"जैमिनीयं ब्राह्मणम्/काण्डम् १/०८१-" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">स यत् प्रथमम् अपाहन् सा कृष्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १५:
 
क्रूरम् इव वा एतद् यज्ञस्य कुर्वन्ति यद् धविर्धाने ग्रावभिस् सोमं राजानं हत्वा बहिष्पवमानं सर्पन्ति। का तस्य प्रायश्चित्तिर् इत्य् आहुर् अप उपस्पृशेयुः। आपो वै सर्वस्य शान्तिः। अद्भिर् एवैनत् तच् छमयन्ति। वाग् वा एतस्मा अग्रे ऽध्वने ऽतन्द्रायत बहिष्पवमानं सर्पन्ती। तां प्रजापतिर् अब्रवीद् भागधेयं ते करोम्य् अथ सर्पेति। बहिष्पवमानं सर्प्स्यन् होमं जुहुयात् जुष्टो वाचो भूयासं जुष्टो वाचस्पत्युः॥ देवि वाग् यत् ते वाचो मधुमत् तस्मिन् मा धाः॥ स्वाहा सरस्वत्यै इति। यत् सरस्वत्यै स्वाहा इति जुहुयाद् वाचं सरस्वतीं स्वाहाकारेण परिगृह्णीयात्। अथ यत् स्वाहा सरस्वत्यै इति जुहोति वाचं तद् उत्तरां स्वाहाकाराद् दधाति। तया परिगृहीतया यज्ञं तनुते। वाचा ह्य् ऊर्ध्वो यज्ञस् तायते। वेकुरा नामासि प्रेषिता दिव्याय कर्मणे शिवा नस् सुयमा भव। सत्याशीर् यजमानाय स्वाहा इति वा जुहुयात्। वाग् वै वेकुरा। ब्रह्म वाक्। ब्रह्मण एवं तद् वाचे होमं हुत्वा सर्पति नार्तिम् आर्छति॥1.82॥
 
 
अरण्यम् इव वा एते यन्ति ये बहिष्पवमानं सर्पन्ति। तान् ईश्वरो रक्षो वा हन्तोर् अन्या वा नंष्ट्रा। अथ द्वितीयां जुहोति सूर्यो मा देवो दिव्येभ्यो रक्षोभ्यः पातु वात आन्तरिक्षेभ्यो ऽग्निः पार्थिवेभ्यस् स्वाहा इति। य एवैषां लोकानाम् अधिपतयस् तेभ्य एवैतद् आत्मानं परिदाय सर्पति नार्तिम् आर्छति॥
 
प्रजापतिर् यद् यज्ञम् असृजत तं हविर्धान एवासृजत। स सृष्ट उदङ् प्राद्रवत्। तम् एतद् अत्राप्त्वास्तुवन्। यत्रैतद् उद्ञ्चयित्वा बहिष्पवमानेन स्तुवन्ति यज्ञम् एवैतद् आप्त्वा स्तुवन्ति॥
 
यो वै दैव्यं वाजिनं वेद वाजी भवति। यज्ञो वाव दैव्यो वाजी। य इन् नु मानुषं वाजिनम् अशान्तम् असंमृष्टम् आरोहति तम् इन् नु स हिनस्ति वा प्र वा क्षिणोति। अथ किं यो दैव्यं वाजिनम् अशान्तम् असंमृष्टम् आरोहात्॥1.83॥
 
 
अध्वर्युः प्रस्तरं हरन् सर्पति। तम् अनुमन्त्रयते एतद् अहं दैव्यं वाजिनं संमाज्मि इति। संसृष्टम् एवैनं शान्तम् आरोहति नार्तिम् आर्छति॥
Line ५४ ⟶ ५८:
कपिवनो ह स्माह भौवायनः किं ते यज्ञं गच्छन्ति यद् एव सोमस्याभक्षयित्वा प्र वा सर्पन्ति प्र वा धावयन्तीति। बहिष्पवमानम् उपसन्नेषु ब्रूयाद् यं ब्रह्माणं शुचिम् इव मन्येताहरहस् तम् इति। तेन समुपहूयाथानुमन्त्रयेत।
<poem>यो देवानाम् इह सोमपीथो ऽस्मिन् यज्ञे बर्हिषि वेद्याम्।
तस्येदं भक्षयामसि॥</poem>
इति। यदि च ह प्रधावयति यदि च नाथ हास्य भक्षित एव देवस् सोमो भवति॥