"विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १५१-१५५" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य विष्णुधर्मोत्तर पृष्ठं [[विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">मार्कण्डेय उवाच ।।
१.[[विष्णुधर्मोत्तर/प्रथम खण्डः|प्रथम खण्डः]]
अतः परं प्रवक्ष्यामि पञ्चमूर्तेस्तथार्चनम् ।।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।। १ ।।
वासुदेवस्य देवस्य कथिताः पञ्चमूर्तयः ।।
चैत्रे तु पञ्चमीं शुक्लां समासाद्य विचक्षणः ।। २ ।।
सोपवासो हरिं देवं पञ्चात्मानं समर्चयेत् ।।
पञ्चमण्डलगाः कार्याः पञ्चभिर्वणकैः पृथक् ।। ३ ।।
पार्थिवं मण्डलं कार्यं शुक्ल वर्णं महीपते ।।
वारुणं च तथा श्वेतं रक्तमाग्नेयमिष्यते ।। ४ ।।
पीतं भवति वायव्यं कृष्णमाकाशदैवतम् ।।
समानवर्णैर्गंधैस्तु पुष्पैस्तानर्चयेत्पृथक् ।। ५ ।।
शक्त्या च धूपदीपाद्यैर्यथालाभमरिन्दम ।।
यवैर्वान्यैस्तिलैश्चैव सर्षपैश्च घृतेन च ।। ६ ।।
पञ्चभिर्जुहुयान्मिश्रैः सर्वेषां च पृथक्पृथक् ।।
तल्लिङ्गैरथ मन्त्रैर्वा त्वथ वा नृप नामभिः ।। ७।।
ॐकारपूर्वकैर्हुत्वा शक्त्या विप्राँस्तु पूजयेत् ।।
एवं संवत्सरं कृत्वा पूर्णे संवत्सरे ततः ।। ८ ।।
दत्त्वा विप्रेषु वस्त्राणि देवरङ्गसमानि च ।।
महाभूतव्रतमिदं यः करोत्यथ पञ्चकम् ।। ९ ।।
पञ्चयज्ञमवाप्नोति क्रमशो येऽनुकीर्तिता. ।।
बहून्यब्दसहस्राणि स्वर्गलोके महीयते ।। 3.152.१० ।।
मानुष्यमासाद्य भवत्यरोगो बलान्वितो वैरिगणापहर्ता ।।
श्रुतेन रूपेण गुणेन युक्तो जनाभिरामः प्रमदा प्रियश्च ।। ११ ।।
 
</span></poem>
२.[[विष्णुधर्मोत्तर/द्वितीय खण्डः|द्वितीय खण्डः]]
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चमूर्तिपञ्चमहाभूतव्रतवर्णनो नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः ।। १५२ ।।
 
३.[[विष्णुधर्मोत्तर/तृतीय खण्डः|तृतीय खण्डः]]