"जैमिनीयं ब्राह्मणम्/काण्डम् १/०८१-" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<span style="font-size: 14pt; line-height: 200%">स यत् प्रथमम् अपाहन् सा कृष्णाविर् अभवत्। यद् द्वितीयम् अपाहन् सा धूम्राबिर्धूम्राविर् अभवत्। यत् तृतीयम् अपाहन् सा फाल्गुन्य् अविर् अभवत्। स यं कामयेत पापीयान् स्याद् इति कृष्णम् अस्य पवित्रे ऽप्यस्येत् पापीयान् एव भवति। अथ यं कामयेत नार्वाङ् न परस् स्याद् इति धूम्रम् अस्य पवित्रे ऽप्यस्येन् नैवार्वाङ् न परो भवति। अथ यं कामयेत श्रेयान् स्याद् रुचम् अश्नुवीतेति फाल्गुनम् अस्य पवित्रं कुर्याच् छ्रेयान् एव भवति रुचम् अश्नुते॥
 
अस्ति हि तत्राप्य् आदित्यस्य न्यक्तम्। तद् अन्तरेषे अवहृत्य संमार्ष्टि वसवस् त्वा संमृजन्तु गायत्रेण छन्दसा॥ रुद्रास् त्वा संमृजन्तु त्रैष्टुभेन छन्दसा॥ आदित्यास् त्वा संमृजन्तु जागतेन छन्दसा इति॥