दीर्घसत्त्रं ह वा एत उपयन्ति ये ऽग्निहोत्रं जुह्वति। एतद् ध वै सत्त्रं जरामूरीयम्। जरया वा ह्य् एवास्मान् मुच्यते मृत्युना वा॥
जैमिनीयं ब्राह्मणम् (1.250 - 1.300)
तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निं जुह्वतो ऽग्नीन् अन्तरेण युक्तं वा वियायात् सं वा चरेयुः किं तत्र कर्म का प्रायश्चित्तिर् इति। वज्रो वै चक्रः। वज्रो वा एतस्याग्नीन् अन्वति यस्यान्तरेण युक्तं वा वियाति सं वा चरन्ति। कुर्वीत हैव निष्कृतिम् अपि हेष्ट्या यजेत। तद् उ तथा न विद्यात्। इमान् वा एष लोकान् अनुवितनुते यो ऽग्नीन् आधत्ते।
तस्यायम् एव लोको गार्हपत्यो भवत्य् अन्तरिक्षलोको ऽन्वाहार्यपचनो ऽसाव् एव लोक आहवनीयः। कामं वा एषु लोकेषु युक्तं चायुक्तं च वयांसि च चरन्ति। स विद्याद् यदि मे ऽपि ग्राम एवाग्नीन् अन्तरेणायासीन् नैव म आर्तिर् अस्ति न रिष्टिः का चनेति॥

पञ्चदशान्य्
आज्यानि भवन्ति पञ्चदशापूर्यमाणस्यार्धमासस्य रात्रयः। तद् एव तेनाप्नोति। दश
हस्त्याह्गुलयश् चत्वार्य् ऊर्वष्ठीवानि यद् ऊर्ध्वं नाभेस् तत् पञ्चदशम्। तद्
एवात्रोपसंदधाति॥

पञ्चदशो माध्यंदिनः
पञ्चदशापोछतो ऽर्धमासस्य रात्रयः। तद् एव तेनाप्नोति। दश पद्याङ्गुलयश् चत्वार्य्
ऊर्वष्ठीवानि यद् अवाचीनं नाभेस् तत् पञ्चदशम्। तद् एवात्रोपसंदधाति॥

सप्तदशानि
पृष्ठानि। द्वादश मासाः पञ्चर्तवः। तद् एव तेनाप्नोति। दश हस्त्याङ्गुलयस् सप्त
शीर्षन्प्राणाः। तत् सप्तदशम्। तद् एवात्रोपसंदधाति॥

सप्तदशार्भवः।
द्वादश मासाः पञ्चर्तवः। तद् एव तेनाभिपूर्वम् आप्नोति। दश पद्याङ्गुलयश् चत्वार्य्
ऊर्वष्ठीवानि त्रयो ऽवाचः प्राणाः। तत् सप्तदशम्। तद् एवात्रोपसंदधाति॥

एकविंशम्
अग्निष्टोमसाम। द्वादश मासाः पञ्चर्तवस् यत्र इमे लोका असाव् आदित्य एकविंशः। तद्
एव तेनाप्नोति। दश हस्त्याङ्गुलयो दश पद्या आत्मैकविंशः। तद्
एवात्रोपसंदधाति॥1.251॥

स हैवं
विद्वान् अहोरात्रयोर् अर्धमासशो मासश ऋतुशस् संवत्सरश एतस्मिन् सर्वस्मिन्न्
आत्मानम् उपसंधाय तं मृत्युं तरति यस् स्वर्गे लोके। न हैवंवित् पुनर् म्रियते।
तस्य हर्ङ्मयान्य् अस्थानि भवन्ति साममयानि मांसानि। स एषो ऽपहतपाप्मा धूतशरीरो
ऽतीत्यैतं मृत्युं शरीरं धूनुते॥

अथैते दैवी च
मानुषी च विराजौ। तयोर् एव एतद् आदित्यो ऽध्यूढस् तपति। चतस्रो दिशस् चत्वारो
ऽवान्तरदेशा द्वाव् इमौ लोकौ। एषा दैवी विराट्। अथ मानुषी। चत्वारो ऽत्तारष् षड्
आद्याः। ब्राह्मणश् च राजन्यश् च वैश्यश् च शूद्रश् चैते ऽत्तारः। गौश् चाश्वश्
चाजाश् चाविश् च व्रीहिश् च यवश् चैत आद्याः। एतयोर् एष एतद् आदित्यो ऽध्यूढस्
तपति। तन् न शोको न हिमो नाशनायति न पिपासति नास्य का चनावृत्तिर् अस्ति। न ह वा
अशनायति न पिपासति नास्य का चनावृत्तिर् भवति य एवं वेद॥1.252॥

यजमानं ह वा
एतद् उद्गाता रेतो भूतं सिञ्चति यद् बहिष्पवमानं गायति। मन एव रेतस्यया समीरयति
प्राणं गायत्र्या चक्षुस् त्रिष्टुभा श्रोत्रं जगत्या वाचम् अनुष्टुभा। आत्मानम् एव
पंक्त्या प्रत्युपदधाति। अथ यद् एतद् उत्तमं तृचं जन्मैव तत्। प्रैव तेन जनयति॥

यस्माद् एतद्
घोषीवोपब्दिमद् इव गायते तस्माद् घोषीवोपब्दिमद् इव गर्भा जायन्ते। तद् उ वा आहुर्
अघोषम् एव गेयम्। यदा वै विजायमाना क्ररिकुरुते ऽथ सा घोषा- करोति। अथो शनैर् इव वा
अघोषम् इव मागामृष्टिद् विजायते। अथो हैतत् सत्यं यद् गायत्रम्। तस्य संपदं लोभयेद्
रथन्तरवर्णाम् अभ्यस्येत्। तस्माद् अघोषम् एव गेयम् इति॥

अथाग्नेयम्
आज्यम् एकदेवत्यम्। प्रेतिर् एव सा। अथैन्द्राग्नं द्विदेवत्यम्। प्रतिष्ठितिर् एव
सा। सा वा एषा प्रेतिश् चैव प्रतिष्ठितिश् च। प्रतितिष्ठति य एवं वेद॥

त्रिवृत्पञ्चदशाभ्यां पुरुषो ऽस्मिन् लोके प्रतिष्ठितः। स यम् एव हरति स त्रिवृद्
येन प्रतितिष्ठति स पञ्चदशः। तौ वा एताव् उभाव् एव त्रिवृताव् उभौ पञ्चदशौ। तेजो वै
ब्रह्मवर्चसं त्रिवृत् स्तोम ओजो वीर्यं पञ्चदशः। ओजसैव तद् वीर्येण प्रतिष्ठाय
तेजो ब्रह्मवर्चसं हरति य एवं वेद॥1.253॥

अथ
माध्यंदिनस्य पवमानस्य गायत्री। यो ऽयम् अवाङ् प्राण एष एव सः। तस्यां द्वे सामनी।
तस्माद् एतेन द्वयं प्राणेन करोति भस्म च करोति वातं च। नाना प्रस्तावो नाना निधने
हिंकारो ऽन्तरेण। तस्मान् नेतर इतरम् अनुनिनर्दति नेतर इतरम्। एतेन हि तद् विहृतम्॥

अथ बृहती। यो
ऽयं प्राङ् प्राण एष एव सः। तस्यां द्वे सामनी। तस्माद् एतेन द्वयं प्राणेन करोति
रेतश् च सिञ्चति मेहति च। नाना प्रस्तावो नाना निधने हिंकारो ऽन्तरेण। तस्मान्न्
नेतर इतरम् अनुनिनर्दति नेतर इतरम्। एतेन हि तद् विहृतम्॥

अथ
त्रिष्टुप्। नाभिर् एव सा। तस्याम् एकं साम। तस्माद् एतेनैकम् एव प्राणेन करोति यद्
एव प्राणान् उदनतो ऽनूदनिति॥

अथ पृष्ठानि।
इन्द्रियं वै वीर्यं पृष्ठानि। तस्माद् ये के चानूकभाजो गोर् अश्वस्य पुरुषस्य
तेषाम् अनूकम् एव बलिष्ठम्। इन्द्रियं ह्य् एतद् वीर्यं यत् पृष्ठानि। तानि बृहतीषु
भवन्ति। तस्माद् इमा बृहतीर् इव कीकसा बृहतीर् अव पशवः पृष्ठम् अभिसमायन्ति॥

अथार्भवस्य
पवमानस्य गायत्री। यो ऽयं प्राण एष एव सः। तस्यां द्वे सामनी। तस्माद् द्वयं
प्राणेन करोति प्राण्यापानिति। नाना प्रस्तावो नाना निधने हिंकारो ऽन्तरेण। तस्मान्
नेतर इतरम् अनुनिनर्दति नेतर इतरम्। एतेन हि तद् विहृतम्॥

अथोष्णिक्ककुभौ। चक्षुषी ते। समानं छन्दः। द्वे सामनी। तस्माद् द्वे अक्ष्यौ समानं
पश्यतः। त्रिपदोर् ऋचोर् भवतः। तस्मात् त्रिवृच् चक्षुश् शुक्लं कृष्णं कनीनिका।
परोवरीस्योर् ऋचोर् भवतः। तस्मात् परोवरीयः पुरुषः पश्यति। नाना प्रस्तावो नाना
निधने हिंकारो ऽन्तरेण। तस्मान् नानावीर्ये चक्षुषी॥

अथानुष्टुप्।
वाग् एव सा। तस्यां द्वे सामनी। तस्माद् द्वयं वाचा करोत्य् अन्नं चैनयात्ति वदति
च। नाना प्रस्तावो नाना निधने हिंकारो ऽन्तरेण। तस्मान् न सर्वं सत्यं वाचा वदति न
सर्वम् अनृतम्। एतेन हि तद् विहृतम्॥

अथ जगती।
श्रोत्रम् एव तत्। तस्याम् एकं साम। तस्माद् एतेनैकम् एव श्रोत्रेण करोति यद् एव
शृणोति। चतुष्पदायाम् ऋचि भवति। तस्मात् समानत्र सन् सर्वा अनुदिशश् शृणोति। अपि
पराङ् यन् पश्चाद् वदतश् शृणोति॥

अथ
यज्ञायज्ञीयम्। शिर एव तत्। अध्यूढं वा एतद् अन्येष्व् अङ्गेषु यच् छिरः। अध्यूढम्
अन्येषु स्तोत्रेषु यज्ञायज्ञीयम्। अध्यूढो ऽन्येषु स्वेषु भवति य एवं वेद। उपरि वा
एतद् अन्येभ्यो ऽङ्गेभ्यो यच् छिरः। उपर्य् अन्येभ्यस् स्तोत्रेभ्यो यज्ञायज्ञीयम्।
उपर्य् अन्येभ्यस् स्वेभ्यो भवति य एवं वेद॥

स एषो
ऽपहतपाप्मा यज्ञ एव प्रत्यक्षम्। तस्य ह नोपवदंश् च न पापं कर्तास्ति। यद्य् एनं
बहिष्पवमाने ऽनुव्याहरेद् यज्ञस्य रेतस् सिक्तम् अचीक्लृपं यज्ञमारो ऽरेतस्का ते
प्रजा भविष्यतीत्य् एनं ब्रूयात्। यद्य् एनम् एकदेवत्य आज्ये ऽनुव्याहरेद् यज्ञस्य
प्रेतिम् अचीक्लृपं यज्ञमार् प्रेत्य् अजनयं मरिष्यसीत्य् एनं ब्रूयात्। यद्य् एनं
द्विदेवत्य आज्ये ऽनुव्याहरेद् यज्ञस्य प्रतिष्ठाम् अचीक्लृपं यज्ञमारो
ऽप्रतिष्ठितो भविष्यसीत्य् एनं ब्रूयात्। यद्य् एनं माध्यंदिनस्य पवमानस्य
गायत्र्याम् अनुव्याहरेद् यज्ञस्यावाञ्चं प्राणम् अचीक्लृपं यज्ञमारो वीघातस् त्वा
हनिष्यतीत्य् एनं ब्रूयात्। अथो ह ब्रूयाद् अवस्नावस् त्वा हनिष्यतीति। यद्य् एनं
बृहत्याम् अनुव्याहरेद् यज्ञस्य शिश्नम् अचीक्लृपं यज्ञमारो मूत्रग्राहस् त्वा
हनिष्यतीत्य् एनं ब्रूयात्।अथो ह ब्रूयाद् अरेतस्को भविष्यसीति। यद्य् एनं
त्रिष्टुभ्य् अनुव्याहरेद् यज्ञस्य नाभिम् अचीक्लृपं यज्ञमार उदावर्तस् त्वा
हनिष्यतीत्य् एनं ब्रूयात्। यद्य् एनं पृष्ठेष्व् अनुव्याहरेद् यज्ञस्येन्द्रियं
वीर्यम् अचीक्लृपं यज्ञमारो वज्रस् त्वा हनिष्यतीत्य् एनं ब्रूयात्। अथो ह ब्रूयाद्
अनाज्ञातवधस् त्वा हनिष्यतीति॥1.254॥

यद्य् एनम्
आर्भवस्य पवमानस्य गायत्र्याम् अनुव्याहरेद् यज्ञस्य प्राणम् अचीक्लृपं यज्ञमारः
प्राणस् त्वा हास्यतीत्य् एनं ब्रूयात्। अथो ह ब्रूयात् प्रमायुको भविष्यसीति।
यद्य् एनम् उष्णिक्ककुभोर् अनुव्याहरेद् यज्ञस्य चक्षुषी अचीक्लृपं यज्ञमारो ऽन्धो
भविष्यसीत्य् एनं ब्रूयात्। यद्य् एनम् अनुष्टुभ्य् अनुव्याहरेद् यज्ञस्य वाचम्
अचीक्लृपं यज्ञमारो वाक् ते ऽपक्रमिष्यतीत्य एनं ब्रूयात्। अथो ह ब्रूयाद् अशनया
मरिष्यसीति। यद्य् एनं जगत्याम् अनुव्याहरेद् यज्ञस्य श्रोत्रम् अचीक्लृपं यज्ञमारो
बधिरो भविष्यसीत्य् एनं ब्रूयात्। यद्य् एनं यज्ञायज्ञीये ऽनुव्याहरेद् यज्ञस्य
शिरो ऽचीक्लृपं यज्ञमारश् शिरस्ते विपतिष्यतीत्य् एनं ब्रूयात्॥1.255॥

एते ह वै
प्रतिव्याहराः न हैवंविद् यज्ञियाम् आर्तिम् आर्छति। य एवैनम् उपवदति स आर्तिम्
आर्छति। स य एनम् उपवदेत् तं ब्रूयात् पूर्णम् एवाहम् एतं साङ्गं सतनुं सर्वंयज्ञं
वेद स यत् त्वम् अत्रोनं वेत्थ तत् त्वयैवापिदधानीति। स एवार्तिम् आर्छति य एवं
विद्वांसम् उपवदति॥

स एष
प्रजापतिर् अग्निष्टोमो ऽमूम् एकविंशीं यज्ञायज्ञीयस्यासु बहिष्पवमानीषु नवसु
प्रत्युपधाय शय एता द्विष्टना विराजो दुहानः पञ्च पञ्चदशानि पञ्च सप्तदशानि। ता एव
पञ्च द्वात्रिंशिनीर् विराजः दुहे ह वै विराजं सर्वान् कामान् य एवं वेद। स हैवं
विदो ऽनृतं चन वदतो यज्ञस् स्रवति। स्रवति ह वा अनृतं वदतो यज्ञो ऽथो ह पूयति। नो ह
त्व् एवंविदो यज्ञस् स्रवति न पूयति। तस्मात् कुरुपञ्चाला द्विष्टनां न दुह्रे।
प्रजापतेर् ह सा। तस्माद् व् अन्य उदन्ता दुह्रे। नहि ते तां विदुः। तस्माद् व्
अन्य उदन्ता अशनायुकतरा इव॥

स एष
प्रजापतिर् अग्निष्टोमः --॥1.256॥

--परिमण्डलो
भूत्वानन्तो भूत्वा शये। तदनुकृतीदम् अप्य् अन्या देवताः परिमण्डलाः परिमण्डल
आदित्यः परिमण्डलश् चन्द्रमाः। परिमण्डला द्यौः परिमण्डलम् अन्तरिक्षं परिमण्डलेयं
पृथिवी। अपि यद् इदं पुरुषे दिव्यं तत्परिमण्डलम्। एतस्यैव न्यङ्गम् अनुन्यञ्जानः
परिमण्डलां महतीम् अनन्तां श्रियं जयति य एवं वेद॥

स एष यज्ञ
ऊर्ध्व एव पुरुषम् अन्वायत्तः। तस्य पादाव् एव बहिष्पवमानम्। इमान्य् एव चत्वार्य्
ऊर्वष्ठीवान्य् आज्यानि। यद् अर्वाचीनं नाभेस् स त्रिछन्दा माध्यंदिनः। पृष्ठान्य्
एव पृष्ठानि। अयम् आर्भव इदम् अग्निष्टोमसाम॥

तद् ध नगरिणं
दाल्भ्यं ब्राह्मणः पप्रच्छ कद्र्यङ् यज्ञ इति। स होवाचोर्ध्व एव पुरुषम् अन्वायत्त
इति। एवं ह तद् उवाच। स य एवम् एतद् ऊर्ध्वम् आत्मन् यज्ञं तायमानं वेदोर्ध्व् एव
प्रजया पशुभी रीहन्न(रोहन्न्) एति। य उ एनं प्रत्यञ्चं वेद प्रत्यङ भूतिं भवति।
तस्येदम् एव बहिष्पवमानम् इमान्य् आज्यान्य् अयं माध्यंदिनः पृष्ठान्य् एव
पृष्ठान्य् अयम् आर्भवः प्रतिष्ठैव यज्ञायज्ञीयम्। प्रत्यङ् भूतिं भवति। य एवम्
एताव् आत्मन् यज्ञौ तायमानौ वेदोप हैनं यज्ञौ नमतः॥1.257॥

तस्यैष श्लोकः

यद् अस्य पूर्वम्
अपरं तद् अस्य यद् व् अस्यापरं तद् व् अस्य पूर्वम्।

अहेर् इव सर्पणं
शाकलस्य न विजानामि यतरत् पुरस्तात्॥

इति। शकलो ह
गौपायनो यज्ञं मिमान इयाय। स ह स्मैतन् न विजानाति कतरद् यज्ञस्य पूर्वं कतरद् अपरं
कतरद् अणीयः कतरत् स्थवीय इति। तद् आहुः कुतो यज्ञस्याणिष्ठम् इति। यतो वरिष्ठम्
इति। कुतो वरिष्ठम् इति। यतो ऽणिष्ठम् इति। बहिष्पवमानं वाव प्रति यज्ञो ऽणिष्ठः।
तद् इदं पादाव् अवोचत्। पादौ वै प्रति पुरुषो ऽणिष्ठः। तद् वै वरिष्ठः। पद्भ्यां
ह्य् एति। कुतो वरिष्ठ इति। यतो ऽणिष्ठ इति। यज्ञायज्ञीयं वाव प्रति यज्ञो ऽणिष्ठः।
तद् इदं शिरो ऽवोचत्। शिरो वै प्रति पुरुषो ऽणिष्ठः। तद् वै वरिष्ठः। अक्षिभ्यां हि
पश्यन्न् एति॥

तद् आहुर् यद्
ऊर्ध्वो यज्ञस् तायेत देवा एव जीवेयुर्न मनुष्याः। यद् अर्वाङ् तायेत मनुष्या एव
जीवेयुर् न देवा इति। ऊर्ध्वश् च ह वै यज्ञस् तायते ऽर्वाङ् चाथो ह तिर्यङ्। तद्
यत् पृच्छेयुः कद्र्यङ् यज्ञ इत्य् ऊर्ध्व इति ब्रूयाद् अथो ऽर्वाङ् इत्य् अथो
तिर्यङ्ङ् इति। सर्वा एव दिश इति ब्रूयात्। सर्वा उ ह वै दिश एवंविदो यज्ञस् ततो
भवति॥

कुरुपञ्चाला ह
ब्रह्मोद्यम् ऊदिरे। ते ह श्वानं संवेष्टितं शयानम् उपेयुः। ते होचुर् अस्मिन् न्व्
एव नो विजयो ऽध्य् अस्त्व् इति। ते ह पञ्चालाः कुरून् पप्रच्छुः किम् अस्य
यज्ञस्येवेति। तद् ध न प्रत्यूचुः। स होवाच वसिष्ठश् चैकितानेयो यथा वा असाव् अदो
ऽमूम् एकविंशीं यज्ञायज्ञीयस्यासु बहिष्पवमानीषु नवसु प्रत्युपधाय शय एवं वा अयम्
इदम् उभाव् अन्तौ संधाय शये। तस्य वा अयं यज्ञक्रतोर् अनया शय्ययो रूपं निगच्छतीति।
तस्माद् इदम् अनर्थ्यं सन्तं बिभृतेति। तेन ह जिग्युः॥1.258॥

द्विर् ह वै
यजमानो जायते मिथुनाद् अन्यज् जायते यज्ञाद् अन्यत्। तद् यन् मिथुनाज् जायते तद्
अस्मै लोकाय जायत। अथ यद् यज्ञाज् जायते तद् अमुष्मै लोकाय जायते गन्धर्वलोकाय
जायते देवलोकाय जायते स्वर्गलोकाय जायते॥

यज्ञो वै
यजमानो यज्ञस् सोमो राजा। तद् यद् धविर्धाने ग्रावभिस् सोमं राजानम् अभिषुण्वन्ति
यजमानम् एव तद् रेतः कुर्वन्ति॥

प्रजापतिर् एष
यद् उद्गाता। स त्वष्टा स रेतसस् सेक्ता स रूपाणां विकर्ता। तद् यद् बहिष्पवमान
रेतस्यां गायति यजमानम् एव तद् रेतोभूतं सिञ्चति। यद् ऋचम् असाम्नीं गायेद् अस्थ्य्
एव जायेत न मांसम्। यत् सामानृचं गायेन् मांसम् एव जायेत नास्थि। ऋचं
साम्नाभिलिप्तां गायति। तस्माल् लोम्ना त्वचा मांसेन पुरुषो ऽभिलिप्तो जायते॥

तस्यां न
हिंकुर्यात्। यद् धिंकुर्याद् वज्रेण हिंकारेण रेतो विच्छिन्द्यात्। यो हि तद् अपि
बालेन वीयात् स एवैनद् विच्छिन्द्यात्। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेद्
अरेतस्का गर्भा जायेरन्। अरेतस्का ह वै दुरुद्गातुर् वर्तन्यां गर्भा
जायन्ते॥1.259॥

गायत्रीं
गायति। प्राणो वै गायत्री। तस्यै द्वे अक्षऱे व्यतिषजति। प्राणापानाव् एव तद्
व्यतिषजति। तस्मात् प्राणापानौ तद् व्यतिषक्तौ प्रजा अनुसंचरत आ च परा चायातयामानौ।
ताम् अधीयन् गायेत्। यद् अनधीयन् गायेन् मृता गर्भा जायेरन्। मृता ह वै
दुरुद्गातुर् वर्तन्यां गर्भा जायन्ते॥

त्रिष्टुभं
गायति। चक्षुर् वै त्रिष्टुप्। तस्यै द्वे अक्षरे द्योतयति। चक्षुषी एव तद् दधाति।
तस्माद् युक्ते इव चक्षुषी। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेद् अन्धा गर्भा
जायेरन्। अन्धा ह वै दुरुद्गातुर् वर्तन्यां गर्भा जायन्ते॥

जगतीं गायति।
श्रोत्रं वै जगती। तस्यै चत्वार्य् अक्षराणि द्योतयति। श्रोत्रम् एव तद् दधाति।
श्रोत्रे द्वे परिश्रवणे द्वे। तस्मात् समानत्र सन् सर्वा अनुदिशश् शृणोति। अपि
पराङ् यन् पश्चाद् वदतश् शृणोति। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेद् बधिरा
गर्भा जायेरन्। बधिरा ह वै दुरुद्गातुर् वर्तन्यां गर्भा जायन्ते॥

अनुष्टुभं
गायति। वाग् वा अनुष्टुप्। ताम् अर्वाचीम् अभिनुदन् गायति वाचो ऽनपक्रामाय। यत्
पराचीम् अपनुदन् गायेद् वाचं प्रधमेद् वाग् अस्माद् अपक्रामुका स्यात्। तां यद्
अर्वाचीम् (?) अभिनुदन् गायत्य् आत्मन्न् एव तद् वाचं प्रतिष्ठापयति। तस्यै
निरुक्तं चानिरुक्तं च पदे गायति। निरुक्तेन वै वाचो भुञ्जते ऽनिरुक्तम् अस्या
उपजीवनीयम्। भुंक्ते वाचोप चैनं जीवति य एवं वेद। स यन् निरुक्तम् एव गायेद्
वदेयुर् एव प्रजा न तूष्णीम् आसीरन्। अथ यद् अनिरुक्तं गायेत् तूष्णीम् एव प्रजा
आसीरन् न वदेयुः। यस्मान् निरुक्तं चानिरुक्तं च पदे गायति तस्मात् प्रजा वदन्ति च
तूष्णीं चासते॥1.260॥

तां बलवद्
उपब्दिमतीं निघातं गायेत्। निघ्नद् अव ह खलु वा एतच् छन्दो यद् अनुष्टुप्।
अनुष्टुभा वै वाचा छन्दसा देवा असुरान् अवाचो ऽवाघ्नन्। तां यद् बलवद् उपब्दिमतीं
निघातं गायति -- भ्रातृव्यो वै पाप्मा -- भ्रातृव्यम् एतत् पाप्मानं वाचम् अवहन्ति
श्रियम् आत्मनाश्नुते। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेद् अजिह्वा गर्भा
जायेरन्। अजिह्वा ह वै दुरुद्गातुर् वर्तन्या गर्भा जायन्ते॥

पंक्तिं
गायति। ऋतवो वै पंक्तिः। तां गायत्रीम् एव प्रसृतां गायति। तस्माद् गर्भा जायमानाः
प्रसार्यन्ते। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेत् सामि गर्भाः पतेयुः। सामि ह
वै दुरुद्गातुर् वर्तन्यां गर्भाः पतन्ति। अथ यद् एतद् उत्तमं तृचं जन्मैव तत्।
प्रैव तेन जनयति॥

मनो वै
रेतस्या प्राणो गायत्री चक्षुस् त्रिष्टुप् श्रोत्रं जगती वाग् अनुष्टुप्। स यो मनो
रेतस्येति विद्वान् उद्गायति महामना मनस्व्य् अस्माद् आजायते। अथ यः प्राणो
गायत्रीति विद्वान् उद्गायति महामना मनस्व्य् अस्माद् आजायते। अथ यः प्राणो
गायत्रीति विद्वान् उद्गायति महामना मनस्व्य् अस्माद् आजायते। अथ यः प्राणो
गायत्रीति विद्वान् उद्गायति सर्वम् आयुर् एति। अथ यो ऽस्माद् आजायते स सर्वम्
आयुर् एति। अथ यश् चक्षुस् त्रिष्टुब् इति विद्वान् उद्गायत्य् अह्रीतमुखी पश्यो
दृष्ट्यास्माद् आजायते दर्शनीयः। अथ यश् श्रोत्रं जगतीति विद्वान् उद्गायति
शुश्रूषुश् श्रोत्रियेणास्माद् आजायते श्रवणीयः। अथ यो वाग् अनुष्टुब् इति विद्वान्
उद्गायति शस्तोद्गाता वाचोरार्द्ध्य् अस्माद् आजायते -- ॥1.261॥

-- सभेयः॥

एवं ह्य् एतत्
कुरुपञ्चाला अविदुः। तस्मात् कुरुपञ्चालेषु सर्वैर् वीरैस् सह वीर आजायते। अथ
यर्ह्य् एतद् उदन्ताः पुरा नावेदिषुस् तस्माद् उदन्तेषु पुरा सर्वैर् वीरैस् सह
वीरो नाजनि। अथ यत इदम् उदन्तान् एवंविदश् च सचन्त एवंविदश् चैनान् याजयन्ति ततो
हर्वाचीनम् उदन्तेषु सर्वैर् वीरैस् सह वीर आजायते॥

कुरुपञ्चाला ह
ब्रह्मोद्यम् ऊदिरे। ते ह पञ्चालाः कुरून् पप्रच्छुः किं वयं तद् यज्ञे ऽकुर्म
येनास्मासु सर्वैर् वीरैस् सह वीर आजायत इति। तद् ध न प्रत्यूचुः। तेन हैनान्
जिग्युः। ते यत् प्रत्यवक्ष्यन् यस्माद् वयम् एवंविदश् च स्म एवंविदश् च नो
याजयन्ति तेनास्मासु सर्वैर् वीरैस् सह वीर आजायत इति। सर्वैर् ह वा अस्माद् वीरैस्
सह वीर आजायते य एवं वेद॥

तद् आहुर्
विगेया धुरा न विगेया इति। विगेया इत्य् आहुः --॥1.262॥

--कुरवः॥

गायत्रं वै
प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं ततीयसवनम्। तद् एवानुष्टुब्
अन्वायत्ता। स यद् गायत्रे सति प्रातस्सवने गायत्रीं गायति -- ब्रह्म वै गायत्री
ब्रह्म प्रातस्स्वनं -- स्व एव तद् आयतने ब्रह्म दधाति॥

अथ यत्
त्रिष्टुभं गायति -- क्षत्रं वै त्रिष्टुप्। एनानि वै क्षत्रे शिल्पानि हस्तिनिष्को
ऽश्वतरीरथो ऽश्वरथो रुक्मः कंसः -- तान्य् एव तद् आहृत्य ब्रह्मण्य् अनक्ति॥

अथ यज् जगतीं
गायति - - विड् वै जगती। एतानि वै विशि शिल्पानि गोऽश्वं हस्तिहिरण्यम् अजाविकं
व्रीहियवास् तिलमाषास् सर्पिः क्षीरं रयिः पुष्टिः -- तान्य् एव तद् आहृत्य
ब्रह्मण्य् अनक्ति॥

तद्
एवानुष्टुब् अन्वायत्ता। अथ यद् अनुष्टुभं गायति -- आनुष्टुभो वै शूद्रः --
शूद्राद् एव तद् आहृत्य ब्रह्मण्य् अनक्ति॥1.263॥

तद् यथा
तूष्णीं कशनैर् विहन्याद् एवम् एवैतानि सर्वाणि शिल्पान्य् आहृत्य ब्रह्मण्य्
अनक्ति। तस्माद् विगेया इति॥

यतो ह वा इदम् एता
विगीयन्ते ततो हेदं ब्राह्मणा जीयन्ते। अथ यर्ह्य् एता न विजगुर् अन्नाद्या ह
ब्राह्मणा आसुः। एकापच्चादेवा (एकापश्चादेवा?) हर्वाशत एकशकटे वशे हस्मद् अमथित्वा
सत्ययज्ञः पौलुषिर् याति। अथ यत इदम् एता विगीयन्ते ततो हैतानि शिल्पानि
ब्राह्मणेष्व् अधिगम्यन्ते॥

गायत्रीं
पुरस्ताद् गायति गायत्रीम् उपरिष्टात्। ब्रह्म वै गायत्री। ब्रह्मणैव तद् एतान्य्
उभयतश् शिल्पानि परिगृह्णाति। ब्रह्मणा हैनम् एतान्य् उभयतश् शिल्पानि
परिगृहीतान्य् उपतिष्ठन्ते य एवं वेद॥

न विगेया
इत्य् आहुः पञ्चालाः। स्वयं विगीता वा एता यद् धुरः। अनुसवनं वा एता विगायन्न्
अभ्यारोहति। अथ यद् एनान् पापी कीर्त्तिर् अनुतिष्ठति व्यगासिषुर् इति। यौ वै
युध्येते याव् ऋतीयेते ताव् आहुर् व्यगासिष्ठाम् इति। अथो ये राष्ट्रे प्यवभिन्दाने
-- ॥1.264॥

--तिष्ठत इति॥

गायत्रं वै
प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम्। तद् एवानुष्टुब्
अन्वायत्ता। स यद् गायत्रे सति प्रातस्सवने गायत्रीं गायति -- ब्रह्म वै गायत्री --
ब्रह्मैव तद् ब्राह्मणस्य स्वे ऽन्वाभजति। सो ऽस्यादित्सत उपजिहीर्षते। अथो ऽस्यैव
तत्। स्वेन ह्य् एनम् आभजति॥

अथ यत्
त्रिष्टुभं गायति -- क्षत्रं वै त्रिष्टुप् -- क्षत्रियम् एव तद् ब्राह्मणस्य स्वे
ऽन्वाभजति। सो ऽस्यादित्सत उपजिहीर्षते। अथो ऽस्यैव तत्। स्वेन ह्य् एनम् आभजति॥

अथ यज् जगतीं
गायति -- विड् वै जगती -- वैश्यम् एव तद् ब्राह्मणस्य स्वे ऽन्वाभजति। सो
ऽस्यादित्सत उपजिहीर्षते। अथो ऽस्यैव तत्। स्वेन ह्य् एनम् आभजति॥

तद्
एवानुष्टुब् अन्वायत्ता। अथ यद् अनुष्टुभं गायति -- आनुष्टुभो वै शूद्रः -- शूद्रम्
एव तद् ब्राह्मणस्य स्वे ऽन्वाभजति। सो ऽस्यादित्सत उपजिहीर्षते। अथो ऽस्यैव तत्।
स्वेन ह्य् एनम् आभजति॥

यद्य् आवृङ्
(आविर्?) नाथो पाके नैव लिप्सते। तस्मान् न विगेया इति। यतो ह वा इदम् एता
विगीयन्ते ततो हेदं ब्राह्मणा जीयन्ते। अथ यर्ह्य् एता न विजगुर् अजेया ह ब्राह्मणा
आसुः॥1.265॥

गायत्रं वै
प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम्। तद् एवानुष्टुब्
अन्वायत्ता। स यद् गायत्रं सत् प्रातस्सवनं सर्वम् एव गायत्रं गायति ब्रह्मण एव तं
केवलम् उद्धारम् उद्धरति। सो ऽस्य ब्रह्मणः केवल उद्धार उद्धृतो भवति॥

अथ यत्
त्रैष्टुभं सन् माध्यंदिनं सवनं गायत्रेणैवानुप्रतिपद्यते ब्राह्मणम् एव तत्
क्षत्रियस्य स्वे ऽन्वाभजति। सो ऽस्मै दित्सति श्रद्धया कर्मणोपचारेण। यदा वै
क्षत्रियं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीछति। सो ऽस्मै ददाति॥

अथ यज् जागतं
सत् तृतीयसवनं गायत्रेणैवानुप्रतिपद्यते ब्राह्मणम् एव तद् वैश्यस्य स्वे
ऽन्वाभजति। सो ऽस्मै दित्सति श्रद्धया कर्मणोपचारेण। यदा वै वैश्यं श्रद्धा विन्दति
ब्राह्मणं वाव स तर्हीछति। सो ऽस्मै ददाति॥

तद्
एवानुष्टुब् अन्वायत्ता। अथ यद् अनुष्टुभं गायति -- आनुष्टुभो वै शूद्रः --
ब्राह्मणम् एव तच् छूद्रस्य स्वे ऽन्वाभजति। सो ऽस्मै दित्सति श्रद्धया
कर्मणोपचारेण। यदा वै शूद्रं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीछति। सो ऽस्मै
ददाति। केवलं स्वं कुरुते ऽपित्वी क्षत्रे भवत्य् अपित्वी विशि। यात्य्
अन्तस्थान्तस्थायां जीयते। उप हैनं शतं परिस्कन्दास् तिष्ठन्ते ऽथो भूयांसो य एवं
विद्वान् धुरो न विगायतीति। स यदि विगायेद् अदो विद्वान् विगायेत्। यद् उ न
विगायेद् इदं विद्वान् न विगायेत्। आर्तिस् सा यो ऽन्यतरद् एव वेदेति ह स्माह
शाट्यायनिः॥1.266॥

रेतस्यां
गायति। रेतस् तत् सिञ्चति। तद् रेतस् सिक्तं गायत्र्योद्वर्धयति वर्षीयसा छन्दसा।
तत् त्रिष्टुभोद्वर्धयति वर्षीयसा छन्दसा। तज् जगत्योद्वर्धयति वर्षीयसैव छन्दसा।
तद् यद् वर्षीयसा छन्दसोद्वर्धयति तस्माद् वर्धमानस्य भूयोभूयो वीर्यं भवति॥

अनुष्टुभाणिष्ठं गच्छति ह्रसीयसैव छन्दसा। तस्माद् उत्तरवयसे प्रतितराम्
इवाववर्धते। पंक्त्याणिष्ठां गच्छति। तस्मात् पञ्चमे मासि गर्भा विक्रियन्ते।
अनुष्टुभा वाचाणिष्ठां गच्छति। तस्माद् उ जीर्णस्य वाचं शुश्रूषन्ते। शिरो वा एतद्
यज्ञस्य यद् बहिष्पवमानम्। तद् वै तत्। रेतस्यैवापि सर्व आत्मा। स यद् बहिष्पवमाने
-- ॥1.267॥

-- गायत्रीं
गायति प्राणो वै गायत्रो गायत्रं शिर एव। तदायतनो वै प्राणः। यच् छिरस् स्व एव तद्
आयतने प्राणं दधाति॥

त्रिष्टुभं
गायति। चक्षुर् वै त्रिष्टुप्। ताम् एव तद् आहृत्य शीर्षन् नियुनक्ति। यन्
नियुनक्ति तस्मान् नियुक्तम् इव चक्षुः। ताम् अन्यत्रायतनां सतीं नियुनक्ति।
तस्माद् उत जीवत एव चक्षुर् अपक्रामति॥

जगतीं गायति।
श्रोत्रं वै जगती। ताम् एव तद् आहृत्य शीर्षन् नियुनक्ति। यन् नियुनक्ति तस्मान्
नियुक्तम् इव श्रोत्रम्। ताम् अन्यत्रायतनां सतीं नियुनक्ति तृतीयसवनायतनां वा। तां
यद् अन्यत्रायतनां सतीं नियुनक्ति तस्माद् उत जीवत एव श्रोत्रम् अपक्रामति।

अनुष्टुभं
गायति। वाग् वा अनुष्टुप्। ताम् एव तद् आहृत्य शीर्षन् नियुनक्ति। यन् नियुनक्ति
तस्मान् नियुक्तेव वाक्। ताम् अन्यत्रायतनां सतीं नियुनक्ति तृतीयसवनायतनां वा
सर्वायतनां वा। तां यद् अन्यत्रायतनां सतीं नियुनक्ति तस्माद् उत जीवत एव वाग्
अपक्रामति। अवान्ये प्राणाः कामन्ति न प्राणः॥1.268॥

तद् आहुः किं
तद् यज्ञे क्रियते यस्माज् जीवत एवान्ये प्राणा अपक्रामन्ति न प्राण इति। स
ब्रूयाद् यस्मात् स्व आयतने गायत्रीं गायति तस्माद् यावज् जीवति तावत् प्राणो
नापक्रामतीति॥

अथ ह वै धुरां
विज्ञाश् च संज्ञाश् च। मानो वै रेतस्या प्राणो गायत्री चक्षुस् त्रिष्टुप्
श्रोत्रं जगती वाग् अनुष्टुप्। मनसा सुहार्दसं च दुर्हार्दसं च विजानाति। प्राणेन
सुरभि चासुरभि च विजानाति। चक्षुषा दर्शनीयं चादर्शनीयं च विजानाति। श्रोत्रेण
श्रवणीयं चाश्रवणीयं च विजानाति। वाचा स्वादु चास्वादु च विजानाति। एता इह विज्ञाः।
वि ह वै ज्ञायते श्रेयान् भवति य एवं वेद॥

ता उ एव
संज्ञाः। मनो वै रेतस्या प्राणो गायत्री चक्षुस् त्रिष्टुप् श्रोत्रं जगती वाग्
अनुष्टुप्। रेतस्यायां प्रस्तुतायां यस्य कामयेत - ॥1.269॥

-- तस्य मनसा
मनो ध्यायेत्। गायत्र्यां प्रस्तुतायां यस्य कामयेत तस्य प्राणेन प्राणं ध्यायेत्।
त्रिष्टुभि प्रस्तुतायां यस्य कामयेत तस्य चक्षुषा चक्षुर् ध्यायेत्। जगत्यां
प्रस्तुतायां यस्य कामयेत तस्य श्रोत्रेण श्रोत्रं ध्यायेत्। अनुष्टुभि
प्रस्तुतायां यस्य कामयेत तस्य वाचा वाचं ध्यायेत्। एता उ ह संज्ञाः। सं ह वै तेन
जानीते येन कामयते ऽनेन संजानीयेति य एवं वेद॥

अथैता
देवधुरश् च मनुष्यधुरश् च संदधति। मनो वै मनुष्यधुर् आपो देवधुरः। रेतस्यायां
प्रस्तुतायां मनसापस् संदध्यात्। तद् अन्तरा यजमानस्य मनो ऽवयातयेत्। प्राणो वै
मनुष्यधूर् वायुर् देवधूः। गायत्र्यां प्रस्तुतायां प्राणेन वायुं संदध्यात्। तद्
अन्तरा यजमानस्य प्राणम् अवयातयेत्। चक्षुर् वै मनुष्यधूर् आदित्यो देवधूः।
त्रिष्टुभि प्रस्तुतायां चक्षुषादित्यं संदध्यात्। तद् अन्तरा यजमानस्य चक्षुर्
अवयातयेत्। श्रोत्रं वै मनुष्यधूर् दिशो देवधूः। जगत्यां प्रस्तुतायां श्रोत्रेण
दिशस् संदध्यात्। तद् अन्तरा यजमानस्य श्रोत्रम् अवयातयेत्। वाग् वै मनुष्यधूः
पृथिवी देवधूः। अनुष्टुभि प्रस्तुतायां वाचा पृथिवीं संदध्यात्। तद् अन्तरा
यजमानस्य वाचम् अवयातयेत्। एतद् वै देवधुरश् च मनुष्यधुरश् च संदधाते। तद् वै
देवधुरश् च मनुष्यधुरश् च संधाय तं मृत्युं तरति यस् स्वर्गलोके। न हैवंवित् पुनर्
म्रियते। देवतास्व आत्मनम् उपसंदधाति॥1.270॥

अथैतेषां
महतां ब्राह्मणानां समुदितम् आरुणेर् जीवलस्य कारीरादेर् अषाढस्य
सावयसस्येन्द्रद्युम्नस्य भाल्लवेयस्येति। जीवलश् च ह कारीरादिर् इन्द्रद्युम्नश् च
भाल्लवेयस् तौ हारुणेर् आचार्यस्य सभाग आजग्मतुः। ते हाषाढस्य गृहेषु शिश्यिरे। स
होवाचाषाढ आम् आरुणे यत् सहैव ब्रह्मचर्यम् अचराव सहान्वाब्रवीवह्य् अथ केनेदं
त्वम् अस्मान् अत्यनूचिषे। यद् इदं त्वम् इयत्प्रियः कीर्त्तेर् इयत्प्रियश् चक्षुष
इयत्प्रियस् सनेर् असि केन त्वम् इदं प्रापिथेति। स होवाच धूर्ष्व एवाहं तद् उपास
इति। किं त्वं तद् धूर्षूपास्स इति। प्रियम् इति। य आसां प्रियम् उपास्ते किं स
भवतीति। प्रिय एव स कीर्त्तेः प्रियश् चक्षुषः प्रियस् सनेर् भवतीति। एवम् एव त्वम्
असीति होचुः॥

अथ होचुर्
जीवलं कारीरादिं यद् इदं त्वम् एव तस्यार्धस्य श्रेष्ठो ऽसि यस्मिन्न् अस्य् अपि
त्वा राजानो ऽधस्ताद् उपासते केन त्वम् इदं प्रापिथेति। स होवाच धूर्ष्व् एवाहं तद्
उपास इति । किं त्वं तद् धूर्षूपास्स् इति । श्रियम् इति । य आसां श्रियम् उपास्ते
किं स भवतीति। यस्मिन्न् एवार्धे भवति तस्य श्रेष्ठो भवत्य् अप्य् एनं राजानो
ऽधस्ताद् उपासत इति। एवम् एव त्वम् असीति होचुः॥

अथ होचुर्
अषाढं सावयसं यत् त्वं शार्कराक्षाणां वाव ग्रामण्य् एवासि केन त्वम् इदं
प्रापिथेति। स होवाच धूर्ष्व् एवाहं तद् उपास इति। किं त्वं तद् धूर्षूपास्स इति।
जातम् इति। य आसां जातम् उपास्ते किं स भवतीति । यत्रैव सजातो भवति तद् ग्रामणीर्
भवतीति। एवम् एव त्वम् असीति होचुः॥

अथ होचुर्
इन्द्रद्युम्नं भाल्लवेयं यद् इदं तवोपर्युपर्य अन्यान् कीर्त्तिश् चरति विवचनम्
एवासि केन त्वम् इदं प्रापिथेति। स होवाच धूर्ष्व् एवाहं तद् उपास इति। किं त्वं
तद् धूर्षूपास्स इति। यश इति। य आसां यश उपास्ते किं स भवतीति। उपर्युपर्य्
एवान्यान् कीर्त्तिश् चरति विवचनम् एव भवतीति। एवम् एव त्वम् असीति होचुः।

ते होचुर्
इत्थं चेद् इदम् अभूद् एतेदं संप्रब्रवामहा इति॥1.271॥

ते हारुणिम्
ऊचुस् त्वं वै न आचार्यो ऽसि त्वं प्रथमो ब्रूष्वेति। स होवाच गायत्रीम् एवाहं
प्रियम् उपास इति। प्राणो वै गायत्री प्राणो वै प्रियम्। न वै प्राणात् प्रेयः किं
चनास्ति। स य एवम् एतां गायत्रीं प्रियम् उपास्ते यथा प्रिय एव प्राण आत्मन एवं
प्रिय एव स कीर्त्तेर् एवं प्रियश् चक्षुष एवं प्रियस्सनेर् भवतीति॥

अथ होवाच
जीवलः कारीरादिस् त्रिष्टुभम् एवाहं श्रियम् उपास इति। क्षत्रं वै त्रिष्टुप्
क्षत्रं वै श्रीः। स य एवम् एतां त्रिष्टुभं श्रियम् उपास्ते यस्मिन्न् एवार्ध भवति
तस्य श्रेष्ठो भवत्य् अप्य् एनं राजानो ऽधस्ताद् उपासत इति॥

अथ
होवाचाषाढस् सावयसो जगतीम् एवाहं भूमानं प्रजातिम् उपास इति। भूमा वै प्रजातिर्
जगती छन्दसाम्। स य एवम् एतां जगतीं भूमानं प्रजातिम् उपास्ते भूमानम् एव प्रजया
पशुभिर् गच्छति यत्रैव सजातो भवति तद् ग्रामणीर भवतीति॥

अथ
होवाचेन्द्रद्युम्नो भाल्लवेयो ऽनुष्टुभम् एवाहं यश उपास इति। वाग् वा अनुष्टुप्
वाग् उ वै यशः। वाग् उपर्युपर्य् अन्यान् कीर्त्तिश् चरति। स य एवम् एताम्
अनुष्टुभं यश उपास्त एषैवास्य वाग् अनुष्टुब् उपर्युपर्य् एवान्यान् कीर्त्तिर्
विहरन्त्य् एति विवचनम् एव भवतीति॥1.272॥

ते ह वै ते
तथैकैकेनैवासुः। अथ य एवम् एतानि सर्वाण्य् एकधा वेदैवं ह्य् एतानि सर्वाण्य् एकधा
भवन्त्य् एकधैव श्रेष्ठस् स्वानां भवति॥

तद् उ होवाच
वासिष्ठश्चैकितानेयः पश्चैवानुबुध्य धुरो ह वा इमे ब्राह्मणा मीमांसमानास् ताम् एव
धुरं नावाग्मन् यस्याम् एता धुरि सर्वा अधीति। रेतस्यां ह वै स तद् उवाच। यां ह वा
आहुर् एका धूर् इति रेतस्या ह वै सा धुरां धूः। अन्नं तद् धुराम्। अलंकरणं
सुरभिर्गन्धो गायत्र्यै दर्शनीयस् त्रिष्टुभश् श्रवणीयो जगत्यै। यद् एव वाचा पुण्यं
वदति तद् अनुष्टुभः। स ह वा एना अन्नम् आदधाति य एना एतैस् समृद्धयति। ता एनम्
अन्नाद्यमाना अन्नादं श्रेष्ठं स्वानां कुर्वन्ति। अन्नादश् श्रेष्ठस् स्वानां भवति
य एवं वेद॥1.273॥

त्रयो ह वा
एते समुद्रा यत् पवमाना अग्निर् वायुर् असाव् आदित्यः। तैश् छन्नैर् उद्गायेत्। स
यर्हि वै प्रजापतिः प्रजाभ्यो वृष्टिम् अन्नाद्यं प्रयच्छति छाद्यन्त एते तर्हि।
प्रजापतिर् एष सः। यद् उद्गास्यन् पवमानैश् चान्यैर् उद्गायति छादयत्य् एव यजमानम्
अन्नाद्येन छायत्य् आत्मानं छादयति प्रजा बहुवर्षी तत्र पर्जन्यो भवतीति ह स्माह
कूटश् शैलनो यत्राहम् उद्गायामीति। यत्र वै बहुवर्षी पर्जन्यो भवति कल्याणो वै तत्र
बलीवर्दो ऽश्वतरो हस्ती निष्कः पुरुषः। रूपंरूपं वाव तत्र कल्याणम् आजायत इत्य्
एतद् ध तद् विद्वान् उवाच। यो वै देवांश् च मनुष्यांश् च व्यावर्तयति वि पाप्मना
वर्तते॥

देवा वै
पवमानाः प्रजाः पृष्ठोक्थानि। तैश्छन्नैः परोक्षम् अनिरुक्तैः पवमानैर् उद्गायेत्।
छन्ना इव हि परोक्षम् अनिरुक्ता इव देवाः प्रजाः पृष्ठोक्थानि। तैर् अच्छन्नैः
प्रत्यक्षं निरुक्तैर् उद्गायेत्। अच्छन्ना इव हि प्रत्यक्षं निरुक्ता इव मनुष्याः।
एतद्वै देवांश् च व्यावर्तयति वि पाप्मनावर्तते य एवं वेद॥1.274॥

दैवीं ह वा एष
संसदम् एति यः पवमानैर् उद्गायति। स यथा श्रेयांसम् अभ्यायन्न् एवं शिक्षन्न्
एवोपशिक्षन्न् इवोपनमस्यन्न् इव। संसिद्धैश् शक्नुवन्न् उपहन्यमान उद्गायेत्।
यथायन्तम् आमिवेद् यथा यद् याचेत् तद् दद्यात् तादृक् तत्। अथ य एतैर् असंसिद्धैर्
अशक्नुवन्न् उपहन्यमान उद्गायेद् यथायन्तं प्रतिमिवेद् यथा यद् याचेत्तन् न दद्यात्
तादृग् उ तत्। तद् उ हात्रैव यज्ञस्य समृद्धं च व्यृद्धं च विज्ञायते॥

अतिहार्या ह
वा एषा यत् पवमाना। यो वा अतिहार्याम् असंवीतो ऽतिगाहते मृदा वै स लिप्यत आयति वा।
अथ यस् संवीतो ऽतिगाहते न मृदा लिप्यते नायति। एवम् इव वै पवमाना उपचर्याः।

तद् आहुर् यद्
अन्यानि स्तोत्राणि स्तोत्रियप्रतिपदो ऽथ कस्मात् पवमाना अस्तोत्रियप्रतिपद इति। स
ब्रूयात् प्राणा वै पवमानाः प्राणा उ पावमान्यः। तद् यत् पवमानान् पावमानीभिर्
एवानुप्रतिपद्येरन् पराञ्च एव प्राणान् निर्मृज्युर् इति। तान् यद्
अनुष्टुभानुप्रतिपद्यन्ते - वाग् वा अनुष्टुप्। वाच्य् अपानो नियतः -- वाचैव तद्
अपानं दधार॥1.275॥

तद् आहुर्
अशान्तम् इव वा एतत् स्तोत्रं यत् स्तोत्रियेण नानुप्रतिपद्यन्ते। केनैषां
स्तोत्रियप्रतिपदो ऽनितं भवतीति। स् ब्रूयाद् वाग् वा अनुष्टुब् वाच्य् उ वै
सर्वाणि छन्दांसि। यद् आग्नेयम् ऐन्द्रं पवमानं तेनैषां स्तोत्रियप्रतिपदो ऽनितं
भवति॥

जया ह वै
नामैते स्तोमा यत् पवमानाः। पवमानैर् वै देवा असुरान् पराञ्च एव जयन्त आयन्। तद्
यत् पवमानाः पराञ्च एव भवन्ति यथा पराङ् एव जयन्न् इयात् तादृक् तत्। तान् यद्
अनुष्टुभानुप्रतिपद्यन्ते -- वाग् वा अनुष्टुब् वाग् उ वै वाचयित्री -- वाचा वा आह
प्रेहि जयाभिक्राम मापक्रमीर् इति। स यथा वाचा ब्रूयाद् प्रेहि जयाभिक्राम
मापक्रमीर् इति तादृक् तत्॥

देवा वै
पवमानाः। (तानि) देवानां स्तोत्राणि। तानि देवा अन्वायत्ताः। प्रजाः पृष्ठोक्थानि।
तानि प्रजानां स्तोत्राणि। तानि प्रजा अन्वायत्ताः। तद् यत्पवमानैः पराचीनैर् एव
स्तुवते तस्मात् पराञ्चो देवाः। पराङ् आदित्य एति पराङ् चन्द्रमाः पराञ्चि
नक्षत्राणि पराङ् अग्निर् दहन्न् एति। अथ यस्मात् पृष्ठोक्थैः पराचीनैश्
चार्वाचीनैश् च स्तुवते तस्माद् उ पराचीश् चार्वाचीश् च प्रजाः। पराञ्चः प्रातः
प्रेरते। ते सायं समावर्तन्ते। पराग् रेतस् सिक्तम्। तद् अर्वाक् प्रजायते॥1.276॥

पृथुर् ह
वैन्यो दिव्यान् व्रात्यान् पप्रच्छ

यज्ञस्य धाम
परमं गुहायां

निर्मितं महतो
ऽन्तरिक्षात्।

कस्माद् यन्ति
पवमानाः पराञ्चः

कस्माद्
उक्थ्याः पुनर् अभ्याकनिक्रति॥

इति।

देवा अन्यां
वर्तनिम् अध्वरस्य मानुषास उपजीवन्त्य् अन्याम्।

तस्माद् यन्ति
पवमानाः पराञ्चम्

तस्माद्
उक्थ्याः पुनर् अभ्याकनिक्रति॥

इति ह प्रत्यूचुः।
यो वै देवान् मनुष्येष्व आभक्तान् वेद मनुष्यान् उ देवेष्व् आभक्त एव देवेषु भवत्य्
आभक्तो मनुष्येषु। गच्छति तं लोकं यत्र देवा नास्माद् देवता अपक्रामन्ति॥

देवा वै
पवमानाः प्रजाः पृष्ठोक्थानि। साम वै देवाः प्रजाश् छन्दांसि। तद् यत् पवमानसामानि
पराञ्च्य् एव भवन्त्य् अथेयम् अनुनिवेष्टते। तेन देवा मनुष्येष्व् आभक्ताः। अथ यद्
अभ्यावर्तिष्व् ऋचं निवेष्टमानां सामानुनिवेष्टे तेनो मनुष्या देवेष्व् आभक्ताः। स
य एतद् एवं वेदाभक्त एव देवेषु भवत्य् आभक्तो मनुष्येषु। गच्छति तं लोकं यत्र देवा
नास्माद् देवता अपक्रामन्ति॥1.277॥

यो वै देवरूपं
च मनुष्यरूपं च व्यावर्तयति वि पाप्मना वर्तते। देवा वै पवमानाः प्रजाः
पृष्ठोक्थानि। तद् यत् पवमानान् पावमानीष्व् एव स्तुवते तस्माद् देवा एकरूपास्
सर्वे शुक्लः। अथ यस्मात् पृष्ठोक्थैर् नानारूपा असुराः। नानादेवत्यासु स्तुवते।
तस्माद् उ प्रजा नानारूपाश् श्वेतो रोहितः कृष्णः। एतद् वै देवरूपं च मनुष्यरूपं च
व्यावर्तयति वि पाप्मना वर्तते य एवं वेद॥

यो वै
देवानाम् उद्धारं वेदोद् उद्धारं हरत उद्धार्यो भवति। बहिष्पवमानं वाव देवानाम्
उद्धारः। तेन सकृद् धिंकृतेन पराचा स्तुवते। तस्मात् पराङ् उद्धारः। स एष एव
देवानां श्रेष्ठः। तस्योद्धारः प्रजाः। प्रजापतेर् एवोद् उद्धारं हरत उद्धार्यो
भवति य एवं वेद॥

तम् एतं
यज्ञस्य रसं प्रवृह्य परान् यस्मात् प्रजापतये प्रयच्छति तस्माद् बहिष्पवमानेन
स्तोष्यन्तः प्रह्वारा इव प्रकुपिता इव सर्पन्ति। एवम् इव वै श्रेयस उपचारः।
तस्माद् उ तस्य स्तोत्रेण व्याहरेत्। को हि श्रेयसः परिवेषणम् उपवदितुम् अर्हति। यो
वै श्रेयसः परिवेषणम् उपवदति यया वै स तम् आर्त्या कामयते तयैनं निनयति। अथ यत् ततो
ऽध्वर्युस् संप्रैषान् वदति प्रजापतय एव तद् यज्ञस्य रसं प्रदाय तम् आप्याययति।
तेनास्यापीनेन रसवता स्तुतं भवति॥1.278॥

यो वै देवयशसं
च मनुष्ययशसं च वेद यश एव देवेषु गच्छति यशो मनुष्येषु। पवमाना वै देवयशसम्। ते ह
ते प्राणा एव। त एनं देवेषु निवेदयन्ते। अभ्यावर्ता मनुष्ययशसम्। ते ह ते ऽपाना एव।
त एनं मनुष्येषु निवेदयन्ते। एतद् वै देवयशसं च मनुष्ययशसं च। स य एवम् एतद्देवयशसं
च मनुष्ययशसं च वेद यश एव देवेषु गच्छति यशो मनुष्येषु॥

यो वै मितं
चामितं च वेद मितं च हास्यामितं च बहु भवति। देवा वै पवमानाः प्रजाः पृष्ठोक्थानि।
साम वै देवाः प्रजाश् शस्त्राणि। तद् वा एतत्। एत एवापि सर्वे देवा यत्स्तोत्राणि।
तद् यन् मितानि स्तोत्राणि भवन्ति तस्मान् मिता देवाः। अष्टौ वसव एकादश रुद्रा
द्वादशादित्याः। अथ यस्माद् अमितानि शस्त्राणि तस्माद् व् अमिताः प्रजाः। न तान्
विद्म यावन्तो ब्राह्मणा यावन्तो राजन्या यावन्तो वैश्या यावन्तश् शूद्रा इति। एतद्
वै मितं चामितं च। मितं हास्यामितं च बहु भवति य एवं वेद॥

ये अर्वाञ्चस् तं उ
पराच आहुर् ये पराञ्चस्तं उ अर्वाच आहुः।

इन्द्रश् च या
चक्रथुस् सोमश् च तानि धुरा नियुक्ता रजसो वहन्ति॥

इति। पवमाना वै
पराञ्चः। तेषां चमसा अर्वाञ्चः। ते ह ते प्राणा एव। तस्मात् प्राण्यापानितुं
शक्नोति। अभ्यावर्ता अर्वाञ्चः। तेषां पराञ्चश् चमसाः। ते ह ते ऽपाना एव। तस्माद्
व् अपान्य प्राणितुं शक्नोति॥1.279॥

यो वै सवनानां
ज्यैष्ठ्यं वेद गच्छति ज्यैष्ठ्यं न ज्यैष्ठ्याद् अवरोहति। गायत्री वै
प्रातस्सवनस्य ज्यैष्ठ्यम्। तद् यत् तत्रान्यदन्यच् छन्दः क्रियते ऽथ तद् गायत्रम्
इत्य् आख्यायते। त्रिष्टुप् माध्यंदिनस्य सवनस्य ज्यैष्ठ्यम्। तद् यत्
तत्रान्यदन्यच् छन्दः क्रियते ऽथ तत् त्रैष्टुभम् इत्याख्यायते। जगती तृतीयसवनस्य
ज्यैष्ठ्यम्। तद् यत् तत्रान्यदन्यच् छन्दः क्रियते ऽथ तज् जागतम् इत्य् आख्यायते ।
एतद् वै सवनानां ज्यैष्ठ्यम्। स य एवम् एतत् सवनानां ज्यैष्ठ्यं वेद गच्छति
ज्यैष्ठ्यं न ज्यैष्ठ्याद् अवरोहति॥

यो वै देवानां
गृहान् वेद गृही भवति विन्दते गृहान्। छन्दांसि वाव देवानां गृहाः। अष्टाक्षरा
गायत्र्य् अष्टौ वसवः। गायत्र्यैव वसवो गृहिणः। एकादशाक्षरा त्रिष्टुब् एकादश
रुद्राः। त्रिष्टुभैव रुद्रा गृहिणः। द्वादशाक्षरा जगती द्वादशादित्याः।
जगत्यैवादित्या गृहिणः। अनुष्टुभैव विश्वे देवाः। सवनैर् इन्द्राग्नी। स य एवम्
एतान् देवानां गृहान् वेद गृही भवति विन्दते गृहान्॥

यो वै देवानां
तृप्तीर् वेद तृप्यत्य् आत्मना तृप्यत्य् अस्य प्रजा॥1.280॥

तद् उ ह
स्माहेयपिस् सौमापस् स वाद्य यजेत स वान्यं याजयेद् यो यथा महति तीर्थे सिकते गा
असंबाधमानास् संतर्पयेद् एवं सर्वा देवता अनुसवनं छन्दस्स्व् अक्षरमक्षरम्
अनुसंबाधमानास् संतृप्यन्तीर् विद्याद् इति। अष्टाक्षरा गायत्र्य् अष्टौ वसवः।
वसूनां गायत्रं प्रातस्सवनम्. तत् ते प्रातस्स्वने छन्दस्स्व् अक्षरमक्षरम्
अनुसंबाधमानास् संतृप्यन्ति। एकादशाक्षरा त्रिष्टुब् एकादश रुद्राः। रुद्राणां
त्रैष्टुभं माध्यंदिनं सवनम्। तत् ते माध्यंदिने सवने छन्दस्स्व् अक्षरमक्षरम्
अनुसंबाधमानास् संतृप्यन्ति। द्वादशाक्षरा जगती द्वादशादित्याः। आदित्यानां जागतं
तृतीयसवनम्। तत् ते तृतीयसवने छन्दस्स्व् अक्षरमक्षरम् अनुसंबाधमानास् संतृप्यन्ति।
अनुष्टुभैव विश्वेदेवाः। सवनैर् इन्द्राग्नी। स य एवम् एतां देवानां तृप्तीर् वेद
तृप्यत्य् आत्मना तृप्यत्य् अस्य प्रजा॥1.281॥

यद् यत्र ह वा
एवंविद् यजत एवं विद्वान् याजयति न हैव तस्य देवा ईशते। यत् तन् नाना गच्छेयुर् यदि
च ह भक्षयिष्यन्तो भवन्ति यद च नाथ हैव गच्छन्ति। यद् इह शुचिर भवति भक्षयन्ति
यद्य् अशुचिः प्रेक्षयन्ति। तद् धापि पणाय्यं यस्य प्रेक्षिवायन्॥

यो वै देवानां
पात्रं वेद पात्र्यस् स्वानां भवति। ब्राह्मणो ह वाव देवानां पात्रम्। पात्र्यस्
स्वानां भवति य एवं वेद॥

तद् यथा ह वै
शुद्धेन शुचिना पात्रेण पिपासन्त्य् एवं ह वाव देवा ब्राह्मणेन शुद्धेन शुचिना
पिपासन्ति। तस्माद् उ ह ब्राह्मणेन शुद्धेनैव शुचिना बुभूषितव्यम्॥1.282॥

प्रजापतिर्
देवान् असृजत। तान् मृत्युः पाप्मान्वसृज्यत। ते देवाः प्रजापतिम् उपेत्याब्रुवन्
कस्माद् उ नो ऽसृष्टा मृत्युं चेन् नः पाप्मानम् अन्वस्रक्ष्यन्न् आसिथेति। तान्
अब्रवीच् छन्दांसि संभरत तानि यथायतनं प्रविशत ततो मृत्युना पाप्मना
व्यावर्त्स्यथेति। वसवो गायत्रीं समभरन्। तां ते प्राविशन्। तान् साछादयत्।
रुद्रास् त्रिष्टुभं समभरन्। तां ते प्राविशन्। तान् साछादयत्। आदित्या जगतीं
समभरम्। तां प्राविशन्। तान् साछादयत्। विश्वे देवा अनुष्टुभं समभरन्। तां ते
प्राविशन्। तान् साछादयत्। मरुतः पंक्तिं समभरन्। तां ते प्राविशन्। तान् साछादयत्।
साध्याश् चाप्त्याश् चातिच्छन्दसं समभरन्। तां ते प्राविशन्। तान् साछादयत्॥1.283॥

सवनान्य्
एवेन्द्राग्नी अनुप्राविशताम्। ततो वै तान् मृत्युः पाप्मा न निरजानात्। कुतो हि
तस्य मृत्युः पाप्पेशिष्यते यं न निर्जानाति। न हैनं मृत्युः पाप्मानुविन्दति य एवं
वेद। छन्दांसि वाव तान् मृत्योः पाप्मनो ऽछादयन्। तद् यद् एनान् छन्दांसि मृत्योः
पाप्मनो ऽछादयंस् तच् छन्दसां छन्दस्त्वम्। छादयन्त्य् एवैनं छन्दांसि मृत्योः
पाप्मनो य एवं वेद। तद् येनयेन ह वै छन्दसैवंविद् आर्त्विज्यं करोति तत्तद् एव स
तर्हि प्रपन्नो भवति। येनयेन ह्य् एवैनं छन्दसा कुर्वन्तम् उपवदति तस्माद्
आवृश्च्यते। तस्य हैतस्य नैव का चनार्तिर् अस्ति य एवं वेद। य एवैनम् उपवदति स
आर्तिम् आर्छति॥

अथ होर्जो
जानायनः कपिवनं भौवायनं पप्रच्छ यद् गायत्रं प्रातस्सवनं त्रैष्टुभं माध्यंदिनं
सवनं जागतं तृतीयसवनम् अथ केयम् अनुष्टुब् अयातयाम्नी सवनमुखान्य् उपापतत्य्
आन्ताद् यज्ञं वहतीति। स होवाच वाग् वा अनुष्टुब् वाचो यज्ञस् तायते। तद् यथा वा
अदो भद्र बलीवर्देन रज्ज्वभिहितेन पुनःपुनः प्रतिधावन्ति प्रतिकूलाय वा कुरवे
वोद्वोढ एवं वा एतां वाचम् अनुष्टुभं सवनमुखेषु पर्याणाय युञ्जन्ति। प्रतिकूलानि वा
एतानि यत् सवनमुखानि। सैषा वाग् एषायातयाम्न्य् आन्ताद् यज्ञं वहति। यो वा
अनुष्टुभं सर्वत्रापीनं वेद सर्वत्र हास्यापि पुण्यो भवति॥

अष्टाक्षरा
गायत्र्य् एकादशाक्षरा त्रिष्टुब् द्वादशाक्षरा जगती वाग् इति यज्ञायज्ञीयस्य
निधनम्। तद् द्वात्रिंशदक्षरा ऽनुष्टुप्। अपि वा एतस्यै प्रातस्सवने ऽपि माध्यंदिने
सवने ऽपि ततीयसवने ऽपि वा एतस्यै ब्रह्मण्य् अपि क्षत्रे ऽपि विश्य् एपि वा एतस्या
अस्मिन् लोके ऽप्य् अन्तरिक्षे ऽप्य् अमुष्मिन् - स य एवम् एताम् अनुष्टुभं
सर्वत्रापीनं वेद सर्वत्र हैवास्यापि पुण्यो भवति॥1.284॥

अथ हाहीनसम्
आश्वत्थिं केशी दार्भ्यः केशिनस् सात्यकामिनः पुरोधाया अपरुरोध। स ह स्थविरतरो
ऽहीना आस कुमारतरः केशी। तं होवाचां केशिन् किं मे विद्वान् राजन्यम् उपाहृथा इति।
स होवाच दहेद् अनुष्टुभम् एव सर्वाणि छन्दांस्य् उपास्महे बृहतीं पशून् यज्ञं
स्वर्गं लोकम् इति। तं हास्रं विवेद। स ह कृपयांचक्रे। तं होवाच मा कृपयथाः। यदि
राजन्यकाम्या कृपयस एष ते राजन्यः। अपि वै वयम् अन्यं राजन्यम् एषिष्यामहा इति। स
होवाच नैतत् केशिन् राजन्यकाम्या ब्रह्मचर्यम् एव वै मा तद् अनुसंस्मृत्यास्रम्
अविदत्। चचार वै ब्रह्मचर्यम्। उपचरसं वावेदम् अशृण्म यद् अयम् इयत्कुमारको
ऽभिवेदयत इति । एवम् एवैतद् अनुसंस्मृत्यास्रम् अविदद् इति॥

स यद्
अनुष्टुभं सर्वाणि छन्दांस्य् उवाचाष्टाक्षरा गायत्र्य् एकादशाक्षरा त्रिष्टुप्
द्वादशाक्षरा जगती वाग् इति यज्ञायज्ञीयस्य निधनम्। तद् द्वात्रिंशत्।
द्वात्रिंशदक्षरानुष्टुप्। एतद् अनुष्टुभं सर्वाणि छन्दांस्य् उवाच बृहतीं पशून्
इति। या वा अनुष्टुप् सा बृहती। चतुष्पात्सु वा एषा पशुषूपहितेषु बृहत्य् अभवत्।
यज्ञम् इति। यो ह्य् एव पशुमान् भवति तं यज्ञ उपनमति। स्वर्गं लोकम् इति। बृहती
ह्य् एव स्वर्गो लोकः॥

अथ ह संगमन
क्षैमिस् सत्ययज्ञं पौलुषिं पप्रच्छाचार्येण प्रहित आरुणिना सत्ययज्ञ पौलुषे यत्
स्तुता गायत्री भवति स्तूयते त्रिष्टुब् अस्तुता जगती कथं तास् सर्वास् संपद्य
माध्यंदिनं सवनम् उद्यच्छन्तीति। तद् ध न प्रत्युवाच। तेन हैनं जिगाय। स यत्
प्रत्यवक्ष्यद् यस्माद् ब्राह्मणश् च वैश्यश् च क्षत्रियम् अधस्ताद् उपासाते अथो
यद् अस्याद्याव् अभवताम् अथो यद् एवैतद् द्वादशाक्षरं पदम् इति॥1.285॥

छन्दांसि यद्
इमान् लोकान् व्यभजन्तेमम् एव लोकं गायत्र्य् अभजतान्तरिक्षं त्रिष्टुब् अमुं जगती।
ब्रह्म वै गायत्री क्षत्रं त्रिष्टुब् विड् जगती। सेयं त्रिष्टुब् अस्मिन्न्
अन्तरिक्षे नालर्नेतुपादनेनारारण्यत। सेमां गायत्रीं प्राङ् अभ्यविध्यत्। ताम्
अभ्यतपत्। तस्या अबिभेद् आयतनं म उपहरिष्यत इति। ताम् अब्रवीन् नमस् ते ऽस्तु
किंकामा माभिविध्यसीति। प्रदानं मे प्रयच्छेत्य् अब्रवीत्। तस्यै द्वे अष्टाक्षरे
पदे प्रायच्छत्। सामूं जगतीम् उपपल्यायत। ताम् अभ्यविध्यत्। ताम् अभ्यतपत्। तस्या
अबिभेद् आयतनं म उपहरिष्यत इति। ताम् अब्रवीन् नमस् ते ऽस्तु किंकामा
माभिविध्यसीति। प्रदानं मे प्रयच्छेत्य् अब्रवीत्। तस्यै द्वादशाक्षरं पदं
प्रायच्छत्। सेमाम् एव गायत्रीं पुनर् उपपल्यायत। ताम् अब्रवीद् यत् ते प्रदानं
प्रादां किम् उ न्व एवेछसीति। सर्वम् एव म आत्मानं प्रयच्छेत्य् अब्रवीत्। अथ किम्
उ मे भविष्यतीति। समानं नाव् अन्नाद्यं भविष्यति पुरस् त्वा धास्य इति। तथेति। तां
पुरो ऽधत्त। तस्यै सर्वम् आत्मानं प्रायच्छत्। तद् यद् गायत्री सर्वम् आत्मानं
प्रायच्छत् तस्माद् ब्राह्मणस् सर्वेणात्मना क्षत्रियम् अभ्येति। अथो यज् जगती न
सर्वम् इवात्मानं प्रायच्छत् तस्माद् उ क्षत्राद् विड् अपक्रामम् इव चरति। यांयाम्
एव तां गायत्री च जगती च संप्रायच्छतां सैवैषा बृहत्य् अभवत्। तस्माद् बृहत्यै
त्रीणि चाष्टाक्षराणि पदानि द्वादशाक्षरं च। सैषा गायत्री प्रथमतो युज्यते उच्चा ते
जातम् अन्धसा इति। एषा पुरोहितावसाने। विन्दते पुरोधां वा पुरोधामात्रं वा या एवं
वेद॥1.286॥

अथ बृहत्य् अथ
त्रिष्टुप्। तद् एतद् ब्रह्मणा च क्षत्रेण चोभयतो ऽन्नाद्यं परिगृहीतम्। ब्रह्मणा च
ह वा एनं क्षत्रेण चोभयतो ऽन्नाद्यं परिगृहीतम् उपतिष्ठते य एवं वेद। तस्माद्
ब्राह्मणेन क्षत्रियाय न द्रोग्धव्यं न क्षत्रियेण ब्राह्मणाय। समानं ह्य् एनयोर्
अन्नाद्यम्। तस्माद् यद् ब्राह्मणो महद् इव गच्छति क्षत्रियम् एव स तस्यान्नाद्यस्य
द्वितीयं गोप्तारम् इच्छते। यत् क्षत्रियो ब्राह्मणम् उ एव। विन्दते क्षत्रियं
भर्तारं य एवं वेद॥

चतुरक्षराणि ह
वा अग्रे छन्दांस्य् आसुर् अयज्ञवाहानि। अथ हेन्द्रस्य त्रिदिवे सोम आस। तं हाग्नयो
गन्धर्वा जुगुपुर् एत एव धिष्णयाः। त उ एवाशीविषाः। स हिरण्मय्योः कुश्योर् आस। ते
ह स्म निमेषमात्रम् अभिसंपततः। तानीमानि छन्दांस्य् अब्रुवन् सोमम् आहराम यज्ञं
तनवामहा इति। सा जगती प्रथमोदपतद् ओजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा मन्यमाना।
तस्यै परेतायै सोमपालास् त्रीण्य् अक्षराण्य् अविन्दन्त। सैकाक्षरा पुनर् आगच्छद्
दीक्षां च पशूंश् चाहरन्ती। तस्माद् य एव पशुमान् भवति तं दीक्षोपनामुका॥

अथ त्रिष्टुब्
उदपतत्। तस्यै परेतायै सोमपाला एकम् अक्षरम् अविन्दन्त। सा त्र्यक्षरा पुनर्
आगच्छत् तपश् च दक्षिणाश् चाहरन्ती। कस्मात् त्रिष्टुभो लोके दक्षिणा नीयन्ते।
तस्माद् उ तम् एव तपस् तप्यमानं मन्यन्ते -- ॥1.287॥

-- यो ददत्॥

अथ गायत्र्य्
उदपतत्। ताम् अनुष्टुभ् माता प्रत्यन्वैक्षत। तस्मान् माता पुत्रं जनं यन्तं
प्रत्यन्वीक्षेत जीवन्न् आहरन्न् आगच्छेति। सा नानैव हस्ताभ्यां सवने समगृह्णाद्
इमानि चानयोर् अक्षराणि मुखेनैकं सवनं सह सर्वेणैव यज्ञेनागच्छत्। तद् एतद् आहुर्
धीतम् इव वै तृतीयसवनम्। मुखेन हि तद् आहरद् इति। सा सोमम् आहृत्याब्रवीद् इमे इतरे
छन्दसी आ वा अहम् इमं सोमम् अहार्षम् एतं यज्ञं तनवा इति। ते अब्रूतां विवृहे वा
आवं स्वो न तस्मा अलम् इति। सैतद् गायत्री प्रातस्सवनम् उपयु़ञ्जानाब्रवीद् अहं वा
इदं वक्ष्यामीति। तद् अवहत्। तत् समस्थापयत्। तस्माद् गायत्रं प्रातस्सवनम् इत्य्
आख्यायत॥

सैतं
माध्यंदिनं सवनम् उपायुंक्त। तस्यै तृचेन कृतम् आसीत्। अथ त्रिष्टुब् भीयमानामन्यत।
साब्रवीद् अप्य् अहम् ऐमीति। अपीहीत्य् अब्रवीत्। अहं ते वक्ष्यामि त्वं तु
ब्रुवाणेति। तां त्रिभिर् अक्षरैर् उपपरैत्। सैतत् त्रिष्टुब् एकादशाक्षरा भूत्वा
माध्यंदिनं सवनम् अवहत्। तत् समस्थापयत्। सा यत् त्रिष्टुभम् अब्रवीद् अहं ते
वक्ष्यामि त्वं तु ब्रुवाणेति तस्मात् त्रैष्टुभं माध्यंदिनं सवनम् इत्य् आख्यायते॥

सैतत्
तृतीयसनम् उपायुंक्त। तस्यै तृचेन कृतम् आसीत्। अथ जगती हीयमानामन्यत। साब्रीद्
अप्य् अहम् ऐमीति। अपीहीत्य् अब्रवीत्। अहं ते वक्ष्यामि त्वं तु ब्रुवाणेति। ताम्
एकेनाक्षरेणोपपरैत्। सैतज् जगती द्वादशाक्षरा भूत्वा तृतीयसवनम् अवहत्। तत्
समस्थापयत्। सा यज् जगतीम् अब्रवीद् अहं ते वक्ष्यामि त्वं तु ब्रुवाणेति तस्माज्
जागतं ततीयसवनम् इत्य् आख्यायते॥1.288॥

गायत्री वै
प्रातस्सवनं वहति गायत्री माध्यंदिनं सवनं गायत्री तृतीयसवनम्। स य एतद् एवं वेद
गायत्री प्रातस्सवनं वहति गायत्री माध्यंदिनं सवनं गायत्री तृतीयसवनम् इत्य् आ जरसं
हास्य यशः कीर्त्तिर् न व्येति। तद् उ होवाचारुणिर् गायत्रीं वा अहं सर्वाणि सवना
निवहन्तीं वेद तस्मान् म आ जरसं यशः कीर्त्तिर् न व्येतीति। आ जरसं हैवास्य यशः
कीर्त्तिर् न व्येति य एवं वेद॥

तानीमानि
छन्दांस्य अब्रुवन्न् इयं वाव नश् श्रेष्ठेयं वीर्यवत्तमा या सोमम् आहार्षीद् या
यज्ञं ततैताम् एवाप्ययामेति। तान् त्रिष्टुब्जगत्यौ सवनाभ्याम् अप्यैताम्। अथ यद्
उष्णिक्ककुभोर् द्वे अष्टाक्षरे पदे तेन ते अप्यैताम्। अथ यद् बृहत्यै त्रीण्य्
अष्टाक्षराणि पदानि तेन साप्यैद्। अथ यद् अनुष्टुभश् चत्वार्य् अष्टाक्षराणि पदानि
तेन साप्यैत्। अथ यत् पंक्तेः पञ्चाष्टाक्षराणि पदानि तेन साप्यैत्॥1.289॥

दशाक्षरा ह
साग्र आस। साप्येनकाम्याद् अष्टाक्षराणि पदानि चक्रे। यद्य् अतिछन्दसि यदि विराजि
यस्मिन् कस्मिंश् चिच् छन्दस्य् अष्टाक्षरं पदम् अधिगम्यते गायत्रीम् एव तेन
सर्वाणि छन्दांस्य् अपियन्ति। स य एतद् एवं वेद गायत्रीं सर्वाणि छन्दांस्य्
अपियन्तीत्य् अभि हैनं स्वास् संजानते श्रेष्ठतायै। तद् आहुर् अति त्रिवृतं स्तोमा
यन्ति न गायत्रीं छन्दांसीति नाहैव त्रिवृतं स्तोमा अतियन्तीति ब्रूयान् नो
गायत्रीं छन्दांसीति। त्रिप्रयाणा हि स्तोमास् त्रिमध्यास् त्र्युदयाः। एतद् उ
गायत्रीं सर्वाणि छन्दांसि नातियन्ति॥

अथ हौपाविर्
आरुणिं पप्रच्छारुण आरुणे कस्मै कम् अनुष्टुब् यज्ञम् उद्यच्छतीति। तद् ध न
प्रत्युवाच। स होवाचाजिनमिम् अजिनात कं प्र ते ब्रवीमि मामथा इति वाव मे गौतमं
प्रोच्यमानं न मनुत इति। स यत् प्रत्यवक्ष्यत् -- प्रजापतिर् वा अनुष्टुप्
प्रजापतिर् वै कः - प्रजापतये कम् उद्यच्छतीति ह प्रत्यवक्ष्यद् इति। तद् उ ह
शश्वन् न तथा। यद् एव बृहतीं सर्वाणि छन्दांस्य् अभिसंपद्यन्ते - बृहती स्वर्गो
लोकः -- स्वर्गाय लोकाय कम् उद्यच्छतीति ह प्रत्यवक्ष्यद् इति॥1.290॥

रथन्तरसाम्ना
यष्टव्यां3 बृहत्साम्ना3 इति मीमांसन्ते। रथन्तरसाम्नेति हाहुस् सावयसाः। इदं
रथन्तरम् इदं विद्म। को विदिताद् अविदितम् उपेयात्। यथा ह वै कूपस्य खातस्य
गम्भीरस्य परस् तमिस्रम् अव ददृश एवं ह वै शश्वत् परस्ताद् अन्तरिक्षस्यासौ लोकः।
तत् कस् तद् वेद यदि तत्रास्ति वा न वा। अद्य् उ ह वै शश्वद् अस्मिन्न् एव लोके ऽसौ
लोक उपजीवति। स यो ऽपि दश कृत्वो यजेत रथन्तरसाम्नैव यजेतेति॥

बहत्साम्ना
यष्टव्यम् इत्य् आहुर् आरुणिसात्ययज्ञयो ऽदो बृहत्। तद् अद उत्क्रान्तम् अपहतपाप्मं
श्वोवसीयसं नाधिष्ठीवन्ति नाधिचरन्ति नाध्यासते। बहुर् इमं लोकम् अपवदति बहुर्
अवमोंसत उभाव् अस्मिन् जीवतः पुण्यकृच् च पापकृच् च। अथाह उत्क्रान्तम् अपहतपाप्मं
श्वोवसीयसम्। नामुष्मिन् पापकृज् जीवति। अध्य् उ ह वै शश्वद् अमुष्मिन्न् एव लोके
ऽयं लोकः। अमुतः प्रदानाद् ध्य् अयं लोको जीवति। य़ा ह्य् अमुतो वृष्टिः प्रदीयते
ताम् अयं लोक उपजीवति। स यो ऽपि दश कृत्वोय जेत बृहत्साम्नैव यजेतेति॥

उभयसाम्ना
यष्टव्यम् इति ह स्माह शाट्यायनिर् एतयोर् उभयोः कामयोर् उपाप्त्यै। तथेति ताव् उभौ
कामाव् उपाप्नोतीति। तद् अस्यैतत् साम कृत्स्नं युक्तं यज्ञं वहति॥1.291॥

तस्य गायत्रम्
एव हिंकारो रथन्तरं प्रस्तावो वामदेव्यम् उद्गीथो बृहत् प्रतिहारो यज्ञायज्ञीयं
निधनम्। एकैकम् उ ह वा एतेषां स्वर्गस्य लोकस्येशे। अश्नुते स्वर्गं लोकं य एवं
वेद॥

अथो हैतद्
एवार्क्यम् एतन् महाव्रतम्। तस्य गायत्रम् एव शिरो बृहद्रथन्तरे पक्षौ वामदेव्यम्
आत्मा यज्ञायज्ञीयं पुच्छम्। स यावद् अर्क्यवता महाव्रतवतावरुन्द्धे तावद्
अवरुन्द्धे य एवं वेद॥

अथो
हैषायुष्यैव क्लृप्तिः। आयुर् वै गायत्रं विश्वायू रथन्तरं समायुर् वामदेव्यं
सर्वायुर् बृहद् अत्यायुर् यज्ञायज्ञीयम्। आयुष्मन्तो ह भवन्त्य् एनया तुष्टुवानाः॥

अथो
हास्यैतान्य् एव पञ्च ज्योतींषीद्धान्य् एषु लोकेषु दीप्यन्ते ऽग्निः पृथिव्यां
वायुर् अन्तरिक्ष आदित्यो दिवि चन्द्रमा नक्षत्रेषु विद्युद् अप्सु। अग्निर् एव
रथन्तरस्य वायुर् वामदेव्यस्यादित्यो बृहतश् चन्द्रमा गायत्रस्य विद्युद्
यज्ञायज्ञीयस्य। आपो हि यज्ञायज्ञीयम्। एतान्य् अस्य पञ्च ज्योतींषीद्धान्य् एषु
लोकेषु दीप्यन्ते य एवं वेद॥1.292॥

यो वै
बृहद्रथन्तरयोर् अन्तवच् चानन्तं च वेदान्तं हि श्रियै परिगृह्णात्य् अनन्तं
स्वर्गं लोकं जयति। इयं वै रथन्तरम्। तस्या अस्यै समुद्रो ऽन्तः। अदो बृहत्। तस्या
अमुष्या अन्तो नास्ति। एवं ह वा एतत् परेणापि समुद्रं ददृशे। स य एवम् एते
बृहद्रथन्तरयोर् अन्तवच् चानन्तं च वेदान्तं हि श्रियै परिगृह्णात्य् अनन्तं
स्वर्गं लोकं जयति॥

यो वै
बृहद्रथन्तरयोस् स्तोम्यां च स्तोत्रियां च वेद स्तोम्यो ह भवति स्तुवत एनेन स्वा
अयं नश् श्रेष्ठ इति।

अभि त्वा शूर
नोनुमो ऽदुग्धा इव धेनवः।

ईशानम् अस्य
जगतस् स्वर्दृशम् ईशानम् इन्द्र तस्थुषः॥

इति स्तोम्या।

न त्वावं
अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते।

इति स्तोत्रिया।

अश्वायन्तो
मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे॥

इति याचितम् इवैतया
वीर्यम् इव प्रोक्तम्। स य एवम् एते बृहद्रथन्तरयोस् स्तोम्यां च स्तोत्रियां च वेद
स्तोम्यो ह भवति स्तुवत एनेन स्वा अयं नश् श्रेष्ठ इति। अथो हास्यैतेनैव विज्ञानेन
सर्वे तृचा विज्ञाता भवन्ति॥1.293॥

बृहद्रथन्तरे
वा असृज्येताम्। तद् अनु पशवो ऽसृज्यन्त। ये राथन्तरा आसन् रथन्तरं ते ऽन्वृज्यन्त
ये बार्हता बृहत् ते। तान् समद् अविन्दत्। तद् व्यवभिन्दानम् अतिष्ठत्। ते
अब्रूताम् इत्थं चेद् वै भविष्यावो न वै तर्हि शक्ष्यावः प्रजा भर्तुम्। हन्त
रूपाणि व्यतिषजावहा इति। ते रूपाणि व्यत्यषजेताम्। या राथन्तरी वाग् आसीद्
बार्हतान् सा पशून् आविशद् या बार्हती राथन्तरान् सा। गौर् वै राथन्तरी नीचीव
न्युब्जिता। सा बार्हतीं वाचं वदति भा इति पराचीम् एव। अविर् वै राथन्तरीं वाचं
वदति क्रन्देन । अजा वै बार्हत्य् ऊर्ध्वेवाक्रान्ता। सा राथन्तरीं वाचं वदति --
॥1.294॥

--माक्ककारेण।
ते पुरुषे न समपादयेताम्। ते अब्रूताम् उभे इमम् आविशावेति। तथेति। तम् उभे
आविशताम्। तस्मात् पुरुष उभयीं वाचं वदति या च राथन्तरी या च बार्हती। ते ये
राथन्तराः पशवो राथन्तरीम् अस्य ते वाचं पश्यन्त उपतिष्ठन्ते ये बार्ह्ता बार्हतीं
ते। पुरुषो वै बृहद्रथन्तरयोस् संक्रोशः। स य एतद् एवं वेद पुरुषो बृहद्रथन्तरयोस्
संक्रोश इत्य् उभे हास्मिन् पशवस् संक्रोशन्ते ये च राथन्तरा ये च बार्हताः। स यो ह
स बृहद्रथन्तरयोस् संक्रोशः पुरुषो य एवं वेदैवंविदो वैनयोस् संक्रोशः॥1.295॥

आरुणिं ह
यान्तम् उदीच्याः परिप्रजिघ्न्युर् आरुणआरुणे कियता बृहद्रथन्तरे प्रजाः प्रजनयतः
कियता देवयशसम् आनशाते इति। तद् ध न प्रत्युवाच। स होवाच वेदाहम् एतद् यन् मे
ब्रह्म लिप्सध्वे तद् व् एवाहं युष्मभ्यं न वक्ष्यामीति। तम् उ हान्तेवासिन
ईक्षांचक्रिरे ऽमेधयेदम् इत्थं प्रत्यवोचद् अनवगतम् अह स्विद् अस्याभूद् धन्तैनं
पृच्छाम इति। तं होचुर् यत् प्रत्यवक्ष्यः कथं प्रत्यवक्ष्य इति। स होवाच यद्
अष्टाक्षरेण प्रथमस्या ऋचः प्रस्तौत्य् अष्ठाशफांस् तेन पशून् प्रजनयतः। यद्
द्व्यक्षरेणोत्तरयोर् द्विपदस् तेन। निधनेनैव देवयशसम् आनशाते इति प्रत्यवक्ष्यम्
इति होवाच यत् प्रत्यवक्ष्यम् इति॥

यो वै
बृहद्रथन्तरयोर् देवहूती वेद यन्त्य् अस्य देवा हवम्। ऊर्ध्वा वै रथन्तरस्य
देवहूतिर् अर्वाची बृहतः। तद् यद् रथन्तरस्यर्चैवापरिष्टुभ्योर्ध्वम् इव प्रस्तौति
तस्माद् अयम् ऊर्ध्वो लोक ऊर्ध्वो ऽयम् अग्निर् दीप्यत ऊर्ध्वा ओषधय ऊर्ध्वा
वनस्पतयस् सर्वम् एवोर्ध्वम्। अथ यस्माद् बृहतस् स्तोभेन परिष्टुभ्यौ हो इत्य्
अर्वाङ् प्रस्तौति तस्माद् असाव् अर्वाङ् लोको ऽर्वाङ् असाव् आदित्यस् तपत्य्
अर्वाङ् चन्द्रमा अर्वाञ्चि नक्षत्राण्य् अर्वाची वृष्टिर् एति सर्वम् एवार्वाक्। स
य एवम् एते बृद्रथन्तरयोर् देवहूती वेद यन्त्य् अस्य देवा हवम्॥1.296॥

बृह्द्रथन्तरे
वा असृज्येताम्। तद् अनु पशवो ऽसृज्यन्त। ये राथन्तरा आसन् रथन्तरं ते ऽन्वसृज्यन्त
ये बार्हता बृहत् ते। ते ये राथन्तराः पशवस् त आद्या अथ ये बार्हतास् ते ऽत्तारः।
तद् यद् रथन्तरस्यर्चैवापरिष्टुभ्य प्रस्तौति तस्माद् राथन्तराः पशवो
ऽस्थिप्रतिष्ठाना आद्याः। अथ यस्माद् बृहतस् स्तोभेन परिष्टुभ्य प्रस्तौति तस्माद्
बार्हताः पशवो मांसप्रतिष्ठाना अत्तारः। अत्तुर् हास्य सतो बह्व् आद्यं भवत्य्
आस्माद् अत्ता वीरो जायते य एवं वेद॥

बृहद्रथन्तरे
वै मध्यतः प्रजासु गर्भान् धत्तः। तस्माद् यज्ञायीयेनैवान्ततः प्रजनयतः। तद् यद्
अष्टाक्षरेण प्रथमस्या ऋचः प्रस्तौत्य् अष्टाशफांस् ते पशून् गर्भान् धत्तः। यद्
द्व्यक्षरेणोत्तरयोर् द्विपदस् तेन। तद् यद् एवंविदा यज्ञायज्ञीयम् अन्ततः क्रियते
जन्मैव तत्। प्रैव तेन जनयति। तस्माद् यज्ञायज्ञीयस्य स्तोत्रे वरं दद्यात्। यथा
पुत्रे जाते वरं ददाति तथा। तद् धि यजमानस्य जन्म। अथ या एता अपः पत्न्य्
उपप्रवर्तयति या एव तत्र वस्तेर् भिद्यमानस्यापो यन्ति ता एव ताः। अथो अन्नं वा
आपः। यद् एव जाताभ्यो ऽन्नाद्यं प्रतिधीयते तद् एवैतत्। तद् उ वाङ्निधनं भवति।
तस्माद् उ कुमारो जायमान एव वाचम् अभिव्याहरति॥1.297॥

बृहद्रथन्तरे
वा असृज्येताम्। ते समाननिधने असृज्येताम् अन्तर्निधने वा बहिर्निधने वा। ते
अब्रूताम् आजिम् अनयोर् निधनयोर् अयावेति। तथेति ते आजिम् ऐताम्। तद् बृहद् उदजयत्।
तद् रथन्तरं हीयमानम् अमन्यत। तद् अब्रवीन्मिथुने ऽन्ते सानुपूर्वं मे योगं
प्रयच्छेति। तथेति । तद् अस्य मिथुनम् अभवत्। तस्मा एतं पूर्वं योगं प्रायच्छद् एतं
पूर्वाह्णम्। पूर्वाह्णो ह वै रथन्तरस्य योगो ऽपराह्णो बृहतो अस इति ह रथन्तरस्य
हस् इति बृहतः । न हैते अहर्निधने सत्यनिधने। सत्यं ह वा एतयोर् निधनम्। तस्माद्
उभयसाम्ना यजमान आ सायम् एव यजेत। उभयम् एव बृहद्रथन्तरे आत्ते। स तमिति। उभे
हैवास्य बृहद्रथन्तरे आत्ते भवतः॥

तद् आहुर्
अन्तर्निधने3 बृह्द्रथन्तरे बहिर्निधने3 इति। उभयम् इति ब्रूयाद् अन्तर्निधने च
बहिर्निधने चेति। इदं वै रथन्तरम् अदो बृहत्। तयोर् इदम् एवान्तरिक्षं निधनम्।
तेनान्तर्निधने। अथ यत् परेण दिवम् अन्तरिक्षं मन्यन्त एवं परेण पृथिवीम् आपस् तेनो
बहिर्निधने इति॥

तद् आहुर्
बृहद्रथन्तरयोर् अन्तर् वामदेव्यां3 वामदेव्ये ऽन्तर् बृहद्रथन्तरे3 इति। उभयम् इति
ब्रूयाद् बृद्रथन्तरयोर् अन्तर् वामदेव्यं वामदेव्ये ऽन्तर् बृहद्रथन्तरे इति। इदं
वै रथन्तरम् अदो बृहत्। इदम् एवान्तरिक्षं वामदेव्यम्। तेन बृहद्रथन्तरयोर्
वामदेव्यम्। अथ यत् परेण दिवम् अन्तरिक्षं मन्यन्त एवं परेण पृथिवीम् आपस् तेनो
वामदेव्यं तेन बृहद्रथन्तरे इति॥1.298॥

प्रजापतिर्
यस्माद् योनेः प्रजा असृजत - सो ऽलेलायद् एव। स दीप्यमानो भ्राजमानो ऽतिष्ठत्। सो
ऽवेद् अस्ति न्वा अन्तर् इति। से देवान् अब्रवीद् अस्ति वा इदम् अन्तर् इतस्
सृजध्वम् इति। सो ऽग्निर् गायत्र्या स्वाराण्य् असृजतेन्द्रस् त्रिष्टुभा निधनवन्ति
विश्वे देवा जगत्यैळानि प्रजापतिर् अनुष्टुभर्क्समानि। तद् यद् गायत्रं स्वारम्
आग्नेयं तद् देवतया यत् त्रैष्टुभं निधनवद् ऐन्द्रं तद् देवतया यज् जागतम् ऐळं
वैश्वदेवं तद् देवतया यद् आनुष्टुभम् ऋक्समं प्राजापत्यं तद् देवतया॥

तद् उ ह
स्माहेयपिस् सौमापो न बृहद्रथन्तरे यज्ञं कल्पयतः। उभे वै ते अन्तर्निधने वा
बहिर्निधने वा। स्वारर्क्समे वाव यज्ञं कल्पयत इति। तद् यद् ऋच्य् अन्तस् संतिष्ठते
तद् राथन्तरम् अथ यद् ऋचम् अतिस्वरति तद् बार्हतम्॥1.299॥

तद् आहुः कति
सामानीति। चत्वारीति ब्रूयात्। चत्वार्य् उ ह वै सामानि स्वारं निधनवद् ऐळम्
ऋक्समम्। चतस्रो दिशश् चतुष्पादाः पशवः। चत्वारि छन्दांसि यज्ञवाहा गायत्री
त्रिष्टुब् जगत्य् अनुष्टुप्॥

तान्य् उ ह वै
त्रीण्य् एव स्वारं निधनवद् ऐळम्। यद् ऋक्समं स्वारम् एव तत्। त्रिषवणो यज्ञस्
त्रयः प्राणापानव्यानास् त्रय इमे लोकाः॥

ते उ ह द्वे
एव स्वारं चैव निधनवच् च। या हीळा निधनम् एव तत्। द्वाव् इमौ लोकाव् आविष्टमाव् इव
द्वौ प्राणापानौ द्विपात् पुरुषः॥

तद् उ ह वा
एकम् एव स्वारम् एव। यद् धि निधनं येळा यद् ऋक्समं स्वारं एव तद् इति। तद् एतद्
एकम् एव साम स्वारम् एव। य एवायं पवते तत्। याश् च ह वा अमूर् उपरि पतन्ति याश्
चाधस् सर्पन्ति ता एतम् एव स्वारं प्राणम् उपजीवन्ति। स य एतद् एवं वेद सर्वम्
एवायुर् एति॥

स यो हैवं
विद्वान् जामि कल्पयत्य् अजाम्य् एवास्य तत् क्लृप्तं भवति। तत् तूपर्युपर्य्
अजाम्य् एव चिकल्पिषेत्। अमिथुनं तद् अप्रजननं यज् जामि। यथा पुमांसो वा सह शयातां
स्त्रियौ वा। किं पुमांसौ सह शयानौ प्रजनयेतां किं स्त्रियौ तौ चेन् मिथुनीकर्तारं
न लभेयाताम्। अथो यद् एवाजामि तन् मिथुनं तत् प्रजननम्॥

आत्मा वै
स्वरः प्रजा निधनं पशव इळा जायर्क्समम्। समानौ वा आत्मा च जाया च। त एतम्
आत्मनोभयतः प्रजाः परिगृहीता अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद॥1.300॥

त्रयो ह त्वै ग्राम्याः पशवो ऽजुष्टा दुर्वराह एडकश् श्वा। तेषां यदि कश् चिद् अन्तरेण सन्नेजीयेत किं तत्र कर्म का प्रायश्चित्तिर् इति॥1.51॥
[https://sa.wikisource.org/s/9yu आगामी पृष्ठः (1.301 - 1.364)]
तद् उ हैके छादिमुष्टिम् एव निवपन्तो यन्ति। गार्हपत्याद् आहवनीयान् निनयन्न् इयात् इदं विष्णुर् विचक्रमे इत्य् एतयर्चा। तद् उ तथा न कुर्यात्। यो ह तत्र ब्रूयाद् आसान् न्वा अयं यजमानस्यावाप्सीत् क्षिप्रे परमासान् आवप्स्यते ज्येष्ठगृह्यं रोत्स्यतीति तथा हैवं स्यात्॥
इत्थम् एव कुर्यात् उदपात्रं वैवोदकमण्डलुं वादाय गार्हपत्याद् आहवनीयान् निनयन्न् इयात् इदं विष्णुर् विचक्रमे इत्य् एतयैवर्चा। देवपवित्रं वा एतद् यद् ऋग् देवपवित्रम् एतद् यद् आपः। तद् यद् एवात्र यज्ञस्याशान्तं भवति यद् अमेध्यम् आपो वै तस्य सर्वस्य शान्तिः। अद्भिर् एवैनं तच् छमयन्ति॥1.52॥
तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निहोत्रं जुह्वतो ऽग्निहोत्रं दुह्यमानं स्कन्देत् किं तत्र कर्म का प्रायश्चित्तिर् इति। यद् एव तत्र स्थाल्यां परिशिष्टं स्यात् तेन जुहुयात्॥
यद्य् उ नीची स्थाली स्याद् अपि वा भिद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। स्कन्नप्रायश्चित्त्यै वाभिमृश्य अस्कन्न् अधित इति। अथ यद् अन्यद् विन्देत् तेन जुहुयात्॥
यदा वै स्कन्दत्य् अथ धीयते। रेतो वै पयो योनिर् इयम्। योन्याम् एवैतद् रेतः प्रतिष्ठापयति। अनुष्ठ्यास्य रेतस् सिक्तं प्रजायते य एवं वेद। अमुतो वै पर्जन्यस् स्कन्दतीहौषधयो वनस्पतयो जायन्ते। पुरुषाद् रेतस् स्कन्दति पशुभ्यः। तत इदं सर्वं प्रजातम्। स विद्याद् उप मा देवाः प्राभूवन् प्रजातिर् मे भूयस्य् अभूच् छ्रेयान् भविष्यामीति। तथा हैव स्यात्॥
अथो यत्रैतद् विभिन्नं तद् उदपात्रं वैवोदकमण्डलुं वोपनिनयेत् भूर् भुवस् स्वः इत्य् एताभिर् व्याहृतिभिः। एता वै व्याहृतयस् सर्वप्रायश्चित्तयः। तद् अनेन सर्वेण प्रायश्चित्तिं कुरुते॥1.53॥
अथैतानि कपालानि संचिन्त्य यत्राहवनीयस्य भस्मोद्धृतं स्यात् तद् उपनिकिरेत्। एतद् एवात्र कर्म॥
अथो खल्व् आहुर् यत् प्राच उद्द्रुतस्य स्कन्देत् किं तत्र कर्म का प्रायश्चित्तिर् इति। यद् एव तत्र स्रुचि परिशिष्टं स्यात् तेन जुहुयात्॥
यद्य् उ नीची स्रुक् स्याद् अपि वा भिद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। तस्योक्तः प्रत्यभिमर्शः॥
तद् उ हैके तत एव प्रत्येत्योन्नयन्ति। तद् उ तथा न कुर्यात्। यो ह तत्र ब्रूयाद् यद् अनेनाग्निहोत्रेणाचिकीर्षीन् न्यवृतत् तस्मान् नास्येदं स्वर्ग्यम् इव भविष्यतीति तथा हैव स्यात्॥
इत्थम एव कुर्यात्। यत्रैव स्कन्देत् तद् उपविशेत्। अथास्मिन् स्थालीम् अहरेयुस् स्रुवं च स्रुचं च निर्णिज्य। तद् अद एवास्योन्नेष्यामीत्य् उक्तं भवति। अथ यथोन्नीतम् उन्नीय समिधम् आदाय प्राक् प्रेयात्। तद् यथाप्रत्युत्थायामित्रान् पचेद् एवम् एवैतद् अवृत्तिं पाप्मानम् अपहत्याहुतिं प्राप्नोति। तद् उ हैक उपेव लभन्ते। अहुतं तस्य यस्याग्निहोत्रोच्छिष्ठेन जुह्वति यातयामं ह्य् एतद् इति वदन्तः। तद् उ तथा न विद्यात्। यदा वा एतद् अयातयामं भवत्य् अथैतस्यापि हविरातञ्चनं कुर्वन्ति॥1.54॥
तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निहोत्रं जुह्वतो ऽग्निहोत्रं दुह्यमानम् अमेध्यम् आपद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। तद् उ हैके होतव्यम् एव मन्यन्ते, न वै देवाः कस्माच् चन बीभत्स इति वदन्तः। तद् उ तथा न विद्यात्। पुरुषो न्वेव बीभत्सेयाद् बीभत्सते बीभत्सान्ताइ3 देवाः। इत्थम् एव कुर्यात्। गार्हपत्यस्यैवोष्णं भस्म निरूह्य तस्मिन्न् एतत्तूष्णीं निनयेत्। तन् न हुतं नाहुतम्। अद्बिर् अनुनिनयेत्। अद्भिर् एवैनद् आप्नोति। अथ यद् अन्यद् विन्देत् तेन जुहुयात्॥
अथो खल्व् आहुर् यद् दुग्धम् अमेध्यम् आपद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। येष्व् एवाङ्गारेष्व् अधिश्रयिष्यन् स्यात् तान् एव प्रत्यूह्य तेष्व् एवैनत्तूष्णीं निनयेत्। तन् न हुतं नाहुतम्। अद्भिर् अनुनिनयेत्।अद्भिर् एवैनद् आप्नोति। अथ यद् अन्यद् विन्देत् तेन जुहुयात्॥
अथो खल्व् आहुर् यद् अधिश्रितम् अमेध्यम् आपद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। येष्व् एवाङ्गारेष्व् अधिश्रितं स्यात्तान् एव प्रत्यूह्य तेष्व् एवैनत् तूष्णीं निनयेत्। तन्न हुतं नाहुतम्। यद् अहैनत् तेषु निनयति तेन हुतं यद् व् एनांस् तेनो एवानुगमयति तेनो अहुतम्। अद्भिर् अनुनिनयेत्। अद्भिर् एवैनद् आप्नोति। अथ यद् अन्यद् विन्देत् तेन जुहुयात्॥
अथो खल्व् आहुः -- ॥1.55॥
--यत् प्राग् उद्द्रुतम् अमेध्यम् आपद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। तद् उ हैके होतव्यम् एव मन्यन्ते प्रेतम् एतन् नैतस्याहोमः कल्पत इति वदन्तः। अथ हैके ऽद्भिर् अभ्यासिच्य परासिञ्चन्ति। तद् उ तथा न कुर्यात्। यो ह तत्र ब्रूयात् पराङ् वा अयम् इदम् अग्निहोत्रम् असिञ्चत् परासंक्ष्यते ऽयं यजमान इति तथा हैव स्यात्। इत्थम् एव कुर्यात्। आहवनीय एव समिधम् अभ्याधायाहवनीयस्यैवोष्णं भस्म निरूह्य तस्मिन्न् एनत् तूष्णीं निनयेत्। तन् न हुतं नाहुतम्। अद्भिर् अनुनिनयेत्। अद्भिर् एवैनद् आप्नोति। अथ यद् अन्यद् विन्देत् तेन जुहुयात्॥
अथो खल्व् आहुर् यद् अववर्षेत् किं तत्र कर्म का प्रायश्चित्तिर् इति। स विद्याद् उपरिष्टान्मा शुक्रम् आगात् प्रजातिर् मे भूयस्य अभूच् छ्रेयान् भविष्यामीति। तथा हैव स्यात्॥
अथो खल्व् आहुर् यत्पूर्वस्याम् आहुतौ हुतायाम् अङ्गारा अनुगच्छेयुः क्वोत्तरां जुहुयाद् इति। य एव तत्र शकलो ऽन्तिकस् स्यात् तम् अध्यस्यन् जुहुयात्। दारौदारौ ह्य् अग्निः। स यदि तस्यां न तिष्ठेद् धिरण्यम् अभिजुहुयात्। अग्नेर् वा एतद् रेतो यद् धिरण्यम्। य उ वै पिता स पुत्रः। तस्माद् धिरण्यम् अभिजुहुयात्॥
अथो खल्व् आहुः -- ॥1.56॥
--यद् अधिश्रिते यजमानो म्रियेत किं तत्र कर्म का प्रायश्चित्तिर् इति। पर्याधायैवैनद् विष्यन्दयेत्। एतद् एवात्र कर्म। अथो खल्व् एषैव सर्वेषां हविर्यज्ञानां प्रायश्चित्तिः॥
अथो खल्व आहुर् यत् प्राच्य उद्द्रुते यजमानो म्रियेत किं तत्र कर्म का प्रायश्चित्तिर् इति। यद् एवादयश् चतुर्गृहीतम् आदिष्टं स्यात् तत्रैवैनद् अभ्युन्नयेत्। एतद् एवात्र कर्म॥
अथो खल्व् आहुर् यत् पूर्वस्याम् आहुतौ हुतायां यजमानो म्रियेत किं तत्र कर्म का प्रायश्चित्तिर् इति। तद् उ हैके होतव्यम् एव मन्यन्ते। कृत्स्नं वा एतस्याग्निहोत्रं हुतं भवति यस्य पूर्वा हुताहुतिर् भवतीति वदन्तः। तद् उ तथा न विद्यात्। न वै प्रेतस्याग्निहोत्रं जुहोति। यद् एवादयश् चतुर्गृहीतम् आदिष्टं स्यात् तत्रैवैनद् अभ्युन्नयेत्। एतद् एवात्र कर्म॥1.57॥
तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निहोत्रं जुह्वतो ऽग्निहोत्री दुह्यमानोपविशेत् किं तत्र कर्म का प्रायश्चित्तिर् इति। ताम उ हैके यजुषोत्थापयन्ति। अवृत्तिं वा एषा यजमानस्य पाप्मानं प्रतिदृश्योपविशति यस्याग्निहोत्री दुह्यमानोपविशति। ताम् उत्थापयन्ति उद् अस्थाद् देव्य् अदितिः इति। इयं वै देव्य् अदितिः। इमाम् एवास्मै तद् उत्थापयन्ति। आयुर् यज्ञपताव् अधात् इत्य् आयुर् एवास्मिंस् तद् दधति। इन्द्राय कृण्वती भागम् इतीन्द्रियम् एवास्मिंस् तद् दधति। मित्राय वरुणाय च इति -- प्राणापानौ न्वै मित्रावरुणौ -- प्राणापानाव् अवास्मिंस् तद् दधति। तां तस्याम् एवाहुतौ हुतायां ब्राह्मणाय ददति। यं संवत्सरम् अनभ्यागमिष्यन्तो भवन्त्य् अवृत्तिम् अस्मिन् पाप्मानं निवेशयाम इति वदन्तः॥1.58॥
तद् उ होवाच वाजसनेयो ऽश्रद्दधानेभ्यो हैभ्यो गौर् अपक्रामति। अवृत्त्या हि तं विध्यन्ति। इत्थम् एव कुर्यात्। दण्डम् एव लब्ध्वा तेनैनां विपिष्योत्थापयेत्। तद् यथा वा अदो धावयतो ऽश्वतरो गदायते युक्तो वा बलीवर्द उपविशति तेन दण्डप्रजितेन तोत्त्रप्रजितेन यम् अध्वानं कामयते तं समश्नुते। एवम् एवैतया दण्डप्रजितया तोत्त्रप्रजितया यं स्वर्गं लोकं कामयते तं समश्नुते। ताम् आत्मन्न् एव कुर्वीत्। आत्मन्न् एव तच् छ्रियं धत्त इति॥1.59॥
तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निहोत्रं जुह्वतो ऽग्निहोत्रीवत्सो नश्येत् किं तत्र कर्म का प्रायश्चित्तिर् इति। तद् होवाचारुणिर् द्यौर् वा अग्निहोत्री तस्या आदित्य एव वत्स इयम् एवाग्निहोत्रस्थाली। न ह वा एवंविदो ऽग्निहोत्रीवत्सो नष्यति। क्व ह्य् एष नश्येत्। नो वा एवंविदो ऽग्निहोत्रं दुह्यमानं स्कन्दति। अस्यां ह्य् एवं प्रतितिष्ठति। नो वा एवंविदो ऽग्निहोत्री दुह्यमानोपविशति। यदा वा एषा सुस्पृष्टं वर्षत्य अभिनिपद्य एव बतावर्षीद् इत्य् एनाम् आहुः॥
अथो खल्व् आहुर् यद् एषा लोहितं दुहीत किं तत्र कर्म का प्रायश्चित्तिर् इति। अवृत्तिं वा एषा यजमानस्य पाप्मानं प्रतिदृश्य दुहे या लोहितं दुहे। स व्युत्क्रामते ऽत्युक्त्वान्वाहार्यपचनं परिच्छादयितवै ब्रूयात्। तद् अधिश्रित्य मेक्षणं कृत्वा श्रपयेत्। तत्तद् एव तूष्णीं निनयेत्॥
अनिरुक्तो वै प्रजापतिः। प्राजापत्यम् अग्निहोत्रम्। अथो भूर् भुवस् स्वर् इत्य् एताभिर् व्याहृतिभिः। एता वै व्याहृतयस् सर्वप्रायश्चित्तयः। तद् अनेन सर्वेण प्रायश्चित्तिं कुरुते॥
अथो खल्व् आहुः --- ॥1.60॥