्तना
गायत्रं रथन्तरं च बृहच् च वामदेव्यं च। तद् गायत्रम् इव प्रस्तुयात्। रथन्तरस्येव
स्तोभान् स्तोभेत्। बृहत इव रोहान् रोहत्। हिंकारो वामदेव्यं स्वयम् एव
यज्ञायज्ञीयम्। एतद् वै यज्ञं यजमानो दुहे। स हेष्ट्वैव श्रेयान् भवति। यज्ञायज्ञा
वो अग्नये इति भवति। एष ह वै यज्ञोयज्ञो यद् यज्ञायज्ञीयम्। यज्ञंयज्ञं वहतीति ह वै
यज्ञायज्ञीयस्य यज्ञायज्ञीयत्वम्॥

एतेन ह स्म वै
पुरा सर्वाणि स्तोत्राणि स्तुवन्ति। तद् आहुर् ऊर्ध्वा वा एते स्वर्गं लोकं रोहन्ति
ये यजन्ते। त ईश्वराः पराञ्चो ऽतिपत्तोर् इति तद् यज्ञायज्ञीयेनोपरिष्टात्
स्तुवन्ति। इयं वै यज्ञायज्ञीयम्। अस्याम् एवैतत् प्रतितिष्ठन्ति। अप उपनिधाय
स्तुवन्ति -- अग्निर् वा एष वैश्वानरो यद् यज्ञायज्ञीयं -- तस्य शान्त्या
अप्रदाहाय॥

ऊरुभ्यां
पत्न्य् उपप्रवर्तयति। अग्निम् एव तद् वैश्वानरं शमयति। नग्नम् इवोरुं
कृत्वोपप्रवर्तयति। नग्नम् इव ह्य् ऊरुं कृत्वा पत्नी वीर्यं करोति। तां
संख्यापयन्ति रेतोधेयाय। तद् आहुर् आ वा एतत् प्रत्युद्गातुः प्रजां दत्ते यद्
विगीते सामन् संख्यापयन्तीति॥1.173॥

तां
प्रतिसमीक्षेत वामी नाम संदृशि विश्वा वामानि धीमहि इति। प्रजा वै वामम्। प्रजाम्
एव तद् आत्मन् धत्ते। वृष्णस् ते वृष्ण्यावतो विश्वा रेतांसि धीमहि इतीतरा
प्रतिसमीक्षते॥

तद् आहुः
प्रावृत उद्गायेत् -- अग्निर् वा एष वैश्वानरो यद् यज्ञायज्ञीय - तस्य शान्त्या
अप्रदाहायेति। ईश्वरो ह तु पितृदेवत्यो भवितोर् यत् प्रावृत उद्गायेत्। अथो आहुर्
यावद् एव श्रोत्रं तावत् प्रावृत्योद्गायेद् इति। तद् उ वा आहुः कर्णाभ्यां वै
शृणोत्य् अक्षिभ्यां पश्यति। तस्माद् आत्मानम् अन्तर्याद् यत् प्रावृत उद्गायेत्।
अथो आशिरं वै तृतीये सवने ऽवनयन्ति। प्रजा वै पशव आशीः। तस्मात् सर्वस्माद्
आत्मानम् अन्तर्यात् प्रावृत उद्गायेत्। अप्रावृत एवोद्गायेद् इति॥1.174॥

वयो वै
यज्ञायज्ञीयम्। स यं कामयेत यजमानं स्वर्गलोकस् स्याद् इति वयो यज्ञा वो अग्नये
इत्य् अस्य प्रस्तुयात्। वय एवैनं शकुनो भूत्वा स्वर्गं लोकं वहति। तद् उ तद्
अनायुष्यम् इव। प्रधमितम् इव वा एतद् यद् वयो ऽनालयम् इव। तस्माद् एवं न
प्रस्तुयात्॥

ओ यिरा यिरा
चा दाक्षासा इति यत् गिरा गिरा च इति ब्रूयाद् अग्निर् वैश्वानरो यजमानं गिरेत्। अथ
यत् ओ यिरा यिरा चा दाक्षासा इत्य् आह - अन्नं वा इरा - अन्नाद्यम् एव तद् अग्नेर्
वैश्वानरस्य मुखतो ऽपिदधाति। ईश्वरो ह तु रूक्षो भवितोर् यद् ओ यिरा यिरा चा
दाक्षासा इति ब्रूयात्। ओ यिरा इहा चा दाक्षासा इत्य् एव ब्रूयात्॥1.175॥

तथा ह न
रूक्षो भवति॥

एतद् ध स्म वै
तत् पूर्वे ब्राह्मणा मीमांसन्ते क उ स्विद् अद्य शिंशुमार्यै व्यात्तम्
अतिप्रोष्यत इति। एषा ह वा एकायने शिंशुमारी प्रतीपं व्यादाय तिष्ठति यद्
यज्ञायज्ञीयम्। तस्या एतद् अन्नाद्यम् एव मुखतो ऽपिधाय स्वस्त्य् अत्येति॥

पोप्रिं वयम्
अमृतं जातो वा इति। यत् प्रप्र वयम् इति ब्रूयात् प्रमायुको यजमानस् स्यात्। अथ यत्
पोप्रिम् इत्य् आहैष एवास्मै पोप्रिर् भवति॥

हिं मायि
दायिवम् इति। यत् दासम् इति ब्रूयाद् दंसुको यजमानस् स्यात्। अथ यत् दायिवम् इत्य्
आह - दिवं संस्तुतो यज्ञो गमयितव्य इत्य् आहुः - दिवम् एवैतत् संस्तुतं यज्ञं
गमयन्ति॥

प्रियं मित्रं
नु शंसिषम् इति। यत् प्रियं मित्रं न शंसिषम् इति ब्रूयान् न प्रियं मित्रं शंसेत।
अथ यत् प्रियं मित्रं नु शंसिषम् इत्य् आह प्रियम् एव मित्रं शंसते॥1.176॥

प्रायां
मायित्रान् नू शांसीषाम् ऊर्जो नपातं स ह्य् आयुमा इति। यत् नायुमा इति ब्रूयान्
नायुष्मान् यजमानस् स्यात्। अथ यत् आयुमा इत्य् आहायुर् एवैतद् उद्गातात्मंश् च
यजमाने च दधाति॥

हिं
मायास्मायूः आशेमा हव्यदातायाउवा इति। यत् दाशेम इति ब्रूयाद् दंशुका एनं स्युः। अथ
यद् आशेमा इत्य् आहाश्नुत एव॥

आशेमा
हाव्यादातायायि भुवद् वाजेष्व् अविता भूवाद् धिं मायि वार्धा इति। वृद्ध इव ह्य्
एतर्हि यज्ञो भवति॥

उत त्राता
बहूनाम् इति। यत् तनूनाम् इति ब्रूयात् तनुर् इव यजमानस् स्यात्। अथ यत् बहूनाम्
इत्य् आह बहूनाम् एवैनम् एतत् त्रातारं करोति॥1.177॥

तद् आहुर्
यज्ञायज्ञीयस्यैकाद् अक्षराद् ऊना ऋचः। तद् यज्ञस्य छिद्रम्। यस् तद् उद्गायन्
नापिदधाति यज्ञायज्ञीयं छिद्रं करोति। यज्ञायज्ञीयं छिद्रम् अनु यज्ञस् स्रवति
यज्ञम् अनु यजमानो यजमानम् अनु प्रजाः। तस्मिन् वाचं दध्यात्। वाग् वै ब्रह्म। उत
त्राता वाग् बहूनाउवा इति। गौः इति हैके दधति - गौर् वै कृत्स्नम् अन्नाद्यम् -
कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै। तद् आहुर् नैतद् आद्रियत। यद् वाव वाङ्निधनं
भवति तेनैव संधीयत इति॥

तद् आहुर्
यथापूर्वं यथाज्यैष्ठ्यं छन्दांसि विमुच्यानि छन्दसां क्लृप्तिं विमुक्तिम् अनु
प्रजाः कल्पान्ता इति। यज्ञा वो अग्नये इति षड्भिर् अक्षरैः प्रस्तौति। गिरा च
दक्षसे इति षड्भिर् अक्षरैर् आदिम् आदत्ते। तद् द्वादश संपद्यन्ते। द्वादशाक्षरा
जगती। जगतीं प्रथमतः पर्यूहन्ति। तज् जगत्या विमुच्यन्ते। प्र वयम् अमृतं जातवेदसम्
इत्य् एकादशाक्षराणि संपद्यन्ते। एकादशाक्षरा त्रिष्टुप्। तत् त्रिष्टुभा
विमुच्यन्ते। प्रियं मित्रं नु शंसिषम् इत्य् अष्टाभिर् अक्षरैर् निधनम् उपयन्ति।
अष्टाक्षरा गायत्री। तद् गायत्र्या विमुच्यन्त। तद् यथापूर्वं यथाज्यैष्ठ्यं
छन्दांसि विमुच्यमानानि यन्ति। छन्दसां क्लृप्तिं विमुक्तिम् अनु प्रजाः कल्पन्ते
नापरामारी पूर्वी म्रियते॥1.178॥

देवासुरा
यज्ञे ऽस्पर्धन्त। ते देवा असुरान् यज्ञान् निरवाघ्नन्। ते ऽसुरास् त्रयाणां
सवनानां रसं वीर्यं प्रवृह्यान्धं तमः प्राविशन्। यद् ध वै किं च पराचीनम्
अग्निष्टोमात् तद् अन्धं तमः। यत् पराचीनं संवत्सरात् तद् अन्धं तमः। एतावान् वाव
यज्ञो यावान् अग्निष्टोमः। एतावान् उ संवत्सरः। द्वादश वा अग्निष्टोमस्य स्तोत्राणि
द्वादश मासास् संवत्सरः। द्वादश स्तोत्राणि द्वादश शस्त्राणि। द्वादश पूर्वपक्षा
द्वादशापरपक्षाः। अथ यत् ततः पराचीनं तद् अन्धं तमः। तत् प्राविशन्। ते देवा
असुरान् अन्वभ्यवायन्। तान् असुरान् एतैर् एवोक्थैः प्रत्युदतिष्ठन्। यद् उक्थैः
प्रत्युदतिष्ठंस् तद् उक्थानाम् उक्थत्वम्। तांस् ततो निर् एवावाघ्नन्। ते ऽन्धम्
एव तमः प्राविशन्। रात्रिम् एव॥

स इन्द्रो
ऽब्रवीत् कश् चाहं चेदम् अन्वभ्यवैष्याव इति॥1.179॥

अहं चेत्य
अब्रवीद् वरुणः। अहं वां ज्योतिर् धारयिष्यामीत्य् अग्निर् अब्रवीत्। ताव्
अन्वभ्यवैताम्। ताव् एकं तृतीयम् उदाहरताम्। तेन प्रातस्सवनम् आप्याययन्। तस्माद्
ऐन्द्रीषु स्तुवन्ति। ऐन्द्रावरुणम् अनुशस्यते। तस्माद् उ गायत्रीषु स्तुवन्ति।
गायत्रं हि प्रातस्सवनम्॥

स एवाब्रवीत्
कश् चाहं चेदम् अन्वभ्यवैष्याव इति। अहं चेत्य् अब्रवीद् बृहस्पतिः। ताव्
अन्वभ्यवैताम्। ताव् एवैकं तृतीयम् उदाहरताम्। तेन माध्यन्दिनं सवनम् आप्याययन्।
तस्माद् ऐन्द्रीषु स्तुवन्ति। ऐन्द्राबार्हस्पत्यम् अनुशस्यते। तस्माद् उ ककुप्सु
स्तुवन्ति। काकुभं हि माध्यंदिनं सवनम्॥

स एवाब्रवीत्
कश् चाहं चेदम् अन्वभ्यवैष्याव इति। अहं चेत्य् अब्रवीद् विष्णुः। ताव्
अन्वभ्यवैताम्। ताव् एवैकं तृतीयम् उदाहरताम्। तेन तृतीयसवनम् आप्याययन्। तस्माद्
ऐन्द्रीषु स्तुवन्ति। ऐन्द्रावैष्णवम् अनुशस्यते। तस्माद् अनुष्टुप्सु स्तुवन्ति।
आनुष्टुभं हि तृतीयसवनम्॥

तान्
सर्वस्माद् एवान्तरायन्। ते ऽतो तद् अभि प्रणयन्तीति प्रवतीभ्यः प्रणयन्त्य्
एहिवतीषु। प्रेति च वा इदं सर्वम् एति च। ततो वै देवा अभवन् परासुराः। भवत्य्
आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥1.180॥

तानि वा एतानि
त्रीणि सन्ति द्विदेवत्यान्य् ऐन्द्रावारुणम् ऐन्द्राबार्हस्पत्यम् ऐन्द्रावैष्णवम्
इति। एतावतैताप् षड् कामदुघा उदाहरन् गां चाश्वं चाजां चाविं च व्रीहिं च यवं च।
उपैनम् एताष् षट् कामदुघास् तिष्ठन्ति य एवं वेद॥

एतावान् वाव
यज्ञो यावान् अग्निष्टोमः। तद् आहुर् यद् एतावान् एव यज्ञो यावान् अग्निष्टोमस्
तस्मिन्न् अन्तर्गते किम् अभ्युक्तानि प्रणयन्तीति। स ब्रूयाद् यज्ञायज्ञीयस्यैकाद्
अक्षराद् ऊना ऋचः। तद् यज्ञस्य छिद्रं तद् अभिप्रणयन्तीति। प्रवतीभ्यः प्रणयन्त्य्
एहिवतीषु। प्रेति च वा इदं सर्वम् एति च। यज्ञम् एवास्मिंस् तत् सम्यञ्चं दधाति॥

आग्नेयीषु
प्रणयन्त्य् आग्नेयीभ्यः। यथाग्नाव् अग्नीन् अभिसमादध्यात् तादृक् तत्। यो वा एकम्
अग्निं सन्तं बहुधा विहरेद् बहवस् स्युः। य एनान् बहून् सतस् सार्धं संहरेद् एक एव
स्यात्। स यथाग्नाव् अग्नीन् अभिसमादध्यात् तादृक् तत्॥1.181॥

तासु
साकमश्वम्। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद्
एनान् अश्व एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा साकं वा
अश्वेन स्वर्गं लोकम् अगन्मेति। तद् एव साकमश्वस्य साकमश्वत्वम्। तद् एतत्
स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद॥

प्रमंहिष्ठीयं
भ्रातृव्यवान् कुर्वीत। इन्द्रो वृत्राय वज्रम् उदयच्छत्। तं नाशक्नोत् प्रहर्तुम्।
स यदैव प्र इत्य् अपश्यद् अथैनम् अहन्। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। यद्
उ प्र इत्य् अपश्यत् तस्मात् प्रमंहिष्ठीयम् इत्य् आख्यायते॥

सत्रासाहीयं
कुर्वीत यस्य त्वद् इवाजितं स्यात्। इन्द्रो ऽसुरान् अजयत्। तेषां त्वान् इव
नाजयत्। सो ऽकामयत सत्रा सर्वान् असुरान् सहेयेति। स एतत् सामापश्यत्। तेनास्तुत।
तेन सत्रा सर्वान् असुरान् असहत। तद् यत् सत्रा सर्वान् असुरान् असहत तत्
सत्रासाहीयस्य सत्रासाहीयत्वम्। सत्रा द्विषन्तं भ्रातृव्यं सहते य एवं वेद॥

दैवोदासं
पुरोधाकामः कुर्वीत। आग्नेयो ब्राह्मण ऐन्द्रो राजन्यः। आग्नेयैन्द्रम् एतत् साम।
ब्रह्म वा अग्निः क्षत्रम् इन्द्रः। ब्रह्मणैवैतत् क्षत्रं दधार क्षत्रेण ब्रह्म।
तथा हास्माद् राष्ट्रम् अनपक्रामि भवति गच्छति पुरोधां पुर एनं दधते॥1.182॥

हारिवर्णं
ब्रह्मसाम रक्षोगृहीतः कुर्वीत। आङ्गिरसस् स्वर्गं लोकं यत एभ्यो लोकेभ्यो
रक्षांस्य् अन्वसचन्त। ते ऽकामयन्ताप रक्षांसि हनीमहीति। स एतद् धरिवर्ण आङ्गिरसस्
सामापश्यत्। तेनास्तुत। तेनैभ्यो लोकेभ्यो रक्षांस्य् अपाघ्नत। हरिश्रियम् इत्य्
एवास्माल् लोकात् विराजसि इत्य् अन्तरिक्षात् दिवेदिवे इत्य् अमुष्मात्। ततो वै ते
सर्वेभ्य एभ्यो लोकेभ्यो रक्षांस्य् अपहत्य स्वर्गं लोकम् आरोहन्। सर्वेभ्य एवैभ्यो
लोकेभ्यो रक्षांस्य् अपहत्य स्वर्गं लोकम् आरोहति य एवं वेद। यद् उ हरिवर्ण
आङ्गिरसो ऽपश्यत् तस्माद् धारिवर्णम् इत्य् आख्यायते॥1.183॥

त्रैतं
नाथकामः कुर्वीत। आप्त्यान् साते नयतो ऽरण्ये पिपासाविन्दत्। ते धन्वन् कूपम्
अविन्दन्। तन् नैकतो ऽवरोढुम् अकामयत न द्वितः। तत् त्रितो ऽवारोहत्। तौ यदापिबताम्
अतृप्यताम् अथ हैनं तद् एव रथचक्रेणापिधाय गोभिः प्रैताम्। सो ऽकामयतोद् इत इयां
गातुं नाथं विन्देयेति। स एतत् सामापश्यत्। तेनास्तुत। स सम् इन्दुभिः इत्य् एव
निधनम् उपैत्। तं पर्जन्यो वृष्ट्योर्ध्वम् उदप्लावयत्। अभि हि तद् रथचक्रम्
उत्प्लावयांचकार येनापिहित आस। तद् एतद् गातुविन् नाथवित् साम। गातुं वै स तं नाथम्
अविन्दत। विन्दते गातुं नाथं य एवं वेद॥

स
पदेनान्वैत्। तं प्रतिख्यायायन्तम् ऋक्षो ऽन्यो भूत्वा मर्कटो ऽन्यो वनम्
अवास्कन्दताम्। तद् उ भ्रातृव्यहा साम। भ्रातृव्यतां वाव तस्य ताव् अगच्छतां याव्
ऋक्षं च मर्कटं चाकरोत्। अथो हास्मै वर्षुक एव पर्जन्यो भवति। तद् उ पशव्यम् एव।
केवलान् वै स तान् पशून् अकुरुत। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद॥

यद् उ त्रित
आप्त्यो ऽपश्यत् तस्मात् त्रैतम् इत्य् आख्यायते॥1.184॥

त्रैककुभम्
अन्नाद्यकामः कुर्वीत। इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत्। तेषाम् अद्यमानानां
त्रयः कुमाराः पर्यशिष्यन्त रायोवाजः पृथुरश्मिर् बृहद्गिरिः। त इन्द्रम् अस्तुवन्।
तान् अब्रवीत् किंकामाः कुमारास् स्तुथेति। बिभृह्य् एव नो मघवन्न् इत्य् अब्रुवन्।
तान् अन्तरांसयोर् अध्यास्यत। ता अस्य तिस्रः ककुभो ऽलम्बन्त। इमे वै लोकास् सह
सन्तस् त्रेधा व्यायन्। तांस् ते सान्नाद्यम् अनुव्यैनो उ। एषां त्रयाणां लोकानां
तिस्रः ककुभो ऽन्नाद्यम् अवलम्बत। स ऐक्षतैषां चेद् वै त्रयाणां लोकानां तिस्रः
ककुभो ऽन्नाद्यम् अवारुन्धते नेमास् तिस्रः ककुभो ऽन्नाद्यम् ऽवहरेयेति। स एतत्
सामापश्यत्। तेनास्तुत। तेनैषां त्रयाणां लोकानां तिस्रः ककुभो ऽन्नाद्यम्
ऽवारुन्धत। तेनेमास् तिस्रः ककुभो ऽवाहरत। तद् यद् एतेषां त्रयाणां लोकानां तिस्रः
ककुभो ऽन्नाद्यम् अवारुन्धत तत् त्रैककुभस्य त्रैककुभत्वम्। तद् एतद्
अन्नाद्यस्यावरुद्धिस् साम। अवानाद्यं रुन्द्धे ऽन्नादश् श्रेष्ठस् स्वानां भवति य
एवं वेद॥1.185॥

त्रीन्द्रियं
वा एतत् साम। ऐन्द्रीर् ऋच ऐन्द्रस् साम। इन्द्रः इति निधनं भवति। त्रीणि पुरुष
इन्द्रियाण्य् आत्मा प्रजाः पशवः। तान्य् एवैतेनात्मन् परिगृह्णीते॥

तान् अब्रवीत्
किंकामो वा एकः किंकाम एकः किंकाम एक इति। सो ऽब्रवीद् रायोवाजः पशुकामो ऽहम्
अस्मीति। तस्मा इळां प्रायच्छत्। पशवो वा इळा। अथाब्रवीत् पृथुरश्मिः क्षेत्रकामो
ऽहम् अस्मीति। तस्मै क्षेत्रं प्रायच्छत्। स एव पृथुर् वैन्यः। अथाब्रवीद्
बृहद्गिरिर् अन्नाद्यकामो ऽहम् अस्मीति। तस्मा अथकारं प्रायच्छत्। अन्नं वा अथकारः॥

सौभरं
प्रजाकामः कुर्वीत। हुस् इति निधनम् उपेयात्। सौभरम् अन्नाद्यकामः कुर्वीत। ऊर्क्
इति निधनम् उपेयात्। सौभरं वृष्टिकामः कुर्वीत। हिस् इति निधनम् उपेयात्। सौभरम्
उद्ग्रहणकामः कुर्वीत्। उत् इति निधनम् उपेयात्। सौभरं स्वर्गकामः कुर्वीत। ऊ इति
निधनम् उपेयात्॥

भारद्वाजायनान् ह सत्त्रम् आसीनान् पप्रच्छुः केन प्रजाकामा अस्तोढ्वम् इति।
सौभरेणेति। केनान्नाद्यकामा इति। सौभरेणेति। केन वृष्टिकामा इति। सौभरेणेति।
केनोद्ग्रहणकामा इति। सौभरेणेति। केन स्वर्गकामा इति। सौभरेणेति। एवम् इव वा एतत्
साम। एते वा एतस्मिन् कामा। एतान् एव कामान् अवरुन्द्धे। यत्काम एवैतेन साम्ना
स्तुते सम् अस्मै स काम ऋध्यते॥1.186॥

सौभरं
ब्रह्मसाम कुर्वीत यः कामयेता मे प्रजायां सूपकाशो दर्शनीयः क्षत्रियरूपं पुरुषरूपो
जायेतेति। तेजो वै पुरुषस्य प्रजा तेजस् सौभरम्। बृहत् क्षत्रम्। बृहतः
क्षत्रियस्यो एषा प्रजा। आ हैवास्य प्रजायां सूपकाशो दर्शनीयः क्षत्रियरूपं
पुरुषरूपो जायते य एवं वेद॥

प्रजापतिः
प्रजा असृजत। ता अस्य सृष्टाः पराभवन्। तद् इदं सरीसृपम् अभवद् यद् अन्यत्
सर्पेभ्यः। स द्वितीया असृजत। ता अस्य परैवाभवन्। ते मत्स्या अभवन्। स तृतीया
असृजत। ता अस्य परैवाभवन्। तानि वयांस्य् अभवन्। स चतुर्थीर् असृजत। स ऐक्षत कथं नु
म इमाः प्रजास् सृष्टा न पराभवेयुर् इति। स एतत् सामापश्यत्। तेनैना ऊर्क् इत्य्
एवाभ्यमृशत्। ता अस्योर्जा समक्ता अवर्धन्त। सो ऽब्रवीत् सुभृतं वा इमाः प्रजा
अभार्षम् इति। तद् एव सौभरस्य सौभरत्वम्। सुभृतां प्रजां बिभर्ति य एवं वेद॥1.187॥

नार्मेधेनातिरात्रे ऽच्छावाकाय स्तुवन्ति। इळया रात्रिम् अभिसंतन्वन्ति। तद् आहुर्
यन्ति वा एते ऽनुष्टुभो य उष्णिक्ष्व् अच्छावाकसाम कुर्वन्तीति। अर्वाग् उष्णिहश् च
खलु वा एतासाम् एका मध्य उष्णिग् एकापर उष्णिग् एका। नवधृतं छन्दो नवधृतं वाक्
वदति। वाग् अनुष्टुप्। तेनानुष्टुभो न यन्ति। यैतासाम् उत्तमा सा
प्रत्यक्षानुष्टुप्। तेनो वावानुष्टुभो न यन्ति। यथा ह वा इदं मधुकृतः पुष्पाणां
रसान् संभरन्त्य् एवं ह वा एता देवताश् छन्दसां रसान् समभरन्। छन्दसां हास्य रसेन
स्तुतं भवति य एवं वेद॥

अहोरात्रयोर्
ह खलु वा एतद् रूपं साम। ऐन्द्राग्नेयं तत् साम। ऐन्द्रम् अहर् आग्नेयी रात्रिः। यो
ह वा एतस्मात् साम्नो ऽतिरात्र इयाद् अहोरात्रयोर् ह वै स् रूपेण विवृह्येत। स य
एनं तत्र ब्रूयाद् अहोरात्रयोर् एनं रूपेण व्यवृक्षद् इति तथा हैव स्यात्। तस्माद्
उ हैतस्मात् साम्ना ऽतिरात्रे नैतव्यम्॥1.188॥

क्षेपीयसी ह
खलु वै रात्रिर् अह्नः। एहीळं भवत्य् अप्रवर्हाय॥

यद् ऋचश् च
साम्नश् चात्यरिच्यत तद् उद्वंशीयम् अभवत्। स हर्चा च साम्ना च प्रतितिष्ठति य एवं
वेद। तद् अनृशंसस्य कुर्यान् न नृशंसस्य - परिमितजीवी हि नृशंसो ऽतिरिक्तजीव्य्
अनृशंसः - अतिरिक्तस्यैवावरुद्ध्यै। अथ ह वा एतेन देवास् साम्ना वंशम्
इवोद्यत्यासुरान् अभ्यत्यक्रामन्। यद् उद्वंशम् इवोद्यत्यासुरान् अभ्यत्यक्रामंस्
तद् उद्वंशीयम् अभवत्। तद् उद्वंशीयस्योद्वंशीयत्वम्। अभ्य् अजितं जयति न जितं
पराजयते य एवं वेद॥

सर्वेषां वा
एतत् पृष्ठानां रूपं साम गायन्ति त्वा गायत्रिणः इति गायत्रस्य अर्चन्त्य् अर्कम्
अर्काविणा इति रथन्तरस्य ब्रह्माणस् त्वा होयि शतक्रताव् इति बृहतः उद्वंशम् इव
यायिमिरायि इति वैरूपस्य उद् वंशामि इति पुनर् नित्तिन्वं वैराजस्य वायावुवाउम् इति
महानाम्नीनां या इरा इति रेवतीनां हाई इति वामदेव्यस्य। सर्वस्मिन्न् एवैतत्
पृष्ठरूपो रसे तेजस्य् अपराजिते छन्दसि यज्ञस्यान्ततः प्रतितिष्ठति॥1.189॥

सर्वो ह खलु
वै षोडशिमान्। यत्रोद्वंशीयं क्रियत उत्तमं पदं पुनर् अभ्यस्यति। षोडश्य् एव तेन
रूपेण क्रियते। वज्रो वै भ्रातृव्याय षोडशी। वज्रम् एवैतद् द्विषते भ्रातृव्याय
प्रहरति स्तृत्यै॥

तमो वै
देवासुरान् अन्तरासीत्। ते देवा एतम् अर्धेळम् अपश्यन्। तेनैनद् द्वियानम्। यं
द्विष्यात् तं मनसा ध्यायेत्। एतम् अर्धेळम् उपावयन्त्य् एव। एनम् एत्य् अध्यर्धेळं
स्वरति तस्माद् धूपर्धरा अतिक्षरन्ति॥

अषाढो ह
सावयसो ऽतिरात्रेणेजे। तद् उ हातिधन्वश् शौनकः प्रसुप्त आस। स होद्वंशीयम्
अतिरात्रे ऽच्छावाकसाम चक्रे। तं होवाच मैवं कुरुत पलिप्तेळ स्वरः परस्ताद्
अप्रतिष्ठितः पारिचर्यस्य रूपम् इति। स होवाच तां वै वयं कृत्स्नाम् इळाम् उपेत्य
स्वरेणैव संतत्य रात्रिं प्रवत्स्यामहा इति। नेति हेतर उवाच। इन्द्रो वाव तेन
साम्नासुरान् अन्वभ्यवैत्। ते बलं स्वरं विदित्वा प्रत्याद्रवन्। तं प्राकुर्वत। स
प्रकृत एतम् अर्धेळं न्यहन्। त्राणाय वा एष यद् अर्धेळम् इति॥1.190॥

नार्मेधम् एव
कार्यम्। तद् ऐळं भवति। पशवो वा इळा। पशुर् वा पतेतान् रात्रेर् निरवाघ्नन्।
तस्मान् नार्मेधम् एव कार्यम् इति॥

आष्टादंष्ट्रे
ऋद्धिकामः कुर्वीत। अष्टादंष्ट्रो वै वैरूपः पश्चेवान्येभ्य ऋषिभ्य एते सामनी
अपश्यत्। सो ऽबिभेद् अस्तोत्रीये मे सामनी भविष्यत इति। सो ऽब्रवीद् ऋध्नवात् स यो
मे ध्यामनि सोमस्य तर्पयाद् इति। उष्टिप्राशुभिते वा एते सामनी। ऋध्नुवन्त्य्
एवैताभ्यां तुष्टुवानाः॥

अष्टादंष्ट्रो
वैरूपः पशुकामस् तपो ऽतप्यत। स एते सामनी अपश्यत्। ताभ्याम् अस्तुत। स एताम् इळाम्
उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। ते एते पशव्ये सामनी। अव पशून्
रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् व् अष्टादंष्ट्रो वैरूपो ऽपश्यत् तस्माद्
आष्टादंष्ट्रे इत्य् आख्यायेते॥

तद् ऐळम्
अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठति॥1.191॥

प्रजापतिर्
यद् देवेभ्यस् तन्वो व्यभजत् ततो या हरिवत्य् आसीत् ताम् आत्मने ऽशिंषत्। ताम्
इन्द्राय प्रायच्छत्। तयेन्द्रो ज्यैष्ठ्यम् अगच्छत्। तद् यद् धरिवतीषु स्तुवन्ति
तद् ध्य् एव ज्यैष्ठ्यम्। हरिवतीः परोक्षम् अनुष्टुभस् संपद्यन्ते। तास् संस्तुताश्
चतुस्त्रिंशदक्षरा भवन्ति। ततो ये चतुस्त्रिंशे अक्षरे साम्नस् ताभ्यां लोको विधीयत
इत्य् आहुः। यत् पञ्चत्रिंशदक्षरासु स्तुयुः परं रूपम् उपपद्येरन् बार्हतम्। यत्
त्रयस्त्रिंशदक्षरासु स्तुयुर् अवरं रूपम् उपपद्येरन् आनुष्टुभम्। यत्
सप्तदशस्तोमम् स्यात् परमं रूपम् उपपद्येरन्। यत् पञ्चदशस्तोमस् स्याद् अवममं रूपम्
उपपद्येरन्। यत् षोडशिना षोडशस्तोमेन चतुस्त्रिंशदक्षरासु स्तुवन्ति स्वेनैवैनं तद्
आयतनेन समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् अर्धुकं भवति॥

षोडश
स्तोत्राणि षोडश शस्त्राणि। तद् द्वात्रिंशत्। द्वात्रिशदक्षरानुष्टुप्। आनुष्टुभष्
षोडश्य् अनुष्टुभं संपन्नः। देवछन्दसानि वा अन्यान्य् आसन्न् असुरछन्दसान्य्
अन्यानि॥1.192॥

एकाक्षरं
देवानाम् अवमम् आसीत् सप्ताक्षरं परमम्। नवाक्षरम् असुराणाम् अवमम् आसीत्
पञ्चदशाक्षरं परमम्। ते देवा अकामयन्त कनीयसा भूयो ऽसुराणां वृञ्जीमहीति। त
एकाक्षरेण पञ्चदशाक्षरम् अवृञ्जत। ते द्व्यक्षरेण चतुर्दशाक्षरं त्र्यक्षरेण
त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरं
सप्ताक्षरेण नवाक्षरम्। अष्टाक्षरे वाष्टौ। तानि यत् षोडशषोडश समपद्यन्त तत्
षोडशिनष् षोडशित्वम्। तद् गायत्र्य् एव सप्तदश्य् उपसमपद्यत। तस्माद् आहुस् सप्तदशः
प्रजापतिर् इति॥

इन्द्रो वा
वृत्रम् अजिघांसत्। स प्रजापतिम् उपाधावद् धनानि वृत्रम् इति। तस्मा एतं षोडशिनं
वज्रं प्रायच्छद् यद् अस्य वीर्यम् आसीत् तद् आदाय शक्वर्यः। तं नाशक्नोद् धन्तुम्।
तं पुनर् उपाधावद् धनान्य् एव वृत्रम् इति॥1.193॥

तस्मै
शक्वर्यः प्रायच्छत्। ततो वा इन्द्रो वृत्रम् अहन्। हन्ति द्विषन्तं भ्रातृव्यं य
एवं वेद॥

स ऐक्षत यद्य्
अस्मै दिवा प्रदास्यामि रात्रिम् एषां भ्रातृव्यलोको ऽभ्यधिरेक्ष्यते। यद्य् अस्मै
नक्तं प्रदास्याम्य् अहर् एषां भ्रातृव्यलोको ऽभ्यधिरेक्ष्यत इति। स एतद् अपश्यत्।
यावत्य् एतद् आदित्यो विषितो भवति। तस्मै तावत्य् एव प्रायच्छत्। तेनासुरान्
उभाभ्याम् अहोरात्राभ्याम् अन्तरैत्। उभाभ्याम् एवाहोरात्राभ्यां द्विषन्तं
भ्रातृव्यम् अन्तरेति य एवं वेद॥

यथा ह वै
सूर्मत्याधायैवं षोडशी स्तोत्राणां स्वर्गलोकस्य समष्ट्यै। प्र स्वर्गं लोकम्
आप्नोति य एवं वेद॥1.194॥

तद् आहुस्
त्रिवृद् एव स्तोमः कार्य इति। स त्रिवृद् वै वज्रः। वज्रष् षोडशी। अथो आहुष् षोडश
एव कार्य इति। पञ्चदशो वै वज्रः। इन्द्रो वज्रस्योद्यन्ता षोडशः। सेन्द्रेण वज्रेण
वृत्रं पाप्मानं हनानीति। सेन्द्रेण हैव वज्रेण द्विषन्तं पाप्मानं भ्रातृव्यं
हन्ति य एवं वेद॥

अथो आहुस्
सप्तदश एव कार्य इति। पञ्चदशो वै वज्रः। इन्द्रो वज्रस्योद्यन्ता षोडशः। प्रजापतिर्
एव सप्तदशः। सो ऽनुष्ठाता सो ऽभिगोप्ता सो ऽभिवादयिता प्रहर जहि मापक्रमीः इति।
सेन्द्रेण वज्रेण सप्रजापतिकेन वृत्रं पाप्मानं हनानीति। सेन्द्रेण हैव वज्रेण
सप्रजापतिकेन द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद॥

अथो आहुर्
एकविंश एव कार्य इति। सर्वाभ्यो वा एतं सप्तभ्यो होत्राभ्य इन्द्रो वज्रं निरमिमीत
तिस्रस् तिस्र एव होत्रायै। स एकविंशष् षोडशी समपद्यत। तेनेन्द्रो वृत्रम् अहन्।
हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद॥

तद् उ होवाच
यामनो भ्रातलायनो विराजो वा एष संपदे षोडशी। वैराजो वै षोडशी विराजिविराजि
प्रतिष्ठितः। स यत्रैवैतं विराजं संपद्यमानं मन्येत तद् एवैतेन स्तोतव्यम्॥1.195॥

अहोरात्रयोर्
वै देवासुरा अधि संयत्ता आसन्। ते देवा अहर् अभ्यजयन्न् अथासुरा रात्रिम्
अभ्युपाधावन्। ते देवा अब्रुवन्न् अर्धिनो वा अस्य भुवनस्याभूम कथं सत्रा रात्रिम्
अभिजयेमाभिप्रयुनजामहा इति। ते ऽभ्ययुञ्जत। अह्नो जघनार्धे ऽयतन्त। अथासुरा
रात्र्या उदासृत्य पूर्वार्धे ऽयतन्त। एष ह वा अह्नो जघनार्धो यत् सायम्। एष उ वै
रात्रेः पूर्वार्धो यत् सायम्। स्वायाम् अन्ये मर्यादायाम् अयतन्त स्वायाम् अन्ये।
छन्दांसि वाव तेषां स्वम् आसीत्। छन्दस्स्व् अधि संयत्ता आसन्॥1.196॥

एकाक्षरं
देवानाम् अवमम् आसीत् सप्ताक्षरं परमम्। नवाक्षरम् असुराणाम् अवमम् आसीत्
पञ्चदशाक्षरं परमम्। सप्ताक्षरं च नवाक्षरं च संनिहिते आस्ताम् ईध्र्यञ्च्य्
अन्यानि यत्तान्य् आसन्न् ईध्र्यञ्च्य् अन्यानि। तान् प्रजापतिर् आनुष्टुभो ऽन्तरा
विक्रम्यातिष्ठत्। ते समीक्षमाणास् संचाकशतो ऽतिष्ठन्न् अन्योन्यस्यारन्ध्रम्
इच्छन्तः॥

ते देवाः
प्रजापतिम् उपाधावन् जयामासुरा्न् इति। तेभ्य एतं षोडशिनं वज्रं प्रायच्छत्।
एतेनैषां छन्दोभिश् छन्दांसि संवृज्य माम् उपसंपादयथेति। त एकाक्षरेण पञ्चदशाक्षरम्
अवृञ्जत द्वयक्षरेण चतुर्दशाक्षरम्। सानुष्टुब् अभवत्। तां प्रजापतिम् उपसमपादयन्।
त्र्यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरम्। सानुष्टुब् अभवत्। तां
प्रजापतिम् अपसमपादयनन्। पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरम्। सानुष्टुब्
अभवत्। तां प्रजापतिम् उपसमपादयन्। सप्ताक्षरेण नवाक्षरम् अष्टाभिर् एवाष्टौ।
सानुष्टुब् अभवत्। तां प्रजापतिम् उपसमपादयन्। सप्ताक्षरेण नवाक्षरम् अष्टाभिर्
एवाष्टौ। सानुष्टुब् अभवत्। तां प्रजापतिम् उपसमपादयन्। तेषां छन्दोभिर् एव
छन्दांसि संवृज्यासुरान् निरवाघ्नन्। तान् निरवहतान् दारान् यतः प्रजापतिर् अश्वो
ऽरुणपिशङ्गो भूत्वा पराप्रोथत्। त एत उदन्तेष्व् अधिगम्यन्त एकैक इव। ततो वै देवा
अभवन् परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥1.197॥

कनीयस्विन इव
वै देवा आसन् भूयस्विनो ऽसुराः। कनीयसा वै तेषां त्व् एतद् भूयो ऽवृञ्जत। तस्मात्
कनीयान् ग्रामो ज्यायांसं ग्रामं प्रतिसंयतते। तस्माद् उ कनीयांसो भूयसो ऽमित्रान्
जयन्ति। कनीयस्वी भूयस्विनं वृञ्जते य एवं वेद॥

एषा ह खलु वै
प्रत्यक्षं पंक्तिर् यत् पञ्चाक्षरा पञ्चपदा। पंक्तिषु षोडशिना स्तुवन्ति।
पुरुषछन्दसं वै पंक्तिः। यत् पांक्तः पुरुषः पुरुषाद् एवैतद् आप्तां वाचं
निर्मिमते। तस्मात् पुरुषस् सर्वा वाचो वदति। आप्त इव वा एतर्हि सर्ववाक्। तद् यद्
अनुष्टुप्सु स्तुवन्ति यथा कुम्भ्यासूपदस्तासु महोदधीन् अपधावयेत् तादृक् तत्॥

कनीयांसि
छन्दांसि ज्यायस्सु छन्दस्स्व् अध्यूहन्ति। जितदेवत्यानि वा एतानि यत् कनीयांसि।
तस्माज् ज्यायस्सु छन्दस्स्व् अध्यूहन्ति। एषां ह खलु वै छन्दसां वीर्यवत्तमा या
त्र्यक्षरैकपदा। ताभिर् यच् छन्दांस्य् उपसृजन्ति वीर्यस्यैवावरुद्ध्यै। निधनम्
अभ्यतिस्वरति। अह्नो वै देवा रात्रिम् अभ्यत्यक्रामन्। अभि भ्रातृव्यलोकं जयति य
एवं वेद। भ्रातृव्यभाजिनम् इव ह्य् एषा यद् रात्रिः॥1.198॥

अधिकर्ण्या
सोमं क्रीणन्ति। यथा ह वै कर्णेकर्णे ऽधिरूढम् एवं षोडशी स्तोत्राणाम् । सह वै
षोडशिनं क्रीणीम इति वदन्तष् षोडशिनं क्रीणन्ति। यद् अधिकर्णी सोमक्रयणी भवति
तेनैवैषां षोडशी क्रीतस् तेनावरुद्धः॥

अधिकर्ण्या
सोमं क्रीणन्ति। सवनात्सवनात् सोमम् अतिरेचयन्ति। जनद्वतीषु स्तुवन्ति। सर्वाणि
रूपाण्य् अनुशास्यन्ते। यद् अधिकर्ण्या सोमं क्रीणन्ति यजमान एनं तेन प्रजनयति। यत्
सवनात्सवनात् सोमम् अतिरेचयन्त्य् अध्वर्युर् एनं तेन प्रजनयति। यज् जनद्वतीषु
स्तुवन्त्य् उद्गातैन तेन प्रजयति। यत् सर्वाणि रूपाण्य् अनुशास्यन्ते होतैन तेन
प्रजनयति। एतानि वै षोडशिनः प्रजननानि। प्र प्रजया पशुभिर् जायते य एवंवेद॥1.199॥

इन्द्रं वै
हरो ऽत्यरिच्यत। स देवान् अब्रवीत् कथं मा हरो नातिरिच्येतेति। तं विश्वे देवा
अब्रुवन् वयं त्वा हरिवता मन्त्रेण स्तोष्यामस् तथा त्वा हरो नातिरेक्ष्यत इति। तं
विश्वे देवा हरिवता मन्त्रेणास्तुवन्। ततो वा इन्द्रं हरो नात्यरिच्यत। तद् यद्
धरिवतीषु स्तुवन्ति इन्द्रम् एवैतद् धरसा समृद्धयन्ति। एषा ह खलु वै यजमानस्य
नेदिष्ठं देवता यद् इन्द्रः। तद् यद् धरिवतीषु स्तुवन्ति यजमानम् एव तद् धरसा तेजसा
समृद्धयन्ति। सम् अस्मा ऋध्यते य एवं वेद॥1.200॥

अष्टाहं जुहोति। द्वात्रिंशद् आहुतयस् संपद्यन्ते। द्वात्रिंशदक्षरा वा अनुष्टुप्। द्वात्रिंशद् विश्वे देवाः। ते ऽनुष्टुभम् अन्वायत्ताः। तेभ्यो ऽनुष्टुब् विश्वेभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। अनुष्टुभं वै स छन्दसां जयति विश्वान् देवान् देवानाम्। विश्वेषां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.32॥
[https://sa.wikisource.org/s/9ys आगामी पृष्ठः(1.201 - 1.250)]
नवाहं जुहोति। षट्त्रिंशद् आहुतयस् संपद्यन्ते। षट्त्रिंशदक्षरा वै बृहती। षट्त्रिंशत् साध्या देवाः। ते बृहतीम् अन्वायत्ताः। तेभ्यो बृहती साध्येभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। बृहतीं वै स छन्दसां जयति साध्यान् देवान् देवानाम्। साध्यानां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.33॥
दशाहं जुहोति। चत्वारिंशद् आहुतयस् संपद्यन्ते। चत्वारिंशदक्षरा वै पंक्तिः। चत्वारिंशन् मरुतो देवाः। ते पंक्तिम् अन्वायत्ताः। तेभ्यः पंक्तिर् मरुद्भ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। पंक्तिं वै स छन्दसां जयति मरुतो देवान् देवानाम्। मरुतां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.34॥
एकादशाहं जुहोति। चतुश्चत्वारिंशद् आहुतयस् संपद्यन्ते। चतुश्चत्वारिंशदक्षरा वै त्रिष्टुप्। चतुश्चत्वारिंशद् रुद्रा देवाः। ते त्रिष्टुभम् अन्वायत्ताः। तेभ्यस् त्रिष्टुब् रुद्रेभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। त्रिष्टुभं वै छन्दसां जयति रुद्रान् देवान् देवानाम्। रुद्राणां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.35॥
द्वादशाहं जुहोति। अष्टाचत्वारिंशद् आहुतयस् संपद्यन्ते। अष्टाचत्वारिंशदक्षरा वै जगती। अष्टाचत्वारिंशद् आदित्या देवाः। ते जगतीम् अन्वायत्ताः। तेभ्यो जगत्य् आदित्येभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। जगतीं वै स छन्दसां जयत्य् आदित्यान् देवान् देवानाम्। आदित्यानां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.36॥
अत्र वै ब्रह्म न विराजत्य् अनाथम् अपरायणम् अनुत्तरम्। तद् वै तद् अग्निहोत्रं द्वादशाहं ब्रह्म जुहुवांचकार। तद् द्वादशाहं हुत्वा कीर्तिं यशः प्रजापतिम् अमृतं तद् उदाजहार। तद् वै तद् अग्निहोत्रं द्वादशाहं ब्रह्म हुत्वा प्रजापतय प्रत्यूह्य स्वर्गं लोकम् अभ्युच्चक्राम॥
तद् वै तद् अग्निहोत्रं द्वादशाहं प्रजापतिर् जुहुवांचकार। तद् द्वादशाहं हुत्वा प्रज्ञां मेधां मीमांसां तपस् तद् उदाजहार। तद् वै तद् अग्निहोत्रं द्वादशाहं प्रजापतिर् हुत्वा देवेभ्यश् चर्षिभ्यश् च प्रत्यूह्य स्वर्गम् एव लोकम् अभ्युच्चक्राम॥
तद् वै तद् अग्निहोत्रं द्वादशाहं देवाश् चर्षयश् च जुहुवांचक्रुः। तद् द्वादशाहं हुत्वा पूर्वेभ्यो मनुष्येभ्यः प्रत्यूह्य स्वर्गम् उ एव लोकम् अभ्युच्चक्रमुः॥
तद् वै तद् अग्निहोत्रं द्वादशाहं ब्रह्म जुहुवांचकार। द्वादशाहं प्रजापतिर् द्वादशाहं देवाश् चर्षयश् च। तद् द्वादशाहं द्वादशाहं हुत्वा कामान् निकामान् आपुः। किम् उ य एनं यावज्जीवं जुहुयात्॥1.37॥
तद् वै तद् अग्निहोत्रं त्र्यहम् एव पयसा जुहुयात्। तद् वा अग्निष्टोमस्य रूपम्। अग्निष्टोमेनैवास्येष्टं भवति य एवं विद्वान् अग्निहोत्रं जुहोति॥
तद् वै तद् अग्निहोत्रं त्र्यहम् एव दध्ना जुहुयात्। तद् वै वाजपेयस्य रूपम्। वाजपेयेनैवास्येष्टं भवति य एवं विद्वान् अग्निहोत्रं जुहोति॥
तद् वै तद् अग्निहोत्रं त्र्यहम् एवाज्येन जुहुयात्। तद् वा अश्वमेधस्य रूपम्। अश्वमेधेनैवास्येष्टं भवति य एवं विद्वान् अग्निहोत्रं जुहोति॥
तद् वै तद् अग्निहोत्रं त्र्यहम् एवाद्भिर् जुहुयात्। तद् वै पुरुषमेधस्य रूपम्। पुरुषमेधेनैवास्येष्टं भवति य एवं विद्वान् अग्निहोत्रं जुहोति॥
स्वयम् अहतवासा यजमानो ऽग्निहोत्रं जुहुयाद् अजस्रेष्व् अग्निष्व् अप्रवसन्। त्रयोदशीं रात्रिं सोमेन वा पशुना वेष्ट्वोत्सृजेत। यथा सावसान् कृत्वा प्रार्जयेत् तादृक् तत्॥
तद् वै तद् अग्निहोत्रं द्वादशाहम् एव पूर्वे मनुष्या जुहुवांचक्रुः। तस्मात् तेषां दुहे धेनुर् वहत्य् अनड्वान् आदधानः प्रहितो ऽश्वो ऽश्वतर उपतिष्ठत्य अधि? क्ष्यो हस्ती वहति॥1.38॥
उपसृज्याग्निहोत्रीम् इत्य आह उपसृष्टे द्यावापृथिवी॥ रुद्रा उपगृह्णन्ति वसूनां दुग्धम्॥ भूतकृत स्थ निरूढ जन्यं भयम् इत्य् अङ्गारान् निरूहति। अथाधिश्रयति वैश्वानरस्याधिश्रितम् असि॥ अग्निस् ते तेजो मा प्रतिधाक्षात्(?)॥ सत्या त्वा इति॥ अथावद्योतयति सं ज्योतिषा ज्योतिः इति। अथापः प्रत्यानयति यस् ते अप्सु रसः प्रविष्टस् तेन संपृच्यस्व इति। स यद् एवास्य तत्र दिशो ग्रसन्ते तद् एवास्य तत् समन्वानयन्तं अन्तरितं रक्षो ऽन्तरिता अरातयः इति। त्रिः पर्यग्निं करोति। अथोद्वासयति दिवं दृंहान्तरिक्षं दृंह पृथिवीं दृंह प्रजां पशून् जुह्वतो मे दृंह इति।
भूतकृत स्थ प्रत्यूढं जन्यं भयम् इत्य् अङ्गारान् प्रत्यूहति। अथ स्रुवं च स्रुचं चादाय निष्टपति प्रत्युष्टं रक्षः प्रत्युष्टः अरातयः इति। अथ स्रुवं संमार्ष्टि सजूर् देवेभ्यस् सायंयावभ्यः इति सायम्। सजूर् देवेभ्यः प्रातर्यावभ्यः इति प्रातः। सुवर्णां त्वां सुवर्णमयीम्॥ हिरण्ययष्टिर् अस्य अमृतपलाशा स्रोतो यज्ञानाम् इति। स्रोतो हैव स यज्ञानां भवति। अथाह उन्नेष्यामि इति। ओं ममहं स्वर्गं लोकम् अभि इति ब्रूयात्॥1.39॥
स यं प्रथमं स्रुवम् उन्नयति तद् वै दर्शपूर्णमासयो रूपम्। दर्शपूर्णमासाभ्याम् एवास्येष्टं भवति य एवं विद्वान् प्रथमं स्रुवम् उन्नयति॥
अथ यं द्वितीयं स्रुवम् उन्नयति तद् वै चातुर्मास्यानां रूपम्। चातुर्मास्यैर् एवास्येष्टं भवति य एवं विद्वान् द्वितीयं स्रुवम् उन्नयति॥
अथ यं तृतीयं स्रुवम् उन्नयति तद् वा इष्टिपशुबन्धानां रूपम्। इष्टिपशुबन्धैर् एवास्येष्टं भवति य एवं विद्वांस् तृतीयं स्रुवम् उन्नति॥
अथ यं चतुर्थं स्रुवम् उन्नयति तद् वै त्र्यम्बकवाजपेयाश्वमेधानां रूपम्। त्र्यम्बकवाजपेयाश्वमेधैर् एवास्येष्टं भवति य एवं विद्वांश् चतुर्थं स्रुवम् उन्नयति॥
अथ समिधम् आदाय प्राङ् प्रति। पुरुष इत् समित्। तम् अन्नम् इन्द्धे अन्नस्य मा तेजसा स्वर्गं लोकं गमय॥ यत्र देवानाम् ऋषीणां प्रियं धाम तत्र म इदम् अग्निहोत्रं गमय इति। तूष्णीम् उपसादयति। अथ समिधम् अभ्यादधाति स्वर्गस्य त्वा लोकस्य संक्रमणं हिरण्मयं वंशं दधामि स्वाहा इति। अथ जुहोति। स यां प्रथमां जुहोति देवांस् तयाप्नोति। अथ यां द्वितीयां जुहोत्य् ऋषींस तयाप्नोति॥1.40॥