अथोपमार्ष्टि। स यत् प्रथमम् उपमार्ष्टि तेन गन्धर्वाप्सरसः प्रीणाति। तं गन्धर्वाप्सरस आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
जैमिनीयं ब्राह्मणम् (1.201 - 1.250)
अथ यद् द्वितीयम् उपमार्ष्टि तेन ग्रहांश् च पितॄंश् च प्रीणाति। तं ग्रहाश् च पितरश् चाहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥

प्रष्टिर् इव ह खलु
वा एतत् स्तोत्राणां यत् षोडशी। यद् वै प्रष्टिर् अनियुक्तो वह्त्य् अप वा वै स
छिनत्ति निर् वा मार्ष्टि। अन्त्येन स्तोत्रेण समस्तोमो भवति। स यथा प्रष्टिं
प्रष्टियुगाय नियुञ्ज्याद् एवम् एवैतत् पूर्वेषु स्तोत्रेषु षोडशिनम्
अनुनियुनक्त्य् अनिर्मार्गाय॥

अक्षीव ह खलु
वा एतत् स्तोत्राणां यत् षोडशी। अन्त्येन स्तोत्रेण समस्तोमो भवत्य् अनाक्षितायैव॥

जामीव ह खलु
वा एतत् स्तोत्राणां यत् षोडशी। अन्त्येन स्तोत्रेण समस्तोमो भवत्य् अजामितायै॥

पशवो वा
उक्थानि वज्रष् षोडशी। यद् उक्थानाम् अन्ततष् षोडशिना स्तुवन्ति वज्रेणैव तत् पशून्
परिगृह्णन्त्य् अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद॥1.201॥

तद् आहुर्
नोक्थष् षोडशी कार्य इति। पशवो वा उक्थानि वज्रष् षोडशी। वज्रं पशुषु विवर्तयेत्।
अतिरात्र एव कार्यः। आपो वै सर्वस्य शान्तिः। अद्भिर् एवैनत् तच् छमयन्ति॥

यद्य्
अभिचरणीयस् सोमस् स्याद् धिरण्मयं वज्रं भृष्टिमन्तं कृत्वा योय एव कर्म कुर्यात्
तस्मैतस्मा उपप्रवर्तयेत्। सस एवास्मै वज्रं प्रहरति स्तृत्यै। संस्थिते सोमे
न्यञ्चं द्रोणकलशं पर्यस्य करम्भमयान् वा पुरुषान् कृत्वा हरितानां वा तृणानां
तेषां नामग्राहं ग्रीवा अपिकृन्तेत् इदम् अहम् अमुष्य ग्रीवा अपिकृन्तामीदम्
अमुष्येदम् अमुष्य इति। यावताम् एव नामानि गृह्णाति तावतां ग्रीवा अपिकृन्तति। तं
ब्रह्मणे ददाति। ब्रह्म वै ब्रह्मा। ब्रह्म वज्रः। ब्रह्मण्य् एवैतद् वज्रं
प्रतिष्ठापयति॥1.202॥

इन्द्रश् च वै
बृहच् च समभवताम्। इन्द्रं बृहद् . . . .अत्यरिच्यत। तस्या अबिभेद् अनयैव
माभिभविष्यतीति। स देवान् अब्रवीत् षोडश्य् अयं यज्ञक्रतुर् अस्त्व् इति। तथेति। स
षोडश्य् अभवत्। तत् षोडशिनो जन्म। अति श्रिया द्विषन्तं भ्रातृव्यं रिच्यते य एवं
वेद॥

गायत्रीषु
द्विपदासु बृहता षोडशिना तुष्टुवानः उप नो हरिभिस् सुतम् इति। एता वै गायत्र्यो
द्विपदाः। इन्द्रो वै वृत्रम् अजिघांसत्। स प्रजापतिम् उपाधावद् धनानि वृत्रम् इति।
तस्मा एताम् अपहरसम् अनुष्टुभं प्रायच्छत्। तया नास्तृणुत। स यद् अस्तृत्वा व्यनदत्
तन् नानदम् अभवत्। तन् नानदस्य नानदत्वम्। तस्माद् आहुर् नानदं षोडशिसाम कार्यं न
हि तेनास्तृणुतेति। तं पुनर् उपाधावद् धनान्य् एव वृत्रम् इति। तस्मै सप्तानां
होत्राणां हरो निर्माय प्रायच्छत्। तिस्र एव होत्रायै। स एकविंशष् षोडशी समपद्यत।
तेनो वृत्रम् अहन्। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। एकविंशायतनो ह खलु वै
षोडशी। सप्त वै होत्राः प्रातस्सवने वषट्कुर्वन्ति सप्त माध्यंदिने सवने सप्त
तृतीयसवने ऽथो यद् एवास्मै हरो निर्माय प्रायच्छत्॥1.203॥

गौरीवितिर् वा
एतच् छाक्त्यो ऽतिरिक्तं ब्रह्मणो ऽपश्यत्। तद् गौरीवितम् अभवत्। अतिरिक्तं वा एतद्
ब्रह्मणो यद् गौरीवितम् अतिरिक्तष् षोडशी स्तोत्राणाम्। यद् गौरीवितेन षोडशिना
स्तुवन्त्य् अतिरिक्त एव तद् अतिरिक्तं दधति यज्ञस्य सलोमतायै॥

औपोदितिर् ह
स्माह गौपालयो विशालं लिबुजयाभ्यधाद् अनुष्टुभि नानदम् अक्तत् गौरीवितेन षोडशिनम्
अतुष्टुवन् न श्रियावपद्य इति। न ह वै श्रियावपद्यते य एवं वेद॥

तद् उ
श्वस्तनवद् अपि प्रजाया उपक्लृप्तम्। शक्वरीषु षोडशिसाम कुर्वीत पशुकामः। वज्रो वै
षोडशी पशवश् शक्वर्यः। वज्रेणैव पशुं स्पृणोति पशुमान् भवति। शक्वरीषु षोडशिसाम
कुर्वीत यः कामयेत वज्री स्याम् इति। वज्रो वै षोडशी वज्रश् शक्वर्यः। वज्रेणैव
वज्रं स्पृणोति वज्री भवति। विराट्स्व् अन्नाद्यकामष् षोडशिसाम कुर्वीत। वज्रो वै
षोडश्य् अन्नं विराट्। वज्रेणैवान्नाद्यं स्पृणोत्य् अत्त्य् अन्नम् अन्नादो भवति।
तास् त्रयस्त्रिंशदक्षरा भवन्ति। ततो यान्य् एकविंशतिः प्रतिष्ठा सा। अथ यानि
द्वादश प्रजननं तत्। प्रति प्रतिष्ठायां तिष्ठति प्रजायते नो चान्तस्थायां जीयते य
एवं वेद॥1.204॥

प्र वो महे
महेवृधे भरध्वम् इत्य् एता वै विराजः। अनुष्टुप्सु षोडशिसाम कुर्वीत यः कामयेत न
मान्या वाग् अतिवदेद् इति। वज्रो वै षोडशी वाग् अनुष्टुप्। वज्रेणैव वाचं स्पृणोति
नैनम् अन्या वाग् अतिवदति। आ तिष्ठ वृत्रहन् रथम् इत्य् एता वा अनुष्टुभः। अथैतास्
त्र्यक्षरा एकपदा भवन्ति। विष्णोश् छन्दो भूरिजश् शक्वर्य इति। एताभिर् वा इन्द्रो
वृत्रम् अहन्न् एताभिश् श्रियाम् आश्नुतौषम् एव। द्विषन्तं भ्रातृव्यं हन्त्य् ओषं
श्रियम् अश्नुते य एवं वेद॥

हिरण्यं
संप्रदायं षोडशिना स्तुवन्ति। षोडशिनम् एव तज् ज्योतिष्मन्तं कुर्वन्ति॥

अश्व
उपतिष्ठते साम्येक्ष्याय। भ्रातृव्यलोकं वावैषां तद् विधमंस् तिष्ठति॥

यस्माज् जातो
न परो ऽन्यो अस्ति य आ बभूव भुवनानि विश्वा।

प्रजापतिः
प्रजया संरराणस् त्रीणि ज्योतींषि सचते स षोडशी॥

इति षोडशिग्रहम्
अवेक्षते॥

इन्द्रश् च सम्राड्
वरुणश् च राजा तौ ते भक्षयांचक्रतुर् अग्र एतम्। तयोर् अहं भक्षम् अनुभक्षयामि वाग्
जुषाणा सोमस्य तृप्यतु॥

इति॥

एकाक्षरं
देवानाम् अवमम् आसीत् सप्ताक्षरं परमम्। नवाक्षरम् असुराणाम् अवमम् आसीत्
पञ्चदशाक्षरं परमम्। ते देवा अकामयन्त कनीयसा भूयो ऽसुराणां वृञ्चीमहीति। त
एकाक्षरेण पञ्चदशाक्षरम् अवृञ्जत द्वयक्षरेण चतुर्दशाक्षरं त्र्यक्षरेण
त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरं
सप्ताक्षरेण नवाक्षरम्। अष्टाभिर् एवाष्टौ। एवं कनीयसा ज्यायसो द्विषतो
भ्रातृव्यस्य वृंक्ते य एवं वेद॥1.205॥

अह्नो ऽसुरा
नुत्ता रात्रिं प्राविशन्। ते देवा एतम् अनुष्टुप्शीर्षाणं वज्रं समभरन्। तेनैनान्
अभ्यवायन्। वाग् वा एषा। वाचा ज्योतिषान्वभ्यवायन्। विराड् वा एषा। विराजा
ज्योतिषान्वभ्यवायन्। न वै सुयज्ञ इवातिरात्रः। तद् यत् पान्तं भवति तेनैव यज्ञः
क्रियते। अह्नश् च सुलम्बो रात्रेश् च संतत्या अप्यवच्छेदाय। यानि छन्दांस्य् अहर्
वहन्ति तानि रात्रिं वहन्ति। एषा गायत्र्य् एषा विराड् एषा ककुब् एषानुष्टुप्॥

बृहतीषु
स्तुवन्ति। तेन बृहतीभ्यो नयन्ति। तासां यद् द्वादशाक्षराणि पदानि तेन जगतीभ्यो
नयन्ति। त्रिष्टुभा वषट्करोति। तेन त्रिष्टुभो नयन्ति। तान् संधिनाभिपलायन्त
आश्विने नासंहेयम् अगमयन्। असंहेयं ह वै द्विषन्तं भ्रातृव्यं गमयति य एवं वेद॥

एषा वा
अग्निष्टोमस्य संमा यद् रात्रिः। द्वादश वा अग्निष्टोमस्य स्तोत्राणि द्वादश
रात्रेः। एषा वा उक्थस्य संमा यद् रात्रिः। त्रीण्य् उक्थानि त्रिदेवत्यस् संधिः।
एषा वा अग्निष्टोमस्य च संवत्सरस्य च संमा यद् रात्रिः। द्वादश वा अग्निष्टोमस्य
स्तोत्राणि द्वादश मासास् संवत्सरः। रात्र्या त्वाव त्रयोदशो मास आप्यते। एषा वै
व्रध्नस्य विष्टपं यद् रात्रिः। गच्छति व्रध्नस्य विष्टपं य एवं वेद॥1.206॥

एष वाव
सर्वगायत्रो यद् अतिरात्रः । न वै रात्र्या ऋते ऽहर् न रात्रिर् ऋते ऽह्नः। नैषा
लोकानाम् एक एकः। अहोरात्रे वा इदं सर्वम् इमे लोकाः। भूतं भव्यं प्रजनयतः। तद्
आहुर् न प्रथमं यजमानो ऽतिरात्रेण यजेतेति। स्वं च ह्य् अतिमन्यते। द्वौ यज्ञक्रतू।
ब्रह्म वा अग्निष्टोमः। ब्रह्म वै ब्राह्मणस्य स्वम्। अग्निष्टोमं च ह्य् अतिमन्यत
उक्थं च षोडशिनम्। तद् उ वा आहुर् अग्निष्टोममात्रं वावाग्निष्टोमेनाभिजयत्य्
उक्थमात्रम् उक्थेन षोडशिमात्रं षोडशिना रात्र्या त्वाव सर्वम् अवरुन्द्ध इति। स यो
हैवं विद्वान् एकेन यज्ञक्रतुना चतुरो यज्ञक्रतून् संतनोत्य् आस्य चत्वारो
विराजयन्ते सर्वेषु पशुषु प्रतितिष्ठति॥1.207॥

अह्नो ऽसुरा
नुत्ता रात्रिं प्राविशन्। ते देवा एतानि सामान्य् अपश्यन्न् एतान् पर्यायान्। तैर्
एनान् अन्वभ्यवायन्। तान् पर्यायम् अघ्नन्। यत् पर्यायम् अघ्नंस् तत् पर्यायाणां
पर्यायत्वम्। पर्यायम् एव द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद॥

ये
प्रथमरात्रेण छन्ना आसंस् तान् प्रथमेन पर्यायेणाघ्नन्। यत् प्रथमस्य पर्यायस्य
प्रथमानि पदानि पुनरादीनि भवन्ति ये प्रथमरात्रेण छन्ना भवन्ति तान् एव तेन
घ्नन्ति। ये मध्यरात्रेण छन्ना आसंस् तान् मध्यमेन प्रयायेणाघ्नन्। यन् मध्यमस्य
पर्यायस्य मध्यमानि पदानि पुनरादीनि भवन्ति ये मध्यरात्रेण छन्ना भवन्ति तान् एव
तेन घ्नन्ति। ये ऽपररात्रेण छन्ना आसंस् तान् उत्तमेन पर्यायेणाघ्नन्। यद् उत्तमस्य
पर्यायस्योत्तमानि पदानि पुनरादीनि भवन्ति ये ऽपररात्रेण छन्ना भवन्ति तान् एव तेन
घ्नन्ति। पुनरभिघातं वावैनांस् तद् अघ्नन्। यथा वै हत्वा पुनर् हन्यात् तादृक् तत्।
पुनरभिघातम् एव द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद॥1.208॥

शर्वरी वै नाम
रात्रिः। ते देवा अब्रुवन्न् अपि वै नश् शर्वर्याम् अभूद् इति। तद् एवापिशर्वराणाम्
अपिशर्वरत्वम्। अपि ह वा अस्य शर्वर्यां भवति य एवं वेद॥

असुरेषु वा
इदम् अग्र आसीत्। तद् देवा अभिजित्याब्रुवन् केन न्व् अहोरात्रे उपरिष्टात्
संदध्यामेति। त एतद् राथन्तरं संधिम् अपश्यन्। तेनाहोरात्रे उपरिष्टात् समदधुः। यत्
समदधुस् तत् संधेस् संधित्वम्। आश्विनं ह खलु वै संधेर् उक्थम्। महति रात्रे
सन्धिना स्तुवन्ति। आ सूर्यस्योदेतोर् आश्विनम् अनुशस्यते ऽहोरात्रयोर् एव संतत्या
अहोरात्रयोस् समारम्भाय॥

अहोरात्रे
देवा अभिजित्य ते वज्रम् एव परिधिम् अकुर्वत पशूनां गुप्त्या असुराणाम्
अनभ्यवचाराय। तद् यद् एता उष्णिहो ऽन्ततः क्रियन्ते -- वज्रो वा उष्णिहः - वज्रेणैव
तत् पशून् परिगृह्णात्य् अपरा(वा)पाय। नास्य वित्तं परोप्यते य एवं वेद॥1.209॥

असुरेषु वा
इदम् अग्र आसीत्। तद् देवा अभिजित्याब्रुवन् वीदं भजामहा इति। तस्य विभागे न
समपादयन्। ते ऽब्रुवन्न् आजिम् अस्यायामेति। त आजिम् आयन्। अग्नेः प्रथमो रथ आसीद्
अथोषसो ऽथाश्विनोः। ताव् अश्विनाव् अश्वी अश्व्याम् अत्यकुरुताम्। तौ द्रवन्ताव्
अग्निः पर्युदतिष्ठत्। ताव् अब्रूताम् अति नौ सृजस्वेति। नेत्य् अब्रवीद् अनु नु मा
भजतम् इति। तृतीयं त इत्य् अब्रूताम् आवाभ्यां त्व् एवाख्यायताद् इति। तथेति ताव्
अत्यार्जत। तौ द्रवन्ताव् उषाः पर्युदतिष्ठत्। ताव् अब्रूताम् अति नौ सृजस्वेति।
नेत्य् अब्रवीद् अनु नु मा भजतम् इति। तृतीयं त इत्य् अब्रूताम् आवाभ्यां त्व्
एवाख्यायताद् इति। तथेति ताव् अत्यार्जत। ताव् उदजयेताम्। स य एवम् एताम् अश्विनोर्
उज्जितिं वेद यत्र कामयत उद् इह जयेयम् इत्य् उत् तत्र जयति। य उ एवैताम् अग्नेश्
चोषसश् चान्वाभक्तिं वेद यत्र कामयते ऽन्वाभक्त इह स्याम् इत्य् अन्वाभक्तस् तत्र
भवति। तस्मान् नानादेवत्यास् संस्तुवन्ति। अथाश्विनम् इत्य् एवाख्यायते। वारेवृतं
हि तत् तयोः॥1.210॥

अहोरात्रयोर्
वै देवासुरा अधिसंयत्ता आसन्। ते देवा अहर् अभ्यजयन्। अथासुरा ऋचं च रात्रिं च
प्राविशन्। ते देवा अब्रुवन्न् अर्धिनो वा अस्य भुवनस्याभूम कथं सत्रा रात्रिम्
अभिजयेम रत्नैर् अन्वभ्यवायमिति। तव छन्दसेत्य् अग्निम् अब्रुवन्। तव
स्तोमेनेतीन्द्रम्। तव संपदेति प्रजापतिम्। युष्माकम् आयतननेति विश्वान् देवान्।
यद् अग्निम् अब्रुवंस् तव छन्दसेति तस्माद् गायत्रीषु स्तुवन्ति। यद् इन्द्रम्
अब्रुवंस् तव स्तोमेनेति तस्मात् पञ्चदशस्तोमो रात्रेः। यत् प्रजापतिम् अब्रुवंस्
तव संपदेति तस्माद् अनुष्टुभं संपद्यते। यद् विश्वान् देवान् अब्रुवन् युष्माकम्
आयतनेनेति तस्माज् जगत्यो ऽनुशंस्यन्ते। तान् संधिनाभिपलायन्त। आश्विनेनासंहेयम्
अगमयन्। असंहेयं ह वै द्विषन्तं भ्रातृव्यं गमयति य एवं वेद॥1.211॥

अहोरात्राभ्यां वै देवा असुरान् निर्हृत्य तांस् त्रिवृतैव वज्रेणाभिन्यदधुः। इमे
वै लोकास् त्रिवृतः। एभिर् एवैनांस् तल् लोकैर् अभिन्यदधुः। तस्माद् आहुर् नैव
तावद् असुरा अन्वाभवितारो यावद् इमे लोका भवितार इति। एभिर् हि लोकैर् अभिनिहिताः॥

एषा वा
अग्निष्टोमस्य च संवत्सरस्य संमा यद् रात्रिः। चतुर्विंशत्यर्धमासस् संवत्सरश्
चतुर्विंशति रात्र्या उक्थामदानि। त्रीणि सवनानि त्रयः पर्यायाः। रात्रिम् एव तत्
त्रिषवणां कुर्वन्ति। अथो एनां तद् अह्न इव समुत्कल्पयन्ति। अहोरात्रे देवा
अभिजित्य ते ऽमुम् आदित्यं सवनैर् एव प्रत्यञ्चम् अनयन्। तं पर्यायैः पुनः
प्राञ्चम्। तम् आश्विनेन पुरस्ताद् उदस्तभ्नुवन्। तस्माद् आहुर् नोदिते सूर्य
आश्विनम् अनुशस्यम् इति। वि हैनं गमयति। स य एतद् एवं वेद नीतो ऽस्य सवनैर् असाव्
आदित्यः प्रत्यङ् भवत्य् आनीतः पुनः पर्यायैः प्राङ् उत्तब्धः पुरस्ताद् आश्विनेन।
उभे ऽस्याहोरात्रे स्पृते अवरुद्धे भवतो भोगायास्मा आदित्या केतूंश् चरति॥1.212॥

अथैष
राथन्तरस् संधिर् भवति। प्रजापतिर् उषसं स्वां दुहितरं बृहस्पतये प्रायच्छत्। तस्या
एतत् सहस्रम् आश्विनं वहतुम् अन्वाकरोत्। स देवान् अब्रवीद् इयम् एव मम युष्माकम्
एतद् इतरद् इति। तस्माद् यदानृशंसो जायां विन्दते व्य् एव वहतुम् आदिशति। ते देवा
अब्रुवन् वीदं भजामहा इति। तस्य विभागे न समपादयन्। ते ऽब्रुवन्न् आजिम्
अस्यायामेति। त आजिम् आयन्। अग्नेः प्रथमो रथ आसीद् अथोषसो ऽथाश्विनोः। ताव्
अश्विनाव् अश्वी अश्वीयाम् अत्यकुरुताम्। तौ देवा अब्रुवन् वारो ऽयं वाम् अथ नस्
सहास्त्व् इति। तस्मान् नानादेवत्यास् स्तुवन्ति। अथाश्विनम् इत्य् आख्यायते।
अग्नये प्रथमाय स्तुवन्त्य् अथोषसे ऽथाश्विभ्याम्। एवं ह्य् एषाम् एता उज्जितयः॥

एकं साम द्वे
छन्दसी। द्विपदम् एव तच् चतुष्पात्सु पशुष्व् अध्यूहति। तस्माद् द्विपाच् चतुष्पदः
पशून् अधितिष्ठति॥

अनुदिते
सूर्ये परिदध्याद् यं कामयेत पापीयान्स्याद् इति पापीयान् एव भवति। व्युषिते
परिदध्याद् यं कामयेत नार्वाङ् न परस् स्याद् इति। नैवार्वाङ् न परो भवति। बहुवर्षी
ह तु पर्जन्यो भवति। उदिते परिदध्याद् यं कामयेत श्रेयान् स्याद् रुचम्
अश्नुवीतेति। श्रेयान् एव भवति रुचम् अश्नुते॥1.213॥

पान्तम् आ वो
अन्धसः इत्य् अन्धस्वतीर् भवन्ति। अहर् वा अन्धो रात्रिः पान्तम्। अहोरात्रयोर् एव
संतत्या अहोरात्रयोस् समारम्भाय॥

तास्व्
ओकोनिधनं वैतहव्यम्। ओकोनिधनेन वै वैतहव्येन देवा असुरान् ओकसओकसो ऽनुदन्त। ओकसओकस
एव द्विषन्तं भ्रातृव्यं नुदते य एवं वेद। प्राणा ह खलु वा ओकः। प्राणान् एवैतद्
द्विषतो भ्रातृव्यस्य वृंक्ते प्राणान् आत्मन् धत्ते॥

तद् आहुः
प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते ये ऽतिरात्रम् उपयन्तीति। तद् यद् ओकोनिधनं
भवति -- अयं वौ लोकः पुरुषस्यौकः -- अस्मिन्न् एवैतल् लोके प्रतितिष्ठति॥

वीतहव्य
आश्रायसो ज्योग् अपरुद्धश् चरन्। सो ऽकामयताव स्व ओकसि गच्छेयम् इति। स एतत्
सामापश्यत्। तेनास्तुत। स ओकाय इत्य् एव निधनम् उपैत्। ततो वै सो ऽव स्व ओकस्य्
अगच्छत्। एतत् कामसनि साम। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत।
यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। यद् उ श्रीर् एव राज्यं वै स
तद् अगच्छत्। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। यद् उ वीतहव्य आश्रायसो
ऽपश्यत् तस्माद् ओकोनिधनं वैतहव्यम् इत्य् आख्यायते॥1.214॥

प्र व
इन्द्राय मादनम् इति मद्वतीर् भवन्ति। रसो वै मदः। धीतेवैषा यद् रात्रिः पीडितेव।
नाभिषुण्वन्ति। यद् एवादस् तृतीयसवनाद् ऋजीषम् अतिरेचयन्ति तेनास्यां चरन्ति। तद्
यद् एता मद्वतीर् भवन्ति रसम् एवास्याम् एतद् दधत्य् एव। एनाम् एतेनाप्याययन्ति॥

तासु
शाक्त्यम्। शाक्त्येन वै शाक्त्याः पशू्न् अवारुन्धत। तच् छाक्त्यस्य शाक्त्यत्वम्।
तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। शाक्त्या
अन्नाद्यकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते ऽन्नाद्यम्
अरुन्धत। तस्य वा एतस्यास्ति यथैव गौरीवितस्यैवम्। अन्नं वै गौरीवितम्। अन्नम् उ वै
श्वस्तनम्। अन्नम् उ ह वा इदं सर्वम् अतिरिरिचे। अतिरिक्तेवैषा यद् रात्रिः।
अतिरिक्तं रात्र्याम् अन्नाद्यं दधति। तत् स्वारं भवति। प्राणो वै स्वरः। अन्नम् उ
वै प्राणाः। तद् एतद् अभिपूर्वस्यैवान्नाद्यस्यावरुद्धिस् साम। अवान्नाद्यं
रुन्द्धे ऽन्नादश् श्रेष्ठस् स्वानां भवति य एवं वेद। यद् उ शाक्त्या अपश्यंस्
तस्माच् छाक्त्यम् इत्य् आख्यायते॥1.215॥

वयम् उ त्वा
त्वदिदर्थाः इति काण्वम्। कण्वो वै नार्षदो ज्योग् अप्रतिष्ठितश् चरन् सो ऽकामयत
प्रतितिष्ठेयम् इति। स एतत् सामापश्यत्। तेनास्तुत। स रन्ताया इत्य् एव निधनम्
उपैत्। अरत इव वा एष भवति यो न प्रतितिष्ठति। लेलेव वै रात्री रतिर् वा एषा। ततस् स
प्रत्यतिष्ठत्। तद् एतत् प्रतिष्ठा साम। प्रतितिष्ठति य एवं वेद। यद् उ कण्वो
नार्षदो ऽपश्यत् तस्मात् काण्वम् इत्य् आख्यायते॥

इन्द्राय
मद्वने सुतम् इति मद्वतीर् भवन्ति। रसो वै मदः। धीतेवैषा यद् रात्रिः पीडितेव।
नाभिषुण्वन्ति। यद् एवादस् तृतीयसवनाद् ऋजीषम् अतिरेचयन्ति तेनास्यां चरन्ति। तद्
यद् एता मद्वतीर् भवन्ति रसम् एवास्याम् एतद् दधत्य् एव। एताम्
एतेनाप्याययन्ति॥1.216॥

तासु
श्रौतकक्षम्। श्रुतकक्षः काक्षीवतः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्।
तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत्
पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद॥

पुनर्नितुन्नछन्दो भवति। यत्रयत्र वै देवाश् छन्दसां रसम् अन्वविन्दंस् तत्
पुनर्नितुन्नम् अकुर्वन्। तत् पुनर् अभ्याघ्नन्। धीतवैषा यद् रात्रिः। तद् यत्
पुनर्नितुन्नछन्दो भवति रसम् एवास्याम् एतद् दधति। रसस्यैवैषानुवृत्ति। यद् उ
श्रुतकक्षः काक्षीवतो ऽपश्यत् तस्माच् छ्रौतकक्षम् इत्य् आख्यायते॥

तदैळम्
अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठति॥1.217॥

अयं त इन्द्र
सोमः इति। पुनःप्रोक्तिर् ह वा एषा हविषो यन् नुते। परो यज्ञ इति ह वा एतद्
इन्द्राय प्राहुः। द्वितीयं ह्य् एतद् धविः क्रियते यद् रात्रिः॥

तास्व्
और्ध्वसद्मनम्। और्द्वसद्मनेन वै देवा एषु लोकेषूर्ध्वा असीदन्। यद् एषु
लोकेषूर्ध्वा असीदंस् तद् और्ध्वसद्मनस्यौर्ध्वसद्मनत्वम्। तद् एतत् स्वर्ग्यं साम।
ऊर्ध्व एवैतेन स्वर्गे लोके सीदति य एवं वेद। और्ध्वसद्मनेन वै देवा असुराणां
सुवृक्तिभिः इति पशून् अवृञ्जत नृमादनम् इति वज्रं प्राहरन् भरेष्व् आ इति स्वर्गं
लोकम् आरोहन्। और्ध्वसद्मनेनैव द्विषतो भ्रातृव्यस्य सुवृक्तिभिः इत्य् एव पशून्
वृंक्ते नृमादनम् इति वज्रं प्रहरति भरेष्व् आ इति स्वर्गं लोकम् आरोहति॥

तान्य् आहुर्
नानोपेत्यानि। नानेव वा इमे लोका। एषां लोकानां विधृत्या इति। सुवृक्तिभिः इति वा
अयं लोकः नृमादनम् इत्य् अन्तरिक्षं भरेष्व् आ इत्य् असौ। तस्मान् नानोपेत्यान्य्
एषां लोकानां विधृ्त्यै॥1.218॥

तद् उ होवाच
जानश्रुतेयो वीर्यं वा एतत् साम्नो यन् निधनम्। तद् विक्षुभ्णुयुस् तद्
वियुञ्ज्युर् यन् नानोपेयुः। सार्धम् एवोपेत्यानि साम्नस् सवीर्यत्वायेति। तानि
चतुरक्षराणि भवन्ति। याश् चतस्रो दिशो ऽस्मिन् लोके तासु सर्वासु प्रतितिष्ठाम याश्
चतस्रो दिशो ऽन्तरिक्षे लोके तासु सर्वासु प्रतितिष्ठाम याश् चतस्रो दिशो ऽमुष्मिन्
लोके तासु सर्वासु प्रतितिष्ठामेति॥

और्ध्वसद्मनेन
ह खलु वै रात्रिः पृष्ठिनीदं वै रथन्तरम् अन्तरिक्षं वामदेव्यम् अद एव बृहत्। य उ ह
वा एषां लोकानां श्रेष्ठास् ते पृष्ठानि। तेषाम् एको भवति य एवं वेद। प्रजापतिर् ह
खलु वा ऊर्ध्वसद्म। अश्नुत प्रजापतितां य एवं वेद॥1.219॥

आ तू न इन्द्र
क्षुमन्तम् इति वैणवम्। वेणुर् वै वैश्वामित्रो ऽकामयताग्र्यो मुख्यो ब्रहमवर्चसी
स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽग्र्यो मुख्यो
ब्रह्मवर्चस्य् अभवत्। अग्र्यो मुख्यो ब्रह्मवर्चसी भवति य एवं वेद। यद् वेणुर्
वैश्वामित्रो ऽपश्यत् तस्माद् वैणवम् इत्य् आख्यायते॥

तद् व्
एवाचक्षत आपालम् इति। अपाला ह वा आत्रेयी तिलका वा रुछ्वसाप्यास। सा कामयताप पापं
वर्णं हनीयेति। सैतत् सामापश्यत् तेनास्तुत। सा तीर्थम् अभ्यवयती सोमांशुम्
अविदन्त्। तं समखादत्। तस्यै ह ग्रावाण इव दन्ता ऊदुः। स इन्द्र आद्रवद् ग्रावाणो
वै वदन्तीति। साभिव्याहरत् कन्या वार् अवायती सोमम् अपि स्रुताविदत्। अस्तं
भरन्त्य् अब्रवीत् इन्द्राय सुनवै त्वा शक्राय सुनवै त्वा इति। अस्यै वा इदं
ग्रावाण इव दन्ता वदन्तीति विदित्वेन्द्रः पराङ् आवर्तत। तम् अब्रवीत्

असौ य एषि वीरको
गृहंगृहं विचाकशत्।

इमं जम्भसुतं पिब
धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम्॥

इति।
अनाद्रियमाणैवैतम् अब्रवीत्।

आ चन त्वा
चिकित्सामो ऽधि चन त्वा नेमसि।

इति पुरा मा
सर्वयर्चापाला स्तौतीत्य् अपपर्यावर्तत।

शनैर् इव
शनकैर् इवेन्द्रायेन्दो परि स्रव।

इत्य् एवास्यै
मुखात् सोमं निरधयत्। सोमपीथ इव ह वा अस्य स भवति य एवं विद्वांस् स्त्रियै मुखम्
उपजिघ्रति(उपाजघ्रति?)॥1.220॥

ताम् अब्रवीद्
अपाले किंकामासीति। साब्रवीत्

इमानि त्रीणि
विष्टपा तानीन्द्र विरोहय।

शिरस्
ततस्योर्वराम् आद् इदं म उपोदरे॥

सर्वा ता
रोमशा कृधि॥

इति। खलतिर् हास्यै
पितास। तं हाखलतिं चकार। उर्वरा हास्य न जज्ञे। सो ह जज्ञे। उपस्थे हास्यै रोमाणि
नासुः। तान्य् उ ह जज्ञिरे। तां खे रथस्यात्यबृहत्। सा गोधाभवत्। तां खे ऽनसो
ऽत्यबृहत्। सा कृकलास्य् अभवत्। तां खे युगस्यात्यबृहत्। सा संश्लिष्ठिकाभवत्। तद्
एषाभ्यनूच्यते

खे रथस्य खे
ऽनसः खे युगस्य शतक्रतो।

अपालाम्
इन्द्र त्रिष् पूत्व्य् अकृणोस् सूर्यत्वचम्॥

इति। तस्यै ह यत्
कल्याणतमं रूपाणां तद् रूपम् आस। तद् एतत् कामसनि साम। एतं वै सा कामम् अकामयत। सो
ऽस्यै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। यद्
व् अपालात्रेय्य् अपश्यत् तस्माद् आपालम् इत्य् आख्यायते॥1.221॥

अभि त्वा
वृषभा सुते इत्य् आर्षभम्। इन्द्रो वा अकामयतर्षभस् सर्वासां प्रजानां स्याम्
ऋषभतां गच्छेयम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स ऋषभस् सर्वासां
प्रजानाम् अभवद् ऋषभताम् अगच्छत्। तद् एवार्षभस्यार्षभत्वम्। ऋषभ एव स्वानां भवत्य्
ऋषभतां गच्छति य एवं वेद॥

तद् व्
एवाचक्षते दैवोदासम् इति। दिवोदासो वै वाध्र्यश्विर् अकामयतोभयं ब्रह्म च क्षत्रं
चावरुन्धीय राजा सन्न् ऋषिस् स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स
उभयं ब्रह्म च क्षत्रं चावारुन्ध राजा सन्न् ऋषिर् अभवत्। उभयम् एव ब्रह्म च
क्षत्रं चावरुन्द्धे राजा सन्न् ऋषिर् भवति य एवं वेद। यद् उ दिवोदासो
वाध्र्यश्विर् अपश्यत् तस्माद् दैवोदासम् इत्य् आख्यायते॥1.222॥

इदं वसो सुतम्
अन्धः इति गारम्। देवेभ्यो वा असुरा गरान् प्राकिरन्। तान् अविद्वांसो ऽगिरन्न्
अन्नम् एव मन्यमानाः। ते गरगिरो ऽमन्यन्त। ते ऽकामयन्तापेमान् गरान् गीर्णान्
हनीमहीति। त एतत् सामापश्यन्। तेनास्तुवत। तेनेमान् गरान् गीर्णान् अपाघ्नत। त
एवेमे गिरयो ऽभवन्। तद् यद् गरान् गीर्णान् अपाघ्नत तद् एव गारस्य गारत्वम्। स यो
गरगीर् मन्येताप्रतिगृह्यस्य प्रतिगृह्य,
अनाश्यान्नस्यान्नम् अशित्वा स एतेन स्तुवीत। अप हैव तं गरं गीर्णं(गार्णं?) हते।
यद् अनेन किं च पापं कृतं भवति तद् अपहते॥

तद् ऐळम्
अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठति॥1.223॥

इदं ह्य्
अन्व् ओजसा इति घृतश्चुन्निधनम्। घृतश्चुता च वै मधुश्चुता च देवा यत्रयत्रैषां
यज्ञस्योपादस्यत तद् आप्याययन्त। तस्माद् आहुस् सोमस्यैवांशुर् आप्यायस्वेति।
उपदस्तेवैषा यद् रात्रिः। तद् यद् घृतश्चुन्निधनं भवत्य् ऐवैतम् एतेन प्याययन्ति॥

घृतश्चुच् च
वै मधुश्चुच् आङ्गिरसां स्वर्गं लोकं यताम् अहीयेताम्। ताव् अकामयेताम् अनूत्पतेव
स्वर्गं लोकम् इति। तौ तपो ऽतप्येताम्। ताव् एते सामनी अपश्यताम्। ताभ्याम्
अस्तुवाताम्। तौ स्तुत्वैव घृतश्चुते मधुश्चुत इत्य् एव स्वर्गं लोकम् अनूदपतताम्।
अन्तो वै पयसां घृतम् अन्तस् स्वर्गो लोकानाम्। अन्तो वै रसानां मध्व् अन्तस्
स्वर्गो लोकानाम्। अन्त्याभ्यां वाव तौ तत् सामभ्याम् अन्त्यं स्वर्गं लोकम्
आश्नुवाताम्। अन्त्याभ्याम् एवैतत् सामभ्याम् अन्त्यं स्वर्गं लोकम् अश्नुते य एवं
वेद॥

पशवो ह खलु वै
घृतश्चुतः पशवो मधुश्चुतः। पशून् वाव तौ तद् एताभ्याम् अवारुन्धाताम्। तैर् उ
पशुभिर् इष्ट्वा स्वर्गम् एव लोकम् अगच्छताम्। ते एते पशव्ये स्वर्ग्ये सामनी। अव
पशून् रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद॥1.224॥

यज्ञस्तनौ वा
एते सामनी। एताभ्यां वा इन्द्रो यज्ञं सर्वान् कामान् अदुग्ध। दुहे ह वै यज्ञं
सर्वान् कामान् य एवं वेद। यजुर्निधनं वा एतयोर् अन्यतरत् सामनिधनम् अन्यतरत्। तद्
यद् घृतश्चुन्निधनं तद् यजुर्निधनम् अथ यन् मधुश्चुन्निधनं तत् सामनिधनम्। या
यजुषश् च साम्नश् चर्धिर् ऋध्नोति ताम् ऋद्धिम् आप्नोति तान् कामान् य एवं वेद॥

तद् आहुर् यद्
आज्येन दिवा चरन्त्य् अथ केनैषां रात्रिर् आज्यवती भवतीति। घृतश्चुन्निधनेनेति
ब्रूयात्। एतेन ह वै रात्रिर् आज्यवती भवति। यद् उ घृतश्चुच् च मधुश्चुच्
चाङ्गिरसाव् अपश्यतां तस्माद् एवम् आख्यायते॥1.225॥

अथ मैधातिथम्।
काण्वायनास् सत्त्राद् उत्थायायन्त आयुञ्जानाः। ते होद्गीथा इति
किमुद्वत्यैतद्धनाम् उर्वारुबहुप्रवृत्तं शयानम् उपेयुः। ते ऽकामयन्तेमान् एव पशून्
भूतान् उत्सृजेमहीति। स एतन् मेधातिथिः काण्वः सामापश्यत्। तेनोपन्यषीदन्

आ त्व् एता
निषीदतेन्द्रम् अभि प्र गायत

सखायस्
स्तोमवाहसः॥

पुरूतमं पुरूणाम्
ईशानं वार्याणाम्।

इन्द्रं सोमे सचा
सुते॥

स घा नो योग आ
भुवत् स राये स पुरन्ध्याम्॥

इति। पशवो वै रयिः।
ततो वै ते तान् पशून् भूतान् उदसृजन्त। हिंकारेण हैवैनान् उत्ससृजिरे। ते हैते ऽत्र
पश्चाद् उर्वारुपृश्नय इति पशवः। तद् एतत् पशूनाम उत्सृष्टिस् साम। अव पशून्
रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ मेधातिथिः काण्वो ऽपश्यत् तस्मान्
मैधातिथम् इत्य् आख्यायते॥1.226॥

अथ सौमेधम्।
देवा वा असुरान् हत्वापूता इवामेध्या अमन्यन्त। तै ऽकामयन्त पूता मेध्यास्
स्यामेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै पूता मेध्या अभवन्। ते ऽब्रुवन्
सुमेध्या वा अभूमेति। तद् एव सौमेधस्य सौमेधत्वम्। पूतो मेध्यो भवति य एवं वेद॥

तद् व्
एवाचक्षते पौर्वतिथम् इति। पूर्वतिथिर् वा आर्चनानसश् श्यावाश्वात् कनीयान्। सो
ऽकामयताव पशून् रुन्धीय भूमानं पशूनां गच्छेयम् इति। स एतत् सामापश्यत् तेनास्तुत।

आ घा गमद् यदि
श्रवत् सहस्रिणीभिर् ऊतिभिः।

इति। सहस्रम् एव
पशून् अवारुन्द्ध भूमानं पशूनाम् अगच्छत्। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे
भूमानं पशूनां गच्छति य एवं वेद। यद् उ पूर्वतिथिर् आर्चनानसो ऽपश्यत् तस्मात्
पौर्वतिथम् इत्य् आख्यायते॥

इन्द्र सुतेषु
सोमेषु इत्य् उष्णिहो भवन्ति। देवपुरा वा एषा यद् उष्णिहः। ता यद् अन्ततः क्रियन्ते
देवपुराम् एवैतद् अन्ततः परिहरन्ति पशूनां गुप्त्या असुराणाम् अनभ्यवचाराय॥1.227॥

तासु कौत्सम्।
कुत्सश् च लुशश् चेन्द्रं व्यह्वयेताम्। स कुत्सस्य हवम् आगच्छत्। तं शतेन
वार्ध्रीभिर् आण्डयोर् अबध्नात्। तं लुशो ऽभ्यवदत्

स्ववृजं हि
त्वाम् अहम् इन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम्।

प्र मुञ्चस्व
परि कुत्साद् इहागहि किम् उ त्वावान् मुष्कयोर् बद्ध आसते॥

इति तास् सर्वास्
संलुप्य लुशम् अभि प्राद्रवत्। तं कुत्सः इन्द्र सुतेषु सोमेषु इत्य् अन्वाह्वयत्।
तम् अभ्यावर्तत। तं लुशः इन्द्रा होयी हावे होयी इति। ताव् अन्तरातिष्ठत्। ताव्
अब्रवीद् अंशम् आहरेताम् आत्मना वाम् अन्यतरस्य पास्यामि महिम्नान्यतरस्येति।
तथेति। ताव् अंशम् आहरेताम् आत्मानम् अन्यतर उदजयन् महिमानम् अन्यतरः। आत्मानं
कुत्स उदजयन् महिमानं लुशः। आत्मनान्यतरस्यापिबन् महिम्नान्यतरस्य। आत्मना
कुत्सस्यापिबन् महिम्ना लुशस्य। उभा उ ह त्वाव तस्य ताव् आत्मानौ यद् आत्मा च महिमा
च। तद् एतत् सेन्द्रं साम। सेन्द्रो हास्य सदेवो यज्ञो भवत्य् अभ्य् अस्येन्द्रो
यज्ञम् आवर्तते नास्येन्द्रो यज्ञाद् अपाक्रामति य एवं वेद। यद् उ कुत्सो अपश्यत्
तस्मात् कौत्सम् इत्य् आख्यायते॥

तद् एळम्
अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठति॥1.228॥

तद् आहू
रथन्तरम् एव प्रथमे तृचे स्याद् वामदेव्यं द्वितीये बृहत् तृतीय एषां लोकानां
समारोहायेति। इमे वै लोका एतानि सामानि। अयम् एव लोको रथन्तरम् अन्तरिक्षं
वामदेव्यम् असाव् एव बृहत्। तस्माद् एवम् एव कार्यम् एषां लोकानां समारोहायेति।
प्राणव्यानोदाना ह खलु वा एतानि सामानि। प्राण एव रथन्तरं व्यानो वामदेव्यम् उदानो
बृहत्। तस्माद् एवम् एव कार्यं प्राणव्यानोदानानां संतत्या अव्यवच्छेदायेति॥

अथ यः कामयेत
प्रजा मे श्रेयसी स्याद् इति रथन्तरम् एव प्रथमे तृचे कुर्याद् वामदेव्यम्
उत्तरयोः। प्रजापतिर् वै वामदेव्यम्। प्रजापतिम् एव तत् स्वरम् अन्तत उपयन्ति
प्रजननाय॥

बृहता
श्रीकामस् स्वर्गकामस् स्तुवीत। श्रीर् वै स्वर्गो लोकः। बृहद् अश्नुते श्रियं
गच्छति स्वर्गं लोकं य एवं वेद। अथो ह भ्रातृव्यलोकम् एव नावजहाति। भ्रातृव्यभाजनम्
इव ह्य् एषा यद् रात्रिः॥

रथन्तरेण
प्रतिष्ठाकामस् स्तुवीत। प्रतिष्ठा वै रथन्तरम्। प्रत्य् एव तिष्ठति॥

गायत्रीषु
संधिना ब्रह्मवर्चसकामस् स्तुवीत। ब्रह्म वै गायत्री। ब्रह्मवर्चस्य् एव भवति॥

ककुप्सु
पुरुषकामः। पुरुषो वै ककुप्। पुरुषवान् एव भवति॥

उष्णिक्षु
पशुकामः। पशवो वा उष्णिक्। पशुमान् एव भवति॥

विराट्स्व्
अन्नाद्यकामः। अन्नं वै विराट्। अन्नाद एव भवति॥

अनुष्टुप्सु
प्रतिष्ठाकामः। प्रतिष्ठा वा अनुष्टुप्। प्रत्य् एव तिष्ठति॥

पंक्तिषु
यज्ञकामः। यः कामयेत पुनर् मा यज्ञ उपनमेद् इति। यज्ञो वै पंक्तिः पुनर् एवैनं यज्ञ
उपनमति॥

त्रिष्टुप्स्व् ओजस्कामः वीर्यकामः।ओजो वै वीर्यं त्रिष्टुप्। ओजस्व्य् एव
वीर्यवान् भवति॥

जगतीषु
पशुकामः।पशवो वै जगती। पशुमान् एव भवति॥

तद् आहुर्
एकस्मिन् वावैतस्य छन्दस्य् एकस्मिन् कामे स्तुतं भवति य एवं स्तुते। अथैतस्य
सर्वेषु छन्दस्सु सर्वेषु कामेषु स्तुतं भवति यो बृहतीषु स्तुते। बृहती ह्य्
एवैतानि सर्वाणि छन्दांस्य् अभिसंपद्यन्त इति। गायत्री च जगती च ते द्वे बृहत्यौ।
उष्णिक् च त्रिष्टुप् च ते द्वे बृहत्यौ। अनुष्टुप् च पंक्तिश् च ते द्वे बृहत्यौ।
बृहत्य् एव बृहती। तस्माद् बृहतीष्व् एव स्तोतव्यम् एतेषां सर्वेषां छन्दसां
सर्वेषां कामानाम् अवाप्त्यै॥1.229॥

तद् आहुर् यत्
त्रिवृद् एव स्तोमानां लघिष्ठो रथन्तरं साम्नाम्। आश्विनम् उ वै शस्त्राणां
गरिष्ठम्। अथ कस्मात् त्रिवृद् एव स्तोमानां रथन्तरं साम्नाम् आश्विनस्य शस्त्रं
प्रत्युद्यन्तुम् अर्हत इति। स ब्रूयात् प्राणो वै त्रिवृतः प्राणेष्व् इदं सर्वं
प्रतिष्ठितं प्राणा इदं सर्वं प्रत्युद्यच्छन्ति प्राणा इदं सर्वं प्रतिप्रति। इमे
वै लोकास् त्रिवृतः। एष्व् इदं लोकेषु सर्वं प्रतिष्ठितम्। इम इदं लोकास् सर्वं
प्रत्युद्यच्छन्ति। इम इदं लोकास् सर्वं प्रतिप्रति। वाग् वै रथन्तरम्। वाचीदं
सर्वं प्रतिष्ठितम्। वाग् इदं सर्वं प्रत्युद्यच्छति। वाग् इदं सर्वं प्रतिप्रति।
इयं वै रथन्तरम्। अस्याम् इदं सर्वं प्रतिष्ठितम्। इयम् इदं सर्वं प्रत्युद्यच्छति।
इयम् इदं सर्वं प्रतिप्रति। तस्मात् त्रिवृद् एव स्तोमानां रथन्तरं साम्नाम्
आश्विनस्य शस्त्रं प्रत्युद्यन्तुम् अर्हत इति॥1.230॥

तद् आहुर् यत्
पवमानवन्तो ऽन्ये यज्ञक्रतवो ऽथ केनैषां रात्रिः पवमानवती भवतीति। रथन्तरेण
संधिनेति ब्रूयात्। एतेन ह वै रात्रिः पवमानवती भवति। तेन सकृद् धिंकृतेन पराचा
स्तुवते। सकृद् ध्य् एव परस्तात् त्रिवृते हिंकुर्वन्ति यत् प्रायणं तद् उदयनम्
असद् इति॥

रेतस्सिक्तिर्
ह त्वै पूर्वस् त्रिवृत् प्रजापतिर् उत्तरः। आत्मा वै प्रजा पशव एतानि तृचानि।
प्रजापतिर् वै रथन्तरम्। यथा रेत एव सिक्तं स्यान् न प्रजायेत तादृक् तद् यत् सकृद्
धिंकृतैस् स्तुवीरन्। तद् यत् तृचायतृचाय हिंकुर्वन्ति प्रजात्या एव। बहुर् भवति
प्रजायते य एवं वेद॥

अथो हैषाम् एक
एव पर्याय आयतनवान् स्यात्। आयतनौ द्वौ स्यातां यत् सकृद् धिंकृतैस् स्तुवीरन्। तद्
यत् तृचायतृचाय हिंकुर्वन्ति तेनैवैषां सर्वरात्रिर् आयतनवती पवमानवती भवति। यथा वा
अहस् तथा रात्रिर् यथा रात्रिस् तथाहः। पूर्वाह्णो मध्यंदिनो ऽपराह्णः पूर्वरात्रो
मध्यरात्रो ऽपररात्रः। तद् यत् तृचायतृचाय हिंकुर्वन्त्य् अहोरात्रयोर् एव
विधृत्यै॥1.231॥

तद् आहुर् यद्
एकविंशम् अनु सर्वे यज्ञक्रतवस् संतिष्ठन्ते ऽत्य् उ वा एकविंशान्य् उक्थानि
रात्रिर् एत्य् अथ केनैषाम् एकविंशम् अनु रात्रिस् संतिष्ठत इति। स ब्रूयाद् यद्
एवैत एकविंशतिश् च त्रिवृतो भवन्ति नव चैकविंशा इति॥

अथ ह स्माह
भाल्लवेयः क उ स्विद् अन्योभयतो ज्योतिषा यज्ञक्रतुना यक्ष्यत इति। एष ह वा
उभयतोज्योतिर् यज्ञक्रतुर् यद् अतिरात्रस् त्रिवृत् पुरस्ताद् बहिष्पवमानं भवति।
त्रिवृद् उपरिष्टाद् राथन्तरस् संधिः। अग्निर् वै पूर्वस् त्रिवृद् आदित्य उत्तरः।
अग्निना वा अयं लोको ज्योतिष्मान् आदित्येनासौ। उभयतो ज्योतिषास्य यज्ञक्रतुनेष्टं
भवति ज्योतिष्मान् अस्मिंश च लोके ऽमुष्मिंश् च भवति य एवं वेद॥

तौ वा एतौ
ब्रह्म चैव क्षत्रं च। ब्रह्म वै त्रिवृत् क्षत्रं पञ्चदशः। तद् एतद् ब्रह्म च
क्षत्रं च संधाय रात्रिं वहतः। तद् एतद् ब्रह्म च क्षत्रं च संधायान्ततः पाप्मानम्
अपहतस् तद् यद् एतौ स्तोमाव् अन्ततः क्रियेते। पाप्मानं हते य एवंवेद। तौ यद्
गायत्रीं संपद्येते - तेजो वै ब्रह्मवर्चसं गायत्री -- तेजस्य् एव तद् ब्रह्मवर्चसे
प्रतितिष्ठति। अथो यजमानम् एव तद् आयुषि प्रतिष्ठापयति सर्वायुष्ट्वाय। प्राणौ हि
गायत्री। सर्वम् आयुर् एति य एवं वेद॥1.232॥

विराट्संपदैव
यज्ञेन यजेतेत्य आहुः। अन्नं वै विराट्। अन्नं ह वै देवानां सोमो राजा। अन्नम् एव
तत् कृत्वा देवेभ्यस् सोमं राजानं प्रयच्छति। न ह वा एषो ऽनभिषुतो देवानाम् अन्नम्।
तम् एतद् अभिषुत्यान्नं कृत्वा देवेभ्यः प्रयच्छति। यद् ध वा इह देवेभ्यः करोति तद्
अस्मै देवाः कुर्वन्ति। त एनं समृद्धाः प्रजया पशुभिर् अन्नाद्येन समृद्धयन्ति॥

विराण्
नातियष्टव्येत्य् आहुः। यो ह वै विराजम् अतियजते पुनर् ह सो ऽमुष्मिन् लोके यजमान
आस्ते। स रूक्षः पुरुषो विराजं संपिपादयिष्न्न् ईप्सन्न् अनाप्नुवन्न् आस्ते। क्व
हि तद् आप्स्यति यद् इतो नाप्त्वा प्रैति॥

पुरुषान् इव
हासीनान् असितो दैवल उवाच क एत आसत इति। ये विराजम् अत्ययजामहीति होचुः। तान्
हाभ्युवाद

स रथाद्
अवपद्यते-- ॥1.233॥

-- पुरश्
चक्रं पथ्यो बिले।

तं चक्रम्
अभिवर्तते यो ऽसंपन्नेन यजते॥

पाको यज्ञेन
देवयुर् यद् ददाति तद् एवास्य न लोकम् अभिगच्छति॥

इति। पाकास् सन्तो
ऽविजानन्तो ऽदेवायत इति हैनांस् तद् उवाच ये विराजम् अत्ययजध्वम् इति॥

तद् आहुः कुतो
यज्ञम् अतथाः क्वैनं प्रत्यतिष्ठिप इति। यत एवैनम् अतसीति ब्रूयात् तद् एवैनं
प्रत्यतिष्ठिपम् इति। पुरुषाद् ध वै यज्ञस् तायते पुरुषे प्रतितिष्ठति॥

अथ ह
हृत्स्वाशया आल्लकेयो महावृषो राजा पुत्रं दीक्षयांचकार। तस्य ह सोमशुष्मस्
सात्ययज्ञिर् उद्गीथायोढ आस। तम् उ ह महावृषाणां दूता आसस्रुर् आगच्छ समितिर् वा
इयम् इति। तद् ध प्रधावयन्न् उवाचोद्गातर् एतं ते पुत्रं परिददानीति। स हेष्ट्वा
पुनर् आजगाम। स होवाचोद्गातः क्व यज्ञं प्रत्यतिष्ठिपः क्व यजमानं क्वास्य पशून्
इति। तद् ध न प्रत्युवाच। स होवाच पुनर् मे पुत्रं दीक्षयत न वै विद्म यत्र मे
पुत्रम् अकृद् इति।त म् अह पुनर् दीक्षयांचक्रुः। तस्य ह स्वयम् एवोज्जगौ। स यत्
प्रत्यवक्ष्यद् यजमान एव यज्ञं प्रत्यतिष्ठिपं यजमानं वामदेव्ये रथन्तरे ऽस्य पशून्
इति॥1.234॥

एतद् ध वै
परमं वाचः क्रान्तं यद् दशेति। एतावद् ध परमं वाक् चक्रमे। तद् यत् परमं वाचः
क्रान्तं तत् सर्वम् आप्नवानीति। अथ यद् अत ऊर्ध्वं विंशतिश् शतं सहस्रम् इत्य्
अङ्गान्य् एवास्यै तानि पर्वाणि। वाच एव सा प्रभूतिः। तद् उ हात्रैव सर्वां विराजम्
आप्नोति। पुरुषसंपद् ध खलु वा एषा दशाक्षरा विराट्। दश पुरुषे प्राणाः। सा वा
एषैतासाम् एव नवतिशतस्य स्तोत्रियाणां प्रशंसा। नवतिशतं ह्य् एवैषो ऽग्निष्टोमः।
संस्कृतस्तोत्रिया भवन्ति। कृतं तद् यद् अशीतिशतं कृतम् इदं दशकृतं सत्। तद् उ ह
कुरव आहुर् द्वापर एष यन् नवतिशतं स्तोत्रियास् त्रयाणाम् अयानाम् अधमःः। कृतं वै
त्रेताद्वापरम्। द्वे स्तोत्रिये उपप्रस्तुत्ये। स कृतस् स्तोमस् संपद्यते। कृतेन
तज् जयति यज् जिगीषति। कृतेनोद्भिनत्ति। अथो पक्षाव् एतौ यत् पवमानौ। ताव् एव तत्
समौ करोति। अथो विश्वज्योतिर् एव यज्ञक्रतुर् भवति। अथो द्व्यतिष्टुतः। ताव् एव
विराजस् स्तनौ। स द्विपाद् यजमानः प्रतिष्ठित्यै॥1.235॥

तद् उ ह स्माह
कहोळः कौषीतकेयो दीर्घस्तनी बत तेषां विराट् येषां स्तोत्रिये विराजस् स्तनाव् इति।
अपि नूनम् एतां विराजं प्रतिवेशतो दुह्र इति ह स्माह। अक्षय्याम् एवैतां संपदं देवा
उपासत। ताम् ऋषय उपासत। ताम् उ एव वयं परो ऽवर उपास्महे। एतासाम् एव नवतिशतस्य
स्तोत्रियाणां पञ्च च सहस्राण्य् आ चत्वारिंशतानि द्वासप्ततिर् अक्षराणि। तद् ये एव
ते द्वासप्ततितमे अक्षरे ताव् एव विराजस् स्तनौ। स द्विपाद् यजमानः प्रतिष्ठित्या
इति। तद् आहुर् यद् द्वापरस् स्तोमो ऽथ केन कृतस् स्तोम इति। अक्षरैर् इति
ब्रूयात्। अथो स्तोत्रैर् इति। अथो स्तुतशस्त्रैर् इति। अथो यद् दशकृतम् इति
ब्रूयात् तेनो एव कृतस् स्तोम इति। अयं ह वाव दशकृतम् उपाप्नोति॥1.236॥

आपो वा इदम्
अग्रे महत् सलिलम् आसीत्। तद् अपाम् एवैश्वर्यम् आसीत्। यद् अपाम् एवैश्वर्यम्
आसीद् अपां राज्यम् अपाम् अन्नाद्यं तद् अग्निर् अभ्यध्यायन् ममेदम् ऐश्वर्यं मम
राज्यं ममान्नाद्यं स्याद् इति। स एताम् अग्निष्टोमसंपदम् अपश्यत्। तयेमा अपो
व्युदौहद् ऊर्ध्वाश् चावाचीश् च। स एतम् एव दिनर्दिनं स्तोमं गायन् केवलीदम्
अन्नाद्यम् अकुरुत। स नवभिर् एकविंशैर् अमूर् ऊर्ध्वा उदतभ्नोत्। ताः परेण दिवं
पर्यौहत्। ता एताः पर्यूढा ऋतुशो वर्षन्तीस् तिष्ठन्ति। एकविंशत्या त्रिवृद्भिर्
इमा अवाचीर् अभ्यतिष्ठत्। ताः परेण पृथिवीं पर्यौहत्। ता एताः पर्यूढा अनूत्खायैक
उपजीवन्ति -- ॥1.237॥

--तिष्ठन्तीर्
एके स्रवन्तीर् एके। स एवम् एता अपो व्यूह्य विनुद्यास्मिन् लोके ऽन्नम् आदत्। ता
नाल्पकं न मध्यमं न महद् इवान्नाद्यम् अभ्यतिरिच्यत। एवम् एव द्विषन्तं भ्रातृव्यं
व्यूह्य विनुद्यास्मिन् लोके ऽन्नम् अत्ति तं नाल्पकं न मध्यमं न महद् इवान्नाद्यम्
अभ्यतिरिच्यते य एवं वेद। तम् एतम् अन्नं जिगीवांसं सर्वे देवा अभिसमगच्छन्त। ते वै
तन् नाविन्दन्त। या ह्य् असौ यज्ञायज्ञीयस्यैकविंशी ताम् आसु बहिष्पवमानीषु नवसु
प्रत्युपधाय शये ऽनन्तो भूत्वा परिगृह्यैतद् अन्नाद्यम्॥

अथो यथा
पात्रे ऽङ्गारा ओप्तास् स्युर् एवम् एवैषु लोकेषु दृशे ऽनन्त आस। तान् अविन्दमानान्
अब्रवीत् स्तुत मेति॥1.238॥

तं वसवो
गायत्र्या छन्दसा गायत्रेण साम्ना प्रातस्सवनेनास्तुवन्। तांस् तस्मिन्न् एव सवन
उपाह्वयत। तं रुद्रास् त्रिष्टुभा छन्दसा त्रैष्टुभेन साम्ना माध्यंदिनेन
सवनेनास्तुवन्। तांस् तस्मिन्न् एव सवन उपाह्वयत। तम् आदित्या जगत्या छन्दसा जागतेन
साम्ना तृतीयसवनेनास्तुवन्। तांस् तस्मिन्न् एव सवन उपाह्वयत। तं विश्वे देवा वाङ्
मनश् च प्रजापतिर् अनुष्टुभा छन्दसा यज्ञायज्ञीयेन साम्नास्तुवन्। तांस् तस्मिन्न्
एव स्तोत्र उपाह्वयत। एवम् एते देवा एतं यज्ञक्रतुम् अन्वायतन्त। अथ य एनं
नान्वायतन्त --॥1.239॥

--शश्वद् ध ते
पराभूता देवानाम् अशनया। अथ य एनम् अन्वायतन्त इम एतर्हि परिशिष्टाः। त उ
एवापर्युषिभवितारः॥

स हैष
वैश्वदेवस् स्तोमः। विश्वेषां हैव देवानां पुरा स्तोम आस। तेन यद् अग्निम् अस्तुवन्
सास्याग्निष्टोमता। अग्निं हैनेनास्तुवन्। स्तुवते हैनेन स्वा स्तुवते ऽरणा।
स्तुवते हैनेन जने स्वा य एवं वेद॥

स हैष
नवैकविंशान् अभिसंपद्यते द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य
एकविंशः। एका स्तोत्रियातिरिच्यते। यजमानो हैव सो ऽतिरिच्यते यो वैवं वेद। यथा ह
गिरौ ज्योतिर् भायाद् एवं तस्यां जनतायां भाति यस्यां भवति य एवं वेद॥

स उ
एवैकविंशतस् त्रिवृतो ऽभिसंपद्यते। अग्निर् वै त्रिवृत्। तद् यद् वै किं च त्रिवृत्
तत् सर्वम् अग्निम् एवाभिसंपद्यते। याश् च ह मह्तयस् संपदो याश् च क्षल्लिकास् ता ह
सर्वा एवंविदम् अभिसंपद्यन्ते। सर्व एनं कामा अभिसंपद्यन्ते य एवं वेद। स एष
एकविंशत्या त्रिवृद्भिर् अमुष्मिन्न् आदित्ये प्रतिष्ठितो नवभिर् असाव् एकविंशैर्
अस्मिन्। ताव् एताव् एवम् अन्योन्यस्मिन् प्रतिष्ठितौ। प्रतितिष्ठति य एवं
वेद॥1.240॥

नासाव् अस्तम्
एति नायम् अनुगच्छति। इमम् एवासाव् अभ्य् अस्तम् एति। तद् अस्यास्तत्वम्। इमं ह्य्
एवासाव् अभ्य् अस्तम् एत्य् अमुम् एवायम् अभ्यनुगच्छति। तद् अमुष्यामुत्वम्। अमुं
ह्य् एवायम् अभ्यनुगच्छति न हास्तम् एति नानुगच्छति य एवं वेद॥

ते हैते
सवासिन्यौ देवते। गच्छति हैताभ्यां सवासित्वम्। अथो हास्यैते एव देवते। एषु लोकेषु
सर्वपाप्मानम् अपघ्नत्यौ तिष्ठतः॥

यावद् उ ह वा
अयम् अग्निर् अस्मिन् लोके दीप्यते तावद् अमुष्मिन् लोक आदित्यः न हैव तावद्
एवंविदो लोकः क्षय्यः॥

यथा ह वा इदम्
आयतनम् आयतनीं प्रेप्सेद् एवम् इमं लोकम् आपः प्रेप्सन्ति याश् चामूर् याश् चेमाः।
तायन्न संभिन्दन्त्य् एतस्यैव स्तोमस्य क्रतोः। एष एवैनास् स्तोमो ऽपिददते। स यो
न्वावैकस्य राज्यस्य त्राता द्वयोर् यस् त्रयाणां लोकी वाव स तेन मन्येत। अन्त्ये
तु सलोक्य् असद् यस् तेषाम् एको ऽसद् ये ऽस्य लोकस्य त्रातारः। अस्य ह स लोकस्य
त्रातॄणाम् एको भवति य एवं वेद। तेन लोकी सः। यावद् ध वा अप्य् एवंविदो ब्राह्मणा
भवितारो न हैव तावद् याश् चामूर् आपो याश् चेमास् ता उभयीस् संपद्येमं लोकं
निर्मृष्टारः॥1.241॥

तस्य वा
एतस्याग्निष्टोमस्य गायत्रीम् एव प्रातस्सवनं संपद्यते त्रिष्टुभं माध्यंदिनं सवनं
जगतीं तृतीयसवनम्। तद् एतत् स्वयंसंपन्नं प्रातस्सवनम्। गायत्रम् एव सर्वम्॥

अथ चत्वारि
छन्दांसि माध्यंदिनं सवनं गायत्री बृहती ककुप् त्रिष्टुप्। तस्या एतस्यै ककुभो
ऽष्टाविंशत्यक्षरायै विंशतिम् अक्षराणि गायत्र्याम् उपदधाति। सा त्रिष्टुप्
संपद्यते। अथ यान्य् अष्टाव् अतिरिच्यन्ते तानि बृहत्याम् उपदधाति। सा त्रिष्टुप्
संपद्यते। त्रिष्टुब् एव त्रिष्टुप्॥

अथ षट्
छन्दांसि तृतीयसवनं गायत्र्य् उष्णिक्ककुभाव् अनुष्टुब् जगती बृहती। तस्या एतस्यै
गायत्र्यै चतुर्विंशत्यक्षरायै विंशतिम् अक्षराणि ककुभ्य् उपदधाति। सा जगती
संपद्यते। अथ यानि चत्वार्य् अतिरिच्यन्ते तान्य् उष्णिह्य् उपदधाति। सा
द्वात्रिंशदक्षरानुष्टुप् संपद्यते। अनुष्टुब् एवानुष्टुप्। तां द्वेधा व्यूहति।
तस्यै षोडशाक्षराण्य् अनुष्टुभ्य् उपदधाति। सा जगती संपद्यते। स्वयम् एव परस्ताज्
जगती। अथ यानि षोडशातिरिच्यन्ते तानि यज्ञायज्ञीयस्य बृहत्याम् उपदधाति। सा
द्वापञ्चाशदक्षरा जगती संपद्यते। चत्वार्य् अक्षराणि जगतीम् अतियन्ति य एते
चतुष्पादाः पशवः। अथो स्तना एव विराजो दोहः। अथो प्रतिष्ठैव। यथा चतुष्पदी
प्रतिष्ठात् तथा। तद् व् अत्रैवानुव्येति। न किं चनातिरिच्यते। वामदेव्यस्य न्यूने
त्रीण्य् उपदधाति -- ॥1.242॥

--यज्ञायज्ञीय
एकम्॥

गायत्रं वै
प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम्। ब्रह्मणो ऽस्य सतः
क्षत्रस्येव प्रकाशो भवति वैश्यस्येव रयिः पुष्टिर् य एवं वेद॥

तस्यो
एवाक्षरशो गायत्रीम् एव प्रातस्सवनं संपद्यन्ते त्रिष्टुभं माध्यंदिनं सवनं जगतीं
तृतीयसवनम्। एकान्नसप्ततिः प्रातस्सवनस्य स्तोत्रियाष् षष्टिस् त्रिष्टुभो
माध्यंदिनं सवनं चतुर्विंशतिश् च जगतीस् तृतीयसवनम्। एका च ककुप्। पुरुषो वै ककुप्।
स ह स यजमान एवैतस्यां संपद्य् अध्यूढः। तद् व् अत्रैवानुव्येति। न किं
चनातिरिच्यते। एकस्यै ककुभो ऽष्टाविंशत्यक्षरायै चत्वार्य् अक्षराण्य् आदाय
वामदेव्यस्य न्यूने त्रीण्य् उपदधाति यज्ञायज्ञीय एकम्। अथ या गायत्री परिशिष्यते
ताम् अद एकान्नसप्तत्यां प्रातस्सवनस्य स्तोत्रियासु प्रत्युपदधाति। तद् उ
हानन्तम्। अनन्तां श्रियं जयति य एवं वेद॥1.243॥

तस्यो एव द्वे
सवने बृहतीं संपद्येते। यथैव पुरा तृतीयसवनं तथा तृतीयसवनम्। एकान्नसप्ततिः
प्रातस्सवनस्य स्तोत्रियाः। ताष् षट्चत्वारिंशद् बृहत्यस् संपद्यन्ते। या हि तिस्रो
गायत्र्यस् ते द्वे बृहत्यौ। न ताष् षट्चत्वारिंशद् बृह्त्यस् संपद्यन्ते। तद् एतद्
आयद् एव प्रातस्सवनं बृहतीम् अभिसंपद्यते। यस्माद् आयद् एव प्रातस्सवनं बृहतीम्
अभिसंपद्यते तस्माद् ब्राह्मणो जायमान एव लोकी जायते। तं वा त्वै चरणेन भूयांसं
कुरुते तं वा कनीयांसम्॥

अथैतद् द्वौ
माध्यंदिनं सवनं संपादयत उद्गाता च होता च। चत्वारि छन्दांस्य् उद्गाता युनक्ति।
तानि च होतानुशंसत्य् उप च त्रीण्य् आहरत्य् अनुष्टुभं पंक्तीं जगतीम्। गायत्री च
जगती च ते द्वे बृहत्यौ। बृहत्य् एव बृहती। यस्माद् एतद् द्वौ माध्यंदिनं सवनं
संपादयतस् तस्माद् राजन्यस्य कार्यो लोक इष्टापूर्तेन श्रद्धया ब्रह्मण्यतया। अथ
यस्माद् यथैव पुरा तृतीयसवनं तस्माद् उ ब्राह्मणाच् च राजन्याच् च वैश्यो लोकी।
इतरो न हि तथा लोकी यथा ब्राह्मणश् च राजन्यश् च॥1.244॥

क्लृप्तं ह वै
लोकं यजमानो ऽभिजायते। पशून् एव प्रथमस्य तृचस्य प्रथमया स्तोत्रियया जयति भूमिं
द्वितीययाग्निं तृतीयया। अन्तरिक्षम् एव द्वितीयस्य च तृचस्य प्रथमया स्तोत्रियया
जयति वायुं द्वितीयया प्राणं तृतीयया। दिवम् एव तृतीयस्य तृचस्य प्रथमया
स्तोत्रियया जयत्य् आदित्यं द्वितीयया नक्षत्राणि तृतीयया। नवैता बहिष्पवमान्यो
भवन्ति नव देवलोकाः। तान् एवैताभिर् आप्नोति॥

ता एतास्
तिस्रो विराजो दैवी यज्ञिया मानुषी। एतासु ह सुचित्तश् शैलनो जनकं वैदेहं समूदे। स
होवाच् श्रद्धाम् आविदद् ऋत्विजो मे ह्वयन्त्व् इति। तस्मै ह कुरुपञ्चालान् ऋत्विज
ऊहुः। तेषु हागतेषु शैलनो बिभयांचकार गच्छद् ब्राह्मणा इवोदन्तायं वाहन लघूयेद्
इति। स होवाच सम्राड् वाक्यम् एवम् अस्तीति। तिस्रो वा इमा विराजो तृष्यन्तीस्
सर्वकामा अन्नाभिधानाः। तासु स्म त्वा यो ऽन्तर् अवदधाति तस्मै वोद्गातारं वृणीष्व।
स वाव तेषां कामानाम् अभिवोढा। य एतासु कामास् स उ एव पुनर्मृत्योर् अतिवोढा य एवं
वेदेति॥1.245॥

अथ ह
प्रधावयांचकार। तस्मिन् ह प्रैष्यन्नैमान् ह स्म पृच्छत्य् आसां विराजाम् ऋद्धिम्।
ते ह स्मानाभ्यावयन्ति य उ ह स्माभ्यावयन्तीति। यां ह स्मैकाम् अभ्यावयन्ति स ह
स्मात् ते ब्राह्मणं बताहं ब्राह्मणम् एतासु मीमांसमानम् अपश्यं मच् च धावत शैलनम्
इति। तद् व्यचरं हास यथा शैलन इयेष॥

ता एतास्
तिस्रो विराजो दैवी यज्ञिया मानुषी। सैषा दैवी विराड् यद् इमे लोकाः। सा न्यूना।
यजमानावधानायैव तन् न्यूना। तद् अन्तर् यजमानम् अवदधाति। तस्या एतस्यै चन्द्रमा
एवापिधानम्। एतद् धि देवानां प्रत्यक्षम् अन्नाद्यं यच् चन्द्रमाः॥

अथैषा यज्ञिया
विराड् यद् एता बहिष्पवमान्यः। सा न्यूना। यजमानावधानायैव तन् न्यूना। तद् अन्तर्
यजमानम् अवदधाति। तस्या एतस्यै हिंकार एवापिधानम्। हिंकारेण ह्य् एव देवेभ्यो
ऽन्ततो ऽन्नाद्यं प्रदीयते॥

अथैषा यज्ञिया
विराड् यद् एता बहिष्पवमान्यः। सा न्यूना। यजमानावधानायैव तन् न्यूना। तद् अन्तर्
यजमानम् अवदधाति। तस्या एतस्यै हिंकार एवापिधानम्। हिंकारेण ह्य् एव देवेभ्यो
ऽन्ततो ऽन्नाद्यं प्रदीयते॥

अथैषा मानुषी
विराड् यद् इमे पुरुषे प्राणाः। सा न्यूना। स उ एव यजमानप्रत्यक्षम्। तस्या एतस्या
अन्नम् एवापिधानम्॥

नाभिर् वा
एतास् तिस्रो विराजः। अभि ह तान् कामान् आप्नोति य एतासु कामा अपि त्व् इह तेषु
भवत्य् अति ह पुनर्मृत्यु मुच्यते बहुपुरुषम् अस्मिन् लोके ऽन्नम् अत्ति। न ह्य्
एतद् एकपुरुषायान्नाद्यं यद् एतासु। यद् ध वै किं चेदम् अस्मिन् लोक आत्मन्वत् तद्
ध सर्वं मत्युर् एवाभिव्यादाय तिष्ठति। स यो ह स मृत्युस् संवत्सर एव सः। तस्य
हर्तव एव मुखानि। तद् यद् वै किं च म्रियते न हास्यानृतौ म्रियते य एवं वेद। ऋतुषु
वाव प्रजायते प्रजया पशुभिर् य एवं वेद॥1.246॥

ता वा एता नव
बहिष्पवान्यः। ताष् षड् बृहत्यः। षड् उ मृत्योर् मुखान्य् ऋतव एव। अथ ह वा एतानि
मृत्योर् मुखानि बृहत्य् एव प्रतिविभवितुम् अर्हति नान्यच् छन्दः। स बृहत्यैवर्तोर्
मुखम् अपिदधाति। बृहत्य् ऋतोर् बृहत्य् ऋतोः। स यथा समेन विषमम् अतीत्य
प्रत्यवेक्षेतैवम् एवैतं मृत्युं पराङ् अतीत्य प्रत्यवेक्षते॥

तम् एव तं
त्रिवृतं वज्रम् उपप्रवर्तयति। स एषो ऽहरहर् इमान् लोकान् अनुवर्तते। तद् ध स्माह
नगरी जानश्रुतेयो न हैव तावद् देवासुरं भविता यावद् एव त्रिवृद् वज्रो ऽहरहर् इमान्
लोकान् अनुवर्तत इति। ऊर्ध्वो ह्य् अयम् अग्निर् दीप्यते तिर्यङ्ङ् अयं वायुः पवते
ऽर्वाङ् असाव् आदित्यस् तपति। त एते ऽनिमेषम् अन्योन्यम् ईक्षन्ते। कथम् एतेष्व्
एवं सत्सु देवासुरं स्याद् इति। एष उ एवास्य त्रिवृद् वज्रो ऽहरहर् इमान् लोकान्
अनुवर्तमानस् सर्वं पाप्मानम् अपघ्नन् पल्ययते य एवं वेद॥1.247॥

तद् आहुस् स
वाद्य यजेत स वान्यं याजयेद् यच् चतुष्टोमेन याजयन् सर्वस्तोमेन याजयति। नवैता
बहिष्पवमान्यो भवन्ति। तासां सप्तविंशतिः पदानि। तेन त्रिणवं स्तोमं नान्तर्यन्ति।
नवैवैता बहिष्पवमान्यो भवन्ति। चतुर्विंशत्यक्षरा गायत्री। तत् त्रयस्त्रिंशत्। तेन
त्रयस्त्रिंशं स्तोमं नान्तर्यन्ति। एतद् वै चतुष्टोमेन याजयति॥

यो वै
स्तोमानाम् अवमं परमं वेद गच्छति परमताम्। त्रिवृद् वाव स्तोमानाम् अवमस् त्रिवृत्
परमः। तद् उ होवाच प्रकुर् वार्ष्णस् त्रिवृतं स्तोमं त्रयस्त्रिंशं भवन्तम् अपश्यं
तस्माद् अहं परमताम् अगच्छम् इति। गच्छति परमतां य एवं वेद॥

अथ ह
स्माहारुणिः किं सो ऽभिचरेत् किं वाभिचार्यमाण आद्रियेत य एतं त्रिवृतं वज्रं
त्रिभृष्टिम् अच्छिद्रम् अच्छम्बट्कारिणम् अहरहर् इमान् लोकान् अनुवर्तमानं वेद।
स्वयम् अभिचरितो वाव स यम् एवंविद् द्वेष्टि यो वैवंविदं द्वेष्टीति। एष उ एवैनं
त्रिवृद् वज्रस् त्रिभृष्टिर् अच्छिद्रो ऽच्छम्बट्कार्य् अहरहर् इमान् लोकान्
अनुवर्तमानो ऽभिवर्तते। तस्य न भूत्य् अल्पिकेव चनाशास्ति परापरैव भवतीति॥1.248॥

तद् उ ह
स्माहोपजीवः खाळायनो ऽहम् एवैतं त्रिवृतं वज्रं प्रत्यक्षं वेद तस्माद् यम् अहं
द्वेष्मि यो मां द्वेष्टि ताव् उभौ शश्वद् एव पापीयांसौ भवत इति। अग्निर् वा अस्य
लोकस्य वज्रो वायुर् अन्तरिक्षस्यादित्यो दिवः। तद् इद् अध्यात्मम्। यो ऽग्निर्
वाग् एव सा यो वायुः प्राण एव स य आदित्यश् चक्षुर् एव तत्। तस्माद् यद् अहं
द्विषन्तम् अभिवदामि यद् अभिप्राणिमि यद् अभिवीक्षे वज्रम् एवाहं तस्मै तं
प्रहरामि। तस्य हरश्वेम्णेत्मिकेव नाशास्ति। एता उ एवैनं देवता धूर्वन्ति य एवं
विद्वांसं धूर्वतीति॥

अथ ह स्माह
श्वेतकेतुर् आरुणेयो यथाश्वस्य कृष्णकर्णस्येत्थादानीतस्य रूपं स्याद् एवम् एवाहम्
एतस्य स्तोमस्य रूपं वेद। तावद् दृशेन्यं तावद् वपुषेण्यम्। तस्माद् आत्मा। य एव
पूर्वाह्णे दिदृक्षन्ते ते ऽपराह्णे दिदृक्षन्ते। नैव सुदृशेन्यम् इव सन्तं नाहं
कदा चन चक्षुष्मन्तं पर्येमीति॥

तद् उ होवाच
शाट्यायनिः को ऽश्वश् श्वेतः किम् एकम् इति। यथैवास्याग्ने रूपं यथा त्विषिर्
यथास्य वायोर् यथामुष्यादित्यस्यैवम् एवैतस्य स्तोमस्य रूपम् एवं त्विषिः। तद्
एवैतत् प्रजा अभिवार्य दिदृक्षमाणास् तिष्ठन्ति। तस्माद् बहिष्पवमाने ये च
विजानन्ति ये च न ते सर्वे ऽनीशाना अभिपरिवार्य दिदृक्षमाणास् तिष्ठन्तीति। अथो
हैता यश एव। अप्य् अन्यासां देवतानाम्। तासाम् एतद् इन्द्रियं वीर्यं रसस् तेजस्
संभृतं यद् एता बहिष्पवमान्यःः। स य एवम् एतद् देवतानाम् इन्द्रियं वीर्यं रसं
तेजस् संभृतं वेदेन्द्रियवान् एव वीर्यवान् यशस्वी त्विषिमान् भवति॥1.249॥

तद् आहुर् यत्
पुरुषो योषां संभविष्यन् परोक्षं निलयनम् इच्छते ऽन्त एवान्ये पशवो ऽन्योन्यस्य
स्कन्दन्ति किं तद् यज्ञे क्रियते यस्मात् तत् तथेति ब्रूयाद् यस्मात् त्रिवृत्
स्तोमो बहिष्पवमाने प्राङ् इवोत्क्रम्य धिष्ण्येभ्यो निलीय गायत्रीं स्कन्दति मध्य
एवान्य ऋत्विजो धिष्ण्यानां यद् अन्त आसते तस्मात् तत् तथेति। त्रिवृतं हि स्तोमं
पुरुषो ऽन्वायत्तो धिष्ण्यान् अन्ये पशव इति॥

तद् व्
एवाहुर् यत् स त्रिवृत् स्तोमो गायत्रीं स्कन्दति किं सा ततः प्रजनयतीति। इळान्तं
यज्ञं सप्तनाभिम् इति ब्रूयात्। गायत्री गर्भं धत्ते। सा पुरोनुवाक्यां प्रजनयति।
पुरोनुवाक्या याज्या याज्या वषट्कारं वषट्कार आहुतीर् आहुतयो दक्षिणा दक्षिणास्
स्वर्गं लोकम्। तद् यथा वित्तं प्रवाहं क्षिप्रं प्रवहेद् एवम् एवैनम् एता देवतास्
स्वर्गाय लोकाय प्रवहन्ति। त्रिवृद् एवैनं स्तोमो गायत्र्यै प्रयच्छति गायत्री
पुरोनुवाक्यायै पुरोनुवाक्या याज्यायै याज्या वषट्काराय वषट्कार आहुतीभ्य आहुतयो
दक्षिणाभ्यो दक्षिणास्स्वर्गं लोकं गमयन्ति॥

स एष इळान्तो
यज्ञस् सप्तनाभिः। तस्य ह त्रिवृद् एव स्तोमो नाभिर् गायत्री नाभिः पुरोनुवाक्या
नाभिर् याज्या नाभिर् वषट्कारो नाभिर् आहुतयो नाभिर् दक्षिणा नाभिः। उप हैनम् एष
यज्ञो नमति य एवं वेद॥1.250॥

अथ यद् द्विर् अङ्गुल्या प्राश्नाति स यत् प्रथमं प्राश्नाति तेन प्राणापानौ तृप्यतः। तं प्राणापानाव् आहतुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
[https://sa.wikisource.org/s/9yt आगामी पृष्ठः (1.251 - 1.300)]
अथ यद् द्वितीयं प्राश्नाति तेनोदानापानौ तृप्यतः। तम् उदानापानाव् आहतुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
अथ यत् स्रुचा प्राश्नाति तेन समानव्यानौ च गर्भांश् च प्रीणाति। तं समानव्यानौ गर्भाश् चाहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
अथ यत् स्रुचं निरश्नाति तेन देवजनान् प्रीणाति। त देवजना आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
अथ यत् स्रुचस् संक्षालनं निनयति तेन वयांसि प्रीणाति। तं वयांस्य् आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
अथ या एतास् स्रुचो निर्णिज्योदीचीर् अप उत्सिञ्चति तेन ऋषीन् प्रीणाति। तम् ऋषय आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
अथ यत् स्थालीसंक्षालनं निनयति तेन सर्पजनान् प्रीणाति। तं सर्पजना आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
अथ यत् पश्चाद् वा पुरस्ताद् वा परिक्रम्य दक्षिणतो ऽग्नीनाम् आस्ते प्रजापतिर् एव तद् भूत्वास्ते कम् अहम् अस्मि कं मम इति॥1.41॥
भृगुर् ह वारुणिर् अनूचान आस। स हात्य् एव पितरं मने ऽति देवान् अत्य् अन्यान् ब्राह्मणान् अनूचानान्। स ह वरुण ईक्षांचक्रे न वै मे पुत्रः किं चन प्रजानाति। हन्तैनं प्रज्ञापयानीति। तस्य ह प्राणान् अभिजग्राह। स ह तताम्। स ह तान्तः परं लोक जगाम। स हामुष्मिन् लोक आजगाम। पुरुष एव पुरुषं संवृश्च्याथैनं जघास। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥
द्वितीयं हाजगाम। पुरुष एव पुरुषम् आक्रन्दयन्तं जघास। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥
तृतीयं हाजगाम। पुरुष एव पुरुषं तूष्णीम् अव्याहरन्तं जघास। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥
चतुर्थं हाजगाम। द्वे स्त्रियौ महद् वित्तं जुगुपतुः। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥
पञ्चमं हाजगाम। लोहितकुल्यां च घृतकुल्यां च प्रबाहुक् स्यन्दमाने । सा या लोहितकुल्यास् तां कृण्णो नग्नः पुरुषो मुसली जुगोप। अथ या घृतकुल्या तस्यै हिरण्मयाः पुरुषा हिरण्मयैश् चमसैस् सर्वान् कामान् उदचिरे। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥
षष्ठं हाजगाम। पञ्च नदीः पुष्करिणीः पुण्डरीकिणीर् मधूदकास् स्यन्दमानाः. तासु नृत्तगीतं वीणाघोषो ऽप्सरसां गणास् सुरभिर् गन्धो महान् घोषो बभूव। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥1.42॥
स ह तत एवाववृते। स ह वरुणम् एवाजगाम। तं होवाचागस् ताता इति। आगां ततेति। अदर्शस् ताता इति। अदर्शं ततेति। किं ततेति। पुरुष एव पुरुषं संवृश्च्याथैनम् अघद् इति। ओम् इति होवाच। ये वा अस्मिन् लोके ऽग्निहोत्रम् अजुह्वतो नैवंविदो वनस्पतीन् संवृश्च्याभ्यादधति तान् वा अमुष्मिन् लोके वनस्पतयः पुरुषरूपं कृत्वा प्रत्यदन्ति। तस्य का निष्कृतिर् इति। यद् एवैतत् समिधम् अभ्यादधाति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति॥
किं द्वितीयम् इति। पुरुष एव पुरुषम् आक्रन्दयन्तम् अघद् इति। ओम् इति होवाच। ये वा अस्मिन् लोक ऽग्निहोत्रम् अजुहुह्वतो नैवंविदः पशून् आक्रन्दयतः पचन्ते तान् वा अमुष्मिन् लोके पशवः पुरुषरूपं कृत्वा प्रत्यदन्ति। तस्य का निष्कृतिर् इति। यद् एवैतद् वाचा पूर्वाम् आहुतिं जुहोति सा तस्य निषकृतिस् तया तद् अतिमुच्यत इति॥
किं तृतीयम् इति। पुरुष एव पुरुषं तूष्णीम् अव्याहरन्तम् अघद् इति। ओम् इति होवाच। ये वा अस्मिन् लोके ऽग्निहोत्रम् अजुह्वतो नैवंविदो व्रीहियवांस् तूष्णीम् अव्याहरतः पचन्ते तान् वा अमुष्मिन् लोके व्रीहियवाः पुरुषरूपं कृत्वा प्रत्यदन्ति। तस्य का निष्कृतिर् इति। यद् एवैतन् मनसोत्तराम् आहुतिं जुहोति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति॥
किं चतुर्थम् इति। द्वे स्त्रियौ महद् वित्तम् अजुगुपताम् इति। ओम् इति होवाच। श्रद्धा च वै ते अश्रद्धा चाभूताम्। ये वा अस्मिन् लोके ऽग्निहोत्रम् अजुह्वतो नैवंविदो ऽश्रद्दधाना यजन्ते तद् अश्रद्धां गच्छति यच् छ्रद्दधानास् तच् छ्रद्धाम्। तस्य का निषकृतिर् इति। यद् एवैतद् अङ्गुल्या प्राश्नाति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति॥1.43॥
किं पञ्चमम् इति। लोहितकुल्यां च घृतकुल्यां च प्रबाहुक् स्यन्दमाने। सा या लोहितकुल्याभूत् तां कृष्णो नग्नः पुरुषो मुसली जुगोप। अथ या घृतकुल्या तस्यै हिरण्मयाः पुरुषा हिरण्मयैश् चमसैस् सर्वान् कामान् उदचन्त इति। ओम् इति होवाच। ये वा अस्मिन् लोके ऽग्निहोत्रम् अजुह्वतो नैवंविदो ब्राह्मणस्य लोहितम् उत्पीडयन्ति सासा लोहितकुल्या। अथ य एनां कृष्णो नग्नः पुरुषो मुसल्य् अजुगुपत् क्रोधस् स तस्यो तद् एवान्नम् इति। तस्य का निष्कृतिर् इति। यद् एवैतत् स्रुचा प्राश्नाति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति। अथ या एतास् स्रुचो निर्णिज्योदीचीर् अप उत्सिञ्चति सासा घृतकुल्या। तस्यै हिरण्मयाः पुरुषा हिरण्मयैश् चमसैस् सर्वान् कामान् उदचन्त इति॥
किं षष्ठम् इति। पञ्च नदीः पुष्करिणीः पुण्डरीकिणीर् मधूदकास् स्यन्दमानाः। तासु नृत्तगीतं वीणाघोषो ऽप्सरसां गणास् सुरभिर् गन्धो महान् घोषो ऽभूद् इति। ओम् इति होवाच। ममैवैते लोका अभूवन्न् इति। ते केनाभिजय्या इति एतेनैव पञ्चगृहीतेन पञ्चोन्नीतेनेति। स होवाच न वै किलान्यत्राग्निहोत्राल् लोकजित्या अवकाशोऽस्ति। अद्यैव मे अग्न्याधेयस्योपवसथ इति। तस्य ह तथा चक्रुः। स य एवं विद्वान् अग्निहोत्रं जुहोति नैनम् अमुष्मिन् लोके वनस्पतयः पुरुषरूपं कृ्त्वा प्रत्यदन्ति न पशवो न व्रीहियवा नास्येष्टापूर्ते श्रद्धां चाश्रद्धां च गच्छतो ऽपहते लोहितकुल्याम् अवरुन्द्धे घृतकुल्याम्॥1.44॥
एष वा अग्निर वैश्वानरो य एष तपति। तस्य रात्रिस् समिद् अहर् ज्योती रश्मयो धूमो नक्षत्राणि विष्फुलिङ्गाश् चन्द्रमा अङ्गाराः। तस्मिन्न् एतस्मिन् अग्नौ वैश्वानरे ऽहरहर् देवा अमृतम् अपो जुह्वति। तस्या आहुतेर् हुतायै सोमो राजा संभवति॥
स्तनयित्नुर् एवाग्निर् वैश्वानरः। तस्य द्यौस् समिद् विद्युज् ज्योतिर् अभ्राणि धूमो ह्लादनयो विष्फुलिङ्गा अशनिर् अङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवास् सोमं राजानं जुह्वति। तस्या आहुतेर् हुतायै वृष्टिस् संभवति॥
पृथिव्य् एवाग्निर् वैश्वानरः। तस्यान्तरिक्षं समिद् अग्निर् ज्योतिर् वायुर् धूमो मरीचयो विष्फुलिङ्गा दिशो ऽङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा वृष्टिं जुह्वति। तस्या आहुतेर् हुताया अन्नं संभवति॥
पृथिव्य् एवाग्निर् वैश्वानरः। तस्यान्तरिक्षं समिद् अग्निर् ज्योतिर् वायुर् धूमो मरीचयो विष्फुलिङ्गा दिशो ऽङागाराः. तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा वृष्टिं जुह्वति। तस्या आहुतेर् हुताया अन्नं संभवति॥
पुरुष एवाग्निर् वैश्वानरः। तस्य वाक् समिच् चक्षुर् ज्योतिः प्राणो धूमो मनो विष्फुलिङ्गाश् श्रोत्रम् अङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा अन्नं जुह्वति। तस्या आहुतेर् हुतायै रेतस् संभवति॥
स्त्रियो वा अग्निर् वैश्वानरः। तस्योपस्थं समिद् योनिर् ज्योतिर् इष्या धूमो ऽभिनन्दो विष्फुलिङ्गास् संस्पर्शो ऽङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा रेतो जुह्वति। तस्या आहुतेर् हुतायै पुरुषस् संभवति॥
सो ऽत्र पञ्चम्यां विसृ्ष्ट्यां पुरुषो देवेभ्यो जायते। पञ्चम्यां विसृष्ट्यां दिव्या आपः पुरुषवाचो वदन्ति।
अथ यथामुं लोकम् अप्येति -- ॥1.45॥
--तस्याग्निर् एवाग्निर् वैश्वानरः। तस्यौषधयश्च वनस्पतयश् च समित्। ज्योतिर् एव ज्योतिः। धूम एव धूमःः। विष्फुलिङ्गा एव विष्फुलिङ्गाः। अङ्गारा एवाङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवाः पुरुषं जुह्वति। तस्या आहुतेर् हुतायै पुरुषो ऽमुं लोकं संभवति। सो ऽस्य लोकः पुनरुत्थायै भवति॥
तस्य हैतस्य देवस्याहोरात्रे अर्धमासा मासा ऋतवस् संवत्सरो गोप्ता य एष तपति। अहोरात्रे प्रचरे। तं हर्तूनाम् एको यः कूटहस्तो रश्मिना प्रत्यवेत्य पृच्छति को ऽसि पुरुषेति। स किं विद्वान् प्रवृञ्ज्यात्। तस्य ह प्रहरति। कस्य ह प्रतिराद्धस्य त्रेधा साधु कृत्या विनश्यति। स तृतीयम् आदत्ते। दिशो ऽनु तृतीय व्येति। तृतीयेन सहेमं लोकम् अभ्यवैति। स यो हास्य दानजितो लोको भवति तस्मिन् निरमते। तम् उ ह वै ततो मृत्युर् एवान्तत आप्नोति। अनवजितो हास्य पुनर्मृत्यु्र् भवति स य एवंवित् स्यात्॥
स यदोपतापी स्याद् यत्रास्य समं सुभूमिस्पष्टं स्यात् तद् ब्रूयाद् इह मे ऽग्निं मन्थतेति। ईश्वरो हागदो भवितोः॥
यद्य् उ तन् न यद् अस्माल् लोकात् प्रेयाद् अथैनम् आददीरन्। नानास्थाल्योर् अग्नी ओप्य हरेयुः। अन्वाहार्यपचनाद् उल्मुकम् आददीरन् यज्ञपात्राणि सर्पिर् अपो दारुण्य् अनुस्तरणीं क्षुरं नखनिकृन्तनम्। ते यन्ति यत्रास्य समं सुभूमिस्पष्टं भवति। तद् अस्याग्नीन् विहरन्ति॥1.46॥
अथास्यां दिशि कूपं खात्वा वपन्ति केशश्मश्रूणि। उप्त्वा केशश्मश्रूणि नखान् निकृन्तन्ति। नखान् निकृत्य निरान्त्रं कुर्वन्ति। निरान्त्रं कृत्वा निष्पुरीषं कुर्वन्ति। निष्पुरीषं कृत्वा पांसुभिः कूपे पुरीषम् अभिसंवपन्ति। पाप्मानम् एवास्य तत् प्रच्छादयन्ति। प्रक्षाल्यान्त्राणि प्रत्यवधायैनम् आहरन्ति। तम् अन्तरेणाग्नीन् निधाय गार्हपत्य आज्यं विलाप्योत्पूय चतुर्गृहीतं गृहीत्वा मत्वाहवनीये समिद्वत्य् अन्वारब्धे जुहोति अयं वै त्वद् अस्माद् अंसि त्वम्। एतद् अयं ते योनिर् अस्य योनिस् त्वम्॥
पिता पुत्राय लोककृज् जातवेदो नया ह्य् एनं सुकृतां यत्र लोकः। अस्माद् वै त्वम् अजायथा एष त्वज् जायतां स्वाहा इति। सो ऽत आहुतिमयो मनोमयः प्राणमयश् चक्षुर्मयश् श्रोत्रमयो वाङ्मय ऋङ्मयो यजुर्मयस् साममयो ब्रह्ममयो हिरण्मयो ऽमृतस् संभवति॥1.47॥
अथैतां चितां चिन्वन्ति। तस्याम् एनम् आदधति। तस्य नासिकयोस् स्रुवौ निदध्याद् दक्षिणहस्ते जुहूं सव्य उपभृतम् उरसि ध्रुवां मुख ऽग्निहोत्रहवणीं शीर्षतश् चमसम् इळोपवहनं कर्णयोः प्राशित्रहरणे उदरे पात्रीं संवर्तधानीम् आण्डयोर् दृषदुपले शिश्ने शम्याम् उपस्थे कृष्णाजिनम् अनुपृष्ठं स्फ्यं पार्श्वयोर् मुसल च शूर्पे च पत्त उलूखलम्। परिशिष्टानि यज्ञपात्राण्य उपनिदधति। अपो मृण्मयान्य् अभ्यवहरन्ति दद्त्य एवायस्मयानि। अथैनं सर्पिषाभ्युत्पूरयन्ति। यज्ञपात्रेषु सर्पिर् आसिञ्चन्ति॥1.48॥
अथैताम् अनुस्तरणीम् आनयन्ति। तां प्रोक्ष्य त्रिर् अपसलीं पर्याणाय्य कूटेन हन्यात्। प्रदक्षिणं हैके पर्याणयन्ति। तद् उ तथा न कुर्यात्। तस्यै वपाम् उत्खिद्य शीर्ष्णि परिवयन्ति हस्तयोर् मतस्नी हृदये हृदयं बाह्वोर् बाहू। यथाङ्गम् एवेतराण्य् अङ्गानि विचिन्वन्ति। अथैनं चर्मणा प्रोर्ण्वन्ति स्वया तन्वा समृध्यस्व इति॥
संस्तीर्योपादीपयन्ति। स तथैव चिकीर्षेद् यथैनम् आहवनीयः प्रथमो गच्छेत्। तद् एनं देवलोकः प्रत्यागच्छति। अथ यथान्वाहार्यपचनस् तद् एनं पितृलोकः प्रत्यागच्छति। अथ यथा गार्हपत्यस् तथास्मिन् लोके प्रजया च पशुभिश् च प्रतितिष्ठति॥
तस्योपादीप्तस्य धूम एव शरीरं धुनोति। स यद् धुनोति तस्माद् धुनः। धुनो ह वै नामैषः। तं धूम इति परोक्षम् आचक्षते परोक्षेणैव। परोक्षप्रिया इव हि देवाः। धूमाद् व रात्रिम् अप्येति रात्रिया अहर् अह्नो ऽपोछन्तापक्षम् अपोछन्तीपक्षाद् आपूर्यमाणपक्षम् आपूर्यमाणपक्षान् मासम्। ते अत्र मासे शरीरं चासुश् च संगच्छाते। तं हर्तूनाम एको यः कूटहस्तो रश्मिना प्रत्यवेत्य पृच्छति को ऽसि पुरुषेति॥1.49॥
तं प्रतिब्रूयात् --
विचक्षणाद् ऋतवो रेत आभृतम्
अर्धमास्यं प्रसुतात् पित्र्यावतः।
इति। यद् अदो विचक्षणं सोमं राजानं जुह्वति तत् तत्।
तं मा पुंसि कर्तर्य् एरयध्वम्
इति। पुंसि ह्य् एनम् एतत् कर्तर्य् एरयन्ते।
पुसः कर्तुर् मातर्य् आसिषिक्त
इति। मातरि ह्य् एनम् आसिञ्चति।
स उपजायोपजायमानस् त्रयोदशेन द्वादशोपमासः
इति। एष त्रयोदशो य एष तपति॥
<poem>सं तद् विदे प्रति तद् विदे ऽहम्।
तं मर्तवो ऽमृत आनयध्वं द्वादशत्रयोदशेन पित्रा।
तया मात्रा तया श्रद्धया तेनान्नाद्येन तेन सत्येन॥
अहर् मे पिता रात्रिर् माता॥ सत्यम् अस्मि॥
ते मर्तवो ऽमृत आनयध्वम्॥</poem>
इति। तं हर्तव आनयन्ते। यथा विद्वान् विद्वांसं यथा जानन् जानन्तम् एवं हैनम् ऋतव आनयन्ते। तं हात्यर्जयन्ते। स हैष न मनुष्यो य एवं वेद। देवानां ह वै स एको य एवंवित्। तं ह वै मनोजवसः पितरश् च पितामहाश् च प्रत्यागच्छन्ति ततः किं न आहार्षीर् इति। तान् प्रतिब्रूयाद् यत् किं च पुण्यम् अकरे तद् युष्माकम् इति। तस्य पुत्रा दायम् उपयन्ति पितरस् साधुकृत्यां द्विषन्तः पापकृत्याम्। स एवम् एतत् त्रेधा विभज्यैतस्य सलोकताम् अप्येति य एष तपति॥1.50॥